१७


२३९ सप्तदशोऽध्यायः त्रिमूर्तिस्थापनम् त्रिमूर्तिस्थापनं वक्ष्ये जगतामभिवृद्धये । (सर्वलोकस्य पूजार्थं सर्वलोकहिताय च) मध्ये विष्णुं प्रतिष्ठाप्य ब्रह्माणं दक्षिणे ततः ॥ १ ॥ वामे रुद्रं प्रतिष्ठाप्य पूजनं यत्तदुत्तमम् । स्थापनं व्यत्ययेनैव मध्यमं ब्रह्मरुद्रयोः ॥ २ ॥ मध्ये रुद्रं प्रतिष्ठाप्य दक्षिणे विष्णुमुत्तरे । ब्रह्माणं व्यत्ययेनाथ स्थापयेदधमं स्मृतम् ॥ ३ ॥ कृत्वा वा पार्श्वयोरन्यौ मध्ये ब्रह्माणमेव वा । सौम्येनानेन विधिना स्थापयेद्विष्णुपद्मजौ ॥ ४ ॥ शैवेन तान्त्रिकेणैव स्थापनं वै शिवस्य तु । निष्कलं सकलं वाऽपि स्थापयेच्चन्द्रशेखरम् ॥ ५ ॥ त्रयाणां परिवाराणं तत्तदुक्तानि कल्पयेत् । अनपायिगणद्वारविमानेशाः पृथक्पृथक्॥ ६ ॥ प्राकारपरिवाराणां सर्वे साधारणा मताः । प्रथमावरणादीनां द्वारपालास्तथैव च ॥ ७ ॥ दशतालोत्तमेनैव देवदेवं प्रकल्पयेत् । शङ्करं मध्यमेनैव विरिञ्चमधमेन च ॥ ॥ ८ ॥ श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २४० आलयाभिमुखे तेषां यागशालां प्रकल्पयेत् । षडग्नीन् देवदेवस्य पञ्चाग्नीन् ब्रह्मणस्तथा ॥ ९ ॥ तच्छास्त्रोक्तेन मार्गेण रुद्रस्यापि प्रकल्पयेत् । अक्ष्युन्मेषादिकं सर्वं पूर्ववत्कारयेत्पृथक् ॥ १० ॥ हौत्रशंसनवेलायामिन्द्रादिपरिषद्गणान् । मध्यालयाग्निकुण्डे तु समावाह्य समर्चयेत् ॥ ११ ॥ देवस्य पूर्ववद्धोमं षडग्निषु जुहोति वै । ब्रह्मणस्सभ्यकुण्डे तु कृत्वा हौत्रप्रशंसनम् ॥ १२ ॥ प्राजापत्यं जयादींश्च कूश्माण्डं गणहोमकम् । आहुतीनां सहस्त्रञ्च पूर्ववज्जुहुयाद्बुधः ॥ १३ ॥ ब्राह्ममन्त्रद्वयेनापि शतमष्टोत्तरं यजेत् । सावित्र्याऽब्जं घुताभ्यक्तं शतवारं ततो यजेत् ॥ १४ ॥ ऐन्द्रमाग्नेयसंयुक्तं यजेदाहवनीयके । याम्यं र्नैॠतसंयुक्तमन्वाहार्ये जुहोति वै ॥ १५ ॥ वारुणं वायुदैवत्यं गार्हपत्ये जुहोति च । सौम्यं कौबेरमैशान्यामावसत्थ्ये यजेत्क्रमात् ॥ १६ ॥ चतुर्वेदादिमन्त्रैश्च शतमष्टोत्तरं यजेत् । एष एव विशेषः स्यादन्यत्सर्वं समं भवेत् ॥ १७ ॥ स्थापनं च त्रिमूर्तीनां परिषद्गणपूजनम् । व्यक्तं मरीचिः प्रोवाच उक्तशेषं समाचरेत् ॥ १८ ॥ २४१ द्विमूर्तिस्थापनम् द्विमूर्तिस्थापनं वक्ष्ये दक्षिणे विष्णुमव्ययम् । वामे रुद्रं प्रतिष्ठाप्य नित्यं विधिवदर्चयेत् ॥ १९ ॥ अथवा कर्तुमिच्छेच्चेत् ब्रह्मणः स्थापनं पृथक् । ग्रामादिषु च तन्मध्ये विविक्तेऽन्यत्र वा वने ॥ २० ॥ भूपरीक्षादिकं सर्वं तन्मन्त्रेणैव कारयेत् । कृत्वा विमानबेरादिनयनोन्मीलनादिकम् ॥ २१ ॥ स्थापनोक्तक्रियास्सर्वाः कारयेत्पूर्ववद्बुधः । ब्रह्ममन्त्रद्वयेनापि नित्यं विधिवदर्चयेत् ॥ २२ ॥ हवींषि पायसादीनि चत्वार्येवं निवेदयेत् । उत्सवे तु ध्वजं हंसलक्षणं तस्य कल्पयेत् ॥ २३ ॥ विना पुरुषसूक्तेन विष्णुसूक्तेन वैष्णवैः । ब्राह्ममन्त्रद्वयेनैव तत्तद्धोमस्तदुत्सवे ॥ २४ ॥ एष एव विशेषः स्यादन्यत्सर्वं समं भवेत् । परिवारस्थापनम् रविं गुहञ्च विघ्नेशं दुर्गां ज्येष्ठां सरस्वतीम् ॥ २५ ॥ स्थापयित्वाऽर्चनं कर्तुं यदीच्छेद्भक्तितः पृथक् । खिले विस्तरतः प्रोक्तं यन्मया तत्समाचरेत् ॥ २६ ॥ आश्रयालयमिच्छेच्चेत्परितो विष्णुमन्दिरे । भास्करादीन् प्रकल्प्यैव पूजयेच्चेन्महाफलम् ॥ २७ ॥ सप्तदशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २४२ प्रथमाऽवरणे प्राच्यां भास्करं भारतीमपि । गुहं याम्ये तु विघ्नेशं र्नैॠते परिकल्पयेत् ॥ २८ ॥ ज्येष्ठां वायव्यभागे तु दुर्गां याम्ये प्रकल्पयेत् । प्रत्यङ्मुखौ च कर्तव्यौ भारती च दिवाकरः ॥ २९ ॥ कारयेत्प्राङ्मुखानन्यानिति पूर्वजशासनम् । सौम्येनैव विधानेन पूजयेत्सर्वसम्पदे ॥ ३० ॥ सौम्यालयाश्रितानेतान् तान्त्रिकेण न चार्चयेत् । औपासनाग्निरेव स्यादेतेषामाश्रयालये ॥ ३१ ॥ कुर्याद्ध्रुवार्चामार्गेण सर्वमन्यत्खिलोक्तवत् । आलयं प्रतिमोत्सेधं परिवारोक्तवद्भवेत् ॥ ३२ ॥ आश्रयालयकल्पः आश्रयालयकल्पञ्च प्रवक्ष्यामि तपोधनाः । स्वतन्त्रमालयं कर्तुमशक्तोऽन्यत्र वाऽऽलये ॥ ३३ ॥ स्थापयित्वाऽर्चयेत्सोऽपि समग्रं फलमाप्नुयात् । मूलालये स्थिते देवे स्थित एवाऽश्रये भवेत् ॥ ३४ ॥ आसीने चाऽसनं वाऽपि स्थानकञ्च प्रकल्पयेत् । स्थानकासनशय्यासु शयनेऽन्यतमं मतम् ॥ ३५ ॥ मूलालये ध्रुवार्चायामाश्रयञ्च ध्रुवार्चनम् । ध्रुवकौतुकसंयुक्ते तद्वदेवैकमेव वा ॥ ३६ ॥ अवताराश्रयञ्चेत्तु गौणमार्गे यथाविधि । आसीनावेव सर्वत्र वराहनरसिंहकौ ॥ ३७ ॥ २४३ अवताराश्रयं कुर्वन् प्रथमावरणादिषु । मत्स्यकूर्मौ प्रकुर्वीत पूर्वद्वारस्य दक्षिणे ॥ ३८ ॥ वराहत्रयमाग्नेयाद्याम्यान्तं परिकल्पयेत् । नारसिंहं प्रकुर्वीत गिरिजं याम्यपश्चिमे ॥ ३९ ॥ स्थूणजं र्नैॠते देशे नीलवारुणमध्यमे । सौदर्शनं नृसिंहन्तु वामनं वायुदिश्यपि ॥ ४० ॥ कुर्याल्लक्ष्मीनृसिंहञ्च वरुणोदानमध्यमे । पातालनरसिंहञ्च वामनं वायुदिश्यपि ॥ ४१ ॥ धनदोदानयोर्मध्ये कारयेत्तु त्रिविक्रमम् । जामदग्न्यं तु कौबेरे कुबेरेशानमध्यमे ॥ ४२ ॥ कुर्याद्दाशरथिं राममैशान्ये तु हलायुधम् । ईशानेन्द्रान्तरे कृष्णं द्वारवामे तु कल्किनम् ॥ ४३ ॥ वराहं नारसिंहञ्च रामं कृष्णं तथैव च । दिक्षु सर्वासु संस्थाप्य पूजयेत्सर्वसिद्धये ॥ ४४ ॥ योगे मूलालये कुर्याद्योगमेवाश्रयालयम् । भोगे भोगञ्च योगं वा न जातु विरहादिकम् ॥ ४५ ॥ मूलबेरन्तु शूलञ्चेच्छूलमेवाश्रयालये । शैले शैलञ्च शूलं वा लोहे लौहं शिलामपि ॥ ४६ ॥ एकबेरन्तु सर्वत्र शैलमेव प्रकल्पयेत् । सुदर्शनप्रतिष्ठा चेद्याम्ये वा र्नैॠ ते तथा ॥ ४७ ॥ कल्पयेदीश्वरं प्राच्यां प्रागादि परिकल्पनम् ?। पादहीनमथार्धं वा मूलादाश्रयमन्दिरम् ॥ ४८ ॥ सप्तदशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २४४ तत्र मूलालयोत्कृष्टमलङ्कारं न कल्पयेत् । सङ्ख्याधिकतलं नैव कल्पयेदाश्रयालयम् ॥ ४९ ॥ सालाश्रयं त्रिवर्गाढ्यं तदन्तर्मण्डलेऽपि वा । अग्रमण्डपसंयुक्तं प्रथमाऽवरणे स्मृतम् ॥ ५० ॥ विमानद्वारदेवाश्च गर्भालयगता अपि । परिवारा इति प्रोक्ता मुखवासान्तमर्चनम् ॥ ५१ ॥ द्वितीयावरणे चेत्तु शान्तान्तपरिषद्युतम् । तृतीयावरणे चेत्तु होमकर्माणि कारयेत् ॥ ५२ ॥ मुखमण्डपसंयुक्तं चक्रशङ्खयुतं तथा । चतुर्थावरणे चेत्तु नवविंशतिविग्रहैः ॥ ५३ ॥ अनपायिगणान् सर्वान्कल्पयेत्स्नपनालयम् । द्वात्रिंशद्विग्रहैरूर्ध्वे पृथगेवोत्सवादिकम् ॥ ५४ ॥ ब्रह्मपद्मावटान्ताश्च भूपरीक्षादिकाः क्रियाः । नैवाश्रयालये कुर्यादिति पूर्वजशासनम् ॥ ५५ ॥ आरभ्याद्येष्टकान्यासं विमानं परिकल्पयेत् । नैवाद्यान्त्येष्टकान्यासौ तच्चेदावृतमण्डपे ॥ ५६ ॥ मूलं पौराणिकं चेत्तु यथाकाममथाश्रयम् । गौणं समं वा मुख्यं वा कल्पयेच्चेन्न दोषकृत् ॥ ५७ ॥ अन्यदेवालये विष्णोः कुर्याच्चेदालयाश्रयम् । सर्वं मूलालयोत्कृष्टं कल्पयेदिति शासनम् ॥ ५८ ॥ विष्ण्वालयेऽन्यदेवानां कुर्याच्चेदाश्रयालयम् । न समं नैव चोत्कृष्टं हीनमेव प्रकल्पयेत् ॥ ५९ ॥ २४५ स्थितेऽपि देवे ज्येष्ठा च विघ्नेशश्च सरस्वती । आसीना एव कर्तव्यास्तदाऽन्ये संस्थिता मताः ॥ ६० ॥ इति सङ्क्षेपतः प्रोक्तमाश्रयालयकल्पनम् ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे त्रिमूर्तिद्विमूर्तिस्थापनविध्याश्रयालयकल्पनं नाम सप्तदशोऽध्यायः