1 ॥
अत्र १४, अध्यायसमाप्तिः ख. त्रयोदशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १९२ चतुर्दशोऽध्यायः महोत्सवः अवभृथकालः अतः परं प्रवक्ष्यामि क्रमेणैवोत्सवं हरेः । विषुवायनभूपर्क्षप्रतिष्ठाकर्तृभेषु च ॥ १ ॥ (यजमानस्य जन्मर्क्षे नृपतेः ॠक्ष एव वा) । ग्रहणे मासनक्षत्रे विष्णुपञ्चदिनेषु वा ॥ २ ॥ उत्सवस्यान्त्यदिवसे तेषु तीर्थं प्रकल्पयेत् । एतेष्वेकं परिग्राह्यं यजमानेच्छया दिनम् ॥ ३ ॥ विषुवे चायने चैव ग्रहणे सोमसूर्ययोः । तत्तत्काले प्रकुर्वीत तीर्थस्नानन्तु नान्यथा ॥ ४ ॥ अन्यर्क्षेष्वथ मध्याह्ने पूर्वाह्णे वा गुणाधिके । एकस्मिन्नेव मासे तु यदि तीर्थदिनद्वयम् ॥ ५ ॥ तयोरन्त्यदिनं तीर्थमिति पूर्वजशासनम् । तदेव यदि सूर्यस्य विद्धञ्चेत्सङ्क्रमादिभिः ॥ ६ ॥ वर्जनीयं तथा पूर्वं प्रशस्तमभिधीयते । वारद्वयानुषक्तञ्चेद्दिनमेकमथापरम् ॥ ७ ॥ अर्कवारर्क्षसंयोगस्सर्वदा सम्प्रशस्यते । श्रवणद्वादशीयोगस्सर्वकर्मफलप्रदः ॥ ८ ॥ योगाश्च सुप्रशस्ताः स्युस्सिद्धामृतवराह्वयाः । १९३ उत्सवत्रैविध्यम् कालश्रद्धानिमित्तार्था उत्सवास्त्रिविधाः स्मृता ॥ ९ ॥ मासे तु यस्मिन् कस्मिंश्चित् प्रतिसंवत्सरं हरेः । क्रियते समयेनैव स वै कालोत्सवो भवेत् ॥ १० ॥ श्रद्धया क्रियते यस्तु स श्रद्धोत्सव उच्यते । उत्पातेषु निमित्तेषु अनावृष्ट्यादिकेषु वै ॥ ११ ॥ क्रियते तत्र शान्त्यर्थं स निमित्तोत्सवः स्मृतः । उत्सवदिनमानं कालः उत्तमन्तु त्रिसप्ताहं मध्यमन्तु चतुर्दश ॥ १२ ॥ नवाहं वाऽथ सप्ताहमधमं परिचक्षते । त्रिगुणान्युत्सवाहानि कृत्वाऽऽदौ घोषणञ्चरेत् ॥ १३ ॥ मध्ये तु द्विगुणादौ स्यादुत्सवादिदिनेऽधमे । अथवाऽवभृथात्पूर्वं एकविंशतिके दिने ॥ १४ ॥ ध्वजस्यारोहणं कृत्वा सर्वमुत्सवमाचरेत् । (उत्सवादौ ध्वजारोहे ध्वजाङ्कुरमथाऽचरेत् तत्र क्रियासु सर्वासु सकृदेवाङ्कुरार्पणम् । उत्सवाङ्कुरमुद्दिश्य सायाह्ने तु मृदं हरेत् प्रदोषकाले सम्प्राप्ते ध्वजारोहणमाचरेत् । तद्रात्रावुत्सवान्ते तु तीर्थङ्कुरमथाऽचरेत् सप्तपञ्चदिने वापि विधिना चाङ्कुरार्पणम् । चतुर्दशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १९४ ध्वजदण्डलक्षणम् विप्रादीनां क्रमाद्वेणुजातिचम्पकपूगजाः ॥ १५ ॥ ध्वजदण्डाः समाख्याताः सर्वेषां क्रमुकन्तु वा । अथवा शुभवृक्षाणां सारं कैश्चिदपीष्यते ॥ १६ ॥ तद्विमानसमायामं पादोनं वाऽर्धमेव वा । ध्वजपटलक्षणम् ध्वजवस्त्रं समादाय खिलोक्तविधिना चरेत् ॥ १७ ॥ तन्मध्ये विलिखेद्वीशमासीनं साज्जलिं विभुम् । पञ्चवर्णसमायुक्तं नवतालप्रमाणतः ॥ १८ ॥ आकाशारोहिणं वापि वीरासनमथापि वा । एतेषां लक्षणं प्रोक्तं पूर्वमेव मया खिले ॥ १९ ॥ परिवारोक्तमार्गेण नयनोन्मीलनादिकम् । कृत्वा वीशं समावाह्य समभ्यर्च्य निवेदयेत् ॥ २० ॥ भेरीताडनम् आग्नेय्यां धान्यपीठे तु विन्यस्यैव तु भेरिकाम् । तत्र नन्दीशमावाह्य समभ्यर्च्य निवेद्य च ॥ २१ ॥ ‘उपश्वासय पृथिवी’ मिति दुन्दुभिसूक्तकम् । जप्त्वा व्याहृतिभिः पश्चाद्धोषणं स्वयमाचरेत् ॥ २२ ॥ बलिना बलिबिम्बेन चक्रवीशामितैस्सह । ग्रामसन्धौ बलिं दत्वा तत्तन्मन्त्रैश्च घोषयेत् ॥ २३ ॥ १९५ क्रमादालयमाविश्य ध्वजं संस्थाप्य पूर्ववत् । ध्वजदण्डं प्रतिष्ठाप्य पूर्वाह्णे च शुभोदये ॥ २४ ॥ घोषणान्ते पुनः कुर्याद्यत्रारोहणमेव वा । पुण्याहान्ते समभ्यर्च्य मुद्गान्नं वा निवेदयेत् ॥ २५ ॥ ध्वजावरोहणं यावत्तावन्नित्यं समाहितः । त्रिकालं वा द्विकालं वाऽप्येककालमथापि वा ॥ २६ ॥ पूर्वोक्तेन क्रमेणैव समभ्यर्च्य निवेदयेत् । पूर्वेद्युरेव पूर्वाह्णे कृत्वा नयनमोक्षणम् ॥ २७ ॥ रात्रौ होमादिकं कृत्वा प्रातरावाह्य पूर्ववत् । ध्वजस्यारोहणं कृत्वा मध्याह्ने तु विशेषतः ॥ २८ ॥ देवानां घोषणं कुर्याद्रात्राविति च केचन । ध्वजस्यारोहणादूर्ध्वमुत्सवादिदिनादधः ॥ २९ ॥ रात्रिपूजावसाने तु ग्रामसन्धौ तु पूर्ववत् । आहूतानाञ्च देवानां बलिं दद्याद्यथाविधि ॥ ३० ॥ उत्सवद्रव्यसम्भारांस्ततः प्रभृति चाऽहरेत् । प्रथमेऽहनि पूर्वाह्ने वीथीः सर्वत्र शोधयेत् ॥ ३१ ॥ ‘अवधूत’ मिति प्रोच्य मार्जन्या मार्जनं चरेत् । अद्भिरभ्युक्षणं कुर्या ‘दाशास्वि’ ति च मन्त्रतः ॥ ३२ ॥ स्नपनोक्तक्रमेणैव मध्याह्ने स्नापयेद्धरिम् । चक्रवीशामितांश्चैव स्नापयेद्गन्धवारिणा ॥ ३३ ॥ विशेषतस्समभ्यर्च्य हविश्चैव निवेदयेत् । ततोऽपराह्ने सम्प्राप्ते चक्रवीशामितैस्सह ॥ ३४ ॥ चतुर्दशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १९६ तीर्थाङ्कुरार्थं गृह्णीयान्मृदं पूर्वोक्तमार्गतः । ग्रामं प्रदक्षिणीकृत्य प्रविश्याऽलयमत्वरः ॥ ३५ ॥ अथ तीर्थदिनात्पूर्वं नवमे वाऽथ सप्तमे । पञ्चमेऽहनि वा कुर्याद्विधिना चाङ्कुरार्पणम् ॥ ३६ ॥ प्रदोषे समनुप्राप्ते दक्षिणेऽभिमुखेऽथवा । यागशालां प्रकल्पयैव षोडशस्तम्भसंयुताम् ॥ ३७ ॥ मध्ये वेदिं प्रकल्प्यैव पञ्चाग्नीनुत्तमेऽथवा । त्रेताग्नीन्मध्यमे कुर्यात्सभ्यमेवाधमे तथा ॥ ३८ ॥ अग्निराहवनीयः स्यात्प्रधानो मध्यमे भवेत् । अन्ययोस्सभ्य एव स्यात् नित्यहोमेऽथवा भवेत् ॥ ३९ ॥ होमस्थाने त्वनिर्दिष्टे निर्दिष्टस्थानसङ्कटे । अशक्तस्त्वरितो वाऽथ निर्दिष्टे स्थानकल्पने ॥ ४० ॥ कर्मणामपि सर्वेषां कल्पयेत्पचनालये । अनादेशविषयः अग्निकुण्डे त्वनिर्दिष्टे कुण्डमौपासनं चरेत् ॥ ४१ ॥ होमद्रव्ये त्वनिर्दिष्टे गव्यं घृतमुदाहृतम् । कालेऽनुक्ते तु मध्याह्नः पात्रेऽनुक्ते स्रुवं भवेत् ॥ ४२ ॥ प्रणामेष्वविशेषोक्ते स्वस्त्तिबन्धनमाचरेत् । नवकुम्भारोपणम् नवकुम्भान्त्समाहृत्य तन्तुना परिवेष्ट्य च ॥ ४३ ॥ १९७ नादेयाद्भिस्समापूर्य वस्त्रयुग्मेन वेष्टयेत् । (अष्टमङ्गलसंयुक्तान् पञ्चायुधसमन्वितान् ॥ ४४ ॥ नवरत्नसमायुक्तान् कूर्चाक्षतसमन्वितान् । कुम्भांस्तांस्तु पृथक् कृत्वा पिधानैस्तु पिधाय च) ॥ ४५ ॥ पुनरन्तः प्रविश्यैव देवदेवं समाहितः । द्विगुणञ्च समभ्यर्च्य द्विगुणञ्च निवेदयेत् ॥ ४६ ॥ बध्द्वा प्रतिसरं पश्चाद्देवं देवीसमन्वितम् । यागशालां समासाद्य ‘जातवेदस’ इत्यथ ॥ ४७ ॥ प्रणीय तेषु नित्याग्निं कुण्डेष्वाघारमाचरेत् । वेद्यां धान्यं समास्तीर्य कुम्भानारोप्य तत्र वै ॥ ४८ ॥ ध्रुवादावाहयेत्तेषु दीपद्दीपमिव क्रमात् । मध्ये कुम्भे तथा विष्णुं प्रागादि पुरुषादिकान् ॥ ४९ ॥ आग्नेयादि तथाऽऽवाह्य क्पिलादीन् यथाविधि । सप्तविंशतिभेदैश्च समभ्यर्च्य प्रणम्य च ॥ ५० ॥ वीशानपायिपङ्क्तीशशान्तान् दिक्ष्वर्चयेत्क्रमात् । सायं प्रातर्विनां कुम्भैर्देवं वीशामितैस्सह ॥ ५१ ॥ वेद्यामेव प्रतिष्ठाप्य पूजयेदिति केचन । नित्यहोमः होता पश्चात्प्रधानाग्नौ हौत्रशंसनमाचरेत् ॥ ५२ ॥ प्रतिष्ठोक्तक्रमेणैव तदालयगतान् सुरान् । आवाह्य तत्क्रमेणैव निरुप्याज्याहुतीर्यजेत् ॥ ५३ ॥ चतुर्दशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १९८ उत्सवदैवत्यानि तत्राहस्तिथिवारर्क्षवाहनानां विशेषतः । अधिदेवाश्च तन्मन्त्राः क्रमश्चैव प्रवक्ष्यते ॥ ५४ ॥ प्रथमे ब्रह्मदैवत्यं द्वितीये चार्षमेव च तृतीये रुद्रदैवत्यं चतुर्थे वासवं तथा ॥ ५५ ॥ पञ्चमे सोमदैवत्यं षष्ठे वैष्णवमाचरेत् । सप्तमे सर्वदैवत्यमष्टमे याम्यमेव च ॥ ५६ ॥ नवमे वारुणं प्रोक्तं दशमे वायुदैवतम् । एकादशे तु कौमारं द्वादशे र्नैॠतं यजेत् ॥ ५७ ॥ त्रयोदश्यान्तु वाराहं चतुर्दश्यान्तु रौहिणम् । गारुत्मन्तं पञ्चदश्यां षोडश्यां दौर्गकं यजेत् ॥ ५८ ॥ सप्तदश्यान्तु कौमारं जुहुयाद्देशिकोत्तमः । अष्टादशे तु होतव्यं नरसूक्तन्तु वित्तमैः ॥ ५९ ॥ एकोनविंशतिदिने नरसूक्तं यजेद्बुधः । विंशतिमे दिने चैव भूसूक्तं जुहुयाद्बुधः ॥ ६० ॥ एकविंशदिने चैव जुहुयात्पारमात्मिकम् । एवमुत्सवदैवत्यं क्रमेण जुहुयाद्बुधः ॥ ६१ ॥ प्रथमे त्वग्निदैवत्यं प्राजापत्यं द्वितीयके । तृतीये च तु कौबेरं चतुर्थे वैघ्नमेव च ॥ ६२ ॥ श्रीदैवत्यञ्च पञ्चम्यां षष्ठ्यां कौमारमेव च । सप्तम्यां सूर्यदैवत्यमष्टम्यां रौद्रमेव च ॥ ६३ ॥ १९९ नवम्यां दौर्गदैवत्यं दशम्यां याम्यमेव च । एकादश्यां तथैन्द्रञ्च द्वादश्यां वैष्णवं यजेत् ॥ ६४ ॥ त्रयोदश्यां तथा वाऽपि मातृदैवत्यमेव च चतुर्दश्यान्तु होतव्यमीशदैवत्यमेव च ॥ ६५ ॥ पञ्चदश्यां तथा वाऽपि सौम्यञ्च जुहुयात्क्रमात् । । सूर्यवारादिवारेषु तत्तद्दैवत्यमाचरेत् ॥ ६६ ॥ ‘अग्नये कृत्तिकाभ्यस्स्वा’ हेति नक्षत्रदैवतम् । तत्तद्वाहनदैवत्यं तत्तन्नाम्ना च हूयताम् ॥ ६७ ॥ वैष्णवं विष्णुसूक्तञ्च नरसूक्तं यजेद्बुधः । श्रीभूसूक्तं ततो हुत्वा महीसूक्तं यजेत्क्रमात् ॥ ६८ ॥ मूर्तिहोमञ्च जुहुयात् नित्यमेवं क्रमं विदुः । वैष्णवं विष्णुसूक्तञ्च नरसूक्तसमन्वितम् ॥ ६९ ॥ दिनसन्ध्यादितैवत्यं तिथिवारर्क्षदैवतम् । तदालयगतानाञ्च मूर्तिभिश्च जुहोति वै ॥ ७० ॥ 1‘समिद्भिर्जुहुयात्सभ्ये साज्येन चरुणा बुधः । जुहुयात्पौरुषं सूक्तमैन्द्रमाहवनीयके ॥ ७१ ॥ अन्वाहार्ये विष्णुसूक्तं श्रीसूक्तेन समन्वितम् । वैष्णवं गार्हपत्याग्नावावसथ्ये ततः परम् ॥ ७२ ॥ एकाक्षरादिसूक्तञ्च महीसूक्तं तथा यजेत् । प्रथमेऽहनि पालाशं द्वितीये बैल्वमेव च ॥ ७३ ॥ 1. इत्येवं जुहुयात्सभ्ये साज्येन चरुणा बुधः ख. चतुर्दशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २०० तृतीये तु शमी चैव न्यग्रोधञ्च चतुर्थके । औदुम्बरं पञ्चमे च षष्ठे चाश्वत्थमेव च ॥ ७४ ॥ सप्तमे खादिरं प्रोक्तमष्टमे प्लाक्षमुच्यते । आपामार्गन्तु नवमे दशमे चाम्रमेव च ॥ ७५ ॥ एकादश्यां कुशञ्चैव द्वादश्यां दौर्गमेव च । त्रयोदशे चामलकं पाटलञ्च चतुर्दशे ॥ ७६ ॥ पनसं पञ्चदशके कोविदारन्तु षोडशे । सप्तदशे तु पुन्नागं समिद्भिरिति हूयते ॥ ७७ ॥ अष्टादशे तु मन्दारं वकुलमेकोनविंशतौ । चम्पकं विंशतितमे जुहुयाच्च यथाक्रमम् ॥ ७८ ॥ एकविंशतिके चैव कापित्थं जुहुयात्क्रमात् । इत्येतैश्च समिद्भिश्च क्रमेण जुहुयाद्बुधः ॥ ७९ ॥ आज्येन साज्यचरुणा समिद्भिश्चोत्तमे हुनेत् । आज्येन साज्यचरुणा मध्यमे होममाचरेत् ॥ ८० ॥ आज्येनैवाधमे होमं साज्येन चरुणाऽथवा । आज्येन वाऽथ चरुणा सायं प्रातर्यजेद्बुधः ॥ ८१ ॥ प्रथमोत्सवमारभ्य तीर्थान्तं जुहुयात्क्रमात् । विना कुम्भैश्च देवैश्च नित्याग्नौ होममाचरेत् ॥ ८२ ॥ चक्रवीशामितैस्सार्धं बलिना च समन्वितम् । प्रदक्षिणक्रमेणैव ग्रामसन्धौ बलिं क्षिपेत् ॥ ८३ ॥ २०१ ग्रामोत्सवप्रकारः पश्चादन्तः प्रविश्यैव देवदेवं प्रणम्य च । अलङ्क ृत्य यथान्यायं वस्त्राभरणकुण्डलैः ॥ ८४ ॥ सुगन्धिपुष्पमालाभिर्गन्धैरपि मनोरमैः । 1रथे वा शिबिकायां वा वीशयन्त्रेऽथवा हरन् ॥ ८५ ॥ गजयन्त्रान्दोलिकासु डोलायन्त्रेऽथवा पुनः । ‘अहमेवे’ति मन्त्रेण देवमारोप्य निश्चलम् ॥ ८६ ॥ अष्टोपचारैरभ्यर्च्य लाजापूपादिकानि च । संस्कृतान्गुडसम्मिश्रान् निवेद्य मुखवासकम् ॥ ८७ ॥ दत्वा वाद्यैस्समायुक्तं सर्वालङ्कारसंयुतम् । मुखवासं निवेद्यैव वीथीश्चापि नयेद्बुधः ॥ ८८ ॥ भ्रमणम्, वाहनक्रमः (उत्सवे देवदेवस्य वाहनक्रम उच्यते प्रथमे चोत्सवे प्रातः शुकवाहनमाचरेत् ॥ ८९ ॥ तद्रात्रौ देवदेवस्य हंसवाहनमाचरेत् । द्वितीये दिवसे चैव मृगेन्द्रं शरभं चरेत् ॥ ९० ॥ कपीन्द्रञ्च प्रभाञ्चैव तृतीये चोत्सवं चरेत् । चतुर्थे दिवसे चैव कल्पकं पञ्चगं? चरेत् ॥ ९१ ॥ पञ्चमे चोत्सवे चैव पक्षीशञ्चार्धचन्द्रकम् । षष्ठेऽह्नि चोत्सवे प्राप्ते गजं पाशिं? तथैव च ॥ ९२ ॥ 1. ‘यानेषु च समारोप्य ‘अहमेवे’ दमन्त्रतः । अष्टोपचारैरभ्यर्च्य अपूपादि निवेदयेत्। मुखवासं निवेद्यैव इत्येव. आ. पाठः चतुर्दशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २०२ सप्तमे चोत्सवे चैव पुष्पकं कमलं चरेत् । अष्टमे चोत्सवे प्राप्ते डोलामश्वं समाचरेत् ॥ ९३ ॥ नवमे दिवसे चैव विमानं यानमाचरेत् । दशमे चोत्सवे प्राप्ते शिबिकारोहणं चरेत् ॥ ९४ ॥ तद्रात्रौ च महोत्सेधं गजलक्ष्मीं प्रकल्पयेत् । एकदशदिने प्रातः कच्छपं वाहनं चरेत् ॥ ९५ ॥ तद्रत्रौ तु महोत्सेधं पुन्नागं वाहनं चरेत् द्वादशे तुं दिने प्रातः कृष्णसारं समाचरेत् ॥ ९६ ॥ तद्रात्रौ तु महारूपं मत्स्यवाहनमाचरेत् । त्रयोदशदिने प्रातः कूर्मयन्त्रं प्रकल्पयेत् ॥ ९७ ॥ तद्रात्रौ तु विशेषेण श्रीभूमिसहितं तथा । तल्पे चैव समारोप्य उत्सवं तु समाचरेत् ॥ ९८ ॥ कौतुकरथः चतुर्दशदिने प्रातः कौतुकं रथमाचरेत् । तद्रात्रौ तुं महारूपं शार्दूलं वाहनं चरेत् ॥ ९९ ॥ सप्ताष्टदिवसे प्रातः चरेत्कुण्डलिवाहनम् । तद्रात्रौ तु शुभाकारं 1गण्डभेरुण्डमाचरेत् ॥ १०० ॥ षोडशे दिवसे प्रातः प्रभापीठं प्रकल्पयेत् । तद्रात्रौ तु महारूपमैन्द्रञ्च परिकल्पयेत् ॥ १०१ ॥ नवाष्टदिवसे प्रातः गिरिवाहनमाचरेत् । तद्रात्रौ तु शुभाकारं पनसं वाहनं चरेत् ॥ १०२ ॥ 1. गण्डभेरं ई. २०३ अष्टादशदिने प्रातः कालियं वाहनं चरेत् । तद्रात्रौ तु विशेषेण चक्रवाहनमाचरेत् ॥ १०३ ॥ एकोनविंशदिवसेऽप्यातपं वाहनं चरेत् । तद्रात्रौ तु महोत्सेधं पारिजातं प्रकल्पयेत् ॥ १०४ ॥ दिने विंशतिके प्रातः ध्वजवाहनमाचरेत् । तद्रात्रौ तु महारूपं शङ्खवाहनमाचरेत् ॥ १०५ ॥ एकविंशदिने प्रातः रथयात्रां समाचरेत् । इत्येवं वाहनं प्रोक्तं क्रमेणैवोत्सवं चरेत् ॥ १०६ ॥ आह्निकविकल्पः एकविंशेऽप्यशक्तौ तु चतुर्दशदिनं चरेत् । चतुर्दशेऽप्यशक्तै तु नवाहं चोत्सवं चरेत् ॥ १०७ ॥ एकविंशदिने चैव चतुर्दशदिने तथा । नवसप्ताहपक्षे वा रथयात्रां समाचरेत् ॥ १०८ ॥ रथयात्रावसाने तु देवेशं सम्प्रणम्य च । अष्टोपचारैरभ्यर्च्य मुद्गान्नञ्च निवेदयेत् ॥ १०९ ॥ मुखवासं निवेद्यैव पुष्पाञ्जलिमथाऽचरेत् । तत्क्षणादेव देवेशं तद्रथादवरोपयेत् ॥ ११० ॥ याने चैव समारोप्य तीर्थस्थानं प्रवेश्य च । तीर्थस्याभिमुखे कृत्वा तीर्थोत्सवमथाचरेत् ॥ १११ ॥ रथे त्वारोपिते देवे रथ्यासु परिवर्तिते । रथप्रायश्चित्तविशेषाः रथचक्रे तदाऽधारे भग्ने भिन्ने तथैव च ॥ ११२ ॥ चतुर्दशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २०४ एवं विघ्ने समुत्पन्ने द्विदिनं त्रिदिनन्तु वा । आसायदिनपर्यन्तं रथे तिष्ठति केशवे ॥ ११३ ॥ नवाहेऽपि च सायाह्ने तीर्थान्तोत्सवमाचरेत् । रथे देवं प्रतिष्ठाप्य आलयं प्रविशेद्बुधः ॥ ११४ ॥ स्नापनञ्च तथा नीत्वा चक्रञ्चैव तथैव च । शिबिकायां समारोप्य तीर्थस्थानं प्रवेशयेत् ॥ ११५ ॥ तीर्थोत्सवञ्च कृत्वैव आलयं प्रविशेत्सुधीः । यागशालां प्रविश्यैव अन्तहोमं समाचरेत् ॥ ११६ ॥ कुम्भं प्रदक्षिणीकृत्य गर्भगेहं प्रवेशयेत् । कुम्भाच्छक्तिं 1समादाय ध्रुवबेरेऽवरोपयेत् ॥ ११७ ॥ तद्रात्रौ तु प्रकर्तव्यान् बलीन् सर्वाश्च कारयेत् । बलिबेरं तथा नीत्वा ध्वजस्थाने निवेश्य च ॥ ११८ ॥ 2तस्मिन्नेवाह्नि रात्रौ तु ध्वजदेवं विसर्जयेत् । ध्वजं तमवरोप्यैव मौनेन बलिमाचरेत् ॥ ११९ ॥ सर्वान्देवान् विसृज्यैव 3शिष्टं कर्म समाचरेत् । रथस्थानं ततो गत्वा देवदेवं प्रणम्य च ॥ १२० ॥ रथचक्रं तदाधारं सुदृढीकृत्य पूर्ववत् । रथे तु योजयेच्छीघ्रं रथं नीत्वा क्रमेण तु ॥ १२१ ॥ यथास्थानं प्रतिष्ठाप्य देवं तमवरोपयेत् । जीवस्थाने प्रतिष्ठाप्य (लघुसम्प्रोक्षणं चरेत् । (स्नपनोक्तप्रकारेण) स्नपनञ्चैव कारयेत् ॥ १२२ ॥ 1. च कूर्चेन आवहेद्बेरमूर्धनि ई. 2.नवाह्न्येव तु ई. 3.सर्वकर्म ख. २०५ महाहविः प्रभूतं वा देवेशाय निवेदयेत् । रक्षाबन्धविसर्गः आचार्यस्यर्त्विजाञ्चैव रक्षाबन्धं विसर्जयेत् ॥ १२३ ॥ बन्धनं देवदेवस्य विसृज्य प्रणमेद्भुवि । उत्सवे देवदेवस्य पक्षद्वयगते सति ॥ १२४ ॥ तीर्थकालविचारः मासद्वयगते वापि वर्षद्वयगते तथा । तिथिॠक्षप्रधानादौ द्वित्वदोषो न विद्यते ॥ १२५ ॥ परिवारपरिवृतिः द्विकालमेककालं वा उत्सवः क्रियते यदि । यानारूढे देवदेवे रथ्यास्वानायितेऽपि च ॥ १२६ ॥ दासीभिर्वादकैश्चैव नृत्तगेयसमन्वितैः । सर्ववाद्यासमायुक्तं सर्वालङ्कारसंयुतम् ॥ १२७ ॥ ब्राह्मणैर्विष्णुभक्तैश्च भाषास्तुतिपरायणैः । पुराणस्तुतिपाठैश्च वास्तुशास्त्रपरायणैः ॥ १२८ ॥ एतैस्सर्वैस्समायुक्तमग्रे चोत्सवमाचरेत् । ध्वजादिपरिवारः ध्वजैश्छत्रैरातपत्रैस्तोरणैश्च तथैव च ॥ १२९ ॥ यानि श्रृङ्गारचिह्नानि प्रभुचिह्नानि यानि च । गृहीत्वा तानि चिह्नानि ब्राह्मणाश्शुचयस्तथा ॥ १३० ॥ चतुर्दशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २०६ देवस्याग्रे तु गच्छेयुः सर्वालङ्कारसंयुताः । तेषामपरभागे तु यानाधिष्ठितकेशवम् ॥ १३१ ॥ सर्वलङ्कारसंयुक्तं सर्वाभरणभूषितम् । रक्तैः पीतैस्सितैश्चैव निबद्धैः कनकाम्बरैः ॥ १३२ ॥ हेमदण्डसमायुक्तैश्चामरैर्व्यजनैस्तथा । दासीभिर्विष्णुभक्तैर्वा पार्श्वयोर्वीजयेत्क्रमात् ॥ १३३ ॥ यानवाहनम् षोडशैरष्टभिश्चैव चतुर्भिर्वा यथोचितम् । विप्राद्यैर्वाहनीयस्स्यात् देवदेवो हरिः प्रभुः ॥ १३४ ॥ शुद्धास्स्नाताः समागत्य सवर्णा ब्राह्मणादयः । यानं स्कन्धे निवेश्यैव प्रचरेयुश्शनैश्शनैः ॥ १३५ ॥ गजवाहनविशेषः आरोहणे गजेन्द्रस्य देवदेवं विशेषतः । वस्त्राभरणपुष्पाद्यैरलङ्कृत्य यथार्हकम् ॥ १३६ ॥ देवेशं पूर्वमारोप्य पृष्ठपार्श्वे गजस्य तु । आदायाङ्कुशमाचार्यो गजपृष्ठे निषीदति ॥ १३७ ॥ अर्चकश्छत्रमादाय मुक्तालङ्कारभूषितम् । देवस्यापरभागे तु भृगुवत्सनिषीदति ॥ १३८ ॥ गरुडादिषु यानेषु शिबिकासु तथैव च । आसीनः पूर्वभागे तु दक्षिणे देशिकोत्तमः ॥ १३९ ॥ देवेशं मनसा ध्यायन् वैष्णवं मन्त्रमुच्चरन् । आसीतैर्वान्यथा कुर्यात्तत्सर्वं निष्फलं भवेत् ॥ १४० ॥ २०७ वेदाध्ययनमन्यच्च मङ्गलस्तुतिपाठनम् । देवस्यापरभागे तु विशेषेण समाचरेत् ॥ १४१ ॥ ब्राह्मणा विष्णुभक्ताश्च होत्रध्वर्युपुरस्सराः । देवेशमनुगच्छेयुर्वेदाध्ययनतत्पराः ॥ १४२ ॥ एषामपरभागे तु देवस्य तु विशेषतः । गजपृष्ठे समारोप्य दुन्दुभिं झल्लरीं तथा ॥ १४३ ॥ घोषयित्वाऽनुगच्छेयुर्वादकाः दृढवादनाः । एवं प्रदक्षिणं कृत्वा प्रथमावरणादिषु ॥ १४४ ॥ बहिरावरणे वाऽथ ग्रामं कुर्यात्प्रदक्षिणम् । सन्धिषु विशेषाराधनम् सन्धौ सन्धौ तु देवेशं पाद्याद्यैरष्टविग्रहैः ॥ १४५ ॥ निवेदयेत्समभ्यर्च्य मुखवासं समन्त्रकम् । उपहारसमर्पणम् तदा वस्तून्यपक्वानि ब्राह्मणैराहृतान्यपि ॥ १४६ ॥ दद्याद्भक्ष्याण्यपक्वानि पक्वं विप्राहृतं तथा । शुद्धेन वारिणा प्रोक्ष्य अमन्त्रञ्च निवेदयेत् ॥ १४७ ॥ उत्सवे दूरमध्वानं देवेशे प्रापिते सति । दूरगमने विशेषः 1द्विक्रोशे वापि त्रिक्रोशे ग्रामान्तरगतेऽथवा ॥ १४८ ॥ 1. एकद्वित्रिचतुः क्रोशे आ. चतुर्दशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २०८ अपरेद्युः प्रकर्तव्या होमबल्यर्चनाक्रियाः । पूर्वेद्युरेव कृत्वा ताः गच्छेदिति च केचन ॥ १४९ ॥ वादकान् नर्तकादींश्च गन्धर्वान् भावयेत्सदा । जयाद्यप्सरसश्चैव भावयेत् देवयोषितः ॥ १५० ॥ स्त्रियौ चामरधारिण्यौ मायां संह्लादिनीं स्मरेत् । किष्किन्धसुन्दरौ वाऽथ पुरषौ यदि तौ स्मरेत् ॥ १५१ ॥ स्मरेद्गरुडवत्सर्वान् रथयन्त्रादिवाहकान् । प्रत्यागमने पूजाविशेषः एवं प्रदक्षिणं कृत्वा पुनरन्तः प्रविश्य च ॥ १५२ ॥ आस्थाने देवमास्थाप्य विष्टरे सोत्तरच्छदे । पाद्यमाचमनं दत्वा नीराजनमतश्चरेत् ॥ १५३ ॥ नीराजनप्रकारः जलेन सहितं पात्रं शाल्यन्नं पुष्पसंयुतम् । आचार्यश्चाग्रतः स्थित्वा देवदेवस्य मूर्धतः ॥ १५४ ॥ पादान्तं भ्रामयेत्पात्रं शनकैः त्रिः प्रदक्षिणम् । हरिद्रासहितं तोयं शाल्यन्नं पुष्पसंयुतम् ॥ १५५ ॥ कांस्यपात्रे समापूर्य दासीभिर्भ्रामयेत्तथा । आचूडात्पादपर्यन्तं भ्रामयेदिति चाङ्गिरा ॥ १५६ ॥ द्वारबाह्ये विसृज्यैव रक्षां कृत्वा ललाटके । आस्थाने देवमास्थाप्य विष्टरे सोत्तरच्छदे ॥ १५७ ॥ २०९ पाद्यमाचमनं दत्वा नारिकेलफलाम्बु च । अपूपसक्तुलाजादिभक्ष्याणि विविधानि च ॥ १५८ ॥ निवेद्याष्टाक्षरेणैव मुखवासं निवेदयेत् । स्तुतिपाठः नीराजनक्रियान्ते तु देवस्य जयशंसिभिः ॥ १५९ ॥ नानाभाषाप्रबन्धैश्च स्तुतिं स्तोत्रैः प्रकल्पयेत् । (दर्शयेद्देवदासीभिर्मार्गनृत्तं ततः क्रमात्) ॥ १६० ॥ शुद्धस्नानोक्तमार्गेण स्नापयित्वा ततः परम् । समभ्यर्च्य निवेद्यैव जीवस्थाने निवेशयेत् ॥ १६१ ॥ अत्र केचित्प्रशंसन्ति ‘क्षमस्वेति नमे’दिति । देवस्य दक्षिणे वाऽपि प्रमुखे वा महासने (?) ॥ १६२ ॥ मन्दिरं सुन्दरं कृत्वा ट्टढबद्धकवाटकम् । अन्तर्गृहस्य परितः दर्पणादि निवेश्य च ॥ १६३ ॥ तन्मध्ये देवदेवेशं प्रतिष्ठाप्य समर्चयेत् । अत्रानुक्तानि सर्वाणि खिलोक्तविधिना चरेत् ॥ १६४ ॥ एवमेवोत्सवः प्रोक्तः दिनयोः प्रथमान्त्ययोः । द्विकालमेककालं वा दिनेष्वन्येषु चोत्सवम् ॥ १६५ ॥ विषूपरागादिषु तीर्थे प्राप्ते विषूपरागायनेषु तीर्थं रात्रौ भवेद्यदि । तथा सायोत्सवञ्चापि कुर्यात्तीर्थदिने पुनः ॥ १६६ ॥ द्वितीयाहप्रभृत्येव द्विकलाोत्सवमाचरेत् । प्रातस्सन्ध्यां समारभ्य मध्याह्नात्तु समाप्यते ॥ १६७ ॥ चतुर्दशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २१० उत्सवस्य कालावधिः प्रातरुत्सव एषः स्यात् सायंकालार्चनात्परम् । सायमुत्सव आरब्धः यामादर्वाक्समाप्यते ॥ १६८ ॥ आसायं कर्मणः प्रातराप्रातस्सायमेव वा । उत्सवस्सर्वकालेषु देवीसहितमुत्तमः ॥ १६९ ॥ मध्यमः प्रातरेव स्यादधमः पञ्चमेऽहनि । एककालोत्सवश्चेत्तु मध्याह्ने बलिहोमकौ ॥ १७० ॥ सायाह्ने चोत्सवं कुर्यादिति सङ्गिरतेऽङ्गिराः । तीर्थाहात्पूर्वदिवसे समाप्ते प्रातरुत्सवे ॥ १७१ ॥ मृगयोत्सवः 1मृगयार्थमलङ्कृत्य देवदेवं विशेषतः । 2अजवानरशार्दूलगजाश्वानुगतं नयेत् ॥ १७२ ॥ 3नानाप्रहरणोपेतैरन्वितं परिचारकैः । कण्ठीरवसमारूढे देव्यावप्यानयेद्बुधः ॥ १७३ ॥ ग्रामं प्रदक्षिणीकृत्य बहिश्चापि मनोरमे । उत्सवं कारयेच्छीघ्रं चक्रवीशामितैर्विना ॥ १७४ ॥ नानाविधोपकार्यासु विनोदञ्चापि कारयेत् । अवतारेषु वा चैतल्लौकिकेष्विति केचन ॥ १७५ ॥ वापीतीरोपकार्यासु चारामरचितासु च । पूजाकर्मानुरोधेन कुर्यादन्यदिनेष्वपि ॥ १७६ ॥ 1. मृगयार्हं आ. 2. कृष्णसाराजशार्दूल आ. 3. राजोचितायुधोपेतैः आ. २११ शयनाधिवासः अथ तीर्थदिनात्पूर्वं रात्रौ देवं विशेषतः । समभ्यर्च्य निवेद्यैव बध्द्वा प्रतिसरामपि ॥ १७७ ॥ प्रतिष्ठोक्तक्रमेणैव सार्धं चक्रेण शाययेत् । हवींषि च विना प्रातरर्चयित्वाऽष्टविग्रहैः ॥ १७८ ॥ होमं हुत्वा बलिं दत्वा प्रातरुत्सवमाचरेत् । चूर्णोत्सवः आस्थानमण्डपे देवं संस्थाप्य प्राङ्मुखं क्रमात् ॥ १७९ ॥ देवाग्रे स्थापयेच्चक्रं धान्यपीठे बहिर्मुखम् । तस्यैवोत्तरतः पार्श्वे विष्वक्सेनं समाहितः ॥ १८० ॥ चक्राग्रे धान्यपीठे तु हरिद्राञ्चापि विन्यसेत् । संस्कृत्यैव तथा चूर्णमभिषिच्य च पूर्ववत् ॥ १८१ ॥ चक्रशान्तौ च संस्नाप्य अभिषिच्य च पूर्ववत् । ग्रामं प्रदक्षिणीकृत्य तीर्थस्थानं प्रविश्य च ॥ १८२ ॥ तीर्थस्नानप्रकारः तस्य तीरे प्रतिष्ठाप्य देवं चक्रञ्च पूर्ववत् । कलशान् पञ्च संस्थाप्य देवस्याग्रे यथाविधि ॥ १८३ ॥ मृत्कुशैर्गन्धपुष्पाद्भिरक्षतैश्च प्रपूरितान् । क्रमान्मध्यादि सौम्यान्तं निधायाभ्यर्च्य देवताः ॥ १८४ ॥ भूमिं चर्तूंश्च धातारं काश्यपञ्च प्रजापतिम् । स्नापनोक्तैश्च मन्त्रैश्च प्रोक्ष्य देवेशमत्वरः ॥ १८५ ॥ चतुर्दशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २१२ शिष्टाभिः कलशाद्भिस्तु चक्रञ्चैवाऽभिषिच्य च । ततो देवञ्च चक्रञ्च तीर्थस्यान्तर्निमज्जयेत् ॥ १८६ ॥ पुनस्तीरे प्रतिष्ठाप्य विष्टरे सोत्तरच्छदे । कुर्यादवभृथस्नानं शुद्धस्नानोक्तमार्गतः ॥ १८७ ॥ यजमानो गुरुश्चैव ॠत्विजः परिचारकाः । स्नात्वाऽत्र सह देवेन श्वेतवस्त्रोत्तरीयकाः ॥ १८८ ॥ ग्रामोत्सवः देवदेवमलङ्कृत्य यानमारोप्य पूर्ववत् । शुक्लमाल्यानुलेपाद्यैः स्वर्णसूत्राङ्गुलीयकैः ॥ १८९ ॥ अलङ्कृतेन गुरुणा ॠत्विग्भिश्च तथाविधैः । शाकुनं सूक्तमुच्चार्य स्वस्तिसूक्तसमन्वितम् ॥ १९० ॥ तोयधारासमायुक्तं नेयात् ग्रामं प्रदक्षिणम् । तत्काले यजमानोऽपि प्रत्युत्थानं समाचरेत् ॥ १९१ ॥ अलङ्कृत्याऽलयद्वारं पूर्णकुम्भाङ्कुरादिभिः । दीपैश्च बुहभिस्तत्र देवदेवे समागते ॥ १९२ ॥ तोयधारासमायुक्तं दीपैश्च बहुभिर्युतम् । स्त्रीभिस्सुमङ्गलीभिश्च कारयित्वा प्रदक्षिणम् ॥ १९३ ॥ पञ्च चित्रान्नपिण्डानि नीत्वा देवस्य मूर्धनि । प्रदक्षिणं दिगीशानं नामभिः प्रणवादिभिः ॥ १९४ ॥ नमोऽन्तैश्च चतुर्थ्यन्तैर्मध्ये च विसृजेत्क्रमात् । ततः पुष्पाञ्जलिं दत्वा प्रविश्याऽभ्यन्तरं पुनः ॥ १९५ ॥ २१३ उत्सवान्तस्नपनम् हविर्दानम् स्नपनोक्तक्रमेणैव स्नपनं सम्यगाचरेत् । महाहविः प्रभूतं वा समभ्यर्च्य निवेदयेत् ॥ १९६ ॥ जीवस्थाने प्रवेशः कुम्भावाहनम् जीवस्थाने प्रतिष्ठाप्य प्रणमेद्दण्डवद्भुवि । यागशालां समागत्य हुत्वाऽग्निषु सवैष्णवम् ॥ १९७ ॥ तत्तत्कुम्भगतां शक्तिं ध्रुवे सम्यङ्निवेश्य च । नित्यकुण्डे प्रणीयाग्निमुपतिष्ठेत भास्करम् ॥ १९८ ॥ नित्यकुण्डेऽप्यशक्तोऽपि पूर्वोक्तक्रममाचरेत् । नवमे चोत्सवे चैव चतुर्दशदिने तथा ॥ १९९ ॥ एकविंशोत्सवे चैव रात्रिपूजावसानके । देवतोद्वासनप्रकारः रात्रौ ग्रामबलिं दत्वा चक्रवीशामितैर्विना ॥ २०० ॥ उद्वास्य देवतास्सर्वा ध्वजमागत्य वै पुनः । ध्वजदेवं समभ्यर्च्य मुद्गान्नं विनिवेद्य च ॥ २०१ ॥ ध्वजदेवं विसृज्यैव ध्वजं तमवरोपयेत् । दशमे दिवसे चैव दिने पञ्चदशे तथा ॥ २०२ ॥ पुष्पयागः उत्तमकल्पः द्वाविंशदिवसे चैव पुष्पयागं समाचरेत् । औत्सवप्रतिमाभावे कौतुके क्रियते यदि ॥ २०३ ॥ चतुर्दशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २१४ तत्रैव तीर्थदिवसे प्रातस्सन्ध्यावसानके । सम्यक्प्रतिसरं बध्द्वा प्रातरुत्सवमाचरेत् ॥ २०४ ॥ द्वितीयदिवसे तीर्थात् पुष्पयागं समाचरेत् । पुष्पयागोत्सवः त्रिविधः शान्तिकः पौष्टिकः काम्यः इति स त्रिविधो भवेत् ॥ २०५ ॥ तल्लक्षणम् उत्तमकल्पः प्रातर्मध्यापराह्णेषु क्रमादेनं प्रकल्पयेत् । प्रातरर्चावसाने तु अलङ्कृत्य यथार्हकम् ॥ २०६ ॥ आस्थानमण्डपे देवं समानीयोदयात्परम् । शुद्धस्नानोक्तमार्गेण स्नापयित्वा जनार्दनम् ॥ २०७ ॥ नववस्त्रोत्तरीयाद्यैरलङ्कृत्य विभूषणैः । महाहविः प्रभूतं वा समभ्यर्च्य निवेदयेत् ॥ २०८ ॥ आस्थानमण्डपे वाऽपि स्नपनालय एव वा । चतुर्दिशं चतुर्हस्तं गोमयेनोपलिप्य च ॥ २०९ ॥ उपपीठपदं कृत्वा षट्सूत्रैः प्रगुदग्गतैः । मध्ये नवपदं पद्मं साष्टपत्रं सकर्णिकम् ॥ २१० ॥ रत्नन्यासोक्तधान्यैर्वा तणडुलैर्व्रीहिभिस्तु वा । बहिष्ठेषु पदेष्वग्रे वीशमेकत्र पूजयेत् ॥ २११ ॥ दक्षिणे चक्रमभ्यर्च्य पङ्क्तीशं पश्चिमे तथा । उदीच्यां शान्तमभ्यर्च्य शेषेष्वर्कपदेषु च ॥ २१२ ॥ आसनाद्यर्चनद्रव्यसञ्चयञ्च सुसन्न्यसेत् । दलेष्वष्टसु पद्मस्य लोकपालान्त्समर्चयेत् ॥ २१३ ॥ २१५ कर्णिकायां रवीन्द्वग्निमण्डलानि क्रमाद्यजेत् । विष्टरं तत्र संस्थाप्य पादान्तर्गतपङ्कजे ॥ २१४ ॥ तत्र देवं प्रतिष्ठाप्य यावद्दिवसमुत्सवः । तावत्कृत्वस्समभ्यर्च्य सप्तविंशतिविग्रहैः ॥ २१५ ॥ नृतैर्गेयैश्च वाद्यैश्च चतुर्वेदस्तवैरपि । तत्तत्पूजावसाने तु पृथक् पुष्पाञ्जलिं ददेत् ॥ २१६ ॥ पङ्कजं तुलसीं बिल्वं करवीरमथोत्पलम् । नन्द्यावर्तञ्च कुमुदमपामार्गं तथैव च ॥ २१७ ॥ विष्णुक्रान्तं च दूर्वाग्रं 1एतान्येव क्रमात्पुनः । पुष्पाञ्जलिप्रदानार्थं पुष्पाण्युक्तानि पूजने ॥ २१८ ॥ पुष्पाञ्जलिदानप्रकारः वैष्णवं विष्णुसूक्तञ्च सूक्तं पौरुषमेव च । (‘नारायणाय वि’ द्मेति ‘नमो ब्रह्मण’ इत्यपि) ॥ २१९ ॥ नारायणानुवाकञ्च सूक्तमेकाक्षरादिकम् । ‘नारायणाय वि’ द्मेति ‘नमो ब्रह्मण’ इत्यपि) ॥ २२० ॥ पारमात्मिकसूक्तानि ‘ॠतं सत्य’ मिति ब्रुवन् । द्वादशाष्टाक्षराभ्याञ्च तैरेव च पुनः पुनः ॥ २२१ ॥ एवं पुष्पाञ्जलिं दद्यादाचार्यो मध्यतः स्थितः । चतुर्दिक्षु क्रमेणैव स्थित्वा चत्वार ॠत्विजः ॥ २२२ ॥ 1. ‘वकुलं चम्पकं तथा । मन्दारं चैव पुन्नागं मल्लिका माधवी ततः पाटली केतकी चैव दमनं मरुजातिकम् । सुवर्णगन्धपुष्पाणि चान्यान्येवं विधानि च। पुष्पाञ्जलिप्रदानार्थं’ इति पाठः अधिकं आ. कोशेषु चतुर्दशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २१६ तत्तन्मन्त्रावसाने तु मूर्तिभिः पुरुषादिभिः । पुष्पाञ्जलिं क्रमाद्दद्युः देवध्यानपरायणाः ॥ २२३ ॥ होमप्रकारः पञ्चाग्नीन्परितः कृत्वा सभ्ये हौत्रं प्रशंस्य च । तदालयगतान्देवानावाह्याऽज्यं निरूप्य च ॥ २२४ ॥ तत्क्रमेणाहुतीर्हुत्वा विष्णुसूक्तञ्च वैष्णवम् । सभ्ये हुत्वा विशेषेण ततश्चाहवनीयके ॥ २२५ ॥ जुहुयात्पौरुषं सूक्तं विष्णुसूक्तञ्च दक्षिणे । जुहुयाद्गार्हपत्याग्नौ गायत्रीं वैष्णवीं दश ॥ २२६ ॥ आवसथ्ये तु जुहुयात्सूक्तमेकाक्षरादिकम् । आज्येन समिधा तत्तद्धविर्भेदैश्च हूयताम् ॥ २२७ ॥ पुष्पयागः मध्यमकल्पः एतदुत्तममुद्दिष्टं मध्यमन्तु प्रवक्ष्यते । तत्तद्दिनार्चनान्ते तु शुद्धान्नं वा निवेद्य च ॥ २२८ ॥ पुष्पाञ्जलिप्रदानानि सर्वाण्यन्यार्चने ददेत् । सभ्य एकाग्निरेव स्यादन्यत्सर्वञ्च पूर्ववत् ॥ २२९ ॥ पुष्पयागः तृतीयकल्पः इत्येवं मध्यमं प्रोक्तं प्रवक्ष्याम्यधमं पुनः । विना वीशादिभिर्देवैर्होमैस्तत्पृथगर्चनैः ॥ २३० ॥ मण्डले देवमारोप्य पूजयित्वा यथाविधि । हवींषि पञ्च चोक्तानि निवेद्य च ततः परम् ॥ २३१ ॥ २१७ दद्यात्पुष्पाञ्जलिं मन्त्रैः समस्तदिवसोचितैः । उत्सवेऽज्ञातदोषाणां प्रायश्चित्तमिदं स्मृतम् ॥ २३२ ॥ (अतः सर्वप्रयत्नेन पुष्पयागं समाचरेत् । देवदेवं शनैर्नीत्वा प्रदक्षिणमथाऽलयम् जीवस्थाने प्रतिष्ठाप्य दत्वा पुष्पाञ्जलिं बहु । संस्तूय च स्तवैर्मन्त्रैः ‘क्षम’ स्वेति प्रणम्य च दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ । रात्रौ ग्रामबलिं दत्वा चक्रवीशामितैर्विना उद्वास्य देवतास्सर्वाः ध्वजमासाद्य वै पुनः । ध्वजदेवं समभ्यर्च्य मुद्गान्नं सन्निवेद्य च ध्वजदेवं विसृज्यैव ध्वजं तमवरोपयेत् । एवमेवोत्सवः प्रोक्तो देवदेवस्य शार्ङ्गिणः उत्सवफलश्रुतिः एवं यः कुरुते भक्त्या सर्वान्कामानवाप्नुयात् । इह लोके सुखं भुंक्त्वा विष्णोस्सायुज्यमाप्नुयात् ॥ २३३ ॥ आलयार्चाविधिस्सोऽयं सङ्क्षेपादुदितो मया । अत्रानुक्तं च यत्सर्वं खिलोक्तविधिना चरेत् ॥ २३४ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे उत्सवविधिर्नाम चतुर्दशोऽध्यायः