॥
पञ्चदशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २२८ षोडशोऽध्यायः श्रीदेव्याः पृथगर्चनम् अतः परं प्रवक्ष्यामि श्रीदेव्याः पृथगर्चनम् । (आलयाद्दक्षिणे वाऽपि प्रथमाऽवरणे तथा ॥ द्वितीयाऽवरणे वाऽपि तृतीयाऽवरणे तथा । आलयद्वारदिग्द्वारं विमानं परिकल्प्य च ॥ देवस्य बाहुसीमान्तं कर्णसीमान्तमेव वा । स्तनान्तं वा श्रियं देवीं पूर्ववत्परिकल्पयेत्) । स्थिते देवे स्थितां देवीमासीनामासने हरेः ॥ १ ॥ आसीनां वा स्थितां वाऽपि शयने परिकल्पयेत् । श्रियं देवीं प्रकल्प्यैव सर्वाभरणभूषिताम् ॥ २ ॥ पद्मकिञ्जल्कसदृशां पीतवस्त्रधरां शुभाम् । पद्मासने समासीनां सपद्मोर्ध्वभुजद्वयाम् ॥ ३ ॥ सव्येन पूर्वहस्तेन भक्तानामभयप्रदाम् । वामेन पूर्वहस्तेन दधतीं विपुलं धनम् ॥ ४ ॥ एवं कृत्वा श्रियं देवीं प्रतिष्ठाप्य समर्चयेत् । आलयाभिमुखे कृत्वा यागशालां यथाविधि ॥ ५ ॥ औपासनाग्निकुण्डे द्वे कृत्वा शयनवेदिकाम् । ‘श्रिये जा’ तेति मन्त्रेण सर्वं कृत्वा यथाक्रमम् ॥ ६ ॥ २२९ (‘शं सानियच्छ’ तीत्युक्ता ‘भूयाम’ इति च क्रमात् । नयनोन्मीलनं कृत्वा जलादिष्वधिवास्य च) ॥ कुम्भं संसाध्य संस्नाप्य बध्द्वा प्रतिसरं तथा । शाययित्वा समावाह्य दक्षिणप्रणिधौ तथा ॥ ७ ॥ ‘श्रियं धृतिं पवित्रीं’ च ‘प्रमोदायिनी’ मिति । उत्तरप्रणिधौ वाऽपि भूमिञ्चैव सरस्वतीम् ॥ ८ ॥ रतिं प्रीतिं तथैवात्र कीर्तिं 1क्षान्तिं तथैव च । पुष्टिं तुष्टिं समावाह्य अष्टौ ताः परिचारिकाः ॥ ९ ॥ इन्द्रादिलोकपालांश्च द्वितीयाऽवरणेऽपि च । बलाकिनीं वनमालां विभीषामपि शाङ्करीम् ॥ १० ॥ गुग्गुलं चागरुञ्चैव दमकं शङ्खिलं तथा । तृतीयाऽवरणे प्रोक्ता एते चाष्टौ विशेषतः ॥ ११ ॥ प्रथमद्वारसव्ये तु निर्माल्यहरिणी तथा । वामे चैव तथा प्रोक्ता नैवेद्यहरिणीति च ॥ १२ ॥ द्वितीयद्वारसव्ये तु भूमिञ्चापि समाचरेत् । वामे सरस्वतीञ्चैव द्वितीयद्वारपालिके ॥ १३ ॥ तृतीयद्वारसव्ये तु रतिञ्चैव प्रकल्पयेत् । वामे भागे तथा प्रोक्ता प्रीतिरत्र समर्चने ॥ १४ ॥ एष एव विशेषस्स्यादन्यत्सर्वं हरेरिव । देव्य एतास्समावाह्य उत्तरप्रणिधौ जले ॥ १५ ॥ 