१९

1 ।


एकोनविंशोऽध्यायः ख. २६१ एकोनविंशोऽध्यायः विशेषार्चनम् अतः परं प्रवक्ष्यामि विशेषाराधनं हरेः । शान्तिकं पौष्टिकं काम्यमिति भिन्नं त्रिधाऽर्चनम् ॥ १ ॥ व्याधिदुर्भिक्षदुस्स्वप्नदुर्निमित्तप्रशान्तये । शत्रुपीडोपशान्त्यर्थं तथाऽवग्रहशान्तये ॥ २ ॥ अन्यदोषोपशान्त्यर्थं शान्तिकं समुदाहृतम् । धनधान्यादिवृद्ध्यर्थं कृतं पौष्टिकमुच्यते ॥ ३ ॥ यत्किञ्चिदभिकांक्ष्यार्थं1 कृतं काम्यमुदाहृतम् । पूर्वाह्णे शान्तिकं कुर्यान्मध्याह्ने पौष्टिकं तथा ॥ ४ ॥ काम्यं स्यादपरोह्णे तु न कुर्यान्निशि किञ्चन । पूर्वोक्तेन प्रकारेण कारयित्वाऽङ्कुरार्पणम् ॥ ५ ॥ अङ्कुरार्पणकादूर्ध्वं द्रव्याण्यपि समाहरेत् । मण्डपं वा प्रपां वाऽपि कूटं वाऽपि यथोचितम् ॥ ६ ॥ कारयेत्तत्र देशे तु स्नपनालयचोदिते । पूर्वरात्रे तु देवेशं समभ्यर्च्य यथाविधि ॥ ७ ॥ बद्ध्वा प्रतिसरं तद्वच्छाययित्वा ततः परम् । श्वभ्रस्य परितः पङक्तिं कल्पयेत्स्नपनोक्तवत् ॥ ८ ॥ 2 द्रव्याणि च मृदाद्यानि तत्र सन्न्यस्य पूर्ववत् । (देवाग्रे दक्षिणे वाऽपि पौण्डरीकं प्रकल्पयेत्) ॥ ९ ॥ 1. अभिलक्ष्यार्थं. आ. 2. द्रव्याण्यपि च धान्यानि. आ. श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २६२ देवं श्वभ्रे प्रतिष्ठाप्य स्नापयित्वाऽथ पूर्ववत्) मथितं लौकिकं वाऽग्निं कुण्डे चाऽधाय पूर्ववत् ॥ १० ॥ आघारान्ते सुहोतव्यं मूलमन्त्रद्वयेन वै । आज्याश्वत्थसमिद्दूर्वाचरुभिश्च पृथक्पृथक् ॥ ११ ॥ प्रत्येकमयुतं प्रोक्तमुत्तमं मुनिसत्तमाः । अष्टोत्तरसहस्रन्तु मध्यमं परिकीर्तितम् ॥ १२ ॥ अष्ठोत्तरशतं न्यूनमेवं त्रिविधमीरितम् । जाज्वल्यमानमकुटं 1दीप्यमानविभूषणम् ॥ १३ ॥ श्यामाम्बरधरं 2देवं तप्तहाटकसन्निभम् । रक्तास्यपाणिपादाक्षं प्रणवात्मकमव्ययम् ॥ १४ ॥ शङ्खचक्रधरं देवं परात्परतरं विभुम् । इत्येवं मनसा ध्यात्वा होमकर्म समाचरेत् ॥ १५ ॥ वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च । ब्राह्मं रौद्रं जयादींश्च जुहुयात्सर्पिषा सकृत् ॥ १६ ॥ अष्टोत्तरशतं हुत्वा श्रीसूक्तेनापि पौष्टिके । द्वात्रिंशत्प्रस्थसम्पूर्णं नवं कुम्भं प्रगृह्य च ॥ १७ ॥ तन्तुना परिवेष्ट्याद्भिः पूरयित्वा यवान्तरम् । 3सौवर्ण विष्णुरूपञ्च श्रीभूम्योश्च पृथक्पृथक् ॥ १८ ॥ 