2 ।
देवदेवस्य आ. 2. द्वाविंशोऽध्यायः ख. २६७ विंशोऽध्यायः भूपरीक्षादिप्रायश्चित्तम् अतः परं प्रवक्ष्यामि भूपरीक्षादिनिष्कृतिम् । प्रायो दोषसमुत्पत्तिः 1चित्तिस्तस्य निरासनम् ॥ १ ॥ तस्य दोषस्य सन्धानं प्रायश्चित्तमितीरितम् । तदेव दिनमारभ्य नवमे वाऽथ सप्तमे ॥ २ ॥ पञ्चमेऽहनि वा कुर्यात्पूर्वमेवाङ्कुरार्पणम् । अङ्कुरार्पणहीने अङ्कुरार्पणहीने तु भूपरीक्षादिकर्मणाम् ॥ ३ ॥ ब्रह्मादीनान्तु षण्णां वै मन्त्रैर्हुत्वा तु वैष्णवैः । पालिकाधिपतीनाञ्च जयादीनाञ्च मूर्तिभिः ॥ ४ ॥ कृत्वाऽङ्कुरार्पणं पशचात्तत्तत्कर्म समाचरेत् । पालिकानामभावे तु शरावान्वा समाहरेत् ॥ ५ ॥ दर्भैर्दग्ध्वोपयुक्तान्वा गृह्णीयादिति केचन । विशेषार्चनहीने तु द्विगुणञ्च समर्चयेत् ॥ ६ ॥ अष्टोपचारैरभ्यर्च्य हविस्मम्यङ्निवेदयेत् । विशेषार्चनमित्युक्ते सर्वत्र द्विजसत्तमाः ॥ ७ ॥ विशेषेणार्चनं कुर्यात्कौतुके चाङ्कुरार्पणे । अन्यालयाङ्गबिम्बानामुत्सवाद्यङ्कुरार्पणे ॥ ८ ॥ 1. चित्तम् क. श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २६८ विशेषतोऽर्चनं यत्तत्बेर एव समाचरेत् । प्रमाणहीनायां पङ्क्तौ यजेत्पङ्क्तीशमूर्तिभिः ॥ ९ ॥ सप्तहस्तप्रमाणञ्चेत् स्थण्डिलं कल्पयेत्पदम् । पञ्चहस्तप्रमाणञ्चेदुपपीठपदं नयेत् ॥ १० ॥ पङ्क्तिंस्त्रिहस्तमाना चेत्कुर्यान्नवपदं तथा । सप्तसप्तपदे मध्ये चैकं ब्राह्ममुदाहृतम् ॥ ११ ॥ परितोऽष्टौ जयादीनां तद्बहिष्षोडशे पदे । कल्पयित्वा तु तद्बाह्ये चतुर्विंशतिके पदे ॥ १२ ॥ दिक्षु द्वाराणि चत्वारि शेषादीनां पदाष्टकम् । द्वाराणां पार्श्वयोश्शेषाः पालिकास्थापनाय वै ॥ १३ ॥ शेषञ्च वक्रतुण्डञ्च प्राग्द्वारोभयपार्श्वयोः । वामदक्षिणयोः पूज्यौ चक्रवीशौ तु दक्षिणे ॥ १४ ॥ पङ्त्तीशशङ्खौ वारुण्यां सोमशान्तावुदग्दिशि । एवमेव प्रकुर्वीत सप्तसप्तपदे तथा ॥ १५ ॥ पञ्चपञ्चपदे मध्ये ब्रह्मणश्चैकमुच्यते । परितोऽष्टौ जयादीनां तद्बहिष्षोडशांशके ॥ १६ ॥ दिक्षु द्वाराणि चत्वारि शेषादींस्तेषु पूजयेत् । शेषविघ्नेशपङ्क्तीशसोमांस्तद्द्वारपार्श्वगान् ॥ १७ ॥ ईशानसोमयोर्मध्ये विष्वक्सेनं समर्चयेत् । शिष्टानि पालिकादीनां स्थापनाय प्रकल्पयेत् ॥ १८ ॥ मध्ये नवपदे चैकं ब्रह्मणः परिकीर्तितम् । शेषादीनां जयादीनां पालिकानां तथैव च ॥ १९ ॥ २६९ तद्बहिश्च पदेष्वष्ठस्वष्टावेवात्र पालिकाः । अङ्कुरार्पणमारभ्य तृतीये पञ्चमेऽथवा ॥ २० ॥ सप्तमे नवमे वाऽह्नि तत्तत्कर्म समाचरेत् । अतश्चोर्ध्वमयुग्मेषु दिनेष्वेव यथाविधि ॥ २१ ॥ महाशान्तिञ्च हुत्वा तु कृत्वा सद्योऽङ्कुरार्पणम् । ब्राह्मणान्भोजयित्वा तु तत्तत्कर्म समाचरेत् ॥ २२ ॥ कर्मणां साधिवासानां सद्यश्चेदङ्कुरार्पणम् । कारयेत्पूर्वरात्रौ तु पूर्वमेवाधिवासनम् ॥ २३ ॥ कृत्वाऽक्षिमोचनं पश्चात् जलादिष्वधिवास्य च । वास्तुहोमादिकं कर्म पूर्ववत्सर्वमाचरेत् ॥ २४ ॥ दिनद्वयेऽप्यलब्धे तु सद्यः कर्तंृ त्वरान्वितः । कृत्वाऽङ्कुरार्पणं सद्यो नयनोन्मीलनादिकम् ॥ २५ ॥ कृत्वा सद्यस्तदह्ने्यव स्थापयेदिति केचन । भूपरीक्षायाम् भूपरीक्षामकृत्वा तु कृतं तत्कर्षणं यदि ॥ २६ ॥ भूसूक्तं भूमिदैवत्यं हुत्वा भूमिं परीक्ष्य च । पुनश्च कर्षणं कुर्यादिति पूर्वजशासनम् ॥ २७ ॥ अकाले भूपरीक्षायां तथैव जुहुयाद्बुधः । परीक्षेत शुभे काले भूमिं पूर्वोक्तमार्गतः ॥ २८ ॥ भूपरीक्षणकाले तु दुर्निमित्तसमुद्भवे । वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ २९ ॥ विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २७० हुत्वा तु विष्णुगयत्र्या सावित्र्याऽष्टशतं यजेत् । शाकुनं स्वस्तिसूक्तञ्च दशकृत्वो जपेत्तथा ॥ ३० ॥ कन्याया भोजने हीने दौर्गं हुत्वा तु भोजयेत् । कन्याया दीपविच्छेदे पतने पङ्कजस्य च ॥ ३१ ॥ हुत्वा श्रीसूक्तदैवत्ये पश्चात्कर्म समाचरेत् । गृह्णीयात्पङ्कजाभावे कुमुदं धवलं 1नवम् ॥ ३२ ॥ आरभेत क्रियास्सर्वास्समभ्यर्च्य विनायकम् । विनायकार्चने हीने तन्मन्त्रेण शतं यजेत् ॥ ३३ ॥ कर्षणे कर्षणे च कृते काले क्रियाहीने तथैव च । विपर्यासे च सर्वत्र भूसूक्तं भूमिदैवतम् ॥ ३४ ॥ हुत्वा तत्तत्प्रकुर्वीत तत्तन्मन्त्रं समुच्चरन् । उक्तवृक्षस्य चालाभे हलादीनां यथाक्रमम् ॥ ३५ ॥ तद्वृक्षाधिपमभ्यर्च्य शक्तितो दक्षिणां ददेत् । वैष्णवं भूमिदैवत्यं यजेत्तत्र विधानतः ॥ ३६ ॥ उक्तप्रमाणहीनेषु हलादिषु तथैव च । प्राजापत्यञ्च याम्यञ्च रौद्रं भौतिकसंयुतम् ॥ ३७ ॥ आदावन्ते च जुहुयाद्व्याहृत्यन्तं सवैष्णवम् । भेदे छेदे तथा तेषां रज्जुच्छेदे तथैव च ॥ ३८ ॥ 2वृषभाङ्गविहीने च पद्माग्नौ वैष्णवं यजेत् । ब्राह्मञ्च वीशदैवत्यं प्राजापत्यञ्च भौतिकम् ॥ ३९ ॥ 1. शुभं क 2. वृषभावङ्गहीनौ चेत् क. २७१ आर्षानपि च मन्त्राश्च तद्दैवत्यसमन्वितम् । कापिलेन घृतेनैव महाव्याहृतिभिर्यजेत् ॥ ४० ॥ देवेशमर्चयित्वा तु रूप्यं दद्याद्यथोदयम् । व्रणयुक्ते तु तत्काले सूक्ते वैष्णवपौरुषे ॥ ४१ ॥ मिन्दाहुती च विच्छिन्नं हुत्वाऽचार्याय दीयताम् । निष्काधिकसुवर्णन्तु दक्षिणां देवसन्निधौ ॥ ४२ ॥ सुप्ते मूढे तथा भ्रान्ते दुर्गमे पतिते वृषे । रुदिते विष्णुगायत्र्या पद्माग्नौ तु सहस्रकम् ॥ ४३ ॥ हुत्वा तु दक्षिणां दद्यात् केशदन्तनखादिषु । कपालभस्मपाषाणतुषशल्येषु सत्सु च ॥ ४४ ॥ विसृज्य तानि सर्वणि प्रोक्षणैः प्रोक्षयेत्तथा । पञ्चगव्यैस्समभ्युक्ष्य वास्तुहोमं यजेत्पुनः ॥ ४५ ॥ कर्षणे तु विहीने तु हीने बीजनिवापने । सद्यः कर्तुमशक्तो वा कालक्षेपभयात्तथा ॥ ४६ ॥ पद्माग्नौ रात्रिसूक्तञ्च विष्णुसूक्तञ्च वैष्णवम् । गोदानसूक्तं विच्छिन्नं हुत्वा बीजं प्रदाय च ॥ ४७ ॥ कर्षयित्वा भुवं पश्चात् पलालानि तृणानि च । विकीर्य भुवि सर्वत्र गोगणेभ्यो निवेदयेत् ॥ ४८ ॥ उप्तेषु तेषु नष्टेषु 1वन्ध्यत्वादप्ररोहिषु । पूर्वोक्तनिष्कृतिं हुत्वा तृणान्यास्तीर्य तत्र वै ॥ ४९ ॥ 1. तं ध्यात्वाऽथ क. विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २७२ गोगणेभ्यो निवेद्यैव पश्चात्कर्म समाचरेत् । एकदेशक्रियाहीने कर्षणे बीजवापने ॥ ५० ॥ तत्कर्मणाञ्च सर्वेषां प्रायशिचत्तमिदं स्मृतम् । गृहीतामन्यदेवार्थं न गृह्णीयात्कदाचन ॥ ५१ ॥ अज्ञानाद्यदि गृह्णाति विनश्यति न संशयः । प्रतिलोमसमीपेषु न कुर्याद्विष्णुमन्दिरम् ॥ ५२ ॥ चण्डालपक्कणात्क्रोशादर्वाङ्रनैव प्रकल्पयेत् । तथैव पुल्कसावासात्तथा तक्षककारुकात् (?) ॥ ५३ ॥ अनुलोमनिवासेऽपि न कुर्यादिति केचन । अनुलोमनिवासेषु कुर्याच्चेत्तान्त्रिकेण तु ॥ ५४ ॥ हीने शान्तार्चने हुत्वा तद्दैवत्यं सहस्रकम् । वीशचक्रार्चने हीने तद्दैवत्यं तथा यजेत् ॥ ५५ ॥ तिलसर्षपमिश्रेण चरुणा जुहुयात्तथा । तरुणालयहीने तरुणालयहीने तु निष्फलं सर्वमुच्यते ॥ ५६ ॥ पौण्डरीके घृताभ्यक्तैः जुहुयाच्छ्वेतपङ्कजैः । क्रमेण रात्रिसूक्तञ्च पारमात्मिकमेव च ॥ ५७ ॥ ईङ्कारादीन्त्स्मरन् देवं वृषभं भक्तितो ददेत् । बालालयेऽर्चनं कुर्वन् पश्चात्कर्म समाचरेत् ॥ ५८ ॥ तरुणालयबेरविचारः अलाभे लोहबिम्बानां लब्धं बिम्बं समाहरेत् । अलाभे नानुरूपं वा याचितं वा समाहरेत् ॥ ५९ ॥ २७३ याचेत श्रोत्रियागाराल्लौकिकं वाऽन्यमन्दिरात् । आलयाङ्गं न याचेत कौतुकादित्रयं बुधः ॥ ६० ॥ याचितं श्रोत्रियागारादनुरुपं ध्रुवस्य चेत् । तमेवं कौतुकं तत्र प्रतिष्ठाप्य समर्चयेत् ॥ ६१ ॥ अन्यालयाद्यर्चितं चेत्तत्क्रियान्ते पुनः क्रमात् । पूर्वाऽलयं समानीय शान्तिं हुत्वा समर्चयेत् ॥ ६२ ॥ स्थापितं नानुरुपञ्चेद्वैष्णवं मन्त्रमुच्चरन् । सहस्रकृत्वो हुत्वा तु कौतुकं स्थापयेच्छुभम् ॥ ६३ ॥ वास्तुसवनपुण्याहहीने वास्तुहोमविहीने तु पाञ्चभौतिकवैष्णवै । महाव्याहृतिसंयुक्तं हुत्वा तत्पुनराचरेत् ॥ ६४ ॥ पुणयाहवाचने हीने विप्रान् शक्त्यैव भोजयेत् । ब्रह्मपद्मावटे ब्रह्मपद्मावटे तस्मिन्कपालास्थ्यादिदर्शने ॥ ६५ ॥ वैष्णवं भूमिदैवत्यं ब्राह्ममष्टोत्तरं शतम् । हुत्वाऽन्यत्रैव तत्कुर्याद्ब्रह्मपद्मावटं पुनः ॥ ६६ ॥ वैष्णवं भूमिदैवत्यं प्राजापत्यं यजेत्पुनः । भिन्ने तत्र घटे स्रावे जनानां भयसम्भवे ॥ ६७ ॥ कलहे रुधिरस्रावे वैष्वक्सेनं यजेत्क्रमात् । गारुडं वैष्णवं ब्राह्ममैन्द्रञ्चैव समाहितः ॥ ६८ ॥ रात्रिसूक्तञ्च हुत्वा तु प्राजापत्यसमन्वितम् । वामावर्ते वारुणञ्च वायव्यं भूमिदैवतम् ॥ ६९ ॥ विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २७४ सङ्कुलञ्चेत्तदा वारि ब्राह्मं हुत्वा सवारुणम् । स्पन्दने चलने चैव पांसुच्छन्ने तथैव च ॥ ७० ॥ वारुणं वैष्वक्सेनञ्च जुहुयात्तस्य शान्तये । पद्मेऽधरोत्तरे तस्मिन् पार्श्वस्थे पतितेऽपि च ॥ ७१ ॥ स्पन्दने पत्रकौटिल्ये परिम्लाने च भेदने । ब्राह्मं तद्देवहोमञ्च वारुणं भार्गवं यजेत् ॥ ७२ ॥ विदिग्गते तथा पद्मे ब्राह्ममारुषमेव च । शुङ्कुस्थापनहीने शुङ्कुस्थापनहीने च परिषद्धोममाचरेत् ॥ ७३ ॥ शुद्धप्राच्याऽथवा कुर्याद्दिक्परिच्छेदमत्वरः । आरभ्य मुख्यमार्गन्तु तद्गौणं कारयेद्यदि ॥ ७४ ॥ अनुमान्य च तं देवं शान्तिं हुत्वा यथाक्रमम् । दत्वा च दक्षिणां देवं युक्त्याभ्यर्च्य निवेद्य च ॥ ७५ ॥ आरब्धन्तु यथापूर्वं तथैव पुनराचरेत् । आद्येष्टकायाम् आद्येष्टकामकृत्वा तु विमानं क्रियते यदि ॥ ७६ ॥ ग्रामस्य यजमानस्य राष्ट्रस्य महती विपत् । तस्मात्तदपहाराय महाशान्तिं तथा यजेत् ॥ ७७ ॥ आद्येष्टकाञ्च सन्न्यस्य विमानं कारयेत्पुनः । आद्येष्टकाक्रियायान्तु न्यूनायां मन्त्रपर्यये ॥ ७८ ॥ २७५ इष्टकाग्रे शिलाग्रे च विपर्यासे तथैव च । रत्नन्यासविहीने च सर्वदैवत्यपूर्वकम् ॥ ७९ ॥ वैष्णवं विष्णुसूक्तञ्च पैरुषं सूक्तमेव च । मिन्दाहुती महीसूक्तं विच्छिन्नं जुहुयात्क्रमात् ॥ ८० ॥ पूर्वोक्तेन विधानेन कारयेदिति शासनम्1 । विमाने प्रस्तरे तस्मिन्नलङ्कारे च सर्वशः ॥ ८१ ॥ हीने चाङ्के विमाने च प्रतिखण्डविपर्यये । शान्तिकादिविमाने तु तले त्वन्योन्यसङ्करे ॥ ८२ ॥ द्वारस्याभ्यन्तरस्यापि भित्तेः हीनेऽधिके तथा । न्यक्षादीनां चतुर्णाञ्च शतकृत्वो यजेत्क्रमात् ॥ ८३ ॥ मध्ये तु पौण्डरीकाग्नौ पद्महोमं जुहोति च । जुहुयाद्रात्रिसूक्तञ्च शतकृत्वो यजेत्क्रमात् ॥ ८४ ॥ सहस्राहुतिपर्यन्तं यथोक्तं कारयेद्बुधः । अन्योन्यं गण्यसाङ्कर्यं नाचरेच्छान्तिकादिषु ॥ ८५ ॥ अद्भुते शान्तिकं गण्यं योजयेत्सार्वदेशिकम् । प्राकाराद्येष्टकाहीने परिवाराधिदैवतम् ॥ ८६ ॥ वैष्णवेन समायुक्तं दशकृत्वो जुहोति च । गोपुराद्येष्टकाहीने द्वारपालाधिदैवतम् ॥ ८७ ॥ धात्रादीनान्तु षण्मन्त्रान् दशवारं सवैष्णवम् । आद्येष्टकानां विन्यासे हीने चेन्मण्डपादिषु ॥ ८८ ॥ 1. अत्र २४ अध्यायसमाप्तिः ख. विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २७६ तन्मण्डपाधिदैवत्यं वैष्णवेन शतं यजेत् । महानसस्य हीने चेद्धविरक्षकदैवतम् ॥ ८९ ॥ श्रीदैवत्यञ्च तत्सूक्तमाग्नेयं वैष्णवं यजेत् । भूतपीठे आद्येष्टका आद्येष्टकाक्रमं वक्ष्ये भूतपीठप्रकल्पने ॥ ९० ॥ इष्टकां वा शिलां वाऽथ गृहीत्वा पूर्वसङ्ख्यया । अधिवासादिकर्माणि कृत्वा पूर्वोक्तमार्गतः ॥ ९१ ॥ मन्त्रौ तद्भूतदैवत्यौ वैष्णवेन समन्वितौ । अष्टोत्तरशतं हुत्वा भूतेभ्यश्च ततः परम् ॥ ९२ ॥ यक्षेभ्यश्च पिशाचेभ्यो नागेभ्यश्च जुहोति च । चतुर्वेदादिमन्त्रैस्तु स्थापयेच्चतुरिष्टकाः ॥ ९३ ॥ तत्राप्याद्येष्टकाहीने कृते सति तपोधनाः । जुहुयाद्भूतमन्त्राभ्यां वैष्णवेन युतं शतम् ॥ ९४ ॥ आधिवासोचितैर्मन्त्रैः पीठं संस्नाप्य वारिणा । संस्नाप्य सप्तकलशैर्होमं हुत्वा च पूर्ववत् ॥ ९५ ॥ चतुर्वेदादिमन्त्रास्तांश्चतुर्दिक्षु तथा जपेत् । साधारणनिष्कृतिः कर्मणामपि सर्वेषां प्रच्युतावुक्तनिष्कृतिः ॥ ९६ ॥ हुत्वा तदुक्तहोमान्ते तत्तन्मन्त्रान् जपेत्क्रमात् । परिवारालयानाञ्च हरेरुक्तप्रमाणतः ॥ ९७ ॥ आद्येष्टकादिकं सर्वं कुर्यात्तन्मन्त्रपूर्वकम् । २७७ गर्भन्यासहीने गर्भन्यासक्रियाहीने कालातीते विपर्यये ॥ ९८ ॥ वैष्णवं भूमिदैवत्यं श्रीदैवत्यं तथैव च । विष्णुसूक्तञ्च जुहुयात्पौरुषं सूक्तमेव च ॥ ९९ ॥ मिन्दाहुती च विच्छिन्नं महीसूक्तं क्रमाद्यजेत् । पूर्ववत्सन्न्यसेद्गर्भं तत्तत्परिषदां स्मृतम् ॥ १०० ॥ मूर्धेष्टकान्यासे मूर्धेष्टकायां हीनायां कालेऽतीते विपर्यये । आद्येष्टकायां सम्प्रोक्तं प्रायश्चित्तं जुहोति च ॥ १०१ ॥ अङ्गहोमं ततो हुत्वा पूर्वोक्तविधिना चरेत् । स्थूपिशूलादिहीने स्थूपिशूलादिहीने तु ध्रुवसूक्तं समुच्चरन् ॥ १०२ ॥ सन्न्यसेदिष्टकामेकां तत्र रत्नानि सन्न्यसेत् । दिक्ष्विष्टकाश्चतस्रस्तु स्थापयित्वा तु पूर्ववत् ॥ १०३ ॥ मध्ये स्थूपिं प्रतिष्ठाप्य सुधया कारयेदृढम् । परिवारालयानाञ्च गोपुराणां तथैव च ॥ १०४ ॥ वर्णलेपादिहीने मूर्धेष्टकायां हीनायां वर्णलेपविपर्यये । सहस्राहुतिमब्जाग्नौ वैष्णवं जुहुयात्तथा ॥ १०५ ॥ सुधाकर्म पुनः कुर्याद्वर्णलेपं तथैव च । अग्न्युल्काशनिधूमाद्यैर्दोषयुक्ते च मन्दिरे ॥ १०६ ॥ विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २७८ शान्तये तस्य जुहुयादीङ्कारादींस्तथैव च । मिन्दाहुती च विच्छिन्नं पारमात्मिकमेव च ॥ १०७ ॥ ब्राह्मणान् भोजयित्वा तु दद्यादाचार्यदक्षिणाम् । बेरेऽग्निस्पर्शे बेरेऽग्निस्पर्शेनेऽब्जाग्नौ महाशान्तिं दिनत्रयम् ॥ १०८ ॥ हुत्वा शताष्टकलशैः स्नापयित्वा ततः परम् । प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ॥ १०९ ॥ प्राकारेष्वग्निदग्धेषु प्राकारेष्वग्निदग्धेषु तत्रस्थपरिषद्गणान् । संस्नाप्यैव समभ्यर्च्य तेषां मन्त्रं सवैष्णवम् ॥ ११० ॥ चतुर्वेदादिमन्त्रांश्च हुत्वा विप्रांश्च भोजयेत् । देवं विशेषतोऽभ्यर्च्य हविस्सम्यङ्निवेदयेत् ॥ १११ ॥ दारुसङ्ग्रहकाले तु विपरीतं भवेद्यति । यजमानो गुरुः स्नात्वा तत्राब्जाग्निं प्रकल्प्य च ॥ ११२ ॥ जुहुयाद्रात्रिसूक्तन्तु श्रीसूक्तं 1वैष्णवं तथा । वैष्णवं विष्णुसूक्तञ्च गृह्णीयात्पूर्ववत्पुनः ॥ ११३ ॥ शूलस्थापनहीने शूलसंथापने हीने समाप्ते सति मन्दिरे । भवेत्पिशाचावासः स वास्तुहोमं यजेत्पुनः ॥ ११४ ॥ पौण्डरीके तु तन्मध्ये महाशान्तिं जुहोति च । हिरण्यपशुभूम्यादीन् दत्वा कर्म समारभेत् ॥ ११५ ॥ 1. दैवतं आ. २७९ एकमासे भवेदेवं द्विमासे द्विगुणं भवेत् । एवं संवर्धयेत्प्राज्ञो यावत्संवत्सरावधि ॥ ११६ ॥ संवत्सरेऽप्यतीते तु महाशान्तिं जुहोति च । हिरण्यपशुभूम्यादीन् दत्वा विप्रांश्च भोजयेत् ॥ ११७ ॥ एवमाद्येष्टकादीनां हुत्वा तत्तन्मनुं स्मरन् । तत्तन्मन्त्रजपं कृत्वा शूलं संस्थापयेत्पुनः ॥ ११८ ॥ मासमेकं महाशान्तिं द्वादशाब्दात्परं यजेत् । कर्षणादीनि कर्माणि कुर्यात्सर्वाणि पूर्ववत् ॥ ११९ ॥ ध्रुवबेरक्रियाहीने शूले संस्थापिते यदि । जुहुयात्पौण्डरीकाग्नौ विष्णुसूक्तमनुस्मरन् ॥ १२० ॥ विच्छिन्नञ्चैव हुत्वा तु मिन्दाहुत्या च हूयताम् । हुत्वा तु सप्तसमिधो देवेशमनुमान्य च ॥ १२१ ॥ भूमिञ्च गुरवे दत्वा तत्तत्कर्म समाचरेत् । एवं मासे तु सम्प्रोक्तं द्वितीये द्विगुणं भवेत् ॥ १२२ ॥ वर्धयेदेवमेवैतत् यावत्संवत्सरावधि । संवत्सरेऽप्यतीते तु पौण्डरीकञ्च कारयेत् ॥ १२३ ॥ कुर्यादाहवनीयादीन् चतुर्दिक्षु यथाक्रमम् । आघारान्ते तु होतव्ये सहस्राहुतिवैष्णवे ॥ १२४ ॥ विष्णुसूक्तञ्च जुहुयात्तत्तद्धोमे शताष्टकम् । दिग्दैवत्यञ्च हुत्वा तु दक्षिणाञ्च ददेत्तथा ॥ १२५ ॥ विप्राणां भोजनं कृत्वा दक्षिणाञ्च स्वशक्तितः । द्वितीये द्विगुणञ्चैव वर्धयेद्वादशावधि ॥ १२६ ॥ विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २८० द्वादशाब्दे व्यतीते तु कर्षणादीनि कारयेत् । पौण्डरीके तु कूष्माण्डं पञ्चवारुणसंयुतम् ॥ १२७ ॥ पारमात्मिकमीङ्कारानङ्गहोमं ततः परम् । पौरुषं विष्णुसूक्तञ्च हुत्वा विप्रांश्च भोजयेत् ॥ १२८ ॥ पञ्चनिष्कसुवर्णञ्च दद्यादाचार्यदक्षिणाम् । वास्तुहोमं ततो हुत्वा पुण्याहमपि वाचयेत् ॥ १२९ ॥ कवाटबोधिकास्थूणासूत्तरे दोषसंयुते । वृद्धौ प्रमाणहीने च जीर्णे दग्धे च तं त्यजेत् ॥ १३० ॥ अन्यत्प्रमाणसंयुक्तं गृहीत्वा योजयेत्पुनः । ‘आपो हि ष्ठा’ दिभिः प्रोक्ष्य जुहुयाद्वैष्णवं शतम् ॥ १३१ ॥ भुवङ्गे च पतङ्गे च कवाटे स्तम्भयोर्द्वयोः । धात्रादीन् षट् समावाह्य विधिनैव समर्चयेत् ॥ १३२ ॥ अन्यालयोपयुक्ताश्च अन्यार्थं स्वीकृताश्च याः । हुताशनपरीताश्च त्याज्या दारुशिलेष्टकाः ॥ १३३ ॥ विमानं नवधा मार्गे यन्मार्गेण प्रकल्पितम् । कारयेत् ध्रुवबेरन्तु तन्मार्गेणाधिकेन वा ॥ १३४ ॥ ततो हीनं न कर्तव्यं कौतुकादित्रयं तथा । आलयस्य विपर्यासे तथा बेरविपर्यये ॥ १३५ ॥ शूलदारुविपर्यासे कल्पनादिविपर्यये । ब्राह्मञ्च विष्णुसूक्तञ्च गारुडं सौम्यमेव च ॥ १३६ ॥ प्राजापत्यञ्च रौद्रञ्च सहस्रं जुहुयात्क्रमात् । पूर्वोक्तेनैव मार्गेण कारयेत्तद्विधानतः ॥ १३७ ॥ २८१ विमानादीनां श्रैष्ठ्यम् आलयं गोपुरञ्चैव प्रतिमा पीठमेव च । शरीरमेव देवस्य स्मृतमेतच्चतुष्टयम् ॥ १३८ ॥ जीर्णोद्वारविचारः आलये मण्डपे वाऽपि परिवारालये तथा । प्राकारे गोपुरे पीठे पचनालय एव वा ॥ १३९ ॥ इष्टकानां तु प्रक्षेपे तथा वर्णानुलेपने । एकद्विमासे कुर्याच्चेत् नवकर्मादिकं तथा ॥ १४० ॥ तद्दोषन्तु व्यपोह्यैव सर्वेषान्तु सलक्षणम् । यथासौन्दर्यमार्गेण नवकर्म समाचरेत् ॥ १४१ ॥ समाप्तेऽह्नि च पूर्वाह्णेऽप्यालयस्योत्तरे तथा । वास्तुहोमं ततो हुत्वा पर्यग्निकरणं तथा ॥ १४२ ॥ पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचयेत् । स्नपनोक्तक्रमेणैव विधिना स्नापयेद्बुधः ॥ १४३ ॥ आलयाद्दक्षिणे चैव औपासनविधानतः । कुण्डं सलक्षणं कृत्वा प्रज्वाल्याग्निं समन्त्रकम् ॥ १४४ ॥ तद्दैवत्यञ्च हुत्वा तु परिषन्मन्त्रसंयुतम् । अङ्गहोमं ततो हुत्वा पारमात्मिकसंयुतम् ॥ १४५ ॥ ईङ्कारादींस्ततो हुत्वा अष्टाशीत्याहुतिं यजेत् । वैष्णवं तत्र जुहुयान्महाव्याहृतिसंयुतम् ॥ १४६ ॥ सहस्राहुतिञ्च जुहुयात्सर्वेषामेव कारयेत् । तांस्तान् देवान् प्रतिष्ठाप्य प्रतिष्ठोक्तक्रमेण वै ॥ १४७ ॥ विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २८२ अन्तहोमं ततो हुत्वा देवेशं सम्प्रणम्य च । महाहविः प्रभूतं वा देवेशाय निवेदयेत् ॥ १४८ ॥ शिलादार्वोर्मुखं पार्श्वं पृष्ठमूर्ध्वमधस्तथा । ज्ञात्वा कुर्याद्विपर्यासाद्देवरूपं कृतं यदि ॥ १४९ ॥ स्थापितं चेत्तदज्ञानादाभिचारिकमुच्यते । राजराष्ट्रविनाशः स्यात् प्रजापीडा भयं मृतिः ॥ १५० ॥ तद्दोषशमनार्थाय क्षिप्रं शान्तिञ्च कारयेत् । आलयस्योत्तरे कुर्यात्पौण्डरीकं सलक्षणम् ॥ १५१ ॥ जुहुयात्पौरुषं सूक्त ‘मतो देवा’ दि वैष्णवम् । ईङ्काराद्यङ्गहोमञ्च पञ्चवारुणसंयुतम् ॥ १५२ ॥ जयाभ्यातानसंयुक्तं परिषन्मन्त्रसंयुतम् । पूर्ववद्विधिना कृत्वा स्थापयेत्तद्विचक्षणः ॥ १५३ ॥ अङ्गवैकल्ये बाहुप्रकोष्ठहस्तोरुजङ्घापादतलेषु च । पार्श्वाधःकटिदण्डेषु न हीनं नाधिकं तथा ॥ १५४ ॥ अङ्गोपाङ्गेषु सर्वत्र हीने चैवाङ्गुले तु तत् । हेम्ना वा रजितेनाथ ताम्रेणैवाथ पूर्ववत् ॥ १५५ ॥ स्थापयेद्व्यत्ययेनैव शूलं यदि विनश्यति । आलयस्योत्तरे पार्श्वे पूर्वोक्तं होममाचरेत् ॥ १५६ ॥ हुत्वा पूरुषसूक्तञ्च दद्यादाचार्यदक्षिणाम् । गृहीत्वा विधिवच्छूलं पूर्ववत्स्थापयेत्क्रमात् ॥ १५७ ॥ २८३ दूषिता मृत्तिका चेत्तु श्वकाकपशुवानरैः । मूषिकाभिः कुक्कुटैर्वा त्यक्त्वान्यां विधिना हरेत् ॥ १५८ ॥ जुहुयाद्भूमिदैवत्यं पारमात्मिकसंयुतम् । ईङ्कारादींश्चकूष्माण्डान् संस्कुर्याच्च पुनर्मृदम् ॥ १४९ ॥ मृदःस्नेहस्य चूर्णस्य कषायस्यौषधस्य च । न्यूने संस्कारहीने च प्रयोगस्य विपर्यये ॥ १६० ॥ रज्जुबन्धेऽष्टबन्धे च शर्करालेपने तथा । न्यूने संस्कारहीने च प्रयोगस्य विपर्यये ॥ १६१ ॥ वैष्णवं चारुषञ्चैव पाञ्चभौतिकमेव च । ब्राह्ममैन्दं्र त्रयस्त्रिंशद्देवताभ्यश्च हूयते ॥ १६२ ॥ पूर्वोक्तेन विधानेन तत्तत्कर्म समाचरेत् । वर्णव्यतिक्रमे हुत्वा प्राजापत्यं सपौरुषम् ॥ १६३ ॥ मृण्मयं नार्धचित्रम् अर्धचित्रं न कुर्वीत मृण्मयं लोहजं तथा । स्थापितञ्च विसृज्यान्यत् बेरं सङ्गृह्य यत्नतः ॥ १६४ ॥ पद्माग्नौ ब्रह्मसूक्तञ्च वैष्ण ‘वा श्रावि’ तादिकम् । हुत्वा मिन्दाहुती विप्रान् भोजयित्वा ततः परम् ॥ १६५ ॥ पूर्वोक्तेन विधानेन स्थापयेदिति शासनम्1 । शिलामणिबिम्बे शिलाजं मणिजं बिम्बमर्धचित्रं न दोषकृत् ॥ १६६ ॥ 1. अत्र २५ अध्याय समाप्तिः ख. विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २८४ शैलजं ध्रुवबेरन्तु वर्णयुक्तन्तु कारयेत् । (ध्रुवबेरार्चनं चेत्तु वर्णयुक्तं न कारयेत् ॥ १६७ ॥ ब्रह्मस्थानार्चनार्हं यत् स्थापनं तत् ध्रुवार्चनम् । दैविके मानुषे चैव स्थापयेच्च विशेषतः ॥ १६८ ॥ एकबेरार्चनञ्चैतत् वर्णयुक्तं न 1दोषकृत् । न्यूनाधिक्यविषयः किमिदं परिमाणेन कारणं यच्च वै विदुः ॥ १६९ ॥ यवं यवत्रयं चापि अर्धाङ्गुलमथापि वा । एकेन वाऽथ पादाभ्यां न्यूनाधिक्ये न दोषकृत् ॥ १७० ॥ बिम्बस्य पुनःकरणम् वस्त्रमाभरणं पद्मं किरीटं शङ्खचक्रकौ । उपवीतं प्रलम्बञ्च श्रीवत्सं कुण्डलद्वयम् ॥ १७१ ॥ एवमाद्यैस्समायुक्तं बिम्बं कुर्याद्विशेषतः । एतैर्हीनं यदि भवेत्पुनरेतैस्समायुतम् ॥ १७२ ॥ कारयित्वैव जुहुयाद्वैष्णवं ब्राह्मसंयुतम् । ऐन्द्रञ्च विष्णुसूक्तञ्च सौरं सौम्यञ्च पौरुषम् ॥ १७३ ॥ ब्राह्मणान् भोजयित्वा तु विधिना स्थापयेद्बुधः । बेरं कृत्रिमवर्णेन योजयेच्चेत्प्रमादतः ॥ १७४ ॥ क्षालयित्वा प्रमार्ज्यैव विशोष्य च यथाविधि । पौण्डरीकाग्निकुण्डे तु सूक्तं वैश्वानरं यजेत् ॥ १७५ ॥ 1. दोषभाक् आ. २८५ ब्राह्मञ्च विष्णुसूक्तञ्च वैष्णवञ्च जयादिभिः । तस्यानुरूपं वर्णञ्च योजयेत्तद्विधानतः ॥ १७६ ॥ अक्षिमोचनहीने च कालातीते प्रमादतः । षण्मण्डलाधिदैवत्यं ‘यद्देवादि’ ततः परम् ॥ १७७ ॥ ‘ईङ्कारादीं’ स्ततो हुत्वा पारमात्मिकमेव च । अष्टाशीतिं ततो हुत्वा कारयेदक्षिमोचनम् ॥ १७८ ॥ क्रूरग्रहाणामुदये त्वज्ञानात्क्रियते यदि । क्षालयित्वा ततो हुत्वा प्रायश्चित्तञ्च पूर्ववत् ॥ १७९ ॥ पूर्ववद्विधिना सम्यगक्षिमोचनमाचरेत् । कर्षणादीनां सामान्यप्रायश्चित्तम् कर्षणादि प्रतिष्ठान्तं न्यूने हीने विपर्यये ॥ १८० ॥ जुहुयात्पौण्डरीकाग्नौ सूक्ते वैष्णवपौरुषे । ‘यद्देवादीं’ स्ततो हुत्वा पारमात्मिकमेव च ॥ १८१ ॥ ‘ईङ्कारादीं’ श्च जुहुयादष्टाशीतिमतः परम् । प्राजापत्यञ्च सौम्यञ्च ऐन्द्रमाग्नेयमेव च ॥ १८२ ॥ सौरं सौम्यञ्च जुहुयादङ्गहोमञ्च वैष्णवम् । महाव्याहृतिभिर्हुत्वा ब्राह्मणान्भोजयेत्पुनः ॥ १८३ ॥ वाचयित्वा तु पुण्याहं स्वस्तिघोषञ्च कारयेत् । देवकार्येषु पुण्याहविशेषः दैविकेषु तु सर्वेषु भूपरीक्षादिकर्मसु ॥ १८४॥ विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २८६ पुण्याहे विहिते सम्यक्, यत्पुण्य मिति च ब्रुवन् । ‘पुण्याहं स्वस्तिमृद्धि’ ञ्च वाचयित्वा त्रिधात्रिधा ॥ १८५ ॥ ‘स्वस्तिन ॠद्ध्यास्स्मे’ ति वाचयित्वान्तरान्तरा । ‘आपो हिरण्य पवमानैः’ प्रोक्षयित्वा ततः परम् ॥ १८६ ॥ दक्षिणादानादाने च सूत्रोक्तविधिना चरेत् । गवादिदक्षिणां दत्वा पश्चात्कर्म समाचरेत् ॥ १८७ ॥ हीनक्रियासु सर्वासु प्रायश्चित्तमिदं स्मृतम् । अनुक्तद्रव्यकल्पिते बेरे तच्छान्तिः इष्टकाभिस्सुधाभिर्वाकण्टकाद्यैर्नपुंसकैः ॥ १८८ ॥ अन्यैश्च काष्ठैवृक्षैर्वाऽप्यन्यैर्दूषितदारुभिः । कालायसैश्च पाषाणैः चूर्णैर्वाऽपि समायुतैः ॥ १८९ ॥ संयुक्ते तु कृते बेरे कृते पक्वे तु मृण्मये । पैशाचैश्चासुरैर्द्रव्यैरतिरिक्तमृदाऽथवा ॥ १९० ॥ द्रव्यैसंस्कृतैर्वापि ध्रुवबेरे प्रकल्पिते । अशूले रज्जुमृद्वस्त्रशर्करादावमानके ॥ १९१ ॥ कुशे स्थूलेऽतिजीर्णे च वृद्धौ वाऽनुक्तवर्णके । सुधयैव कृते बेरे तथैवेष्टकया कृते ॥ १९२ ॥ कल्पितेऽनुक्तद्रव्येण कृत्रिमाभरणान्विते । इत्यादिदोषसंयुक्ते बेरे सर्वं विनश्यति ॥ १९३ ॥ स्थापयेच्चेत्तदज्ञानात् यजमानो विनश्यति । तच्छान्तिः पौण्डरीकाग्नावालयस्योत्तरे कृते ॥ १९४ ॥ २८७ पारमात्मिकमीङ्काराद्यष्टाशीत्यङ्गहोमकम् । ब्रह्मसूक्तसमायुक्तं श्रीसूक्तेन समन्वितम् ॥ १९५ ॥ दुर्गासूक्तञ्च जुहुयाद्विष्णुसूक्तमतः परम् । जुहुयात्पौरुषं सूक्तं विश्वजित्सूक्तमेव च ॥ १९६ ॥ प्राजापत्यञ्च रौद्रञ्च ब्राह्ममाग्नेयमेव च । सौरं सौम्यसमायुक्तं वैष्णवं जुहुयात्पुनः ॥ १९७ ॥ ब्राह्मणान् भोजयित्वा तु दद्यादाचार्यदक्षिणाम् । बालालये प्रतिष्ठाप्य सदोषमपहाय च ॥ १९८ ॥ सलक्षणं ततः कृत्वा स्थापयेत्पूर्ववत्क्रमात् । पुनर्जीर्णविमानादिकथनम् तद्विमानगलस्थाने पादवर्गस्य मध्यमे ॥ १९९ ॥ कारयेद्विहितां मूर्तिं सुधयेष्टकयाऽथवा । मृच्छूलशर्करारज्जुवस्त्रे हीनेऽप्रमाणके ॥ २०० ॥ कृते कृत्रिमवर्णेन दोषैः कार्श्यादिभिर्युते । न दोषदा इति प्रोक्ता यदि ते शिलया कृताः ॥ २०१ ॥ सर्वलक्षणसंपन्नान् वर्णहीनान् प्रकल्पयेत् । शिलासङ्ग्रहवर्जबिम्बे कृते अकृत्वा कल्पिते बेरे शिलासङ्ग्रहणक्रियाम् ॥ २०२ ॥ पौण्डरीके महाशान्तिं एकाहं जुहुयात्पुनः । शिलाग्रहणहोमञ्च हुत्वा मन्त्रं स्पृशन् जपेत् ॥ २०३ ॥ विंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २८८ अज्ञानात्स्थापितञ्चैतत् एवं कृत्वा यथाविधि । प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत्1 ॥ २०४ ॥ शीघ्रं संस्थापयेद्बेरं निर्दोषं लक्षणान्वितम् । न स्थापयति चेन्मोहादाधिव्याध्याद्युपद्रवैः ॥ २०५ ॥ क्षुत्पिपासादिभिश्चैव स देशः पीड्यते भृशम् । तस्माद्धुत्वा महाशान्तिं भोजयित्वा द्विजोत्तमान् ॥ २०६ ॥ प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत्1 । अनुक्तकाले बिम्बे स्थापिते आर्द्राद्यनुक्तनक्षत्रे वारे राशौ च निन्दिते ॥ २०७ ॥ उल्काग्न्यशनिपाते च दिग्दाहे पांसुलोहिते । वर्षधारातिपाते च चन्द्रसूर्योपरागयोः ॥ २०८ ॥ चैत्यवृक्षनिपाते च भूमिकम्पदिने तथा । दोषयुक्ते च नक्षत्रे शर्वर्यां वा तथैव च ॥ २०९ ॥ स्थापितं चेत्तज्ञानात् पूर्ववद्होममाचरेत् । सहस्राहुतिमिष्ट्वैव सहस्रञ्चैव वैष्णवम् ॥ २१० ॥ परिषद्देवतानाञ्च तत्तन्मन्त्रैश्च हूयते । यथोक्तं स्थापयित्वैव शक्तितो दक्षिणां ददेत् ॥ २११ ॥ अकृत्वा भूपरीक्षादिक्रियास्सर्वाः प्रमादतः । अनुक्तमासनक्षत्रतिथिवासरराशिषु ॥ २१२ ॥ रात्रावविधिकं मोहादज्ञानात्स्थापिते यदि । मासं पक्षन्तु सप्ताहं पञ्चाहं त्रियहन्तु वा ॥ २१३ ॥ 1. अत्र २६ अध्यायसमाप्तिः ख. २८९ त्रिकालं पौण्डरीकाग्नौ महाशान्तिं जुहोति वै । तत्तन्मन्त्रजपं कृत्वा भूपरीक्षादिकर्मणाम् ॥ २१४ ॥ पूर्वोक्तेन प्रकारेण प्रतिष्ठां पुनराचरेत् । इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे भूपरीक्षादिप्रायश्चित्तविधिर्नाम विंशोऽध्यायः