१५


चतुर्दशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २१८ पञ्चदशोऽध्यायः1 गृहार्चाप्रतिष्ठा विष्णुप्रतिष्ठा अथार्चनं गृहे विष्णोः प्रवक्ष्यामि तपोधनाः । स्थापनञ्च प्रवक्ष्यामि विष्णोस्सम्यग्यथाविधि ॥ १ ॥ षडङ्गुलादहीनन्तु तद्रूपं हाटकादिभिः । कारयित्वा यथामार्गं प्रतिष्ठामारभेत्पुनः ॥ २ ॥ पूर्वोक्तगुणसम्पन्ने काले चापि शुभोज्ज्वले । औपासनाग्निमाधाय वास्तुहोमावसानके ॥ ३ ॥ अक्ष्युन्मेषोक्तहोमान्ते कृत्वा चैवाक्षिमोचनम् । दर्शयित्वा गवादीनि जलादिष्वधिवास्य च ॥ ४ ॥ ध्रुवबेरोदितां शुद्धिं चित्राभासे च कारयेत् । पूर्वेद्युरेव तस्मात्तु सायं सन्ध्यामुपास्य च ॥ ५ ॥ औपासनाग्निमाधाय हुत्वा तत्र च वैष्णवम् । संसाध्य पूर्ववत्कुम्भं देवमावाह्य तत्र वै ॥ ६ ॥ अधिवासगतं देवमुद्धृत्य प्रणवेन तु । स्नानश्वभ्रे प्रतिष्ठाप्य स्वस्तिसूक्तं समुच्चरन् ॥ ७ ॥ तस्यैव दक्षिणे भागे धान्यपीठे सुसन्न्यसेत् । संस्नाप्य सप्तकलशैः सोपस्नानैश्च पूर्ववत् ॥ ८ ॥ चित्राभासं प्रतिष्ठाप्य प्रोक्षयेत्कलशाम्भसा । ततोऽग्नेरुत्तरस्यान्तु धान्यपीठे निवेश्य च ॥ ९ ॥ 1. अयमध्यायः ख मातृकायां नोपलभ्यते । २१९ पुण्याहं वाचयित्वा तु बध्द्वा प्रतिसरं तथा । तथैव शाययेद्देवं पञ्चवस्त्रसमास्तृते ॥ १० ॥ होत्रं प्रशंस्य तत्काले दक्षिणप्रणिधौ जले । ओं भूः पुरुष मित्युक्त्वा ओं भुवः पुरुषं तथा ॥ ११ ॥ ओं सुवः पुरषं चेति भूर्भुवस्सुवरित्यपि । नारायणं तथा विष्णुं पुरुषं सत्यमच्युतम् ॥ १२ ॥ अनिरुद्धं समावाह्य श्रियञ्चेति महीमिति । निरुप्याज्याहुतीर्हुत्वा सूक्ते वैष्णवपौरुषे ॥ १३ ॥ अतो देवादिमन्त्रांश्च चतुरावर्त्य वै यजेत् । श्रीभूमिसहिते तत्तत् सूक्तमन्त्रांस्तथा यजेत् ॥ १४ ॥ मूर्तिमन्त्रैश्च हुत्वाऽन्ते विष्णुगायत्रिया पुनः । अष्टोत्तरशतं पद्मं देवं ध्यायन् जुहोति वै ॥ १५ ॥ (प्रादुर्भावविकल्पानां तत्तन्मन्त्रैश्च मूर्तिभिः । पूर्वोक्तमूर्तिभिस्सार्धं होमकर्म समाचरेत् ॥ १६ ॥ होमकर्म समाप्यैव प्रातस्स्नात्वा यथाविधि । जप्त्वा जप्यानि सूक्तानि मुहूर्ते तु शुभोज्ज्वले ॥ १७ ॥ गृहे वायव्यभागे तु पीठे रत्नादिसंयुते । प्रतिष्ठाप्य समावाह्य नित्यं विधिवदर्चयेत् ॥ १८ ॥ सूर्यकल्पः यदीच्छेद्भास्कारस्यापि गृहे नित्यं समर्चयेत् । 1भास्करञ्च महादेवं कदम्बकुसुमप्रभम् ॥ १९ ॥ 