1. कान्तिं आ. षोडशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २३० ‘शं सानियच्छ’तीत्युक्त्वा ‘भूयाम’ इति च क्रमात् । ‘श्रिये जा’तेति मन्त्रेण शतमष्टोत्तरं यजेत् ॥ १६ ॥ श्रीसूक्तेनैव पद्माग्नौ शतमष्टोत्तरं यजेत् । निर्माल्यहारिण्यन्तांश्च परिवारान् प्रकल्पयेत् ॥ १७ ॥ होमावाहनपूजादि तत्तन्नामभिराचरेत् । प्रतिष्ठोक्तक्रमेणैव सर्वाण्यन्यानि कारयेत् ॥ १८ ॥ एवमेव प्रतिष्ठाप्य त्रिसन्ध्यं नित्यमर्चयेत् । उत्सवे देवदेवस्य सह देवीं नयेदनु ॥ १९ ॥ इयमङ्गप्रतिष्ठा स्यात्स्वतन्त्रस्थापनोच्यते । (1एतं कल्पं समासेन विस्तरेण वदाम्यहम् ॥ २० ॥ शय्यावेदिञ्च परितः अग्निकुण्डानि कल्पयेत् । पञ्चाग्निं पौण्डरीकञ्च स्नानश्वभ्रञ्च पूर्ववत् ॥ २१ ॥ भूमियज्ञञ्च कृत्वा तु कुण्डेष्वाघारमाचरेत् । ततश्च पौण्डरीकाग्नौ हौत्रशंसनमाचरेत् ॥ २२ ॥ आज्यस्थालीं स्रुवञ्चैव सुवर्णेनैव कारयेत् । तेन स्रुवेण होतव्यमाहुतीनां सहस्रकम् ॥ २३ ॥ विष्णोस्सहस्रकं हुत्वा अष्टाशीतिं यजेत्क्रमात् । श्रियश्शताष्टकैर्मन्त्रैर्दशवारञ्च हूयताम् ॥ २४ ॥ पुष्कलामाहुतिं हुत्वा दिशाहोमं जुहोति च । यजेदाहवनीयाग्नौ श्रीसूक्तं भावयञ्छ्रियम् ॥ २५ ॥ 1. एतदारभ्य सार्धद्वात्रिंशत् श्लोकपर्यन्तो ग्रन्थ आ. कोशेषु द्दश्यते । २३१ ‘श्रिये जा’ तेति मन्त्रेण दक्षिणाग्नौ जुहोति वै । ‘शं सा नियच्छ’ तीत्युक्ता ‘भूयाम’ इति च क्रमात् ॥ २६ ॥ कुण्डयोरन्ययोर्हुत्वा व्याहृत्यन्तं पृथक्पृथक् । सभ्ये समस्तैर्मन्त्रैश्च व्याहृत्यन्तं क्रमाद्यजेत् ॥ २७ ॥ मुहूर्ते समनुप्राप्ते देवीं संस्थापयेत्तथा । एष एव विशेषः स्यादन्यत्सर्वं हरेरिव ॥ २८ ॥ एवं देवीं प्रतिष्ठाप्य त्रिसन्ध्यं नित्यमर्चयेत् । हंसध्वजो विशेषः स्याच्छी्रदेव्याश्चोत्सवेऽपि च ॥ २९ ॥ उत्सवोक्तक्रमेणैव सर्वाण्यन्यानि कारयेत् । उत्सवे देवदेवस्य सह देवीं नयेदनु ॥ ३० ॥ एवमेव प्रकारेण विष्णुसद्माश्रितश्रियः । उत्सवं कुरुते भक्त्या प्रतिष्ठामर्चनादिकम् ॥ ३१ ॥ अचलां श्रियमाप्नोति जन्मजन्मान्तरेऽपि च । तद्वंशजाश्च श्रीमन्तो भविष्यन्ति न संशयः ॥ ३२ ॥ स्वतन्त्रलक्ष्मीप्रतिष्ठा अतः परं प्रवक्ष्यामि स्वतन्त्रस्थापनं श्रियः ।) ग्रामे वा नगरे वाऽपि पत्तने खर्वटेऽपि वा ॥ ३३ ॥ मध्ये संस्थापयेद्देवीं ब्रह्मसूत्रात्तु दक्षिणे । अथवा पश्चिमे भागे तथा तत्सूत्रदक्षिणे ॥ ३४ ॥ विष्ण्वालयविहीने तु ब्रह्मसूत्रोत्तरेऽथवा । ग्रामादीनान्तु वायव्ये प्राच्यां वा सूत्रदक्षिणे ॥ ३५ ॥ षोडशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २३२ मनोरमेऽन्यदेशे वा नद्यास्तीरे तथा वने । पर्वताग्रेऽब्धितीरे वा प्रतिष्ठामाचरेद्बुधः ॥ ३६ ॥ विमानं स्वस्तिकं ग्रामे श्रीप्रतिष्ठितमेव वा । विष्णुच्छन्दविमानं वा चतुःफुटमथापि वा ॥ ३७ ॥ कर्षणादिक्रियास्सर्वास्तत्सूक्तेनैव कारयेत् । बालालयार्चनं कुर्वन् विमानं परिकल्पयेत् ॥ ३८ ॥ शूलस्थापनमार्गेण शूलं संस्थापयेत्पुनः । श्रीदेव्या बिल्ववृक्षस्तु शूलवृक्षः प्रकीर्तितः ॥ ३९ ॥ अथवाऽश्वत्थवृक्षो वा शिलाशूलमथापि वा । शिलास्थापनमार्गेण स्थापयेत्तु शिलामयम् ॥ ४० ॥ ध्रुवार्चां वा प्रकुर्वीत सम्यग्लक्षणसंयुताम् । आद्येष्टकानां विन्यासे गर्भप्रक्षेपणेऽथवा ॥ ४१ ॥ मूर्धेष्टकानां विन्यासे शूलस्य स्थापनेऽपि च । पौण्डरीकाग्निरेकः स्यात् मन्त्रं श्रीसूक्तमेव च ॥ ४२ ॥ श्रीदैवत्यं ‘श्रिये जात’ इति जप्येदृचं श्रियः । एष एव विशेषः स्यादन्यत्सर्वं हरेरिव ॥ ४३ ॥ तथा च कारयेद्देवीं द्विभुजां वा चतुर्भजाम् । रज्जुबन्धादिकं सर्वं हरेरिव समाचरेत् ॥ ४४ ॥ कुर्याद्बिल्ववनाम्भोजमध्ये पद्मं मनोहरम् । तन्मध्ये मन्दिरं कुर्यात्तप्तहाटकसन्निभम् ॥ ४५ ॥ दीपचामरमुक्तास्रक्पूर्णकुम्भद्वयाङ्कुरैः । पुष्पैर्गन्धैश्च धूपैश्च वितानैः स्तम्भवेष्टनैः ॥ ४६ ॥ २३३ मन्दिरं सुन्दरं कृत्वा चतुरावरणान्वितम् । तत्र सिंहासनाम्भोजकर्णिकामध्यविष्टरे ॥ ४७ ॥ कुर्याच्चतुर्भुजां देवीं सपद्मोर्ध्वकरद्वयाम् । पूर्वदक्षिणहस्तेन भक्तानामभयप्रदाम् ॥ ४८ ॥ वामेन पूर्वहस्तेन दधतीं विपुलं धनम् । इन्दीवरोदरदृशीं शरदिन्दुमुखीं शुभाम् ॥ ४९ ॥ शुक्लगन्धानुलिप्ताङ्गीं शुक्लमाल्याम्बरोज्जवलाम् । नानारत्नोज्ज्वलानर्घदिव्यभूषणभूषिताम् ॥ ५० ॥ (हेमयज्ञोपवीताञ्च पद्ममालासमन्विताम्) सुवर्णवर्णां वरदां हेमरूपस्रगुज्जवलाम्. एवं कृत्वा भगवतीं संसारार्णवतारिणीम् ॥ ५१ ॥ शङ्खपद्मनिधी कुर्यात्पादयोरग्रतः श्रियः । प्रागादिषु चतुर्दिक्षु पुरुषादीन् प्रकल्पयेत् ॥ ५२ ॥ अथवा वासुदेवादीन् शङ्खचक्रधरान् परान् । किरीटहारकेयूरमकुटादिविराजितान् ॥ ५३ ॥ श्रीवत्सकौस्तुभोरस्कान् वनमालाविभूषितान् । चतुर्भुजान् सुखासीनान् श्यामाभान् पद्मलोचनान् ॥ ५४ ॥ वीक्षमाणान् श्रियं देवीं विस्मयोत्फुल्ललोचनाम् । गुग्गुलुं चागरुञ्चैव दमकं शिङ्खिलं तथा ॥ ५५ ॥ चतुर्विषाणान् शुक्लाङ्गान् कोणेषु परिकल्पयेत् । भूमिं सरस्वतीञ्चैव रतिं प्रीतिं तथैव च ॥ ५६ ॥ षोडशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २३४ कीर्तिं क्षान्तिं पुष्टितुष्टी शक्तीरष्टौ प्रकल्पयेत् । इन्द्रादिलोकपालांश्च तत्तत्स्थाने प्रकल्पयेत् ॥ ५७ ॥ (पूर्वाशादिक्रमेणैव प्रथमाऽवरणेऽर्चयेत्) बलाकिनीञ्च प्राग्द्वारे दक्षिणे वनमालिकाम् । विभीषिकां प्रतीच्यान्तु उदग्द्वारे च शाङ्करीम् ॥ ५८ ॥ कल्पयेद्वामनास्त्वेताश्चतस्रो द्वारपालिकाः । द्वे द्वे कृत्वाऽथवा चैताः खिलोक्ता द्वारपालिकाः ॥ ५९ ॥ शुक्लाम्बराः पद्महस्ताः सर्वाभरणभूषिताः । बलाकिन्यादयस्त्वेताः पद्मकिञ्जल्कसन्निभाः ॥ ६० ॥ कल्पसन्तानमन्दारपारिजातांश्चतुर्दिशम् । बिल्ववृक्षांश्च परितः पूर्णकुम्भान् लिखेत्क्रमात् ॥ ६१ ॥ कल्पयित्वाखिलोक्तांश्च परिवारान् यथाक्रमम् । कृत्वा तु भूतपीठान्तान् स्थापनारम्भमाचरेत् ॥ ६२ ॥ फाल्गुनोत्तरफल्गुन्यां स्थापना प्रीतये श्रियः । बिल्ववृक्षादधस्सम्यगासीनो ब्राह्ममासनम् ॥ ६३ ॥ जपेदष्टोत्तरशतं श्रीसूक्तं भावयेच्छ्रियम् । स्थापनादिवसात्पूर्वं पञ्चमेऽह्न्यङ्कुरार्पणम् ॥ ६४ ॥ अङ्कुरार्पणकादूर्ध्वं यागशालां प्रकल्पयेत् । शय्यावेदिञ्च परितस्त्वग्निकुण्डानि कल्पयेत् ॥ ६५ ॥ पञ्चाग्नीन् पौण्डरीकाग्निं स्नानश्वभ्रञ्च पूर्ववत् । अक्ष्युन्मेषाधिवासौ च ध्रुवशुद्धिं तथैव च ॥ ६६ ॥ २३५ कृत्वा तु पूर्ववत्पश्चात् पूर्वरात्रौ विशेषतः । भूमियज्ञञ्च कृत्वा तु कुण्डेष्वाघारमाचरेत् ॥ ६७ ॥ कुम्भं सम्पूज्य कलशैः स्नापयेत्सप्तभिः पुनः । पूर्ववत्कौतुकं बध्द्वा शयने शाययेच्छ्रियम् ॥ ६८ ॥ ततश्च पौण्डरीकाग्नौ हौत्रशंसनमाचरेत् । (हौत्रान्ते तु समावाह्य दक्षिणप्रणिधौ जले । श्रियं देवीं समावाह्य (आनिरुद्धान्तमेव च ॥ निर्माल्यहारिणीत्यादि श्रीभूतान्तं समावहेत् । उत्तरप्रणिधौ तद्वादावाह्याज्यं निरूप्य च ॥ एतैश्च मूर्तिमन्त्रैश्च आज्येन जुहुयात्क्रमात्) । आज्यपात्रं स्रुवञ्चैव सुवर्णेनैव कारयेत् ॥ ६९ ॥ तेन स्रुवेण होतव्यमाहुतीनां सहस्रकम् । विष्णोस्सहस्रकं हुत्वा अष्टाशीत्याहुतीर्यजेत् ॥ ७० ॥ श्रियश्शताष्टकैर्मन्त्रैर्दशवारञ्च हूयताम् । पुष्कलामाहुतिं हुत्वा दिशाहोमं जुहोति वै ॥ ७१ ॥ यजेदाहवनीयाग्नौ श्रीसूक्तं भावयञ्छ्रियम् । ‘श्रिये जा’ तेति मिन्त्रेण दक्षिणाग्नौ जुहोति च ॥ ७२ ॥ ‘शं सा नियच्छ’ तीत्युक्त्वा ‘भूयाम’ इति च क्रमात् । कुण्डयोरन्ययोर्हुत्वा व्याहृत्यन्तं पृथक्पृथक् ॥ ७३ ॥ सभ्ये समस्तैर्मन्त्रैश्च व्याहृत्यन्तं क्रमाद्यजेत् । मुहूर्ते समनुप्राप्ते लक्ष्मीं संस्थापयेत्तथा ॥ ७४ ॥ षोडशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २३६ एष एव विशेषः स्यादन्यत्सर्वं खिलोक्तवत् । पृथक्कर्तुमशक्तश्चेदालयाश्रयमेव वा ॥ ७५ ॥ आलये देवदेवस्य दक्षिणे सम्प्रकल्पयेत् । चतुर्भुजां प्रकुर्वीत पूर्वोक्तेन विधानतः ॥ ७६ ॥ अथवा द्विभुजां देवीं कल्पयित्वा खिलोक्तवत् । विधिना स्थापयेत्सम्यक् स्वतन्त्रं वाऽऽलयाश्रयम् ॥ ७७ ॥ अर्चनादि श्रियो देव्याः स्थापनं श्रीशताष्टकम् । खिले विस्तरतः प्रोक्तं तत्तत् ज्ञात्वा समर्चयेत् ॥ ७८ ॥ ध्रुवकौतुकसंयुक्तं स्थापनं चोत्तमं भवेत् । एकबेरार्चनं मध्यमाभासमधमं भवेत् ॥ ७९ ॥ श्रियो यः कुरुते भक्त्या प्रतिष्ठामर्चनादिकम् । अचलां श्रियमाप्नोति जन्मजन्मान्तरेऽपि च ॥ ८० ॥ तद्वंशजाश्च श्रीमन्तो भविष्यन्ति न संशयः । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ ८१ ॥ अन्ते विमानमारुह्य सालोक्यं पदमाप्नुयात् । श्रीदेव्याः विमानक्रमः अतः परं श्रियो देव्याः विमानक्रम उच्यते ॥ ८२ ॥ विमानं लक्षणं कृत्वा परिवारान्प्रकल्पयेत् । तले च प्रथमे चैव देवानां क्रम उच्यते ॥ ८३ ॥ प्रागादिषु चतुर्दिक्षु पुरुषादीन् प्रकल्पयेत् । द्वितीयेऽपि तले प्रोक्तं वासुदेवादिव्यूहकम् ॥ ८४ ॥ २३७ तृतीयेऽपि तले प्रोक्तः परिवारक्रमो यथा । गुग्गुलुञ्च कुरण्टञ्च दमकं सलिलं तथा ॥ ८५ ॥ चतुर्विषाणान् शुक्लाङ्गान् गजान्प्रागादि कल्पयेत् । पञ्चमेऽपि तले प्रोक्त ः परिवारक्रमो बुधाः ॥ ८६ ॥ भूमिं सरस्वतीञ्चैव रतिं प्रीतिं तथैव च । एताश्चतस्रो देव्यश्च प्रागादि परिकल्पयेत् ॥ ८७ ॥ षष्ठेऽपि च तले प्रोक्ताः कीर्तिः क्षान्तिस्तथैव च । पुष्टिस्तुष्टिस्तथैताश्च प्रागादि परिकल्पयेत् ॥ ८८ ॥ सप्तमेऽपितले वाऽपि दिग्देवांश्च प्रकल्पयेत् । अष्टमेऽपि तले कुर्यादष्टदिक्पालकानपि ॥ ८९ ॥ प्रागादिषु चतुर्दिक्षु एतान्देवान् प्रकल्पयेत् । नवमेऽपि तले वाऽपि देवानां क्रम उच्यते ॥ ९० ॥ वासुकिञ्च तथाऽनन्तं शङ्खञ्च गुलिकं तथा । प्रागादिषु चतुर्दिक्षु क्रमादेवं प्रकल्पयेत् ॥ ९१ ॥ दशमेऽपि तले वाऽपि परिवारक्रमो बुधाः । पूर्वे सरस्वतीञ्चैव गायत्रीं दक्षिणे तथा ॥ ९२ ॥ पश्चिमेऽपि च सावित्रीं वैष्णवीमपि चोत्तरे । एकादशतले वाऽपि पालिकानां क्रमं श्रृणु ॥ ९३ ॥ पुर्वे तत्र श्रियं चापि दक्षिणे हरिणीं तथा । पश्चिमे च इलाञ्चैव उत्तरे सुन्दरीं तथा ॥ ९४ ॥ द्वादशेऽपि तले प्रोक्तदेवताक्रम उच्यते । बलाकिनीञ्च पूर्वे तु दक्षिणे वनमालिकाम् ॥ ९५ ॥ षोडशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २३८ विभीषिकां पश्चिमे तु उत्तरे शाङ्करीं तथा । विमानद्वारभागे तु चतस्रो द्वारपालिकाः ॥ ९६ ॥ विमानं परितश्चापि एतान्देवान्प्रकल्पयेत् । शुक्लाम्बराः पद्महस्ताः सर्वाभरणभूषिताः ॥ ९७ ॥ बलाकिन्यादयस्त्वेताः पद्मकिञ्जल्कसन्निभाः । गजेन्द्रं वा मृगेन्द्रं वा कोणे कोणे प्रकल्पयेत् ॥ ९८ ॥ एष एव विशेषः स्यादन्यत्सर्वं हरेरिव । प्रतिष्ठादिवसात्पूर्वं पञ्चमेऽह्न्यङ्कुरार्पणम् ॥ ९९ ॥ विमानं परितश्चापि यागशालां प्रकल्प्य च । विमानस्य चतुर्दिक्षु चाग्निकुण्डानि कल्पयेत् ॥ १०० ॥ वास्तुहोमं ततो हुत्वा पञ्चगव्येन चोक्षयेत् । श्रियो देव्याः प्रतिष्ठोक्तं सर्वमत्रैव कारयेत् ॥ १०१ ॥ एष एव विशेषः स्यादन्यत्सर्वं श्रियो यथा । एवं यः कुरुते भक्त्या सर्वकामानवाप्नुयात् ॥ १०२ ॥ इह लोके सुखं भुक्त्वा ब्रह्मलोकं स गच्छति ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे भगवदालयाश्रितश्रीप्रतिष्ठाविधिर्नाम षोडशोऽध्यायः