1. दिव्याभरणभूषितम् आ. 2. सौम्यं आ. 3. एतदारभ्य सार्धैकोनविंशश्लोकपर्यन्तो भागः इत्थं पठ्यते. ख. कोशे ‘सूक्ष्मवस्त्रद्धयेनैव वेष्टयित्वा तु पूर्ववत् । गन्धपुष्पाक्षतैर्युक्तं रक्तचूत(कूर्च)समन्वितम्। अश्वत्थप्लक्षयोश्चैव अपामार्गस्य पल्लवैः। कुम्भोदके प्रतिष्ठाप्य पूर्ववत्सुसमाहितः । वारुणं मण्डलं ध्यात्वा वकारं बीजसंयुतम्ं इति । २६३ सन्न्यसेद्विष्णुगायत्र्या प्रत्येकञ्चाष्टनिष्कतः । तानि व्द्यङ्गुलमात्राणि मङ्गलान्यायुधानि च ॥ १९ ॥ निक्षिपेत्पूर्ववद्धीमान् रत्नानि च विशेषतः । क्षौमाभ्यामथ पट्टाभ्यां सूक्ष्मवस्त्रद्वयेन वा ॥ २० ॥ कुम्भस्य कण्ठमावेष्ट्य पुष्पमालापरिष्कृतम् । अश्वत्थपल्लवं कूर्चं न्यसेहुर्वाङ्कुराण्यपि ॥ २१ ॥ प्रणवेन समावेष्ट्य मूलमन्त्रं द्वयं जपेत् । अष्टोत्तरसहस्रन्तु देवेशं मनसा स्मरन् ॥ २२ ॥ ‘नमो वाचे’ समुच्चार्य ‘शन्नो वात’ इतीर्य च । दशकृत्वोऽभिमन्त्र्यैव नित्यमेवं समाचरेत्॥ २३ ॥ आस्थानमण्डपे देवं स्थापयेत्पद्ममण्डले । समभ्यर्च्य हवींष्यत्र पायसानि निवेदयेत् ॥ २४ ॥ पानीयाचमनं दत्वा पश्चात्ताम्बूलमेव च । वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ २५ ॥ नारायणानुवाकञ्च सूक्तमेकाक्षरादिकम् । सञ्जपन्विष्णुगायत्रीं ‘नमो ब्रह्मण’ इत्यपि ॥ २६ ॥ द्वादशाष्टाक्षराभ्याञ्च दत्वा पुष्पाञ्जलिं बहु । दण्डाङ्गेन नमस्कृत्य ‘क्षमस्वे’त्यनुमान्य च ॥ २७ ॥ अर्चापीठे प्रतिष्ठाप्य नित्यपूजां समाचरेत् । एवं मासं त्रिसप्ताहं पक्षं वाऽथ त्रयोदश ॥ २८ ॥ एकादशदिनं वाऽपि नवाहं वा तथैव च । सप्ताहं वाऽथ पञ्चाहं त्रिदिनं वा यथाविधि ॥ २९ ॥ एकोनविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २६४ स्नपनञ्चार्चनं होमं तथा कुम्भाभिमर्शनम् । उत्तमं कुम्भहोमाभ्यां तथा कुम्भेन मध्यमम् ॥ ३० ॥ नित्यमेवं प्रकुर्वीत समाप्तदिवसोत्सवम् । यजमानं तथाऽऽचार्यो देवदेवस्य सन्निधौ ॥ ३१ ॥ स्नापयेत्कुम्भतोयेन प्रोक्षयेद्वा सहस्रशः । मासि मासि स्वजन्मर्क्षे कुर्यादेवं यथाविधि ॥ ३२ ॥ आयुरारोग्यमैश्वर्यमचलां श्रियमाप्नुयात् । एवं यः कारयेद्भक्त्या देवदेवस्य शार्ङ्गिणः ॥ ३३ ॥ व्याधयस्तस्य नश्यन्ति ग्रहपीडाद्युपद्रवाः । दुर्निमित्तानि दुःस्वप्नचोरशत्रुभयादयः ॥ ३४ ॥ उपद्रवास्तथा चान्ये प्रणश्यन्ति न संशयः । धर्मार्थकाममोक्षाश्य सिद्ध्यन्त्येवं कृते सति ॥ ३५ ॥ पौष्टिके चैव काम्ये च नैव कुम्भाभिमर्शनम् । एवं कर्तुमशक्तश्चेदयुग्मदिनसङ्खं्यया ॥ ३६ ॥ शुद्धतोयाभिषेकञ्च पूजनञ्च निवेदनम् । नित्याग्निकुण्डे होमञ्च कुर्यादिति च केचन ॥ ३७ ॥ नित्याग्निहोमे विच्छिन्ने पौण्डरीके तु शान्तिके । काम्ये च पौष्टिके चैव लौकिकाग्नौ समाचरेत् ॥ ३८ ॥ भक्तबिम्बस्थापनम् (अतः परं प्रवक्ष्यामि भक्तानां स्थापनाविधिम् । जटिनं शिखिनं वाऽपि ब्राह्मणं परिकल्पयेत् ॥ प्राञ्जलिं भावनायुक्तं नासान्ताहितलोचनम् । क्षत्रियं मकुटोपेतं वैश्यमुद्बद्धकुन्तलम् ॥ २६५ कुर्यादत्रानुलोमादीन् रोमचूडासमान्वितान् । अथवा मुण्डितान्वापि भगवद्ध्यानतत्परान् ॥ यदाकारेण देवेशं पश्यतस्ते तदाकृतीन् । अष्टतालोक्तमानेन द्विजातीन् परिकल्पयेत् ॥ मध्यमेनैव शूद्रादीन् कारयेत्तु यथाविधि । भक्तानां ध्रुवबेरस्य कौतुकस्य तथैव च ॥ प्रमाणं पूर्वमेवोक्तं ध्रुवबेरवशात्तथा । कृत्वैव भक्त्या बिम्बन्तु प्रतिष्ठामाचरेत्पुनः ॥ औपासनाग्निकुण्डञ्च शय्यावेदिं तदग्रतः । अङ्कुरार्पणकादूर्ध्वं अक्ष्युन्मेषादिकाः क्रियाः ॥ तत्तन्नाम्ना प्रकुर्वीत पूर्वरात्रौ विशेषतः । कुम्भं संसाध्य विधिना समावाह्य तु तज्जले ॥ संस्नाप्य सप्तकलशैर्वेदिमारोप्य पूर्ववत् । बद्ध्वा प्रतिसरं पश्चाच्छाययेदप्रमादतः ॥ हौत्रं प्रशंस्य विधिना प्रणिधावुत्तरे तथा । तस्य नाम्ना समावाह्य निरूप्याज्याऽहुतीर्यजेत् ॥ विष्वक्सेनस्य मन्त्राभ्यां शतमष्टोत्तरं यजेत् । तस्य नाम समुच्चार्य विष्णुभक्तविशेषणम् ॥ चतुर्थ्यन्तं तथाऽऽज्येन शतमष्टोत्तरं यजेत् । प्रातः स्नात्वा विधानेन यागशालां प्रविश्य च ॥ भक्तबिम्बं समादाय कुम्भेन सह सन्नयेत् । तत्र संस्थाप्य तन्नाम्ना कुम्भादावाहनं चरेत् ॥ एकोनविंशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २६६ तन्नामाद्यक्षरं तस्य बीजाक्षरमुदाहृतम् । समभ्यर्च्य निवेद्यैव नित्यं विधिवदर्चयेत् ॥ केवलं कौतुकं वाऽपि स्थापयित्वा समर्चयेत् । केवलं कौतुकं चेत्तत् औत्सवानुगुणं चरेत् ॥ ब्राह्मणादिप्रतिष्ठायां तेषामग्निर्विधीयते । अन्यभक्तप्रतिष्ठायां लौकिकाग्निर्विधीयते ॥ शूद्रादीनां विना होममिति केचिद्वदन्ति वै । उत्सवे देवदेवेन सार्धं बिम्बं नयेद्बुधः ॥ विष्ण्वर्चनावशिष्टैस्तु द्रव्यैर्नित्यं समर्चयेत् । बलिहोमावशिष्टं तत् पात्रशेषं हविर्ददेत् ॥ येषां सायुज्यसिद्धिस्तु तेषां देववदर्चनम् । येषां सारूप्यसिद्धिस्तु तेषामपि तथाऽर्चनम् ॥ येषां सामीप्यसालोक्ये तेषां शान्तवदर्चनम् । अन्येषां केवलं नाम्ना पूजनं परिभाषितम् ॥ देवोपभुक्तमाल्यानि वस्त्राणि च ददेत्तथा । एवं भक्तप्रतिष्ठां यः कारयेद्भक्तिसंयुतः ॥ सामीप्यं पदमाप्नोति1 देवदेवस्य शार्ङिगणः । तद्वंशजानां भवति भक्तिः शार्ङिगणि निश्चला) ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां क्रियाधिकारे विशेषाराधन (भक्तप्रतिष्ठा) विधिर्नाम एकोनविंशोऽध्यायः