॥
३१७ त्रयोविंशोऽध्यायः नवीकरणम् अतः परं प्रवक्ष्यामि नवीकरणमुत्तमम् । प्रासादगोपुरादीनां मण्डपानां तपोधनाः ॥ १ ॥ वर्णनाशे सुधास्फोटे भित्तिभेदे तथैव च । शिलेष्टकादिपतने शीघ्र कर्मेदमाचरेत् ॥ २ ॥ आलयाभिमुखे कृत्वा कुण्डमौपासनस्य च । न्यक्षादीनां चतुर्णान्तु मन्त्रान् हुत्वा तु मूर्तिभिः ॥ ३ ॥ देवतानां गलस्थाने स्थापितानां विशेषतः । पादवर्गगतानाञ्च हुत्वा मन्त्राननुक्रमात् ॥ ४ ॥ तद्विम्बान्तर्गतां शक्तिं ध्रुवबेरे निवेश्य च । प्राकाराश्रयपीठेषु तत्तद्दिक्षु यथाक्रमम् ॥ ५ ॥ न्यक्षादींश्च समावाह्य दशकृत्वस्तु वैष्णवम् । चतुर्वेदादिमन्त्रांश्च हुत्वा चाग्निं विसृज्य च ॥ ६ ॥ शिलेष्टकाप्रक्षेपाद्यैर्दृढं कृत्वा यथाविधि । सुधावर्णानुलेपादीन् पूर्ववत्पारिकल्प्य च ॥ ७ ॥ पञ्चगव्यैस्समभ्युक्ष्य वास्तुहोमस्सुहूयताम् । अब्जाग्नौ वैष्णवं हुत्वा सूक्ते वैष्णवपौरुषे ॥ ८ ॥ व्याहृतीरङ्गहोमञ्च पारमात्मिकसंयुतम् । ‘ईङ्कारादी’श्च जुहुयादष्टाशीत्याहुतिं तथा ॥ ९ ॥ श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३१८ सहस्राहुतिपर्यन्तं यजेत्तद्दोषशान्तये । विमानस्थापनप्रोक्तप्रकारेण यथाविधि ॥ १० ॥ संस्थाप्य तत्तद्विम्बादीन् न्यक्षादींश्चतुरस्तथा । सर्वाणि चान्यकर्माणि कारयेदिति शासनम् ॥ ११ ॥ सर्वेषामेव देवानामालयेषु तथैव च । न्यक्षादयो विमानेशाः परिवारालयेषु च ॥ १२ ॥ विमानपतनादौ बालालयः विमाने पतिने जीर्णे शीघ्रं बालालये ततः । देवदेवं प्रतिष्ठाप्य विमानं कारयेत्पुनः ॥ १३ ॥ यत्प्रमाणं यदाकारं यद्द्रव्यञ्च यदालयम् । तद्द्रव्यञ्च तदाकारं तत्प्रमाणञ्च कारयेत् ॥ १४ ॥ पौरुषञ्चेत्तदुत्कुष्टप्रमाणाकृतिवस्तुभिः । अथवा कारयेत्प्राज्ञः पूर्वनाशे यथोचितम् ॥ १५ ॥ प्राकारादिनाशे प्राकारेषु विशीर्णेषु तत्प्राकाराधिदैवतैः । मन्त्रैर्हुत्वा नवीकृत्य वास्तुहोमं यजेत्पुनः ॥ १६ ॥ परिवारालये जीर्णे न्यक्षादींश्चतुरस्तथा । तन्मूलबेरे चारोप्य नवीकृत्य यथापुरा ॥ १७ ॥ तत्प्रतिष्ठाप्रकारेण विमाने स्थापयेत्पुनः । गोपुरेषु विशीर्णेषु तद्द्वाराधिपतींस्तथा ॥ १८ ॥ पीठेषु तत्तत्पार्श्वेषु समावाह्याहुतीरतः । तत्तन्मन्त्रेश्च हुत्वा तु नवीकृत्य यथापुरा ॥ १९ ॥ ३१९ तद्वारपालकांस्तत्र स्थापयित्वा समर्चयेत् । मण्डपादिषु सर्वेषु तत्तत्प्रोक्ताधिदेवताः ॥ २० ॥ ध्रुवबेरे निवेश्यैव नवीकृत्य यथापुरा । समावाह्याधिदेवांस्तान् पूर्ववत्स्थापयेद्धरिम् ॥ २१ ॥ नवकर्मणि शुद्धिः प्रासादादिषु सर्वेषु नवकर्मावसानके । सामान्यो वास्तुहोमश्च शुद्धिः पुण्याह एव च ॥ २२ ॥ नवीकरणे केचन नियमाः एकबेरविमानानां पौरुषाणां विशेषतः । तथैवोद्धृतबिम्बानां जीर्णानान्तु 1पुनः कृतौ ॥ २३ ॥ 2पूर्वप्रमाणादधिकं यदि कुर्यान्न दोषकृत् । पदानुगुणमेवैतत् परितो वर्धयेत्तथा ॥ २४ ॥ पूर्वं मृदालयश्चेत्तदिष्टकाद्यैः प्रकल्पयेत् । परितो वर्धयित्वैव कल्पयेदालयं तथा ॥ २५ ॥ प्राकाराणान्तु जीर्णानां पुनस्सन्धानकर्मणि । अथवा मृण्मयानाञ्च तथा वृद्धिं यदीच्छति ॥ २६ ॥ परितो वर्धयेदेव प्राच्युदीच्योरथापि वा । यद्यग्रे ग्रामवीथी स्यात्त्रिषु वाऽन्येषु वर्धयेत् ॥ २७ ॥ शालानां मण्डपानाञ्च पार्श्वयोरग्रतस्तथा । वृद्धिं कुर्याद्विशेषेण प्राच्युदीच्योरथापि वा ॥ २८ ॥ 1. पृथक् क. 2. यथानुगुणं. आ. त्रयोविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३२० उदीच्यामग्रतश्चैव वर्धयेत्पचनालयम् । एकतस्सङ्कटञ्चेत्तु नदीसागरपर्वतैः ॥ २९ ॥ वर्धयेदन्यपार्श्वेषु नात्र कार्या विचारणा । दक्षिणापरवृद्धिञ्च क्षयञ्चापि न जातुचित् ॥ ३० ॥ प्राकारमण्डपादीनां शालानाञ्च समाचरेत् । पुराणमन्दिरेषु नियमाः पौराणिकविमानानां वृद्धिं वाऽपि न कारयेत् ॥ ३१ ॥ ग्रामाग्रहारनगरपत्तनाद्यनुकर्मसु । अगर्भदैवतं वास्तु परितो वर्धयेत्समम् ॥ ३२ ॥ नैव विन्यासभेदेन यदि भेदो विनश्यति । विमानं येन हस्तेन प्रमितं तेन कारयेत् ॥ ३३ ॥ प्राकारमण्डपादीनि नाधिकेन कदाचन । स्थापयेदुत्तमं बेरमालये मध्यमेऽधमे ॥ ३४ ॥ अन्यथा यदि कुर्वीत राजराष्टं्र विनश्यति । तस्मात्सर्वप्रयत्नेन यथाविधि समाचरेत् ॥ ३५ ॥ ध्रुवबेरजीर्णोद्धारः वक्ष्यामि ध्रुवबेरस्य जीर्णेद्धारमतः परम् । जीर्णे छिन्ने तथा भिन्ने स्पुटिते वर्णसङ्क्षये ॥ ३६ ॥ बालालयमथाऽग्नेय्यां याम्यर्नैॠतयोस्तथा । वारुण्यां वा प्रकुर्वीत यथाविभवविस्तरम् ॥ ३७ ॥ बालालयप्रतिष्ठोक्तप्रकारेण ततः परम् । बालालये प्रतिष्ठाप्य नवीकरणमाचरेत् ॥ ३८ ॥ ३२१ दृश्यते यत्र दोषस्तु तत्र संस्कारमाचरेत् । वर्णे वाऽप्यनुवर्णे वा स्फुटितं दृश्यते यदि ॥ ३९ ॥ निपुणैश्शिल्पिभिश्शुद्धैस्तद्वर्णं तत्र योजयेत् । पटादूर्ध्वन्तु दोषश्चेत्तत्तत्कुर्यात्तु पूर्ववत् ॥ ४० ॥ दोषयुक्ते पटे वाऽपि पटं सर्वं व्यपोह्य च । पटमाच्छाद्य विधिना कारयेदुपरि क्रियाम् ॥ ४१ ॥ शूलोर्ध्वे दोषयुक्तश्चेदाशूलं शोधयेत्तथा । मृण्मये दारवे शैले शर्करालेपनादिकाः ॥ ४२ ॥ कारयित्वा क्रियास्सर्वाः बेरं सम्यक्प्रकल्पयेत् । शूले च मृण्मये जीर्णे सर्वमब्धौ1 विसृज्य च ॥ ४३ ॥ दारुसङ्ग्रहणं कृत्वा शूलं संस्थाप्य पूर्ववत् । समुद्रे दारवं जीर्णं त्यक्त्वान्यत्स्थापयेत्तथा ॥ ४४ ॥ अङ्गहीनं तथा शैलं बेरं प्रक्षिप्य पूर्ववत् । शिलां गृहीत्वा विधिना कृत्वा बेरञ्च पूर्ववत् ॥ ४५ ॥ संस्थाप्य विधिना पश्चाद्बेरं कुर्याद्यथाविधि । ताम्रजस्याङ्गहीनस्य कौतुकोक्तवदाचरेत् ॥ ४६ ॥ पुनर्बिम्बनिर्माणे नियमाः पूर्वं येनोद्धृतं बिम्बं यत्प्रमाणं यदाकृति । तद्द्रव्येण तदाकारं तत्प्रमाणञ्च कारयेत् ॥ ४७ ॥ पूर्वन्तु पौरुषञ्चेत्तु मुख्यं वा स्थापयेत्पुनः । मुख्यप्रमाणाकाराभ्यां कारयेद्वाऽथ पौरुषे ॥ ४८ ॥ 1. अग्नी. आ. त्रयोविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३२२ बिम्बेषु द्रव्यभेदेन तरतमभावः मृद्दारूपलताम्रेषु पूर्वात्पूर्वात्परो वरः । स्थानकादासनं तस्माच्छयनञ्च क्रमाद्वरम् ॥ ४९ ॥ पूर्वन्तु शैलजं यत्र तत्र शैलजमेव वा । अशक्तः पूर्ववत्कर्तुं स्थाननाशभयादिषु ॥ ५० ॥ कालक्षेपेऽप्ययुक्ते तु हेतुना येन केनचित् । गौणमानाकृतिद्रव्यैः कारयेदिति केचन् ॥ ५१ ॥ मूलनाशात् यथालाभं गौणं वाऽपि प्रशस्यते । ध्रुवकौतुकमार्गेण पदे संस्थाप्य दैविके ॥ ५२ ॥ कृत्वा वर्णानुलेपादीन् प्रतिष्ठाप्यार्चयेत्पुनः । कौतुकादिषु सर्वेषु नष्टे स्थाने तथैव च ॥ ५३ ॥ शैलञ्च ध्रुवबेरञ्च दृश्यते यत्र कुत्रचित् । अशक्तः पूर्ववत्कर्त्तुं स्थाननाशभयादिषु ॥ ५४ ॥ कृत्वा नयनमोक्षं तत्स्थापयेद्वा ध्रुवार्चनम् । असत्यां नाशशङ्खायामशक्तोऽपि यथापुरा ॥ ५५ ॥ कारयेत विधानेन गौणेनैव प्रकल्पयेत् । शिथिले ध्रुवपीठे तु कृत्वा बालालयं क्षणात् ॥ ५६ ॥ शिल्पिभिस्सुदृढं कृत्वा पुनः स्थापनमाचरेत् । स्थलनाशे च रत्नानि सुसन्नयस्य तु पूर्ववत् ॥ ५७ ॥ प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् । बहुबेरप्रतिष्ठा चेद्यद्बेरं दोषसंयुतम् ॥ ५८ ॥ ३२३ वस्त्रेणावेष्ट्य निर्दोषं दोषदुष्टस्य तस्य तु । संस्कारं पूर्ववत्कुर्यादिति पूर्वजशासनम् ॥ ५९ ॥ परिवारेषु दुष्टेषु तत्तत्पार्श्वे तथैव च । कृत्वा बालालयं हुत्वा तत्तन्मन्त्रं सवैष्णवम् ॥ ६० ॥ प्रतिष्ठाप्य नवीकृत्य पुनः स्थापनमाचरेत् । बहुभूमिविमानेषु दोषयुक्तं तलं प्रति ॥ ६१ ॥ बालागारं प्रकल्प्यैव द्वितीयावरणेऽथवा । प्रथमावरणे वाऽथ उक्तदेशे यथाविधि ॥ ६२ ॥ सदोषतलबिम्बानि निर्दोषेषु तलेषु वै । नैव संस्थापयेन्मोहाद्यदि कुर्याद्विनश्यति ॥ ६३ ॥ शीघ्रं हुत्वा महाशान्तिं स्थापयेत्तरुणालये । ऊर्ध्वं तलं समुद्दिश्य पश्चिमे तरुणालये ॥ ६४ ॥ अधस्तलस्य तत्पूर्वे स्थानं सम्यक्प्रकल्पयेत् । पञ्चमूर्तिविधाने तु बालागारं यथाविधि ॥ ६५ ॥ तत्तन्मूर्तिं समुद्दिश्य तत्तद्दिशि च कारयेत् । बेराणां केषाञ्चिदेकद्रव्यनियमः बेराणि पञ्चमूर्तीनामेकद्रव्येण कारयेत् ॥ ६६ ॥ तथैव पञ्चवीराणां ब्रह्मणो गरुडस्य च । विपरीतं यदि भवेत्तद्ग्रामयजमानयोः ॥ ६७ ॥ भवेदाशु विनाशाय विशेषाद्राजराष्ट्रयोः । त्रयोविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३२४ बालालयमकृत्वा न नवीकरणम् बालालयमकृत्वा तु नवकर्माचरेद्यदि ॥ ६८ ॥ आभिचारिकमित्युक्तं तस्य दोषस्य शान्तये । नवाहं वाऽथ सप्ताहं पञ्चाहं त्रियहन्तु वा ॥ ६९ ॥ हुत्वाऽब्जाग्नौ महाशान्तिं स्थापयित्वा समर्चयेत् । आदित्यमण्डलात्कुम्भे समावाह्य समर्चयेत् ॥ ७० ॥ अन्येषामपि देवानामेष एव विधिः स्मृतः । कौतुकादिषु गुप्तेषु नवीकरणप्रकारः कौतुकादिषु गुप्तेषु जीर्णे तस्मिन् ध्रुवे सति ॥ ७१ ॥ कुम्भे शक्तिं समावाह्य नवीकरणमाचरेत् । कुम्भात्कुम्भे समावाह्य यजेत्पर्वणि पर्वणि ॥ ७२ ॥ नवकर्मावसाने तु ध्रुवं संस्थाप्य पूर्ववत् । तस्मात्कूर्चे समावाह्य नित्यं विधिवदर्चयेत् ॥ ७३ ॥ कौतुकाभावे सुवर्णशकलेऽर्चनम् सर्वत्र कौतुकाभावे सुवर्णशकलन्तु वा । (कुम्भे तु मासमेकं स्यात् षण्मासं दर्पणे तथा ॥ वत्सरान्तं पटे प्रोक्तं दारौ द्वादशवत्सरम् । अत ऊर्ध्वं हरिस्तत्र न रमेत पुनस्तथा) ॥ अर्चापीठेऽथवा कूर्चं सन्न्यस्यावाह्य पूजयेत् ॥ ७४ ॥ जीर्णबेरार्चनं यत्तद्दोषायैव भविष्यति । तस्माच्छीघ्रन्तु विधिना जीर्णबेरं परित्यजेत् ॥ ७५ ॥ ३२५ कौतुकादिजीर्णोद्धारः अतः परं प्रवक्ष्यामि जीर्णादौ कौतुकादिके । कौतुके ताम्रजे बिम्बे शैलजे दारवेऽथवा ॥ ७६ ॥ जीर्णे छिन्ने च भिन्ने च खण्डे वृद्धौ तथैव च । हीनप्रमाणे सुषिरे बिम्बं त्याज्यन्तु तत् त्यजेत् ॥ ७७ ॥ वस्त्रेण बिम्बं संवेष्ट्य तत्प्रक्षिप्य जलाशये । मधूच्छिष्टप्रयोगेण बिम्बं कृत्वा यथाविधि ॥ ७८ ॥ पूर्ववद्बिम्बमासाद्य विधिना स्थापयेत्पुनः । कालापेक्षा न कर्तव्या शीघ्रं कर्मेदमाचरेत् ॥ ७९ ॥ अङ्गादिसंज्ञा कण्ठेदरशिरोवक्षोबाहुकोष्ठोरुपाणयः । कटिजङ्घे महाङ्गानि नेत्रनासौष्ठतालवः ॥ ८० ॥ कर्णश्चाङ्गलयोऽङ्गानि केशरोमनखादयः । उपाङ्गानीति चोक्तानि मकुटं भूषणाम्बरे ॥ ८१ ॥ शङ्कचक्रे शिरश्चक्रं पादपद्मायुधान्यपि। पीठं प्रभा च छत्रं च प्रत्यङ्गानि विदुर्बुधाः ॥ ८२ ॥ क्रीडायष्टिश्च वंशश्च प्रत्यङ्गं कृष्णविग्रहे । आषाढो वामने चापि प्रत्यङ्गमभिधीयते ॥ ८३ ॥ हुत्वा शान्तिं त्यजेद्बिम्बमङ्गहीनन्तु कौतुकम् । उपाङ्गहीने बिम्बस्य ताम्रजस्यैव भक्तितः ॥ ८४ ॥ त्रयोविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३२६ कौतुकसंस्कारप्रकारः ध्रुवे शक्तिं समारोप्य सन्धानं तुल्यवस्तुना । हुत्वा पुरुषसूक्तेन विष्णुसूक्तेन वैष्णवैः ॥ ८५ ॥ ‘ईङ्काराद्यै श्च जुहुयादष्टाशीत्या समाहितः । रात्रिसूक्तेन हुत्वैव जयाद्यैर्जुहुयात्पुनः ॥ ८६ ॥ बिम्बशुद्धिं ततः कृत्वा प्रतिष्ठां कारयेत्तथा । सन्धानयोग्यताकथनम् प्रत्यङ्गे तु तथा हीने न त्यजेदिति शासनम् ॥ ८७ ॥ किरीटे भूषणे वस्त्रे नखे वा रोमकेशयोः । चक्रे शङ्खे शिरश्चक्रे हीने सन्धानमाचरेत् ॥ ८८ ॥ शैलस्यायुधविच्छेदे कुर्याल्लोहेन वाऽऽयुधम् । ताम्रजस्याङ्गसन्धानं केचिदाहुर्मनीषिणः ॥ ८९ ॥ बिम्बत्यागे प्रतिप्रसवः सौवर्ण राजितं बिम्बमङ्गहीनं भवैद्यदि । न त्यजेत्तुल्यलोहेन सन्धाय स्थापयेत्क्रमात् ॥ ९० ॥ प्रत्यङ्गे तु तथा हीने सन्धानं कारयेत्क्रमात् । सन्धाने निमित्तान्तराणि तथा बिम्बे तु चलिते तथा पीठाद्वियोजिते ॥ ९१ ॥ रेखासुषिरयुक्ते च सन्धानं कारयेद्दृढम् । वस्त्रादिषु च चक्रेषु छेदे भेदे तथैव च ॥ ९२ ॥ ३२७ पूर्ववत्कारयेत्तद्वत् तुल्यलोहेन युक्तितः । पूर्ववच्छान्तिहोमान्ते पुनः स्थापयति क्रमात् ॥ ९३ ॥ बिम्बस्य ताम्रजस्यापि कर्णनासाङ्गुलीषु च । हीनेष्वङ्गेषु सन्धानं कुर्यादेव न संशयः ॥ ९४ ॥ उपाङ्गे तस्य हीनेऽपि शैलजं दारवं त्यजेत् । एकद्वियवमात्रे तु स्फुटिते तत्र तत्र वै ॥ ९५ ॥ तत्तदङ्गसमुत्पत्तिं रेखामात्रेण कल्पयेत् । वृद्धं प्रमाणहीनञ्च जीर्णं रौक्मञ्च राजितम् ॥ ९६ ॥ लोहवत्तत्समाहृत्य शान्तिहोमावसानके । मधूच्छिष्टविधानेन नवीकरणमाचरेत् ॥ ९७ ॥ अक्ष्युन्मेषादिकं कृत्वा प्रतिष्ठापयति क्रमात् । रत्नजप्रतिमा या स्याद्रूपमात्रं समाहरेत् ॥ ९८ ॥ निर्दुष्टबिम्बस्य न चालनम् अर्च्यमाने तु निर्दोषे बिम्बे तत्र विशेषतः । लोहगौरवमुद्दिश्य पुनर्बिम्बं न कारयेत् ॥ ९९ ॥ यदि कुर्यात्तदज्ञानाद्राजा राष्ट्रञ्च नश्यति । जीर्णं हीनाधिकाङ्गञ्च बिम्बं त्यक्त्वा यथाविधि ॥ १०० ॥ शक्तोऽधिकेन द्रव्येण कारयेच्चेत्तदुत्तमम् । अङ्गहान्यादियुक्ते तु कौतुके पूर्वमर्चिते ॥ १०१ ॥ ध्रुवबेरे समारोप्य तच्छक्तिं शीघ्रमेव तु । यावद्बिम्बं पुनः कृत्वा स्थापयेद्विधिकोविदः ॥ १०२ ॥ त्रयोविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३२८ तावत्कौतुकपीठे तु स्नापनं बिम्बमेव च । औत्सवं बलिबेरं वा स्थापयित्वाऽथ वै ध्रुवात् ॥ १०३ ॥ आवह्य च विधानेन नित्यमर्चनमाचरेत् । पूर्ववत्कौतुकं कृत्वा तत्र संस्थाप्य पूजयेत् ॥ १०४ ॥ स्नापनौत्सवबल्यर्चा स्वस्थाने सन्निवेशयेत् । कैतुकबिम्बप्रतिनिधित्वेन स्वर्णकूर्चाराधनम् स्नापने चौत्सवे हीने कूर्च रौक्मन्तु तत्र वै ॥ १०५ ॥ न्यस्य देवं समावाह्य ध्यायन् पूर्ववदर्चयेत् । चोरापहतबिम्बविचारः चोरैर्वा शत्रुभिर्वाऽपि बिम्बं त्वपहृतं यदि ॥ १०६ ॥ यावद्बिम्बं पुनः कुर्यात्तावत्कालन्तु तत्र वै । भक्त्या सुवर्णशकले समावाह्य समर्चयेत् ॥ १०७ ॥ बिम्बं तत्पूर्ववत्कृत्वा प्रतिष्ठां कारयेद्बुधः । तत्र विकल्पाः विनैव देवदेवेन देव्यावपहृते यदि ॥ १०८ ॥ देव्यौ ते विधिना कृत्वा प्रतिष्ठाप्य यथापुरा । पूर्वोक्तेन विधानेन विवाहं विधिना चरेत् ॥ १०९ ॥ जुहुयाद्यदि नित्याग्नौ ध्रुवादावाहनं यदि । न विवाहविधिं कुर्यादिति पूर्वजशासनम् ॥ ११० ॥ देवीभ्यान्तु विना तत्र देवेशेऽपहृते यदि । देव्योरनुगुणं देवबेरं कृत्वा यथाविधि ॥ १११ ॥ ३२९ ध्रुवादावाहनं कृत्वा नित्यमग्निं प्रणीय च । प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ॥ ११२ ॥ त एव देव्यौ देवस्य नान्ये देव्यौ प्रकल्पयेत् । तच्छक्तैः पूर्वसंस्कारं (?) न विवाहविधिं चरेत् ॥ ११३ ॥ स्थापितेऽपि नवे बेरे दृष्टे त्वपहृते पुनः । समन्त्रं लौकिकं बेरं स्थापयित्वा समर्चयेत् ॥ ११४ ॥ अन्यथा यदि कुर्वीत राजराष्ट्रं विनश्यति । ध्रुवे स्थिते तु देवेशे तद्देव्योरङ्गहीनयोः ॥ ११५ ॥ तद्देव्योः स्थितयोर्देवे हीनाङ्गेऽपि तपोधनाः । तत्तद्विम्बगतां शक्तिं कुम्भे सम्यङ्निवेश्य च ॥ ११६ ॥ बालालये प्रतिष्ठाप्य कुर्वन्वै नित्यपूजनम् । देवेशानुगुणं देव्यौ देवं वाऽनुगुणं तयोः ॥ ११७ ॥ पूर्वमानाकृतिद्रव्यैः कृत्वा संस्थापयेत्क्रमात् । पूर्वप्रमाणादधिकं मुख्याकारञ्च (?) नाचरेत् ॥ ११८ ॥ कारयेत्तुल्यलोहेन देव्यौ नैवाधिकेन च । यद्यद्बिम्बन्तु निर्दुष्टं तत्तन्न त्याज्यमुच्यते ॥ ११९ ॥ यागशालाग्निकुण्डेषु नित्यमग्निं प्रणीय च । शक्तिमुद्वास्य तामेव कुम्भे सम्यङ्निवेश्य च ॥ १२० ॥ प्रतिष्ठां पूर्ववत्कुर्याद्विवाहं तत्र नाचरेत् । शक्तौ संस्कृतपूर्वायां न संस्कारान्तरं पुनः ॥ १२१ ॥ सर्वेषामेव देवानां स्थितायां पुरुषाकृतौ । स्त्रीबेरनाशे पुरुषबेरनाशेऽथवा स्त्रियाम् ॥ १२२ ॥ त्रयोविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३३० सामान्योऽयं विधिः प्रोक्तः पुनस्सन्धानकर्मणि । सन्धानकर्तुः फलप्रशंसा पुनस्सन्धानकर्तुः स्यात्तन्मूलाद्द्विगुणं फलम् ॥ १२३ ॥ सर्वान् कामानवाप्नोति कीर्तिमान् धनवान् भवेत् । सर्वपापविनिर्मुक्तो भोगान् भुङ्क्ते महीतले ॥ १२४ ॥ (जङ्गमेषु च गुप्तेषु परचक्रभयेषु च । यावत्कालं तदुद्धारः तावत्कालञ्च तत्र वै ॥ १२५ ॥ कूर्चे भक्त्या समावाह्य ध्यात्वा देवं समर्चयेत् । उद्धृत्य तानि बिम्बानि शुद्धिद्रव्येण शोधयेत् ॥ १२६ ॥ कलशैः स्नापयेद्देवं यथाविभवविस्तरम् । महाशान्तिश्च हुत्वा तु पुण्याहमपि वाचयेत् ॥ १२७ ॥ ब्राह्मणान् भोजयित्वा तु शक्तितो दक्षिणां ददेत् अर्चयेच्च यथान्यायं हविस्सम्यङ्निवेदयेत् ॥ १२८ ॥ जङ्गमेषु च गुप्तेषु हीने च स्थावरार्चने । महाशान्तिञ्च हुत्वा तु तत्कालानुगुणं पुनः ॥ १२९ ॥ पुनः प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत् । अर्च्यमानं गृहे बेरं सुन्दरं लक्षणान्वितम् ॥ १३० ॥ ध्रुवबेरानुरूपञ्चेद् ग्रामस्यानुगुणं तथा । लब्धं चेदौत्सवार्थन्तु स्नापनार्थमथापि वा ॥ १३१ ॥ नित्योत्सवार्थं वा तत्र स्थापयित्वा समर्चयेत् । तद्बिम्बसंस्थितां शक्तिं निवेश्यादित्यमण्डले ॥ १३२ ॥ ३३१ ध्रुवात्तस्मिन्त्समावाह्य पूर्ववत्स्थापयेत्सुधीः । तामेव शक्तिमथवा कुम्भे सम्यङ्निवेश्य च ॥ १३३ ॥ लौकिकं तत्र संस्थाप्य कुम्भादावाह्य पूजयेत् । लौकिकस्य प्रतिष्ठायां लौकिकाग्नौ जुहोति वै ॥ १३४ ॥ एष एव विशेषः स्यादन्यत्सर्वं समं भवेत् । रूपमिच्छन्ति ये देवा ये न नेच्छन्ति मन्दिरे ॥ १३५ ॥ पीठकुड्यकवाटादावर्च्यन्ते सुप्रतिष्ठिताः । अर्चनाङ्गेषु पात्रेषु यानादिष्वासनादिषु ॥ १३६ ॥ वापीकूपतटाकादिष्वावाह्य चिरमर्चिताः । नवकर्मणि तेऽर्हन्ति बालागारोचिताः क्रियाः ॥ १३७ ॥ तस्मात्सर्वप्रयत्नेन मन्त्रतो यः प्रतिष्ठितः । तं सर्वं नवकर्मादौ जीर्णोद्धारक्रमेण वै ॥ १३८ ॥ संस्कृत्य नवकर्मान्ते संस्कुर्यात्पुनरेव वै । (जीर्णोद्धारविधिः प्रोक्तः विस्तरेण मरीचिना) आदाय नववस्तूनि प्रतिष्ठां वा समाचरेत् ॥ १३९ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे नवीकरणप्रायश्चित्तविधिर्नाम त्रयोविंशोऽध्यायः