॥
सप्तदशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २४६ अष्टादशोऽध्यायः पुण्यनक्षत्रपूजनम् (1अथातस्संप्रवक्ष्यामि पुण्यनक्षत्रपूजनम् । श्रवणं द्वादशी पर्वं विष्णुपञ्चदिनानि वै ॥ १ ॥ प्रशस्तं श्रवणं तेषु द्वादशी चोत्तमा मता । विषुवायनामासर्क्षग्रहणेष्वन्यसङ्क्रमे ॥ २ ॥ कर्तृभूपर्क्षयोश्चैव ग्रामनक्षत्र एव वा । कृत्वाऽङ्कुरार्पणं तद्वद्बद्ध्वा प्रतिसरं तथा ॥ शाययेत्पूर्वरात्रौ तु प्रातस्स्नात्वा यथाविधि । प्रातस्सन्ध्यार्चनान्ते तु मन्त्रांस्तीर्थदिनोदितान् ॥ नित्याग्निकुण्डे हुत्वा तु चक्रवीशामितैस्सह । उत्सवोक्तक्रमेणैव ग्रामसन्धौ बलिं ददेत् ॥ उत्सवं विधिना कृत्वा तीर्थं पूर्ववदाचरेत् । स्नपनोक्तप्रकारेण स्नापयित्वा ततः परम् ॥ समभ्यर्च्य निवेद्यैव जीवस्थाने निवेशयेत् । शान्तिकोत्सवमुद्दिष्टमेतं पूर्वाह्ण आचरेत् ॥ विनैव बलिहोमाभ्यां मध्याह्ने पौष्टिकोत्सवम् । तीर्थं विनाऽपराह्णे तु कुर्यात्काम्योत्सवं बुधः ॥ अर्चायां शान्तिकं कर्म काम्यमौत्सव एव वा । औत्सवं स्नापयित्वाऽह्नि रात्रावास्थानमण्डपे ॥ 1. अस्मिन्नध्याये प्रारम्भात्प्रभृति सप्तदशश्लोकपर्यन्तो ग्रन्थः मातृकान्तरेषु कुत्रापि नाोपलभ्यते । २४७ सर्वोपचारैरभ्यर्च्य पायसादिहवींषि च । सर्वप्रयत्नैर्नैवेद्यं कुर्यादेवमतन्द्रितः ॥ एवं कर्तुमशक्तश्चेद्दिनेष्वेषु यथाविधि । संस्नाप्य गन्धतोयेन शुद्धस्नानोक्तमार्गतः ॥ द्वात्रिंशद्विग्रहैर्देवमर्चयेत्त्वरया मुदा । तत्रापि बलिवेलायां यानमारोप्य पूर्ववत् ॥ देवमेवं नयेत्सम्यगालये तु प्रदक्षिणम । जीवस्थाने प्रतिष्ठाप्य शेषं तत्र समाचरेत् ॥ विष्णुपञ्चदिनस्नाने कालो मध्याह्न उच्यते । विषूपरागायनेषु तत्कालात्पूर्वमाचरेत् ॥ हविष्पाकोक्तविधिना पाकेष्वाग्रयणं चरेत् । आहृतानि च धान्यानि विविधानि फलानि च ॥ सर्वानथोपदंशांश्च नवानि वसनानि च । सर्वाण्याहृत्य यत्नेन सर्वमङ्गलसंयुतम् ॥ जपेच्छकुनसूक्तन्तु कुर्याद्ग्रामप्रदक्षिणम् । अलङ्कृत्याग्रतश्चक्रं नयेदिति च केचन ॥ हविःपाकविधिः अतः परं प्रवक्ष्यामि हविष्पाकविधिं परम् । हविरुद्दिश्य धान्यानि चोपदशांस्तथाऽऽहरेत् ॥ १ ॥ शालिव्रीहिप्रियङ्गुनि नीवारं षाष्टिकं तथा । यवञ्च वेणुकञ्चैव प्रशस्तानि विदुर्बुधाः ॥ २ ॥ अष्टादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २४८ व्रीहीणामपि सर्वेषां कृष्णधान्यं विसर्जयेत् । सर्वेषां व्रीहिधान्यानां शालिर्दशगुणो भवेत् ॥ ३ ॥ शतगुणः प्रियङ्गुः स्यान्नीवारन्तु समस्रकम् । अयुतं गर्भषष्टिः स्यात् अनन्तं यववेणुके ॥ ४ ॥ चतुर्वर्णाहृतं धान्यं प्रशस्तमभिधीयते । अन्त्यजैः प्रतिलोमैश्च नीतं धान्यं विवर्जयेत् ॥ ५ ॥ अथवा पण्यलब्धञ्च धान्यं शुद्धं समाहरेत् । त्रिवर्षातीतधान्यानि न प्रशंसन्ति दैविके ॥ ६ ॥ तण्ङुलानाञ्च सर्वेषां मासातीतानि वर्जयेत् । ‘आपो हि’ ष्ठेति मन्त्रेण प्रोक्ष्य धान्यानि चाऽहरेत् ॥ ७ ॥ आलये वा गृहे वाऽपि शुद्धे देशे समाहितः । विताने वा कटे वाऽपि समास्तीर्य विधानतः ॥ ८ ॥ आतपेन तथा शोष्य विश्वामित्रान् परावपेत् । ततो धान्यं सुसङ्गृह्य पलालेषु च निक्षिपेत् ॥ ९ ॥ पलालोन समाबध्य गजस्कन्धे निधाय च । सर्ववाद्यमसायुक्तं सर्वालङ्गारसंयुतम् ॥ १० ॥ वेदघोषसमायुक्तं पूर्णकुम्भाङ्कुरैर्युतम् । अलङ्कृत्याऽलयं सर्वं पूर्णकुम्भाङ्कुरैरपि ॥ ११ ॥ दीपैश्च बहुभिश्शस्तैः कदलीक्रमुकैरपि । देवालयं शनैर्नीत्वा देवाग्रे तानि विन्यसेत् ॥ १२ ॥ तेषु वायुं समभ्यर्च्य तथैकादशविग्रहैः । श्रीसूक्तेन श्रियं देवीं संस्तूय प्रणिपत्य च ॥ १३ ॥ २४९ ‘श्रिये जा’ तेति मन्त्रेणि गुह्णीयाद्धान्यमत्वरः । अवघातं पुनः कुर्याद्धविष्पाकोक्तमार्गतः ॥ १४ ॥ तण्डुलांश्चापि शुद्धांस्तु ततः पात्रे समाहरेत् । हवींषि चोपदंशाश्च पाचयित्वा यथाविधि ॥ १५ ॥ तण्डुलान्क्षालितानद्भिः शर्करागुडमिश्रितान् । मरीचिजीरकैश्चैव नारिकेलफलैरपि ॥ १६ ॥ सघृतं देवदेवाय मन्त्रवत्तान्निवेदयेत् । तैरेव तण्डुलैर्हुत्वा परिवारबलिं ददेत् ॥ १७ ॥ पुनराचमनं दत्वा मुखवासं निवेदयेत् । पुनरभ्यर्च्य देवेशमुपदंशादिभिर्युतम् ॥ १८ ॥ निवेदयेद्धविः पश्चान्मूर्तिहोमं तथैव च । परिवारबलिं दत्वा पानीयाचमनं ददेत् ॥ १९ ॥ मुखवासं निवेद्यैव ‘क्षम’ स्वेति प्रणम्य च । पश्चात्पुष्पाञ्जलिं दद्याद्देवदेवस्य पादयोः ॥ २० ॥ कृत्तिकादीपः कार्तिक्यां पौर्णमास्यान्तु दीपदानं समाचरेत् । आलयं समलङ्कृत्य मृष्टसिक्तोपलेपनैः ॥ २१ ॥ अलङ्कारैरलङ्कुर्यादन्यैरपि च शोभनैः । देवदेवमलङ्कृत्य वस्त्रमाल्यानुलेपनैः ॥ २२ ॥ महाहविः प्रभूतं वा यथाशक्ति निवदयेत् । पूगं वा नारिकेलं वा तालं वा जातिमेव वा ॥ २३ ॥ अष्टादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २५० (तद्विमानसमायामं पादोनं वाऽर्धमेव वाः । दीपदण्डं गृहीत्वा तु देवाग्रे स्थापयेत्पुनः । दीपदण्डस्य परितश्चोल्कादीपत्रयाणि च ॥ २४ ॥ रत्निमात्रायतान्येवमयुग्मानि च कारयेत् । कारयेद्दीपदानार्थं कूटाकारं चतुर्मुखम् ॥ २५ ॥ मण्डपेषु च सर्वेषु सर्वेष्वावरणेषु च । दीपाधारान् प्रकुर्वीत यथाविभवविस्तरम् ॥ २६ ॥ प्रदोषे कारयेदेवमालयन्तु प्रदक्षिणम् । ‘उद्दीप्य’ स्वेति मन्त्रेण दीपमारोपयेत्पुनः ॥ २७ ॥ धान्यपीठे प्रतिष्ठाप्य देवेशाभिमुखं पुनः । श्रियं तत्र समभ्यर्च्य ‘श्रिये जात’ इति ब्रुवन् ॥ २८ ॥ सन्न्यसेद्दीपदण्डाग्रे दीपं देवेशसन्निधौ । प्राकारादिषु सर्वत्र दीपानारोपयेद्बहून् ॥ २९ ॥ नित्यं तत्कार्तिके मासि दीपदानं विशिष्यते । संस्थाप्य देवमास्थाने पूजयित्वाऽष्टविग्रहैः ॥ ३० ॥ अपूपलाजपृथुकान् यथाशक्ति निवेदयेत् । मरीचिजीरकगुलैर्नारिकेलैस्सुसंस्कृतान् ॥ ३१ ॥ खिले विस्तरतः प्रोक्ता कृत्तिकादीपसंस्कृतिः । कैशिकद्वादशी (एकादश्यां सिते पक्षे तत्रोपोष्य यथाविधि । द्वादश्यामुदयात्पूर्वं देवमास्थानमण्डपे ॥ २५१ 1संस्थाप्य कैशिकं गानं गानविद्भिश्च कारयेत् । द्वादश्यां स्नापयेत्पश्चात्समभ्यर्च्य यथाविधि ॥ हविर्निवेदयेद्गौल्यं पानीयादि निवेदयेत् । जीवस्थाने प्रतिष्ठाप्य प्रणमेद्दण्डवद्भुवि ॥ अनन्तं तत्फलं विद्धि सायुज्यं लोकमाप्नुयात् ।) अध्ययनोत्सवः मार्गशीर्षाख्यमासे तु पूर्वपक्षे विशेषतः ॥ ३२ ॥ एकादश्यामथाऽरभ्य वेदपारायणं चरेत् । प्रातस्सन्ध्यावसाने तु देवमास्थानमण्डपे ॥ ३३ ॥ संस्थाप्य चतुरो वेदान् क्रमेणाध्यापयेत्सदा । पूजयेद्देवदेवं तं सप्तविंशतिविग्रहैः ॥ ३४ ॥ सर्वालङ्कारसंयुक्तं कारयित्वा प्रदक्षिणम् । स्वस्तिसूक्तं समुच्चार्य जीवस्थाने निवेशयेत् ॥ ३५ ॥ पक्षं त्रयोदशाहं वा द्वादशाहं समाचरेत् । पुराणानितिहासांश्च देवस्य विजयोत्कटाः ॥ ३६ ॥ कथां वा श्रावयेन्नित्यं देवदेवस्य सन्निधौ । तत्रैव मासि द्वादश्यां प्रातस्स्नात्वा यथाविधि ॥ ३७ ॥ मृण्मयानि च भाण्डानि पुराणानि परित्यजेत् । यथार्हं शोधयेदन्या ‘नामा वा’ जेति मन्त्रतः ॥ ३८ ॥ मुष्टसिक्तोपलेपाद्यैश्शोधयित्वा तथाऽऽलयम् । औत्सवादीनि बेराणि सर्वाण्येव यथाविधि ॥ ३९ ॥ 1. नृत्तं गेयञ्च वाद्यञ्च गानविद्धिश्च कारयेत् आ अष्टादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २५२ संस्नाप्य गन्धतोयेन शुद्धस्नानोक्तमार्गतः । स्नापयेत्स्नापनं बेरं कलशैश्च यथाविधि ॥ ४० ॥ चतुर्दिशं चतुर्हस्तं गोमयेनोपलिप्य च । व्रीहिभिः कारयेत्पद्मं साष्टपत्रं सकर्णिकम् ॥ ४१ ॥ तत्पद्मसंस्थितान्देवान् पूर्ववत्सम्यगर्चयेत् । तस्मिन् देवं प्रतिष्ठाप्य विष्टरे सोत्तरछदे ॥ ४२ ॥ आसनादिभिरभ्यर्च्य पायसान्नं निवेदयेत् । पाद्यमाचमनं ‘दत्वा मुखवासं निवेदयेत् ॥ ४३ ॥ पुष्पयागोक्तमन्त्रैस्तु दद्यात्पुष्पाञ्जलीन् बहून् । धामप्रदक्षिणान्ते तु जीवस्थाने निवेशयेत् ॥ ४४ ॥ संवत्सरार्चने न्यूनं नित्ये नैमित्तिकेऽपि यत् । तत्सर्वं परिपूर्णं स्यात् द्वादश्यां पूजयाऽनया ॥ ४५ ॥ आप्नुयाद्यजमानोऽपि तद्विष्णोः परमं पदम् । संवत्सरार्चनादोषप्रायश्चित्तार्थमेव तत् ॥ ४६ ॥ श्रवणद्वादशीविशेषः श्रवणद्वादशीयोगे मासि भाद्रपदे तथा । पवित्रारोणं विष्णोः कारयेदिति केचन ॥ ४७ ॥ तस्मात्सर्वप्रयत्नेन पवित्रारोपणं चरेत् । गव्येन पयसा तैष्ये नित्यं संस्नापयेद्धरिम् ॥ ४८ ॥ राघवस्यार्चनम् द्वादशी पूर्वपक्षे तु माघमासे पुनर्वसू । जया तस्यामुपोष्यैव रामं वा विष्णुमेव वा ॥ ४९ ॥ २५३ ग्रामं प्रदक्षिणं नीत्वा स्नापयित्वा निवेदयेत् । तिलपद्मविधिः तस्मिन्मासे सिते पक्षे पञ्चमी वियाजह्वया(विजयाह्वया)॥ ५० ॥ तिलपद्मविधिं कृत्वा दानं कुर्यात्तु तत्र वै । पूर्वरात्रौ तु देवेशमर्चयित्वा यथाक्रमम् ॥ ५१ ॥ हवींष्यपि निवेद्यैव बध्द्वा प्रतिसरं पुनः । पूर्ववच्छाययेद्देवं रात्रिशेषं नयेद्बुधः ॥ ५२ ॥ प्रभाते देवमुत्थाप्य कलशैः स्नापयेत्पुनः । संस्थाप्य मण्डपे देवं प्रणम्यैवानुमान्य च ॥ ५३ ॥ विकीर्य प्रमुखे धान्यं द्विहस्तायतविस्तृते । नववस्त्रे समाकीर्य कृष्णाजिनसमन्विते ॥ ५४ ॥ तिलभारं तदर्धं वा तदूर्ध्वे मण्डलाकृति । विकीर्यात्र लिखेत्पद्मं साष्टपत्रं सकर्णिकम् ॥ ५५ ॥ सुवर्णपद्मं कृत्वा तु तिलपद्मोपरि न्यसेत् । आढकैश्शालिधान्यैश्च पूर्णपात्राणि षोडश ॥ ५६ ॥ ऐन्द्रादि च तथैशान्तं सशालि परितो न्यसेत् । आढकं तैलमाहृत्य तदर्धं वा घृतं तथा ॥ ५७ ॥ तत्समं दधि सङ्गृह्य पात्रेषु च पृथक्पृथक् । दक्षिणे सन्न्यसेत्तैलमुत्तरे तु घृतं न्यसेत् ॥ ५८ ॥ पश्चिमे दधि सन्न्यस्य देवदेवं प्रणम्य च । आत्मसूक्तं जपित्वा तु पूजयित्वाऽष्टविग्रहैः ॥ ५९ ॥ अष्टादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २५४ प्रणम्य देवमावाह्य पद्ममध्ये तु पूर्ववत् । प्रागादि पुरुषादींश्च तथैकादशविग्रहैः ॥ ६० ॥ ऐनद्राद्यैशान्तमावाह्य दिग्देवानर्चयेत्ततः । ‘अतो देवा’ दिसंयुक्तं विष्णुसूक्तं जपेत्पुनः ॥ ६१ ॥ बिम्बे देवं समारोप्य चान्यानुद्वासयेत्क्रमात् । यजमानोऽथ तत्काले दद्यादाचार्यदक्षिणाम् ॥ ६२ ॥ विष्णुभक्तियुतं दान्तं दयाद्यात्मगुणैर्युतम् । नित्यस्वाध्यायसंयुक्तं सर्वावयवसंयुतम् ॥ ६३ ॥ विप्रमाहूय तत्काले ध्यात्वा तं देवमव्ययम् । तिलपद्मं ददेत्तस्मै देवदेवस्य सन्निधौ ॥ ६४ ॥ महाहविः प्रभूतं वा यथाशक्ति निवेदयेत् । परीत्य मन्दिरं पश्चात् जीवस्थाने निवेशयेत् ॥ ६५ ॥ यज्ञाधिकारे सम्प्रोक्तं तद्विधानं सुविस्तृतम् । धूपदानविशेषः धूपदानं तु तन्मासि देवदेवस्य शस्यते ॥ ६६ ॥ फाल्गुनमासार्चनम् फाल्गुनोत्तरफल्गुन्योः श्रिया सार्ध जनार्दनम् । स्नापयित्वोत्सवं कृत्वा समभ्यर्च्य निवेदयेत् ॥ ६७ ॥ अथवा शुद्धतोयैश्च स्नापयित्वा निवेदयेत् । तद्दिने श्रियमभ्यर्च्य श्रीकामः श्रियमाप्नुयात् ॥ ६८ ॥ देवस्य फाल्गुने मासे गन्धदानं विशिष्यते । २५५ चैत्रे दमनोत्सवः पौर्णमास्या तथा चैत्र्यां कुर्याद्दमनकोत्सवम् ॥ ६९ ॥ पूर्वस्मिन्नेव दिवसे अलङ्कृत्यालयं शुभम् । माला दमनकस्यैव विविधाः कारयेच्छुभाः ॥ ७० ॥ रात्रिपूजावसाने तु देवमास्थानमण्डपे । समभ्यर्च्य निवेद्यैव बद्ध्वा प्रतिसरामपि ॥ ७१ ॥ त्रिलोकमण्डलं हृद्यं देवाग्रे प्रतिकल्पयेत् । माला दमनकस्यैव मेरुमूर्धनि विन्यसेत् ॥ ७२ ॥ अष्टौ कुलाचलाग्रेषु गन्धोदकघटान् न्यसेत् । तद्वहिष्षोडशपदे दिक्षु द्वारं विसृज्य च ॥ ७३ ॥ पञ्चगव्यादिद्रव्याणि न्यसेच्छेषपदेषु च । तस्याग्रे पौण्डरीकाग्निकुण्डं कृत्वा यथाविधि ॥ ७४ ॥ आघारं विधिवत्कृत्वा देवेशं शाययेत्पुनः । द्रव्याधिदेवानभ्यर्च्य वसन्तं काममर्चयेत् ॥ ७५ ॥ वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च । श्रीभूमिसूक्तमन्त्रांश्च यद्देवादींस्तथैव च ॥ ७६ ॥ जयादीन् परिषद्देवमूर्तिमन्त्रानथापि वा । एवं हुत्वा निशां नीत्वा प्रातस्स्नात्वा यथाविधि ॥ ७७ ॥ संस्नाप्य कलशैर्देवं गन्धोदकघटैरपि । वस्त्राद्यैरप्यलङ्कृत्य मुहूर्ते तु शुभोदये ॥ ७८ ॥ अधिवासितमालास्तास्समादाय समाहितः । देवस्य विष्णुसूक्तेन दद्यांद्भक्तिसमन्वितः ॥ ७९ ॥ अष्टादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २५६ सर्वेषामपि बेराणां तथा परिषदामपि । माला दमनकस्यैव दद्यात्तन्मन्त्रमूर्तिभिः ॥ ८० ॥ ग्रामं प्रदक्षिणं कुर्यात् सर्वालङ्कारसंयुतम् नीत्वाऽऽलयं ततो देवं संस्थाप्यास्थानमण्डपे ॥ ८१ ॥ संस्नाप्य गन्धतोयेन समभ्यर्च्य निवेदयेत् । अन्तहोमावसानेऽग्निर्नित्यकुण्डे प्रणीयताम् ॥ ८२ ॥ वसन्तोत्सवः पुष्पदानं प्रशस्तं स्यादस्मिन्मासे तु शार्ङ्गिणः । तद्दिनञ्च समारभ्य ज्येष्ठे मूलावसानकम् ॥ ८३ ॥ तत्तत्कालोद्भवैर्द्रव्यैर्वसन्तोत्सवमाचरेत् । देवं मध्याह्नपूजान्ते संस्थाप्याऽस्थानमण्डपे ॥ ८४ ॥ संस्नाप्य गन्धतोयेन वस्त्रं परिमितं लघु । समाच्छाद्य समभ्यर्च्य पुष्पैस्तत्कालसम्भवैः ॥ ८५ ॥ निवेद्य पायसादीनि कृत्वा धामप्रदक्षिणम् । पक्वानि कदलीचूतपनसानां फलानि च ॥ ८६ ॥ अपूपादीनि भक्ष्याणि नारिकेलफलाम्बु च । निवेद्याऽचमनं दत्वा मुखवासं निवेदयेत् ॥ ८७ ॥ अर्चापीठे तु देवेशं मन्त्रवत्स्थापयेद्बुधः । ज्येष्ठे मूलादि वर्षान्तं नित्यमेवं समाचरेत् ॥ ८८ ॥ वैशाखोत्सवः वैशाखे पौर्णमास्यान्तु स्नपनादीनि पूर्ववत् । कृत्वा तु पूर्ववद्देवं संस्थाप्याऽस्थानमण्डपे ॥ ८९ ॥ २५७ आसनादिभिरभ्यर्च्य सप्तविंशतिविग्रहैः । पायसादिनिवेद्यञ्च प्रभूतञ्च निवेदयेत् ॥ ९० ॥ मरीचिजीरकगुङैर्नारिकेलरसेन च । संस्कृतं भूरि सर्पिश्च दद्याच्चूतफलं बहु ॥ ९१ ॥ पानीयाचमनान्ते तु मुखवासं निवेदयेत् । आलयं परितः कृत्वा देवदेवस्य चोत्सवम् ॥ ९२ ॥ जीवस्थाने प्रतिष्ठाप्य नित्यपूजां समाचरेत् । अस्मिन् पानीयदानन्तु प्रशस्तभिधीयते ॥ ९३ ॥ ज्येष्ठोत्सवः ज्योष्ठमासे तु मूलायां वस्त्रदानं हरेः स्मृतम् । तन्मासे पौर्णमास्यान्तु गन्धोदैरभिषिच्य च ॥ ९४ ॥ नववस्त्रैरलङ्कृत्य समभ्यर्च्य निवेदयेत् । आषाढोत्सवः आषाढे पौर्णमास्यान्तु कुर्यादेकाहिकोत्सवम् ॥ ९५ ॥ स्नापयित्वा समभ्यर्च्य हवींष्यपि निवेदयेत् । अर्घ्यदानं प्रशस्तं स्याद्देवस्याषाढमासि वै ॥ ९६ ॥ श्रावणोत्सवः श्रावणे श्रवणर्क्षे तु देवदेवस्य यत्नतः । उत्सवस्नपनादीनि पूर्ववत्कारयेद्बुधः ॥ ९७ ॥ श्रावणे मासि तस्मिंश्च कृष्णपक्षे विशेषतः । अष्टमी रोहिणीयुक्ता जयन्ती रहिताऽथवा ॥ ९८ ॥ अष्टादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २५८ तत्र चन्द्रोदये विष्णुं कृष्णविग्रहमर्चयेत् । विष्णुं चतुर्भुजं वाऽथ तथा संस्नाप्य वारिभिः ॥ ९९ ॥ निवेद्य प्रचुरं क्षीरं हविस्सम्यङ्निवेद्य च । बद्ध्वा प्रतिसरं तद्वच्छाययेत्पुरुषोत्तमम् ॥ १०० ॥ अहोरात्रमुपोष्यैव प्रातस्स्नात्वा यथाविधि । उत्सवोक्तप्रकारेण देवस्योत्सवमाचरेत् ॥ १०१ ॥ संस्नाप्य कलशैर्विष्णुमास्थाने स्थापयेद्बुधः । समभ्यर्च्य हविर्दद्यात्पायसं गौल्यमेव वा ॥ १०२ ॥ अर्पयेन्मुखवासान्ते जीवस्थाने निवेशयेत् । (पारणन्तु ततः कुर्यात् स वै सायुज्यमाप्नुयात्) ॥ १०३ ॥ सर्वान्कामानवाप्नोति सर्वदानफलं लभेत् । एवं यः कुरुते भक्त्या विष्णुपूजाञ्च तद्दिने ॥ १०४ ॥ सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति । अतस्सर्वप्रयत्नेन जयन्त्यामुत्सवं चरेत् ॥ १०५ ॥ धूपदानं प्रशस्तं स्याछ्रावणे मासि शार्ङ्गिणः । यो नित्यं परया भक्त्या धूपदानं समाचरेत् ॥ १०६ ॥ सोऽपि संवत्सरं धूपफलमेति न संशयः । भाद्रपदोत्सवः श्रवणद्वादशीयोगे मासि भाद्रपदे तथा ॥ १०७ ॥ संवत्सरार्चनादोषशान्त्यर्थं केशवस्य च । राजराष्ट्राभिवृद्ध्यर्थं सर्वमङ्गलकारणम् ॥ १०८ ॥ २५९ सर्वदोषोपशमनं प्रोक्तं यद्ब्रह्मणा पुरा । पवित्रारोपणं कुर्यात्सर्वदोषोपशान्तये ॥ १०९ ॥ उत्सवोक्तप्रकारेण कुर्यात्तच्छ्रवणे बुधः । अस्मिन्मासे हविर्दानं प्रशस्तं केशवस्य तु ॥ ११० ॥ मासेऽस्मिन्नारभेतैव श्रावणं व्रतमुत्तमम् । मार्गशीर्षं समारभ्य कुर्यादेकादशीव्रतम् ॥ १११ ॥ एकभुक्तस्तु पूर्वेऽह्नि प्रातस्स्नात्वा यथाविधि । युग्मप्रदक्षिणं कुर्याद्देवदेवं प्रणम्य च ॥ ११२ ॥ केशवादीनि नामानि जपेदेकाग्रमानसः । मार्गशीर्षं समारभ्य क्रमान्मासेषु वै पुनः ॥ ११३ ॥ अथवा पौरुषं सूक्तमुपोष्य व्रतमाचरेत् । प्रातस्संस्नाप्य देवेशं समभ्यर्च्य निवेद्य च ॥ ११४ ॥ दानं कृत्वा द्विजेन्द्रेभ्यः पारणं पुनराचरेत् । ततस्सर्वेषु मासेषु क्षुतप्रस्खलनादिषु ॥ ११५ ॥ जपेत्तन्मासनाम्नैव देवेशं मनसा स्मरन् । विष्ण्वादिपञ्चमूर्त्यन्तैः स्नपनञ्चार्चनादिकम् ॥ ११६ ॥ कुर्यात्तन्मासनाम्नैव ब्राह्मणेभ्यस्तथैव च । एवं वर्षे तु सम्पूर्णे मासि भाद्रपदे तथा ॥ ११७ ॥ श्रवणे स्नापयेद्देवं शताष्टकलशैरपि । महाहविः प्रभूतं वा संयुक्तं पायसादिभिः ॥ ११८ ॥ निवेद्य मुखवासान्ते दद्यात्पुष्पाञ्जलीन् बहून् । कृत्वाऽन्नदानं विप्रेभ्यः पारणं पूर्ववच्चरेत् ॥ ११९ ॥ अष्टादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २६० एकादशीव्रतं कुर्वन् सम्पूर्णे वत्सरे तथा । द्वादश्यां मार्गशीर्षे तु स्नपनादीनि कारयेत् ॥ १२० ॥ एवं यः कुरुते भक्त्या महापापैर्विमुच्यते । अन्ते विमानमारुह्य विष्णोः पदमवाप्नुयात् ॥ १२१ ॥ मार्गशीर्षश्च मासोऽयं मासानां श्रेष्ठ ईरितः । द्वादशी श्रवणं तस्मिन्नमावास्या तथैव च ॥ १२२ ॥ उपवासव्रतं कुर्यात्तस्मिन्नान्यत्समाचरेत् । आश्वयुजोत्सवः श्रवणञ्चाश्वयुङ्मासि सर्वपापहरं वरम् ॥ १२३ ॥ मत्स्यकूर्मवराहाणामाविर्भावदिनं स्मृतम् । उत्सवस्नपनादीनि कुर्यात्तत्रापि शार्ङ्गिणः ॥ १२४ ॥ मुखवासं हरेर्दद्यात् मासेऽस्मिन्नित्यमेव च । सर्वेष्वपि च मासेषु मासर्क्षेष्वधिकार्चनम् ॥ १२५ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे पुण्यर्क्षपूजन आग्रयण हविष्पाकविधान सर्वमासार्चनविधिर्नाम अष्टादशोऽध्यायः