२२

एकविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३०६ द्वाविंशोऽध्यायः स्थापनदोषप्रपञ्चः यथोक्तगुणहीनेन गुरुणा स्थापकादिभिः । उक्तदोषयुतैर्वाऽपि स्थापिते पुरुषोत्तमे ॥ १ ॥ त्रिरात्रं तां महाशान्तिमब्जाग्नौ जुहुयात्पुनः । उक्तलक्षणसम्पन्नगुरुणा स्थापयेत्पुनः ॥ २ ॥ यत्स्थानं यदधीनं स्यात् स तस्याऽचार्य उच्यते । स चेदयुक्तस्त्वन्येन सर्वकर्माणि कारयेत् ॥ ३ ॥ स कुर्यादन्य आचार्यस्तदनुज्ञापुरस्सरम् । अन्यथा यजमानस्य ग्रामस्य च विपद्भवेत् ॥ ४ ॥ पौण्डरीके महाशान्तिमेकाहं जुहुयात्पुनः । अनुक्तपक्षनक्षत्रराशिषु स्थापने कृते ॥ ५ ॥ पुनः प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत् । अक्ष्युन्मेषाधिवासौ तु अकृत्वा स्थापयेद्यदि ॥ ६ ॥ कृत्वा तु पूर्ववत्तत्तत् प्रतिष्ठां पुनराचरेत् । बहुद्रव्यक्रियाहीने क्रियाणाञ्च विपर्यये ॥ ७ ॥ कुम्भपूजाविहीने च ध्यानहीने विपर्यये । स्नपने च विहीने वै तथा कौतुकबन्धने ॥ ८ ॥ शयने च तथा हौत्रे देवतावाहने तथा । तथा होमेषु हीनेषु विपर्यासे च केषु च ॥ ९ ॥ ३०७ रत्नादिन्यासहीने च ध्रुवकौतुकयोस्तथा । आचार्यबुद्धिक्षोभे च प्रतिष्ठायां विशेषतः ॥ १० ॥ तस्मिन् काले महोत्पाते दुर्निमित्तस्य दर्शने । एवं महाप्रतिष्ठायां दोषान्तरसमागमे ॥ ११ ॥ पुनः प्रतिष्ठा कर्तव्या तस्य दोषस्य शान्तये । अक्ष्युन्मेषाधिवासौ च रत्नादिन्यासमेव च ॥ १२ ॥ एतान् पुनःप्रतिष्ठायां नाचरेदिति शासनम् । यद्यत्तेषु विहीनं स्यात्तत्तत्कृत्वा समाचरेत् ॥ १३ ॥ पञ्चाग्नीन् पौण्डरीकाग्निं सभ्याग्निमिति केचन । पुनःप्रतिष्ठा यत्रोक्ता तत्र तत्रैवमेवहि ॥ १४ ॥ कृत्वा नित्याग्निविच्छेदे पञ्चाग्नीन् पूर्ववद्बुधः । आधाय गार्हपत्याग्नेः प्रणीयान्येषु वै ततः ॥ १५ ॥ यथोक्तहोमं जुहुयात्सर्वमन्यत्समं भवेत् । देव्योः पृथक्प्रतिष्ठायां स्नापनौत्सवयोस्तथा ॥ १६ ॥ उत्सवे स्नपने चैव त्वालयाङ्गान्यकर्मणाम् । नित्यमेव प्रणीयाग्निं जुहुयादिति शासनम् ॥ १७ ॥ अनेकदिनसाध्यञ्चेदेकदेशं ततो हरेत् । शेषाग्नौ नित्यहोमञ्च कृत्वा कर्मावसानके ॥ १८ ॥ नित्यकुण्डे प्रणीयाग्निं वैष्णवं जुहुयात्सकृत् । प्राकारगोपुरीदीनां संस्कारे मण्डपस्य च ॥ १९ ॥ द्वाविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३०८ मथिताग्निविचारः परिवारप्रतिष्ठायां तत्परिच्छदसंस्कृतौ । मथितं लौकिकं वाऽग्निमादाय जुहुयादिति ॥ २० ॥ यागशालादौ प्रमाणविधुरे प्रमाणे यागशलायां हीने वाऽधिक एव वा । शय्यावेद्याः प्रमाणे च अलङ्कारे च वर्जिते ॥ २१ ॥ अन्यदेशे कृते वाऽपि जुहुयाद्भूमिदैवतम् । तद्दिक्पालकमन्त्रञ्च विष्णुसूक्तं सवैष्णवम् ॥ २२ ॥ हुत्वा च पौरुषं सूक्तं दद्यादन्नादि शक्तितः । र्यज्ञोपस्करमन्त्राणां द्रव्याणाञ्च विपर्यये ॥ २३ ॥ आग्नेयं जुहुयाद्ब्राह्मं शक्तितो दक्षिणां ददेत् । शिलालोष्टेष्टकावृक्षैरग्निकुण्डे कृते सति ॥ २४ ॥ वैष्णवं भौतिकं हुत्वा सावित्र्याऽष्टशतं यजेत् । अग्निकुण्डप्रमाणे च हीने वाऽधिक एव वा ॥ २५ ॥ ब्राह्मं सौम्यं तथाऽऽग्नेयमादित्यं जुहुयात्क्रमात् । मथितेऽग्नौ तु विच्छिन्ने मथित्वाऽग्निं प्रगृह्य च ॥ २६ ॥ यज्ञपात्राणां प्रमाणहानौ आग्नेयं चरुणा हुत्वा गुह्णीयात्तं हुताशनम् । परिस्तरणकूर्चानां परिधीनां तथैव च ॥ २७ ॥ आज्यस्थाल्यादिपात्राणां स्रुवादीनां तथैव च । प्रमाणहीने न्यूने च होमे होमे प्रति प्रति ॥ २८ ॥ ३०९ मिन्दाहुती च सावित्रीं व्याहृतीर्जुहुयात्क्रमात् । स्रुवादीनामलाभे तु पालाशस्य तथैव च ॥ २९ ॥ किंशुकस्याथवा मधयपत्रेणैव प्रकल्पयेत् । अथवाऽश्वत्थपत्रेण कृत्वा होमं यथाविधि ॥ ३० ॥ स्रुवदीनि च 1पात्राणि पर्वतानष्टमङ्गलान् । वेदं प्रोक्षणकूर्चञ्च प्रोक्षणीपात्रमेव च ॥ ३१ ॥ प्रणिध्यावाज्यपात्रञ्च तोरणनि तथैव च । पुनःपुनश्च कर्मार्थं गृह्णीयात्तत्तदालये ॥ ३२ ॥ नान्यालयार्थं गृह्णीयादिति पूर्वजशासन् । 2लोहेन वा तथा कुर्यात्स्रुवादीनीति केचन ॥ ३३ ॥ ब्रह्मसोमकूर्चकल्पनम् रत्निमात्रायतौ कूर्चौ न्यसेद्दक्षिणवामयोः । तत्राऽवाह्य समभ्यर्च्य ब्रह्मसोमौ प्रकल्पयेत् ॥ ३४ ॥ तत्क्रियान्ते तथोद्वास्य दद्याद्ब्राह्मणभोजनम् । स्थाल्यामाज्ये चरौ वाऽथ मक्षिकायाः कृमेरपि ॥ ३५ ॥ रोम्णः पिपीलिकादीनां पतने तद्व्यपोह्य च । हव्यमन्यत्समादाय प्राजापत्यं यजेत्ततः ॥ ३६ ॥ आग्नेयं वैष्णवञ्चैव जुहुयात्तस्य शान्तये । अन्यालाभे तु तद्दोषमपोह्यैव प्रयत्नतः ॥ ३७ ॥ दर्भैरुद्दीप्य चोत्पूय प्रायश्चित्तञ्च पूर्ववत् । जुहुयात्तद्विशुद्ध्यर्थं पुनरुत्पूय चाऽहरेत् ॥ ३८ ॥ 1. पवित्रान्. ख. 2. लोहेनैव च द्वाविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३१० विच्छिन्ने तु प्रणीताग्ना ‘वयं ते योनि’रित्यृचा । समिद्ध्यारोप्य तद्भस्म लौकिकाग्नौ निधाय ताम् ॥ ३९ ॥ आधाय परिषिच्याग्निं विच्छिन्नं जुहुयात्पुनः । मिन्दाहुती वैष्णवञ्च व्याहृतीर्जुहुयात्क्रमात् ॥ ४० ॥ एवमग्निं सुसंसाध्य शेषञ्च जुहुयात्तथा । आज्येऽग्नौ वा जले क्षिप्ते चाऽग्नेयं वैष्णवं तथा ॥ ४१ ॥ व्याहृत्यन्तं यजित्वा तु शेषं कर्म समाचरते् । समित्परिधिदर्भाणामलाभेऽक्षतपुष्पयोः ॥ ४२ ॥ वैष्णवं व्याहृतीर्हुत्वा पुनस्तानि समाहरेत् । परिस्तरणदर्भाणां परिधीनां तथैव च ॥ ४३ ॥ तथोर्ध्वसमिधोर्दाहे भेदे छेदे च नाशने । तद्यथास्थानमाक्षिप्य महाव्याहृतिभिर्यजेत् ॥ ४४ ॥ मिन्दाहुती तथाऽऽग्नेयं वैष्णवं व्याहृतीरपि । पार्श्वेऽग्नौ ज्वलिते तस्मिन् समिध्याज्ये चरौ हुते ॥ ४५ ॥ तत्तद्दिग्देवताहोमं जुहुयादुपलक्ष्य च । वायव्यं वैष्णवं हुत्वा पुनस्तेन च हूयते ॥ ४६ ॥ आज्येन माहिषेणाथ तैलमिश्रघृतेन वा । जुहुयाच्चेत्प्रमादेन भवेत्तद्धुतमासुरम् ॥ ४७ ॥ अष्टोत्तरसहस्रञ्च पद्महोमं जुहोति च । व्याहृतीर्जुहुयादन्ते तस्य दोषस्य शान्तये ॥ ४८ ॥ उक्तद्रव्यविहीने तु कापिलेन घृतेन वै । देवेशं मनसा ध्यात्वा वैष्णवं विंशतिं यजेत् ॥ ४९ ॥ ३११ क्रियामन्त्रविपर्यासे लोपे चाग्निं प्रणम्य च । प्रणम्य विष्णुं देवेशं वैष्णवं व्याहृतीर्यजेत् ॥ ५० ॥ यज्ञभ्रेषप्रायश्चित्तम् यज्ञकर्मणि सर्वत्र सूक्तं वैश्वानरं जपेत् । यज्ञकर्मणि सर्वत्र न्यूने हीने विपर्यये ॥ ५१ ॥ प्रायश्चित्तं विशेषेण 1यस्य नोक्तन्तु तत्र वै । वैष्णवं विष्णुसूक्तञ्च सूक्तं तत्पौरुषं यजेत् ॥ ५२ ॥ ‘शन्नो मित्रे’ ति शान्तिञ्च जप्त्वा सूक्तञ्च पौरुषम् । वैष्णवं विष्णुसूक्तञ्च जपेत् ध्यायन् हरिं परम् ॥ ५३ ॥ वैष्णवेनैव होमेन वैष्णवेन जपेन च । सर्वकर्मसु यन्न्यूनं तत्सम्पूर्णं भवेद्ध्रुवम् ॥ ५४ ॥ यदाह ‘यज्ञो वै विष्णु’ रिति नित्यश्रुता श्रुतिः । अलाभे प्रतिनिधिः रत्नादीनामलाभे तु तत्तत्प्रतिनिधिं हरेत् ॥ ५५ ॥ रत्नादीनां क्रमात्तेषां सुवर्णं पारदं यवम् । रत्नानां विष्णुसूक्तञ्च वैष्णवञ्च यजेत्तथा ॥ ५६ ॥ प्रायश्चित्तन्तु धातुनां दिग्दैवत्यं सवैष्णवम् । बीजे वैष्णववायव्यौ प्रत्येकं विंशतिं यजेत् ॥ ५७ ॥ वस्त्रे लक्षणहीने च छिन्ने भिन्ने तथैव च । तत्त्यक्त्वान्यत्प्रगृह्यैव श्रीमन्त्रं वैष्णवं यजेत् ॥ ५८ ॥ 1. यत्र क. द्वाविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३१२ अण्डजादिष्वलब्धेषु पृथग्वस्त्राणि चाऽहरेत् । तत्तत्प्रतिनिधिं ध्यात्वा शयनानि प्रकल्पयेत् ॥ ५९ ॥ वैष्णवं ब्रह्मदैवत्यं श्रीदैवत्यं शतं यजेत् । तोरणेष्वप्रमाणेषु द्वारपालकदैवतम् ॥ ६० ॥ यजेद्विंशतिकृत्वश्च दर्भमालाविवर्जिते । आर्षञ्च वैष्णवं हुत्वा ततः पश्चात्प्रकल्पयेत् ॥ ६१ ॥ कुम्भे विशेषः प्रमाणहीने कुम्भे च स्फुटिते कालसंयुते । वस्त्रयुग्मे च रत्नेषु यथोक्तेष्वायुधादिषु ॥ ६२ ॥ सौवर्णषु च हीनेषु न स्याद्देवस्य सन्निधिः । आदाय तस्मात्सर्वाणि क्षिप्त्वा पश्चात्प्रयत्नतः ॥ ६३ ॥ जुहुयात्पौरुषं सूक्तं विष्णुसूक्तञ्च वैष्णवम् । पृथगेव त्रयस्त्रिंशन्मुनिमन्त्रञ्च विंशतिम् ॥ ६४ ॥ ब्राह्मञ्चैव त्रयस्त्रिंशदाग्नेयञ्च दशैव च । पारमात्मिकमीङ्काराद्यष्टाशीतिं सकृत्सकृत् ॥ ६५ ॥ ब्रह्मणान् भोजयित्वा तु गुरवे दक्षिणां ददेत् । भिन्ने तु साधिते कुम्भे पतिते वा प्रमादतः ॥ ६६ ॥ तस्य दोषस्य शान्त्यर्थं वैष्णवं ब्राह्मसंयुतम् । पौरुषं विष्णुसूक्तञ्च प्रत्येकं तु शताष्टकम् ॥ ६७ ॥ हुत्वा द्विसप्त गा दत्वा पश्चाद्विप्रांश्च भोजयेत् । कुम्भमन्यत्समादाय पूर्ववत्साधयेत्पुनः ॥ ६८ ॥ ३१३ कुक्कुटैश्च श्वकाकाद्यैरस्पृश्यैः पतितैरपि । कुम्भे तु साधिते स्पृष्टे तं त्यक्त्वाऽन्यं सुसाधयेत् ॥ ६९ ॥ अब्जाग्नौ वैष्णवं ब्राह्मं सौरमाग्नेयमेव च । पौरुषं वैष्णवं सूक्तं प्रत्येकं च शताष्टकम् ॥ ७० ॥ हुत्वा द्विसप्त गा दत्वा ब्राह्मणान् भोजयेत्पुनः । बिम्बस्पर्शविषयः बिम्बे त्वस्पृश्यसंस्पृष्टे शोधयित्वा यथाविधि ॥ ७१ ॥ स्नापयित्वा तु कलशैर्जुहुयात्पूर्वनिष्कृतिम् । होमकुण्डे स्पर्शादिदुष्टे श्वकुक्कुटसृगालैश्च होमे स्पृष्टे च वायसैः ॥ ७२ ॥ अस्पृश्यैरपि तत्कुण्डं शोधयित्वा व्यपोह्य च । कुण्डं सलक्षणं कृत्वा चाऽघारं जुहुयात्क्रमात् ॥ ७३ ॥ आग्नेयं वैष्णवं मूलहोमं वै पञ्चवारुणम् । पुनरलाभे प्रतिनिधिः पृथक्पृथक् शतं हुत्वा दत्वा गां पूजयेद्द्विजान् ॥ ७४ ॥ उक्तस्रुचामलाभे तु स्रुवेणैवाथवा यजेत् । तत्तद्रूपं तथा ध्यात्वा तत्तन्मन्त्रैः जुहोति च ॥ ७५ ॥ जुहुयादार्षकं मन्त्रं वैष्णवं ब्राह्मसंयुतम् । पालाशीं वा तथाऽऽश्वत्थीमलाभे समिधं हरेत् ॥ ७६ ॥ आज्यं वा माहिषं क्षीरं दध्याख्यं वा न चाऽहरेत् । गृह्णीयाच्चेत्तदज्ञानात्तस्य दोषस्य शान्तये ॥ ७७ ॥ द्वाविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३१४ वैष्णवं ब्राह्ममाग्नेयं सौरञ्च व्याहृतीर्यजेत् । नदीतटाककुल्यासु कुण्डार्थं शुद्धमुत्तिकाम् ॥ ७८ ॥ सिकतावाऽथ गृह्णीयाद्गृह्णीयाद्यदि चान्यथा । वारुणं वैष्णवं हुत्वा प्रोक्षणैः प्रोक्ष्य चाऽहरेत् ॥ ७९ ॥ इन्धनादौ जन्तुकण्टकलेपादिदोषयुक्तं सधूमकम् । दुर्धूममिन्धनं सार्द्रं न गृह्णीयात्कदाचन ॥ ८० ॥ प्रक्षिपेद्यदि तत्त्यक्त्वा शुभमन्यत्प्रगृह्य च । क्षिप्त्वाऽग्नौतु तथाऽऽग्नेयं वैष्णवं व्याहृतीर्यजेत् ॥ ८१ ॥ कल्पिते देवयागार्थं दग्धे द्रव्येऽम्बरादिके । दर्भादौ च प्रपायां वा द्रव्येऽनुक्ते च सर्वशः ॥ ८२ ॥ जुहुयाद्वैष्णवं ब्राह्मं सौरमाग्नेयसंयुतम् । एकविंशतिकृत्वस्तु तस्य दोषस्य शान्तये ॥ ८३ ॥ देवोद्धारे उद्धृते शयिते बिम्बे पूर्वमर्कोदयात्तथा । चतुष्कृत्वस्तु जुहुयाद्देव्योर्मन्त्रान् सवैष्णवान् ॥ ८४ ॥ शयनं कल्पयित्वान्यच्छाययित्वा यथा पुरा । मुहूर्ते समनुप्राप्ते प्रतिष्ठामाचरेत्पुनः ॥ ८५ ॥ आचार्यादीनां कलहे आचार्यस्थापकादीनां भर्त्सने शपने तथा । येन केनापि हनने तस्य दोषस्य शान्तये ॥ ८६ ॥ ३१५ पौरुषं वैष्णवं ब्राह्मं सूक्तं सारस्वतं यजेत् । दक्षिणाहीने यथोक्तदक्षिणाहीने आचार्यस्यर्त्विजामपि ॥ ८७ ॥ पदार्थिनस्त एवात्र तत्कर्मफलमाप्नुयुः । हन्त्यल्पदक्षिणो यागो यजमानं न संशयः ॥ ८८ ॥ भ्रूणहत्यामवाप्नोति यजमानो न संशयः । अष्टोत्तरशतं हुत्वा मुनिमन्त्रञ्च वैष्णवम् ॥ ८९ ॥ दक्षिणाञ्च पुनस्तेभ्यो दद्यादेव यथोचितम् । पञ्चमूर्तिप्रतिष्ठायां विशेषः पञ्चमूर्तिप्रतिष्ठायां होमं वै कुम्भपूजनम् ॥ ९० ॥ स्नपनं शयनं सर्वं कुर्यात्तेषां पृथक्पृथक् । अज्ञानात्स्नपनादीनि यदि तानि सहाऽचरेत् ॥ ९१ ॥ तत्तद्धोमे च होतव्यं तत्तन्मन्त्रं सहस्रशः । बेरद्रव्यविचारः यद्द्रव्यं मूलबेरं तु तेनैव परिषद्गणान् ॥ ९२ ॥ कारयेद्वीशशान्तार्कदुर्गावाणीविनायकान् । नैव दोषप्रदाः शैला अन्यथा तु कृता यदि ॥ ९३ ॥ अभिचारकमित्युक्तं तस्य दोषस्य शान्तये । ब्राह्मं सौरं तथाऽऽग्नेयं 1शतमष्टोत्तरं यजेत् ॥ ९४ ॥ 1. वैशङ्कं देवतान्यपि (?) क. द्वाविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३१६ अङ्गहोमञ्च जुहुयात्पारमात्मिकसंयुतम् । जयादींश्चैव श्रीसूक्तं दुर्गासूक्तं ततो यजेत् ॥ ९५ ॥ ‘ईङ्कारादीं’ स्ततो हुत्वा ब्राह्मणानपि भोजयेत् । मूलबेरानुरूपांस्तान् कृत्वा च स्थापयेत्पुनः ॥ ९६ ॥ लौहं शैलं दारवं वाऽप्यन्यदुद्दिश्य कल्पितम् विमाने स्थापितं बिम्बं नान्यत्र स्थापयेत्पुनः ॥ ९७ ॥ स्थापितञ्चेन्महाशान्तिं हुत्वा दक्षिणया युतम् । तत्र चाऽनीय तद्बिम्बं पूर्ववत् स्थापयेत्तथा ॥ ९८ ॥ राज्ञा राष्टा्रन्तरं जित्वा नीतं बिम्बं भवेद्यदि । (प्रतिष्ठा तस्य बिम्बस्य पूर्वमेव मयोदिता) । तदुक्तेन प्रकारेण स्थापयित्वा समर्चयेत् ॥ ९९ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे प्रतिष्ठाप्रायश्चित्तविधिर्नाम द्वाविंशोऽध्यायः