1. मण्डलान्तर्गतं देवं कौस्तुभं कुसुमप्रभं ई. पञ्चदशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २२० नवार्धतालमानेन द्विभुजं पद्मधारिणम् । देवीभ्याञ्च समायुक्तं राशिभिः परिवारितम् ॥ २० ॥ (स्वस्वपीठे प्रतिष्ठाप्य स्वस्वदेवीसमायुतम्) । एवं कृत्वा यथान्यायं अक्ष्युन्मेषादनन्तरम् । अधिवासादिकं कर्म हरेरिव समाचरेत् ॥ २१ ॥ ‘उदुत्यं चित्र’ मित्येवं 1मूलमन्त्रं प्रचक्षते । औपासनाग्निमाधाय कुण्डे वा स्थणिडलेऽथवा ॥ २२ ॥ संसाध्य पूर्ववत्कुम्भं रक्तवस्त्रद्वयान्वितम् । आचार्यस्सुप्रसन्नात्मा त्रयीमयमनामयम् ॥ २३ ॥ विश्वबोधात्मकं भानुं ध्यायन्नावाहयेज्जले । संस्नाप्य सप्तकलशैः बिम्बं कुम्भसमन्वितम् ॥ २४ ॥ अग्रेरुत्तरपार्श्वे तु धान्यराशिं प्रकल्प्य च । सन्न्यस्य 2बिल्वफलकं वस्त्राण्यास्तीर्य पञ्च च ॥ २५ ॥ तद्बेरं तत्र विन्यस्य बद्ध्वा प्रतिसरं ततः । विधिना शयने धीमान् शाययेद्रक्तवाससा (?) ॥ २६ ॥ हौत्रं प्रशंस्य चाऽवाह्य निरुप्याज्याहुतीर्यजेत् । हुत्वा तु सूर्यगायत्र्या भावयन्मनसा रविम् ॥ २७ ॥ ‘भास्कराय’ च ‘सूर्याय मार्ताण्डाय विवस्वते’ । ‘त्रिलोकमण्डना’येति तथा 3चैव ‘त्रिमूर्तये’ ॥ २८ ॥ ‘सर्वात्मने नम’ श्चेति जुहुया‘च्चण्डरोचिषे’ । ‘त्रिगुणेश्वराय’ पश्चाद्वै ‘सर्वज्योतिष्मते’ तथा ॥ २९ ॥ 1. कारयेत्सकलं रवेः। ई.2. निम्बफलकं आ.3. ज्योतिस्त्रिमूर्तये आ २२१ सहस्रं वा शतं वाऽथ दशकृत्वोऽथवा यजेत् । मैत्रमन्त्रद्वयं हुत्वा ‘उद्वयं तमस’ स्तथा ॥ ३० ॥ ‘उदुत्यं जातवे’ देति ‘चित्रं दे’ वेति हूयताम् । ‘यच्चिद्धी’ ति ततो हुत्वा (‘यत्किञ्चेति ततः परम् ॥ ‘कितवा’ सेति हुत्वा तु ‘इमम्मे वरु’ णेत्यपि । अर्कापामार्गपालाशसमिद्भिश्चैव हूयताम् ॥ वैष्णवं पौरुषं सूक्तं लोकपालकदैवतम् । मिन्दाहुती ततो हुत्वा) होमकर्म समाचरेत् ॥ ३१ ॥ शतमष्टोत्तरं नाम्ना देव्योस्तत्र जुहोति वै । प्रातः स्नात्वा विधानेन रत्नादीन्त्सन्न्यसेत्क्रमात् ॥ ३२ ॥ पश्चिमाभिमुखं देवं स्थापयेत्प्राङ्मुखं तु वा । न स्थाप्यो भास्करः क्वापि दक्षिणोत्तरदिङ्मुखः ॥ ३३ ॥ कुम्भस्थां शक्तिमादाय बिम्बे चाऽवाहयेद्गुरुः । अनुक्तमत्र यत्सर्वं हरेरिव समाचरेत् ॥ ३४ ॥ ‘उद्रुत्यं चित्र’ मित्युक्त्वा प्रणम्य ज्योतिषां पतिम् । समन्त्राभ्युक्षणं कृत्वा निर्माल्यं संव्यपोह्य च ॥ ३५ ॥ स्वागतञ्चानुमानञ्च ‘त्वमग्ने रुद्रं’ इत्यपि । ‘उद्वयं तमस’ श्चेति पाद्यं दद्यात्ततः परम् ॥ ३६ ॥ दद्यादाचमनं हस्ते ‘हिरण्यवर्णा’ इति ब्रुवन् । ‘पवित्रं त’ इति प्रोच्य मूर्ध्नि पुष्पं विनिक्षिपेत् ॥ ३७ ॥ ‘इमे गन्धा’ दिना गन्धं धूपमन्त्रेण धूपयेत् । ‘प्रवश्शुक्रे’ति दीपं तु अर्घ्यं दद्यात्समन्त्रकम् ॥ ३८ ॥ पञ्चदशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २२२ दद्यादन्योपचारांस्तु ‘उदुत्यं चित्र’ मित्यपि । गुरुपदेशसंसिद्धैः कल्पमन्त्रैरथापि वा ॥ ३९ ॥ आसनाद्युपचारैस्तु पूजयेदिति केचन । 1सावित्र्या वाऽर्चयेन्नित्यमिति पूर्वजशासनम् ॥ ४० ॥ एष एवविशेषस्स्यादन्यत्सर्वं हरेरिव । सुवर्चलामुषां चेति श्यामलां सुप्रभामिति ॥ ४१ ॥ अर्चयेद्दक्षिणे देवीं रेणुकां रक्तवर्णिनीम् । प्रत्यूषां श्वेतवस्त्रां तामिति वामे समर्चयेत् ॥ ४२ ॥ गुहार्चनम् नित्यपूजां गुहस्येच्छन् बिम्बं कृत्वा यथाविधि । स्कन्ददैवत्यमन्त्रैश्च नयनोन्मीलनादिकम् ॥ ४३ ॥ कृत्वा तु कौतुकं बद्ध्वा शतमष्टोत्तरं यजेत् । तन्मन्त्रेण समावाह्य नित्यं विधिवदर्चचेत् ॥ ४४ ॥ अत्रानुक्तानि सर्वाणि खिलोक्तविधिना चरेत् । एवं यः कुरुते भक्त्या तस्य पुत्रास्तु नीरुजः ॥ ४५ ॥ आयुष्मन्तः श्रिया युक्ताः वर्धन्ते नात्र संशयः । इह भुक्वा महाभोगान् सोऽन्ते स्वर्गमवाप्नुयात् ॥ ४६ ॥ विनायकार्चनम् वक्रतुण्डस्य वक्ष्यामि नित्यं वै सम्यगर्चनम् । धर्मौघमा’ दि मन्त्राभ्यां नयनोन्मीलनादिकम् ॥ ४७ ॥ 1. चित्राभासेऽर्चयेन्नित्यम् । आ. २२३ अष्टोत्तरशतं ताभ्यां हुत्वाऽऽवाह्य यथाविधि । ताभ्यामेव तु मंन्त्राभ्यां नित्यं विधिवदर्चयेत् ॥ ४८ ॥ एवं यः कुरुते भक्त्या निर्विघ्नं तस्य कर्म वै । सर्वं सम्पद्यते शीघ्रं लक्ष्मी च विपुला भवेत् ॥ ४९ ॥ श्रीदेव्यर्चनम् अतः परं प्रवक्ष्यामि गृहे नित्यार्चनं श्रियः । पद्मकिञ्जल्कसदृशां सर्वाभरणभूषिताम् ॥ ५० ॥ पद्मासने समासीनां सपद्मोर्ध्वभुजद्वयाम् । सव्येन पूर्वहस्तेन भक्तानामभयप्रदाम् ॥ ५१ ॥ वामेन पूर्वहस्तेन दधतीं विपुलं धनम् । एवं कृत्वा श्रियं देवीं ‘श्रिये जात’ इति ब्रुवन् ॥ ५२ ॥ ‘शं सा नियच्छ’ तीत्युक्त्वा ‘भूयाम’ इति च क्रमात् । नयनोन्मीलनं कृत्वा जलादिष्वधिवास्य च ॥ ५३ ॥ कुम्भं संसाध्य संस्नाप्य बद्ध्वा प्रतिसरं तथा । शाययित्वा समावाह्य हौत्रकर्मावसानके ॥ ५४ ॥ पौण्डरीके तु होतव्यं ‘श्रिये जा’ तेति मन्त्रतः । ‘शं सा नियच्छ’ तीत्युक्त्वा ‘भूयाम’ इति च क्रमात् ॥ ५५ ॥ शतमष्टोत्तरं हुत्वा श्रीसूक्तेन सकृद्यजेत् । श्रियश्शताष्टकैर्मन्त्रैर्दशकृत्वस्ततः परम् ॥ ५६ ॥ मधुसर्पिस्समायुक्तं पृषदाज्यसमन्वितम् । पुष्कलामाहुतिं हुत्वा बिल्वपत्रैर्घुताप्लुतैः ॥ ५७ ॥ पञ्चदशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २२४ ‘श्रिये जा’ते ति मन्त्रेण शतमष्टोत्तरं यजेत् । प्रातस्स्नात्वा प्रतिष्ठाप्य समावाह्य समर्चयेत् ॥ ५८ ॥ तत्सूक्तेनैव तन्मन्त्रैः पूजयेत्सर्वाविग्रहैः । अत्रानुक्तानि सर्वाणि खिलोक्तविधिना चरेत् ॥ ५९ ॥ अचलां श्रियमाप्नोति’ जन्मजन्मान्तरेऽपि च । तद्वंशजाश्च श्रीमन्तो भविष्यन्ति न संशयः ॥ ६० ॥ दुर्गार्चनम् अथ वक्ष्यामि दुर्गायाः प्रतिष्ठामर्चनं गुहे । साक्षात्सा वैष्णवीं मायां तस्मात्तां नित्यमर्चयेत् ॥ ६१ ॥ नवार्धतालमानेन कृत्वा देवीं चतुर्भुजाम् । शङ्खचक्रधराञ्चैव किरीटमकुटोज्जवलाम् ॥ ६२ ॥ पीतवस्त्रधरां देवीं कक्ष्याबद्धघनस्तनीम् । सस्यश्यामनिभां सौम्यां हारकौस्तुभभूषिताम् ॥ ६३ ॥ अङ्गहोमञ्च हुत्वा तु दुर्गासूक्तं शताष्टकम् । 1पाञ्चभौतिकमन्त्रेण हुत्वा वैष्णवसंयुतम् ॥ ६४ ॥ कृत्वाऽक्षिमोचनं पश्चाज्जलादिष्वधिवास्य च । कुम्भे ध्यात्वा समावाह्य संस्नाप्य कलशैरपि ॥ ६५ ॥ बद्ध्वा प्रतिसरं पश्चात् शाययेच्छयनोपरि । हौत्रं प्रशंस्य चाऽवाह्य निरूप्याज्याहुतीर्यजेत् ॥ ६६ ॥ 1. पाञ्चभौतिकमन्त्रेण अर्घ्यं कुर्यात्समन्त्रकम्। दद्यादन्योपचारांस्तु ‘उदुत्यं चित्र’मित्यपि। गुरूपदेशसंसिद्धैः कल्पमन्त्रैरथापिवा । आसानाद्युपचारैस्तु पूजयेदिति केचन। सावित्र्या वा (भूसावित्र्या) ऽर्चयेन्नित्यमिति पूर्वजदर्शनम् इति पाठः आ. कोशेषु । २२५ दुर्गासूक्तं ततस्सभ्ये शतमष्टोत्तरं यजेत् । वैष्णवं ब्राह्मं रौद्रञ्च भौतिकं पञ्चवारुणम् ॥ ६७ ॥ जयादिभिश्च कूश्माण्डैस्सावित्र्या च सहस्रकम् । सहस्राहुतिपर्यन्तं पूर्ववज्जुहुयाद्बुधः ॥ ६८ ॥ पालाशीभिस्समिद्भिश्च विष्णुसूक्तेन हूयताम् । स्विष्टाकारञ्च हुत्वा तु रात्रिशेषं व्यपोह्य च ॥ ६९ ॥ प्रातस्स्नात्वा प्रतिष्ठाप्य समावाह्य समर्चयेत् । ‘जातवेदस’ इत्यादि तत्सूक्तेनैव पूजयेत् ॥ ७० ॥ एष एव विशेषः स्यादन्यत्सर्वं हरेरिव । एवं यः कुरुते भुक्त्या दुर्गायाः स्थापनार्चने ॥ ७१ ॥ जित्वा शत्रूंश्चिरं भुक्त्वा भूमौ तु विपुलं 1सुखम् । विष्णुसायुज्यमाप्नोति दशपूर्वैर्दशापरैः ॥ ७२ ॥ सरस्वत्यर्चनम् अतः परं प्रवक्ष्यामि वाग्देव्या अर्चनं गृहे । जटामण्डलसंयुक्तां स्वर्णवर्णां चतुर्भुजाम् ॥ ७३ ॥ ऊर्ध्वं दक्षिणहस्तन्तु अक्षमालासमन्विताम् । मुद्राहस्तमधस्थाद्वै वरदं वाऽपि कल्पयेत् ॥ ७४ ॥ कमण्डलुसमायुक्तं वामहस्तं तथोर्ध्वगम् । ज्ञानमुद्रासमायुक्तां सर्वाभरणभूषिताम् ॥ ७५ ॥ पद्मासने समासीनां पद्मकाञ्चनशोभिनीम् । ‘पावकान’ इति स्मृत्वा ‘महो अर्ण’ इति स्मरन् ॥ ७६ ॥ 1. धनम् आ. । पञ्चदशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २२६ पूर्वोक्तेनैव मन्त्रेण अक्ष्युन्मेषाधिवासनम् । बद्ध्वा प्रतिसरञ्चापि स्नपनं शयनादिकम् ॥ ७७ ॥ हौत्रञ्च सम्प्रशंस्यैव तन्मूर्त्यावाहनं चरेत् । निरुप्याज्याहुतीर्हुत्वा शतमष्टोत्तरं यजेत् ॥ ७८ ॥ वैष्णवं विष्णुसूक्तञ्च नरसूक्तं यजेत्क्रमात् । ब्राह्ममैन्द्रं तथाऽऽग्नेयं स्विष्टाकारं जुहोति च ॥ ७९ ॥ एष एव विशेषः स्यादन्यत्सर्वं हरेरिव । एवं यः कुरुते भक्त्या सर्वविद्यामवाप्नुयात् ॥ ८० ॥ 1इतरं पुस्तकधरं योजयेच्च ततः परम् । ब्रह्मासनन्तु कर्तव्यं पद्मपीठस्य चोपरि ॥ पादं प्रसारितं वापि दक्षिणं तु समाचरेत् । सर्वभरणसंयुक्तां श्वेतवस्त्रविभूषिताम् ॥ शुक्लपुष्पाङ्गरागां तां कक्ष्याबद्धघनस्तनीम् । सारस्वतेन सूक्तेन कृत्वाऽक्ष्युन्मेषणादिकम् ॥ शयनं तु तथा कृत्वा हौत्रशंसनमाचरेत् । श्वेतपद्मसहस्रञ्च घृताक्तं वै समाहितः ॥ तत्सूक्तमन्त्रैर्जुहुयात्तां देवीं मनसा स्मरन् । एतैराज्याहुतीर्वाऽपि यथाशक्ति समाचरेत् ॥ पारमात्मिकमन्त्रैश्च विष्णुसूक्तेन वैष्णवैः । प्रातस्स्नात्वा प्रतिष्ठाप्य समावाह्य समर्चयेत् ॥ 1. इत आरभय आध्यायान्तं ई. कोश एव पाठः २२७ तत्सूक्तेनार्चयेन्नित्यमन्यत्सर्वं हरेरिव । मेधावित्वं कवित्वञ्च वादित्वं वाग्मितां तथा ॥ यशस्वित्वमिहामुत्र सुखमत्यन्तदुर्लभम् । आन्पोति तस्माद्देवी सा ध्येया पूज्या मनीषिभिः ॥ दर्शनीया च कीर्त्या च जगद्व्यापारकारिणी । भद्रकालीञ्च शास्तारं क्षेत्रपालं विनेतरान् ॥ यदीच्छेदर्चितुं धान्मि प्रतिष्ठाप्य यथाविधि । औपासनाग्नौ तन्मन्त्रं शतमष्टोत्तरं यजेत् ॥ प्रतिष्ठामर्चनादीनि तन्मन्त्रेणैव कारयेत् । गृहे त्रैवर्णिकास्सर्वे देवान् नारायणादिकान् ॥ अनेन विधिना स्थाप्य पूजयेयुर्यथाविधि । अथवाऽनेन संस्थाप्य कल्पमन्त्रेण पूजयेत् ॥ तान्त्रिकेणानुलोमस्तु प्रतिष्ठाप्य समर्चयेत् । नार्चयेत्प्रतिलोमस्तु तान्त्रिकेणापि जात्वपि ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे गुहे विष्ण्वादित्यस्कन्दविनायकलक्ष्मीदुर्गासरस्वती भद्रकाली बिम्बप्रतिष्ठार्चनाकल्पो नाम पञ्चदशोऽध्यायः