१३

2 ॥


वितत्स्यारसमुत्सेधं आ. 2. अत्र १३ अध्यायसमाप्तिः ख. १५ अध्यायसमाप्तिः आ. द्वादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १८६ त्रयोदशोऽध्यायः महास्नपनम् निमित्तानि अतः परं प्रवक्ष्यामि स्नपनं वै समासतः । प्रतिष्ठोत्सवयोरन्ते विषुवायनयोरपि ॥ १ ॥ 1देवस्य स्नपनं कुर्याद्ग्रहणे सूर्यचन्द्रयोः । विभवे सति कुर्वीत विष्णुपञ्चदिनेषु च ॥ २ ॥ मासर्क्षेष्वन्यसङ्क्रान्त्यां जन्मर्क्षे कर्तृभूपयोः । 2ग्रहकोपेऽवग्रहे च दुस्स्वप्ने दुर्निमित्तके ॥ ३ ॥ व्याध्याद्यैः जनपीडायां तत्तच्छान्त्यै प्रकल्पयेत् । अब्दान्ते च युगान्ते च व्यतीपातादिषु क्रमात् ॥ ४ ॥ सम्भाराः अङ्कुरार्पणकादूर्ध्वं द्रव्याण्यपि समाहरेत् । नादेयादिमृदोऽष्टौ च हिमवत्प्रमुखाचलान् ॥ ५ ॥ शाल्यादीन्यपि धान्यानि तत्तद्धान्याङ्कुराणि च । श्रीवत्सं पूर्णकुम्भञ्च भेरीमादर्शनं तथा ॥ ६ ॥ मत्स्ययुग्माङ्कुशे शङ्खमावर्तञ्चाष्टमङ्गलम् । (आवर्तं स्वस्तिके नीलेशानलानिललाहलम्? ।) ॥ ७ ॥ 3युक्त्यान्यानि प्रकुर्वीत प्राग्द्रव्याण्यथ पञ्च वै । 4पञ्चगव्यं घृतमधुदधिक्षीराणि पञ्च वै ॥ ८ ॥ 1. देवेशं स्नापयेद्यत्नाद्ग्रहणे सोमसूर्ययोः। आ. 2. ॠक्षसङ्कोचे आ. 3. युक्तान्यन्यानि आ. 4. एतत्स्थाने । यवं माषं सर्षपञ्च व्रीहिधान्यं तथैव च । पञ्चगव्यस्य संयोगात् घृतं मधु तथा दधि । शकृत् क्षीराणि पञ्चैतान्याढकाहीनमेव वा । यथालाभं गृहीत्वा तु पञ्चगव्यानि योजयेत् इति आ पाठः १८७ गुह्णीयादाढकाहीनं यथालाभमथापिवा । शेषं जलेन सम्पूर्य तत्तत्स्थाने समर्चयेत् ॥ ९ ॥ चन्दनोशीरकोष्ठैलालवङ्गाद्यधिवासितम् । गन्धोदकमिति प्रोक्तमाढकाहीनमेव च ॥ १० ॥ यवसर्षपसव्रीहिमाषतण्डुलसंयुतम् । जलाष्टांशाक्षतैर्युक्तमक्षतोदकमुच्यते ॥ ११ ॥ कदलीचूतपनसनारिकेलफलैर्युतम् । नारङ्गमातुलुङ्गाभ्यां त्रिफलैर्मौञ्जकेन च ॥ १२ ॥ भव्यहव्यकुरुन्दैश्च कामरेणापि संयुतम् । फलोदकमिति प्रोक्तं जलाष्टांशफलैर्युतम् ॥ १३ ॥ कुशाग्रैर्मिश्रितं तोयं कुशोदकमिति स्मृतम् । नवभिः पञ्चभिर्वापि रत्नैः रत्नोदकं स्मृतम् ॥ १४ ॥ ‘आपो हि’ ष्ठेति 1मन्त्रांस्त्रीनावर्त्याष्टोत्तरं शतम् । ‘अतो देवा’ दिभिष्षड्भिर्वैष्णवैस्सकृदेव वा ॥ १५ ॥ जप्त्वाऽभिमन्त्रितं तोयं जप्योदकमिति स्मृतम् । ओषध्यः फलपाकान्तास्ताभिस्सर्वाभिरन्वितम् ॥ १६ ॥ तोयाष्टांशप्रमाणाभिः सर्वौषध्युदकं स्मृतम् । बिल्वपत्राश्वदूर्वाब्जनन्द्यावर्तशमीप्रियाः ॥ १७ ॥ पुण्यपुष्पाणि चोक्तानि यथालाभं समाहरेत् । बिल्वपत्रसमं रात्रौ कपित्थदलमुच्यते ॥ १८ ॥ 1. मन्त्रादीन् आ. त्रयोदशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १८८ चूर्णं जातीफलादीनां कषायं तीर्थवारि च । वनौषधिनिशाचूर्णं सर्वगन्धमतः परम् ॥ १९ ॥ प्लोतञ्च मूलगन्धञ्च धातूनपि समाहरेत् । वस्त्रोत्तरीयोपवीतभूषणानि तथाऽऽहरेत् ॥ २० ॥ कलशानाढकापूर्णान् शरावान्प्रस्थपूरणान् । द्रोणार्धपूर्णान्करकान् द्रोणपूर्णान्घटानपि ॥ २१ ॥ खण्डस्फुटितकालादिरहितानेव चाऽहरेत् । साग्रैरगर्भदर्भैश्च पञ्चभिर्दशभिर्युतान् ॥ २२ ॥ षट्त्रिंशदङ्गुलायामान् परिस्तरणकूर्चकान् । कलशार्थान्प्रकुर्वीत द्वादशाङ्गुलसम्मितान् ॥ २३ ॥ नवभिस्सप्तभिर्वाऽथ पञ्चभिस्त्रिभिरेव वा । कुशाः काशास्तथोशीरा दूर्वा वै व्रीहयस्तथा ॥ २४ ॥ विश्वामित्रा यवाश्चापि सप्त दर्भाः प्रकीर्तिताः । स्नपनाङ्गाधिवासः पूर्वरात्रौ तु देवेशं समभ्यर्च्य निवेदयेत् ॥ २५ ॥ आलयाद्दक्षिणे वेदिं शयनार्थं प्रकल्प्य च । शयनानि पञ्च चास्तीर्य तथा धान्योपरि क्रमात् ॥ २६ ॥ तत्र देवं समारोप्य बद्ध्वा प्रतिसरं तथा । शयने शाययेद्देवं पूर्ववत्सुसमाहितः ॥ २७ ॥ (सन्धिद्वयमतिक्रम्य स्नपनं सम्भवेद्यदि । सद्यः प्रतिसरं बद्ध्वा शयनं सम्प्रकल्पयेत् ॥ २८ ॥ १८९ कौतुके स्नापनाभावे स्नपनं यदि कारयेत् । ध्रुवार्चास्नपने वाऽपि सद्यः कौतुकबन्धनम् ॥ २९ ॥ कृत्वा श्वभ्रे प्रतिष्ठाप्य स्नापयेदिति शासनम् । रात्रौ यदोदयात्पूर्वं निमित्तं स्नपनस्य तु ॥ ३० ॥ रात्रिपूजावसाने तु तथा नोद्वासयेद्धरिम् । स्नपनान्ते तथोद्वास्य प्रातरावाहयेत्तथा ॥ ३१ ॥ नावाहनविसर्गौ द्वौ कौतुकव्यतिरिक्तयोः । स्नपनमण्डपम् आलयाभिमुखे कुर्यादुत्तरैशान्ययोस्तथा ॥ ३२ ॥ मण्डपं वा प्रपां वाऽथ कूटं वा स्नपनालयम् । षोडशस्तम्भसंयुक्तं चतुर्द्वारसमन्वितम् ॥ ३३ ॥ श्रीवत्सं पद्मकं वाऽपि स्वस्तिकं वा यथाविधि । तण्डुलैर्व्रीहिभिर्वाऽथ पङ्क्तिं कुर्यात्तदन्तरे ॥ ३४ ॥ द्वितालाहीनविस्तारं युगाग्न्यक्ष्यङ्गुलोच्छ्रयम् । चतुर्दिक्षु तथा हस्तविस्तारं द्वारसंयुतम् ॥ ३५ ॥ लिखेत्पत्रलताकारं ‘सुमित्रान’ इति स्थलम् । इन्द्रादीनां दिगीशानां पङ्क्तीशस्यामितस्य च ॥ ३६ ॥ तत्तत्स्थानेषु पीठानि पङ्क्तावेव प्रकल्पयेत् । पङ्क्तिबाह्येतरे? वापि कुर्याच्चेदाभिचारिकम् ॥ ३७ ॥ तन्मध्ये स्नपनश्वभ्रमौपासनविधानतः । कल्पयित्वा परिस्तीर्य जयादीनपि पूजयेत् ॥ ३८ ॥ पूर्वोक्तेन प्रकारेण तत्पङ्क्त्यां विहिते पदे । त्रयोदशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १९० द्रव्यन्यासः न्यसे1न्मृदादिद्रव्याणि देवेशाभिमुखानि वै ॥ ३९ ॥ तेषु कूर्चञ्च विन्यस्य पूजयेदधिदेवताः । तत्तद्द्रव्यधरान् ध्यात्वा तत्तद्द्रव्यसमीपतः ॥ ४० ॥ उद्धृत्य शयनाद्देवं श्वभ्रमध्ये निवेश्य च । पाद्यादिभिस्समभ्यर्च्य तैलेनाभ्यज्य पूर्ववत् ॥ ४१ ॥ तथैव पुनरभ्यर्च्य स्नापयेच्च मृदादिभिः । स्नपनप्रकारः प्रणवेन समभ्युक्ष्य गृहीत्वा शिष्यहस्ततः ॥ ४२ ॥ ललाटान्तं समुद्धृत्य त्रिस्सकृद्वा प्रदक्षिणम् । नीत्वा संस्नापयेद्देवं मूर्तिभिः पञ्चभिः क्रमात् ॥ ४३ ॥ द्रव्यं पात्रं पुनः प्रोक्ष्य पूर्वस्थाने निवेशयेत् । प्राग्द्रव्यैश्च प्रधानैस्तदुपस्नानसमन्वितैः ॥ ४४ ॥ अनुद्रव्यैश्च पूर्वोक्तैर्मन्त्रैस्संस्नापयेत्तथा । संस्थाप्य देवमास्थाने समभ्यर्च्य निवेदयेत् ॥ ४५ ॥ कौतुकं स्नपनान्ते च जीवस्थाने निवेश्य च । समभ्यर्च्य निवेद्यैव दद्यात्पुष्पाञ्जलिं पुनः ॥ ४६ ॥ ध्रुवार्चास्नपने विशेषः ध्रुवार्चास्नपने कुर्यादालयाभिमुखे प्रपाम् । पूर्ववत्परितः पङ्क्त्यां स्नानद्रव्याणि विन्यसेत् ॥ ४७ ॥ 1. रत्नादिद्रव्याणि आ. १९१ धान्यराशौ तु तन्मध्ये गन्धतोयाभिपूरितम् । कुम्भं सन्न्यस्य वरुणं तत्र सम्पूज्य दैवतम् ॥ ४८ ॥ आदायाभ्यन्तरं गत्वा स्नापयेच्च मृदादिभिः । अलङ्क ृत्य समभ्यर्च्य हवींष्यपि निवेदयेत् ॥ ४९ ॥ रात्रौ सूर्योदयात्पूर्वं स्नपनं यदि सम्भवेत् । नोद्वास्य शक्तिं तद्बिम्बाज्छ्वभ्रे संस्थाप्य पूर्ववत् ॥ ५० ॥ स्नपनान्ते समभ्यर्च्य निवेद्योद्वासयेत्तथा । उदये शक्तिमुद्वास्य घ्रुववेद्यां निवेश्य च ॥ ५१ ॥ घ्रुवात्तत्र समावाह्य स्नापयेदिति शासनम् । यदि नक्षत्रयुग्मं स्यादेकमासे विशेषतः ॥ ५२ ॥ परस्मिन्नेव दिवसे स्नापयेत्पुरुषोत्तमम् । तिथिद्वयं यदि भवेत् द्वयोरपि समाचरेत् ॥ ५३ ॥ वारद्वयानुषक्तञ्चेन्निमित्तर्क्षं तिथिस्तु वा । परस्मिन्नेव दिवसे स्नपनादीनि कारयेत् ॥ ५४ ॥ एकस्मिन्नेव दिवसे निमित्तर्क्षतिथिद्वयम् । नक्षत्रस्नपनं पूर्वं तिथिकर्म ततश्चरेत् ॥ ५५ ॥ पूर्वकर्मावसाने तु कृत्वा सद्योऽङ्कुरार्पणम् । सद्यः प्रतिसरं बध्द्वा द्वितीयं स्नपनं चरेत् ॥ ५६ ॥ एष एव विशेषः स्यादन्यत्सवं खिलोक्तवत् । इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे महास्नपनविधिर्नाम त्रयोदशोऽध्यायः