।
श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २९० एकविंशोऽध्यायः चलितस्थापनम् अथ वक्ष्ये 1विशेषेण चलितस्थापनक्रमम् । पीठात्प्रचलितं बिम्बं स्थापायस्थलमाश्रितम् ॥ १ ॥ अन्यस्थले नदीतीरे ग्रामा2 द्बहिरवास्तुकम् । महापथस्थं यद्बेरमर्चाहीनं विशेषतः ॥ २ ॥ जीर्णालयगतं बिम्बं चिरकालमनर्चितम् । अस्थानस्थापितं बेरं चलितञ्च प्रमादतः ॥ ३ ॥ अन्यालयगतं बिम्बमन्त्यजातिभिरावृतम् । प्रतिलोमनिवासस्थं शून्यमूलालयस्थितम् ॥ ४ ॥ चालयित्वा विधानेन याने वा शकटेऽपि वा । आरोप्य सुस्थलं नीत्वा कारयेदालयं महत् ॥ ५ ॥ प्रासादं गोपुरं वाऽपि विमानं परिकल्पयेत् । अशक्तश्चेद्यथालाभं गर्भालयमथापि वा ॥ ६ ॥ तस्मिन् तद्बेरमास्थाप्य प्रतिष्ठां पुनराचरेत् । यः करोति महाविष्णोरन्यत्र स्थापनं महत् ॥ ७ ॥ व्याधयस्तस्य नश्यन्ति ग्रहपीडाद्युपद्रवाः । दुर्निमित्तानि दुःस्वप्नचोरशत्रुभयादयः ॥ ८ ॥ 1. महाविष्णोरन्यत्र स्थापनक्रमं आ. 2. बाह्येऽपि वास्तुषु क. २९१ उपद्रवास्तथाऽन्ये च प्रणश्यन्ति न संशयः । धर्मार्थकाममोक्षाश्च सिद्ध्यन्त्येव न संशयः ॥ ९ ॥ कौतुकादिनिष्कृतिः अतः परं प्रवक्ष्यामि कौतुकादिषु निष्कृतिम् । कृत्वा सङ्कीर्णलोहेन लोहेनाविहितेन वा ॥ १० ॥ कौतुकं स्थापयेच्चेतु क्षिप्रं तदपहाय च । पद्माग्नौ परिषन्मन्त्रान् सूक्ते पौरुषवैष्णवे ॥ ११ ॥ श्रीब्रह्मरुद्रसूक्तानि व्याहृत्यन्तं हुनेत् पृथक् । दक्षिणान्तु ततो दद्याद्ब्राह्मणानपि भोजयेत् ॥ १२ ॥ सलक्षणं ततः कृत्वा कौतुकं स्थापयेद्बुधः । ध्रुवकौतुकयोः सारूप्यम् यदाकारं ध्रुवं कुर्यात्तदाकारन्तु कौतुकम् ॥ १३ ॥ आसीनं वा स्थितं वाऽपि शयनं नैव कौतुकम् । स्थानके स्थानकं प्रोक्तमासने स्थानकासने ॥ १४ ॥ आसीनं स्थानकं वाऽपि शयाने परिकल्पयेत् । स्थापितं विपरीतं चेत् त्रयस्त्रिंशद्गणान् यजेत् ॥ १५ ॥ वैघ्नं सौरं गारुडञ्च शान्तिं वै पाञ्चभौतिकम् । दुर्गासूक्तं विष्णुसूक्तं सूक्तं तत्पौरुषं यजेत् ॥ १६ ॥ ब्राह्माणान् भेजयित्वा तु पुण्याहमपि वाचयेत् । यथोक्तं कौतुकं कृत्वा प्रतिष्ठकमाचरेत्पुनः ॥ १७ ॥ एकविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २९२ अवतारविषये पौराणिकप्रदेशेषु च विशेषः अवतारं ध्रुवं चेत्तु रूपभेदेषु तस्य च । यथेष्टं कारयेद्रूपमिति प्रोवाच पूर्वजः ॥ १८ ॥ पौराणिकेषु स्थानेषु यथापूर्वं तथा चरेत् । अन्यथा तु न कर्तव्यं यदि कुर्याद्विनश्यति ॥ १९ ॥ तच्छान्त्यै पौण्डरीकाग्नौ सूक्ते वैष्णवपौरुषे । हुत्वा तु दक्षिणां दत्वा यथापूर्वं तथा चरेत् ॥ २० ॥ पूर्वमाग्नेयबिम्बञ्च सौम्येन स्थापितं यदि । तद्बेरजीर्णोद्धारेऽपि कुर्यात्पूर्ववदेव हि ॥ २१ ॥ सुवर्णादन्यलोहेन मिश्रलोहेन कौतुकम् । स्थापितञ्चेन्महादोषो भविष्यति न संशयः ॥ २२ ॥ आलयाद्दक्षिणेऽब्जाग्नौ ब्राह्मं सौरञ्च सौम्यकम् । आग्नेयं गारुडं हुत्वा सूक्ते वैष्णवपौरुषे ॥ २३ ॥ ईङ्कारादींस्ततो हुत्वा तद्बिम्बमपहाय च । उक्तलोहेन कुत्वा तु विधिना स्थापयेत्पुनः ॥ २४ ॥ प्रतिष्ठाप्यार्च्यमानन्तु लोहजं कौतुकं शुभम् । त्यक्त्वाऽन्यत्स्थापयेच्छेत्तदाभिचारिकमुच्यते ॥ २५ ॥ दिग्दैवत्यं पुरुषसूक्तं विष्णुसूक्तमतः परम् । श्रीसूक्तञ्चैव जुहूयाद्दुर्गासूक्तं सवैष्णवम् ॥ २६ ॥ अङ्गहोमं ततो हुत्वा विश्वजित्सूक्तमेव च । पूर्वं यद्बिम्बमादाय स्थापयेत्तु विचक्षणः ॥ २७ ॥ २९३ तत्रैवान्यन्नवं बेरं स्थापयित्वा च लौकिकम् । यथालाभोपचारैस्तु पूजयेदिति शासनम् ॥ २८ ॥ विवर्णे स्फुटिटे रूक्षे सुषिरे जर्झरान्विते । वर्जिते लक्षणैश्चापि स्थापिते सति कौतुके ॥ २९ ॥ अन्यद्बिम्बं समादाय सूक्ते वैष्णवपौरुषे । वैष्णवञ्चैव कूष्माण्डं ब्राह्ममैन्द्रञ्च वायवम् ॥ ३० ॥ गारुडञ्च सकृद्धुत्वा वैष्णवं साष्टकं शतम् । महाव्याहृतिभिर्हुत्वा पूर्ववत्स्थापयेत्पुनः ॥ ३१ ॥ प्रतिष्ठाप्य कृतं बेरं त्यक्त्वान्यत्स्थापयेद्यदि । आलयस्योत्तरेऽब्जाग्नौ विष्णुसूक्तं जुहोति च ॥ ३२ ॥ दौर्गञ्च पौरुषं सूक्तं ब्रह्मसूक्तं यजेत्पुनः । रुद्रसूक्तं ततो हुत्वा पुनराहवनीयके ॥ ३३ ॥ वैष्णव व्याहृतीश्चापि महाव्याहृतिसंयुतम् । हुत्वा साष्टशतं बेरं पूर्वं संस्थापयेत्पुनः ॥ ३४ ॥ ततोऽन्यत्र नवं बेरं स्थापयित्वा समर्चयेत् । अन्यालयार्थं वा दद्याद्याचितं चेन्महत्फलम् ॥ ३५ ॥ अर्चारहितबेरदोषः निर्दुष्टबेरस्य त्यागनिषेधः बेरमर्चाविहीनञ्चेत्सर्वनाशकरं भवेत् । निर्दोषं लक्षणैर्युक्तं न त्याज्यमिति शासनम् ॥ ३६ ॥ शङ्खचक्रगदापद्मधरं केवलमुक्तिदम् । शङ्खचक्रधरं श्रेष्ठं भुक्तिमुक्तिफलप्रदम् ॥ ३७ ॥ एकविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २९४ शङ्खचक्रगदापद्मधरं पूर्ववदर्चितम् । पुनश्च बेरनिर्माणे तत्तथैव प्रकल्पयेत् ॥ ३८ ॥ कुर्यात्तस्यापि सौम्येन प्रतिष्ठामर्चनादिकम् । मधूच्छिष्टक्रियाहीने मधूच्छिष्टक्रियाहीने लोहबेरे कृते सति ॥ ३९ ॥ ब्राह्मञ्च सौरं सौम्यञ्च सारस्वतसमन्वितम् । प्राजापत्यं तथाऽऽग्नेयं वैष्णवं व्याहृतीरपि ॥ ४० ॥ हुत्वा विप्रांश्च सम्पूज्य दक्षिणां गुरवे ददेत् । शिलाविपर्यासे पुंरूपं पुंशिलाभिश्च स्त्रीरूपं शिलया स्त्रिया ॥ ४१ ॥ स्त्रिया नपुंसकेनाथ पुंरूपन्तु कृतं यदि । आभिचारिकमित्युक्तं तेन सर्वं विनश्यति ॥ ४२ ॥ स्थापितञ्चेत् परित्यज्य बेरमन्यत्समाहरेत् । नपुंसकेन पुंसा वा देवीबेरं कृतं त्यजेत् ॥ ४३ ॥ यथोक्तशिलया बेरमाहृत्यान्यद्विधानतः । षडग्नीन् साधयित्वा तु परिषिच्य च पावकम् ॥ ४४ ॥ पारमात्मिकमीङ्काराद्यष्टाशीतिं जयादिभिः । रात्रिसूक्तञ्च जुहुयाद्विश्वजित्सूक्तमेव च ॥ ४५ ॥ ब्रह्मेन्द्रविष्णुसूक्तांश्च नरसूक्तं सरौद्रकम् । दूर्गासूक्तञ्च सर्वेषु शतमष्टोत्तरं यजेत् ॥ ४६ ॥ पद्महोमञ्च जुहुयात्पाञ्चभौतिकसंयुतम् । पुण्याहं वाचयेद्विप्रान् भोजयित्वा ततः परम् ॥ ४७ ॥ २९५ हिरण्यपशुभूम्यादीन् दत्वा तत्र मुदान्वितः । वस्त्रोत्तरीयाभरणैराचार्यं पूजयेत्पुनः ॥ ४८ ॥ एवं हुत्वा महाशान्तिं तथा स्थापनमाचरेत् । 1शिलाभेदे च दोषेषु सर्वेष्वेषु विधिः स्मृतः ॥ ४९ ॥ देवं देव्यौ च कुर्याच्चेत् 2द्विबेरञ्चैकवस्तुना । अन्यथा यदि तत्रापि प्रायश्चित्तञ्च पूर्ववत् ॥ ५० ॥ प्रतिष्ठिते ध्रुवे अन्यत्र स्थापिते शैलं वा मृण्मयं वाऽथ दारवं ताम्रमेव वा । अन्यत्र स्थापितं पूर्वं ध्रुवबेरं ततः परम् ॥ ५१ ॥ आदायान्यत्र न स्थाप्यं स्थापितं चेत्प्रमादतः । महाशान्तिं ततो हुत्वा बिम्बमादाय वै ततः ॥ ५२ ॥ पूर्वस्मिन्नालये सम्यक् स्थापयित्वा समर्चयेत् । अविधिना स्थापिते बिम्बे अविधिकमलक्षण्यमयुक्तञ्चाप्रयोजकम् ॥ ५३ ॥ विरूपं वा विवर्णं वाऽप्यन्यदोषेण संयुतम् । त्यक्त्वान्यद्विधिना कृत्वा लक्षणेन समन्वितम् ॥ ५४ ॥ तदालये प्रतिष्ठाप्य महाशान्तिश्च हूयते । आलयाद्दक्षिणेऽब्जाग्नौ अङ्गहोमस्सुहूयताम् ॥ ५५ ॥ तत्तद्दैवत्यसंयुक्तं परिषन्मन्त्रसंयुतम् । व्याहृतिर्विष्णुसूक्तञ्च सूक्तं ब्राह्मञ्च पौरुषम् ॥ ५६ ॥ 1. शिलाजेषु च दोषेषु क 2. द्वाभ्यामेकेन वस्तुना क. एकविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २९६ वैष्णवं पद्महोमश्च होतव्यं पारमात्मिकम् । हुत्वैव दक्षिणां दत्वा स्थापनं पुनराचरेत् ॥ ५७ ॥ यत्र कर्तृस्मृतिस्तत्र विधिरेष प्रवर्तते । दिव्यादिस्थले विशेषः दैविके चार्षिके क्षेत्रे यथापूर्वं तथा चरेत् ॥ ५८ ॥ अविधिकमलक्षण्यमप्रमाणं न दोषकृत् । तस्मात्सर्वप्रयत्नेन यथापूर्वं तथा चरेत् ॥ ५९ ॥ अन्यथा चेन्महादोष इति पूर्वजशासनम् । कौतुकबेरस्यान्यत्र स्थापने एकस्मिन्नालये बिम्बं कौतुकं स्थापितं तु यत् ॥ ६० ॥ अन्यत्र स्थापितं चेत्तु पद्माग्नावालयोत्तरे । सवैष्णवं तद्दैवत्यं परिषन्मन्त्रसंयुतम् ॥ ६१ ॥ ब्रह्मसूक्तं रुद्रसूक्तं पारमात्मिकमेव च । ‘ईङ्कारादीं’स्तथाष्टाशीत्यङ्गहोमं ततः परम् ॥ ६२ ॥ रात्रिसूक्तञ्च जुहुयाद्विश्वजित्सूक्तमेव च । आदाय पूर्ववत्स्थाने स्थापयेत्सर्वयत्नतः ॥ ६३ ॥ परचक्रभयादिषु कर्तव्यक्रमः परचक्रभयोद्रेकादथवा चोरपीडया । ग्रामालयविनाशे तु जनसञ्चारवर्जिते ॥ ६४ ॥ बालालयप्रकारेण होमं हुत्वा यथाविधि । ध्रुवबेरगतां शक्तिं जङ्गमेषु निवेश्य च ॥ ६५ ॥ २९७ निर्भयान्यालयं नीत्वा पूजयेच्चेन्महाफलम् । ब्राह्मणैरेव सर्वाणि तानि बेराणि वाहयेत् ॥ ६६ ॥ नित्याग्निकुण्डमासाद्य परिषिच्य च पावकम् । आज्येन साज्यचरुणा शान्तिहोमं जुहोति च ॥ ६७ ॥ समिध्यात्मनि वाऽऽरोप्य नित्याग्निञ्च यथाविधि । प्रवेश्य निर्भयं देशं तत्र सौम्याऽलये पुनः ॥ ६८ ॥ आग्नेयमन्दिरे वाऽपि यतीनामाश्रमेषु च । सौम्यमार्गान्यदेवानामालयेषु मठेषु वा ॥ ६९ ॥ गृहेषु वा गृहस्थानामुपकार्यासु वा पुनः । एतेष्वेकं प्रवेश्यैव पूर्वालाभे तथोत्तरे ॥ ७० ॥ सौम्यालयान्यदेशेषु वास्तुहोमावसानके । ततस्सर्वाणि बिम्बानि शुद्धोदैरभिषेचयेत् ॥ ७१ ॥ विना प्रधानस्थानञ्च परिवारालयं तथा । रमणीयप्रदेशेषु विस्तीर्णेषु निवेशयेत् ॥ ७२ ॥ यथापूर्वमुखं वाऽथ विस्तीर्णाभिमुखन्तु वा । प्रतिष्ठाप्य यथालाभं नित्यं विधिवदर्चयेत् ॥ ७३ ॥ तस्यैव परितस्सर्वपरिवारान् समर्चयेत् । तां होमकाले समिधं लौकिकाग्नौ निधाय च ॥ ७४ ॥ हुत्वा होमावसानेऽन्यसमिध्यारोपयेत्पुनः । अथवा पूर्ववत्कुण्डं कृत्वाऽथाऽत्रापि पूर्ववत् ॥ ७५ ॥ रक्षन्नग्निमविच्छिन्नं नित्यहोमं समाचरेत् । नित्ययात्रोत्सवेनापि विना वर्षोत्सवेन च ॥ ७६ ॥ एकविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २९८ नित्यैनैमित्तिकैरन्यैर्यथालाभं समर्चयेत् । मूलालयार्चनं यावद्युक्तं तावत्तु तत्र वै ॥ ७७ ॥ नित्यमेवं यथालाभमर्चयेदिति शासनम् । भये तत्र विमुक्ते तमग्निमारोप्य पूर्ववत् ॥ ७८ ॥ पूर्वालये तु बिम्बानि समानीय च पूर्ववत् । वास्तुहोमं ततो हुत्वा पर्यग्निकरणं तथा ॥ ७९ ॥ पञ्चगव्योक्षणं कृत्वा महाशान्तिं जुहोति च । तां लौकिकाग्नौ समिधं निधायाघारमाचरेत् ॥ ८० ॥ देवं विशेषतोऽभ्यर्च्य रात्रिपूजावसानके । औत्सवार्चागतां शक्तिं कौतुके तु निवेशयेत् ॥ ८१ ॥ पूर्ववत्साधिते कुम्भे समावाह्य तु कौतुकात् । प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ॥ ८२ ॥ सभ्यञ्च पौण्डरीकञ्च द्वावग्नी इति केचन । कुर्यान्नित्याग्निविच्छेदे पञ्चाग्नीनेव पूर्ववत् ॥ ८३ ॥ हौत्रकर्मावसाने तु चाऽवाह्य परिषद्गणान् । तानेव परितेऽभ्यर्च्य तत्तन्मन्त्रां जुहोति च ॥ ८४ ॥ एष एव विशेषः स्यादन्यत्सर्वञ्च पूर्ववत् । मूलालयार्चने अविच्छिन्ने विशेषः मूलालये ध्रुवे नित्यमविच्छिन्नार्चने सति ॥ ८५ ॥ तत्तद्बिम्बगतां शक्तिं ध्रुवे सम्यङ्निवेश्य च । तस्मादावाहयेद्बिम्बे सर्वमन्यत्समं भवेत् ॥ ८६ ॥ २९९ एवं कर्तुमशक्तश्चेत् ध्रुवपूजां समाचरेत् । भयरक्षार्थनिष्कृतिः अतः परं प्रवक्ष्यामि भयरक्षार्थनिष्कृतिम् ॥ ८७ ॥ चोरशत्रुभये वाऽथ परचक्रभयेऽथवा । रक्षार्थं कौतुकादीनां स्नापनौत्सवबेरयोः ॥ ८८ ॥ अन्यलौकिकबिम्बानां प्रादुर्भावगणस्य च । जङ्गमाः प्रतिमाश्चैव भूमिगुप्तिक्रियोचिताः(?) ॥ ८९ ॥ गुप्ते चैव शुचौ देशेऽप्यवटं खानयेद्बुधः । सिकतास्तत्र निक्षिप्य महीदेवीं समर्चयेत् ॥ ९० ॥ ‘आपो हि’ ष्ठेति मन्त्रेण सम्प्रोक्ष्य च यथाविधि । आचार्योऽप्यर्चको वाऽपि यजमानयुतस्तथा ॥ ९१ ॥ देवागारं प्रविश्यैव भक्तैस्सार्धं प्रणम्य च । ‘यावत्कालं भयं माभूत्तावत्कालं महाप्रभो ॥ ९२ ॥ अत्रे देशे श्रिया भूम्या वस त्वं वै जनार्दन’ इति मन्त्रेण देवेशमनुमान्य यथाविधि ॥ ९३ ॥ कौतुकादिषु बिम्बेषु तथा पारिषदेषु च । आहितां शक्तिमादाय ध्रुवे चारोपयेद्बुधः ॥ ९४ ॥ ‘परं रंहे’ ति मन्त्रेण देवमादाय यत्नतः । ‘प्रतद्विष्णु स्तव’ तेति देवं सन्नम्य चादरात् ॥ ९५ ॥ ‘यद्वैष्णव’ मिति प्रोच्य प्राक्छिरश्शाययेत्तथा । अवटं सिकताभिश्च मुत्तिकाभिश्च पूरयेत् ॥ ९६ ॥ एकविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३०० सुदृढं कारयेत्पश्चादालयान्तः प्रविश्य च । देवदेवं प्रणम्यैव जीवस्थाने च सन्न्यसेत् ॥ ९७ ॥ कूर्चं तत्र समभ्यर्च्य नित्यं नैमित्तिकं चरेत् । ध्रुवबेरात्तथा शक्तिं कूर्चे चाऽवाह्य पूजयेत् ॥ ९८ ॥ तत्रापि भयसन्देहे विघ्निते चापि पूजने । अर्चकस्त्वरितो गत्वा देवं ध्यात्वा समाहितः ॥ ९९ ॥ ‘आयातु भगवानि’ ति च ‘याते अग्न’ इति ब्रुवन् । बेरस्थां शक्तिमग्निञ्च स्वात्मन्यारोप्य शीघ्रतः ॥ १०० ॥ जपन् शकुनसूक्तन्तु गुप्तं देशं समाश्रयेत् । यथासुखं तथा गच्छेत्प्रमादरहितं स्थलम् ॥ १०१ ॥ यदि स्यात्स्वर्णजं बिम्बं गृहीत्वा सह गच्छति । तत्राऽवाह्यार्चयेन्नित्यमुत्सवादीनि कारयेत् ॥ १०२ ॥ बल्युत्सवाभ्यां रहितं नित्यं नैमित्तिकं तथा । अभ्युक्षणञ्च स्नपनं यथा शक्तिं च कारयेत् ॥ १०३ ॥ सुवर्णबिम्बरहिते कूर्चे सर्वञ्च कारयेत् । वर्तमानेऽर्चनेऽप्येवमर्चके व्याधिपीडिते ॥ १०४ ॥ शक्त्यावाहनतः पूर्वमर्चकं मृतिसंशये । तत्काले त्वरितस्सोऽपि स्वपुत्रेषु च भ्रातृषु ॥ १०५ ॥ देवशक्तिं तदग्निञ्च सम्यगारोपयेद्बुधः । पुत्रे भ्रातरि नष्टेऽपि कुर्चे चाऽवाह्य चादरात् ॥ १०६ ॥ आराधयेदेवमेव भयनिर्हरणे पुनः । काले स्वस्थे तथा देशे बिम्बान्युत्थाप्य चादरात् ॥ १०७ ॥ ३०१ संशोध्य चाऽलयं सर्वं पुण्याहमपि वाचयेत् । अस्पृश्यस्पर्शने चैव वास्तुहोमञ्च कारयेत् ॥ १०८ ॥ चण्डालाद्यन्त्यजातैश्च बिम्बे स्पृष्टेऽथवा पुनः । कृत्वा जलाधिवासादीन् प्रतिष्ठां पुनराचरेत् ॥ १०९ ॥ कालापेक्षां न कुर्वीत कृत्वा वाऽप्यङ्कुरार्पणम् । प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां सम्यगाचरेत् ॥ ११० ॥ अर्चको हृद्गतां शक्तिं कुम्भे चाऽवाहयेत्क्रमात् । एष एव विशेषः स्यादन्यत्सर्वञ्च पूर्ववत् ॥ १११ ॥ नित्यार्चनविधानेन नित्यपूजां समाचरेत् । नित्यहोमञ्च हुत्वा तु बलिं तत्र प्रदापयेत् ॥ ११२ ॥ औत्सवादिष्वलब्धेषु सर्वं कुर्याच्च कौतुके । (बिम्बानि खानयेद्भूमौ गुप्ते देशे सुरक्षितम्) ॥ कौतुकादिगतां शक्तिं ध्रुवबेरे निवेश्य च । पुनर्दर्भास्तृते श्वभ्रे निखनेत्सुदृढं यथा ॥ पूर्ववत्प्रार्थनामन्त्रमुक्त्वा सम्यग्विधीयते । ‘यावत्कालं भयं नास्ति तावत्कालन्तु तत्र वै ॥ अत्र देशे श्रिया भूम्या वस त्वं हे जनार्दन । इत्युक्त्वा प्रार्थनामन्त्रं जप्त्वा देवं प्रणम्य च ॥ कौतुकादीन् समावाह्य तस्मिन् गर्ते तु शाययेत् । सिकताभिः प्रपूर्यैव तद्गर्तं सुदृढं यथा ॥ तत्तत्स्थानेषु सर्वेषु द्वादशाङ्गुलसम्मितम् । सन्न्यस्य कूर्चं प्रत्येकं तत्राऽवाह्य समर्चयेत् ॥ एकविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३०२ अर्चनान्ते पुनस्तस्मादुद्वासनमथाऽचरेत् ।) स्नपने तत्र सम्प्राप्ते ध्रुवे बद्धै्वव कौतुकम् ॥ ११३ ॥ तस्मात्कूर्चे समावाह्य तद्द्रव्यैः प्रोक्षणं चरेत् । समभ्यर्च्य निवेद्यैव तथैवोद्वासयेत्पुनः ॥ ११४ ॥ कालोत्सवस्य सम्प्राप्तौ ध्वजमारोप्य पूर्ववत् । होमञ्च बलिदानञ्च नित्यं विधिवदाचरेत् ॥ ११५ ॥ चक्रवीशामितान् पात्रेष्वावाह्याऽभ्यर्चनां चरेत् । विधिनां बलिमाराध्य प्रदक्षिणमथाऽचरेत् ॥ ११६ ॥ उत्सवान्ते बलेश्शक्तिं ध्रुवबेरे निवेश्य च । तस्मात्कूर्चे समावाह्य प्रभूतञ्च निवेदयेत् ॥ ११७ ॥ ध्रुवबेरे समारोप्य दद्यात्पुष्पाञ्जलिं पुनः । ततस्तीर्थदिने प्रातरुत्सवे च कृते सति ॥ ११८ ॥ निशाचूर्णाभिषेकञ्च स्नपनं कलशैरपि । कृत्वा तु कूर्चे देवाग्रे स्नपनं पुनराचरेत् ॥ ११९ ॥ आरम्भदिवसे कुम्भं संसाध्य ध्रुवबेरतः । दीपाद्दीपमिवावाह्य तेन कृत्वोत्सवं पुनः ॥ १२० ॥ तीर्थान्ते स्नपनान्ते तु पुनरुद्वासयेत् ध्रुवे । कालोत्सवे तु विच्छिन्ने प्रायश्चितं समाचरेत् ॥ १२१ ॥ सुकाले बिम्बमुद्धृत्य प्रतिष्ठां पुनराचरेत् । सभ्याब्जकुण्डे द्वे कृत्वा नित्यमग्निं प्रणीय च ॥ १२२ ॥ पुनः प्रतिष्ठामार्गेण सुर्वं कुर्याद्यथाविधि । कौतुकादिषु गुप्तेषु विच्छिन्ने वा ध्रुवार्चने ॥ १२३ ॥ ३०३ कृत्वा तु ध्रुवबेरस्य अर्चनाहीननिष्कृतिम् । तस्मात्तु कौतुकादीनां प्रतिष्ठामाचरेत्पुनः ॥ १२४ ॥ चण्डालाद्यन्त्यजस्पर्शे प्रायश्चित्तं तदीरितम् । हुत्वा शुद्धिं पुनः कृत्वा प्रतिष्ठां पुनराचरेत् ॥ १२५ ॥ अङ्गहीनं यदि भवेत् ध्रुवबेरं तदेव हि । अयुक्तं यदि चोद्धर्तुं कौतुकस्नापनौत्सवाः ॥ १२६ ॥ कृत्वा च दारवं बिम्बं याचितं बिम्बमेव वा । बालालये प्रतिष्ठाप्य नवीकरणमाचरेत् ॥ १२७ ॥ महाप्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत् । (भिन्ने घटे यथाकाशं महाकाशे प्रलीयते) ॥ १२८ ॥ बेरनाशे तथा शक्तिर्विश्वस्मिन्नेव लीयते । प्राकप्रत्यग्दक्षिणादिक्षु विदिक्षु च तथाऽऽनते ॥ १२९ ॥ कुक्षिच्छिद्रे तथा दीर्घे पार्श्वहीने कटिक्षये । ऊर्जङ्घाक्षये चैव मुखशोषे तथैव च ॥ १३० ॥ मकुटे दोषसंयुक्ते सर्वेपाङ्गक्षये तथा । प्रमाणपरिहीने च पादगुल्फक्षये तथा ॥ १३१ ॥ कर्णनासाक्षये चापि क्षिप्रं शान्तिञ्च कारयेत् । आलयाद्दक्षिणे चाग्नौ जुहुयात्पारमात्मिकम् ॥ १३२ ॥ ‘ईङ्कारादीं’श्च जुहुयादष्टाशीत्याहुतिं तथा । तद्दैवत्यञ्च जुहुयादष्टोत्तरसहस्रकम् ॥ १३३ ॥ ब्राह्मणान्भोजयित्वैव दद्यादाचार्यदक्षिणाम् । तत्तल्लक्षणसम्पन्नं कृत्वा संस्थापयेत्पुनः ॥ १३४ ॥ एकविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३०४ तत्तदुक्तपदादन्यपदेषु स्थापयेद्यदि । ऊर्ध्वदृष्ट्यादिदोषेषु ऊर्ध्वदृष्ट्यामधोदृष्ट्यां तिर्यग्दृष्ट्यां तथैव च ॥ १३५ ॥ असौम्यक्रूरदृष्ट्याञ्च प्रायश्चित्तं समाचरेत् । वैष्णवं पश्चिमेऽब्जाग्नौ तद्दैवत्यं शताष्टकम् ॥ १३६ ॥ ‘ईङ्कारादीं’ स्तु जुहुयादष्टाशीतिमतः परम् । भोजयित्वा तथा विप्रानाचार्यादींश्च पूजयेत् ॥ १३७ ॥ संस्थाप्योक्तपदे सम्यग्विधिना चार्चयेत्पुनः । ध्रुवकौतुकपीठे मानहीने ध्रुवकौतुकयोः पीठे मानहीनेऽधिकेऽपि च ॥ १३८ ॥ तद्दैवत्यञ्च जुहुयादष्टाधिकसहस्रकम् । मन्त्रैश्च परिवाराणां हुत्वा विप्रांश्च भोजयेत् ॥ १३९ ॥ सलक्षणं तथा पीठं कृत्वा संस्थापयेत्पुनः । रत्नन्यासवहीने तु 1पीठसङ्घातकर्मणि ॥ १४० ॥ चालयित्वा ततः पीठाच्छान्तिहोमावसानके । रत्नन्यासं तथा कृत्वा पुनस्सङ्घातमाचरेत् ॥ १४१ ॥ रत्नन्यासे कृते पद्मसङ्घाते मन्त्रवर्जिते । शान्तिं हुत्वा विधानेन तत्तन्मन्त्रं स्पृशन् जपेत् ॥ १४२ ॥ यद्याग्नेयविधानेन केवलं शिल्पिनाऽथवा । कृते तु पद्मसङ्घाते संस्नाप्य कलशैस्तथा ॥ १४३ ॥ 1. पद्मसङ्घातकर्मणि क. ३०५ हुत्वा पश्चान्महाशान्तिं तत्तन्मन्त्रं जपेत्तथा । तथैव मूलबेरे तु स्थापिते केवलस्थले ॥ १४४ ॥ देवं विशेषतोऽभ्यर्च्य ‘क्षम’ स्वेति प्रणम्य च । कुम्भे देवं समावाह्य पीठं कृत्वा सलक्षणम् ॥ १४५ ॥ पीठे देवं समारोप्य शान्तिं हुत्वा यथाविधि । पर्यग्निपञ्चगव्याभ्यां पुण्याहेन च शोधयेत् ॥ १४६ ॥ पञ्चगव्याधिवासादीन् कृत्वा संस्नाप्य पूर्ववत् । प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ॥ १४७ ॥ नवाहं वाऽथ सप्ताहं पञ्चाहं त्रियहन्तु वा । देवं विशेषतोऽभ्यर्च्य ‘क्षम’ स्वेति प्रणम्य च ॥ १४८ ॥ ब्राह्मणान् भोजयित्वा तु दद्यादाचार्यदक्षिणाम् । इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे कौतुकबेरप्रायश्चित्तविधिर्नामैकविंशोऽध्यायः॥