1।
अत्र १२ अध्यायसमाप्तिः ई, ९४ अध्यायसमाप्तिः ख. एकादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १८० द्वादशोऽध्यायः स्नापनौत्सवयोः पृथक्प्रतिष्ठा 1(स्नापनौत्सवयोः पश्चात्प्रतिष्ठां प्रवदाम्यहम् । कौतुके स्थापिते पूर्वं शक्तौ सत्यां पुनस्तथा ॥ १ ॥ औत्सवं स्नापनं कृत्वा स्थापयेद्विभवार्हतः । बिम्बं सलक्षणं कृत्वा सङ्घातं विधिना चरेत् ॥ २ ॥ अक्ष्युन्मेषाधिवासौ च कृत्वा तस्य यथाविधि । सभ्याब्जकुण्डे वा कृत्वा प्रतिष्ठां पूर्ववच्चरेत् ॥ ३ ॥ अन्याग्निविहितं होमं सभ्य एव समाचरेत् । तत्र प्रणीय नित्याग्निं होमकर्म समाचरेत् ॥ ४ ॥ कुर्यान्नित्याग्निविच्छेदे पञ्चकुण्डानि पूर्ववत् । तत्रापि गार्हपत्याग्नेः प्रणीयान्येषु हूयताम् ॥ ५ ॥ पूर्वेद्युरेव शर्वर्यां रात्रिपूजावसानके । देवं विशेषतोऽभ्यर्च्य हविस्सम्यङ्निवेदयेत् ॥ ६ ॥ ध्रुवबेरे समावाह्य प्रणम्यैवानुमान्य च । संसाध्य विधिना कुम्भं तत्राऽवाह्य ध्रुवात्तथा ॥ ७ ॥ कुम्भं बिम्बस्य पार्श्वे तु स्नानश्वभ्रे निवेश्य च । स्नापनं शयनारोहं तथा कौतुकबन्धनम् ॥ ८ ॥ 1. इत आरभ्यसार्धपञ्चविंशतिश्लोकपर्यन्तं मातृकान्तरेषु न दृश्यते । १८१ हौत्रं होमं तथा कृत्वा प्रातस्संस्थाप्य पार्श्वयोः । कृत्वा मन्त्राक्षरन्यासौ पूर्वमावाह्य कौतुके ॥ ९ ॥ पश्चाच्चैवौत्सेवेऽर्चायां समावाह्य तथा ध्रुवात् । आसनादिभिरभ्यर्च्य हविस्सम्यक् निवेदयेत् ॥ १० ॥ उत्सवं चौत्सवे बिम्बे स्नापने स्नापनं तथा । यथाशक्ति प्रकुर्वीत दद्यादाचार्यदक्षिणाम् ॥ ११ ॥ लौकिकस्थापनायान्तु नित्याग्निर्न प्रणीयते । आवाहनं तथा कुम्भे कुर्यादादित्यमण्डलात् ॥ १२ ॥ कुम्भात्तु लौकिके बिम्बे समावाह्य समर्चयेत् । एकबेरविधानञ्चेत् स्थापनं न विधीयते ॥ १३ ॥ कारयित्वौत्सवं बिम्बे रात्रिपूजावसानके । एकबेरं समभ्यर्च्य कुम्भे शक्तिं निवेश्य च ॥ १४ ॥ पूर्ववत्स्थापनादीनि कारयित्वा यथाविधि । एकबेरे समावाह्य तस्मादावाह्य चार्चयेत् ॥ १५ ॥ एष एव विशेषः स्यादन्यत्सर्वञ्च पूर्ववत् । बलिबेरस्य पृथक्प्रतिष्ठा बलिबेरप्रतिष्ठा चेत्तस्मिन्नावाह्य कौतुके ॥ १६ ॥ समभ्यर्च्य निवेद्यैव बल्युत्सवमथाचरेत् । देव्योः पश्चात् प्रतिष्ठा देव्योः पश्चात्प्रतिष्ठायां विशेषो वक्ष्यतेऽधुना ॥ १७ ॥ देव्यौ स्थावरबिम्बस्य न प्रतिष्ठापयेत्पुनः । जङ्गमानान्तु बिम्बानां पुनर्देव्यौ च कल्पयेत् ॥ १८ ॥ द्वादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १८२ ध्रुवे देवीवियुक्तेऽपि देवीयुक्तञ्च कौतुकम् । कुर्यात्सर्वप्रयत्नेन विशेषादौत्सवं तथा ॥ १९ ॥ अक्ष्युन्मेषाधिवासौ च कृत्वा तन्मन्त्रमुच्चरन् । पार्श्वयोर्यज्ञशालायां कुर्यादौपासनद्वयम् ॥ २० ॥ तयोर्नित्याग्निमाधाय यथोक्तं होममाचरेत् । ध्रुवस्य देवीबिम्बाभ्यां शक्तिमावाह्य कुम्भयोः ॥ २१ ॥ स्नपनं शयनं कुम्भं होमञ्च पृथगेव वा । सर्वञ्च पूर्ववत्कृत्वा प्रातः स्नात्वा यथाविधि ॥ २२ ॥ ध्रुवदेव्योस्समावाह्य ताभ्यामावाहयेत्तयोः । तच्छक्तिपूर्वं संस्काराद्विवाहं न प्रकल्पयेत् ॥ २३ ॥ देवेनाप्यथवा साकं प्रतिष्ठामाचरेत्तयोः । निवेश्य कौतुकाच्छक्तिं ध्रुवबेरे यथाविधि ॥ २४ ॥ ध्रुवबेरात्तथा कुम्भे शक्तिमावाह्य पूर्ववत् । स्नानश्वभ्रे प्रतिष्ठाप्य देवीं कुम्भञ्च दक्षिणे ॥ २५ ॥ पार्श्वयोः श्वभ्रयोर्देव्यौ प्रतिष्ठाप्य पृथक्पृथक् । 1स्नापयित्वैकवेद्यान्तु शाययित्वैव मन्त्रतः ॥ २६ ॥ हौत्रादि सकलं कर्म कृत्वा पूर्वोक्तमार्गतः । कुम्भाद्ध्रुवे समावाह्य तस्मादावाहयेज्जले? ॥ २७ ॥ 1. इतः पूर्वं अधोलिखितसार्धश्लोकः मातृकान्तरेषूपलभ्यते ॥ अनेनैव ग्रन्थेन तासु मातृकास्वध्यायारम्भश्च ॥ ध्रुवत्य कौतुकस्यापि स्नापनस्यौत्सवस्य च । बलिबेरस्य देव्योश्च प्रतिष्ठां सहृकारयेत् । पृथगेव प्रतिष्ठां चेत्संस्नाप्य च पृथक् पृथक् इति॥ १८३ विवाहविधिमत्रापि नाचरेदिति शासनम् । ध्रुवे देवीवियुक्तेऽपि मथितेनैव वह्निना ॥ २८ ॥ आघारं विधिवत्तत्र कृत्वौपासनकुण्डके । देव्यौ तु पूर्ववद्ध्यात्वा हृदयाद्वाऽर्कमण्डलात् ॥ २९ ॥ आवाह्य कुम्भयोर्देव्यौ होमकर्मावसानके । कुम्भात्तद्बिम्बयोर्भक्त्या समावाह्य समर्चयेत् ॥ ३० ॥ देवीभ्यामौत्सवे सार्धं स्थाप्यमाने तपोधनाः । ध्रुवे देवीवियुक्तेऽपि कुम्भं संसाध्य पूर्ववत् ॥ ३१ ॥ 1कुम्भे बिम्बात्समावाह्य देवं देव्यौ ततः परम् । आवाह्य हृदयाद्ध्यायंस्तथैवादित्यमण्डलात् ॥ ३२ ॥ पूर्ववत् स्नपनादीनि कृत्वा सर्वाणि तत्र वै । देवदेवं समावाह्य 2ध्रुवबेरे तु पूर्ववत् ॥ ३३ ॥ तस्माद्देवं समावाह्य कुम्भाद्देव्यौ समावहेत् । कौतुकव्यतिरिक्तप्रतिष्ठायां विशेषः कौतुकव्यतिरिक्तानां स्थापनायां तपोधनाः ॥ ३४ ॥ परिषद्देवताह्वानं सर्वदेवार्चनं तथा । परिषद्देवताहोमं वर्जयेदिति शासनम् ॥ ३५ ॥ अथवा देवदेवस्य देव्योश्चैव पृथक्पृथक् । शयनं कुम्भपूजाञ्च कुर्यादित्येव केचन ॥ ३६ ॥ 1. कुम्भे बिम्बान् आ. 2. ध्रुवबेरात् आ. द्वादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १८४ एकबेरप्रतिष्ठायां देव्यौ न स्थापयेत्पुनः । श्रीभूमिसहितं कुर्यादादावेव ध्रुवार्चनम् ॥ ३७ ॥ सर्वकामाभिवृद्ध्यर्थी श्रिया केवलमेव वा । स्थापयेदेकबेरस्य पश्चाद्वै केवलं श्रियम् ॥ ३८ ॥ देवीभ्यां रहितं कुर्यान्नारसिंह ध्रुवार्चनम् । इच्छन्ति योगमार्गेण सन्तस्सर्वे ध्रुवार्चनम् ॥ ३९ ॥ पटकुड्यादिबिम्बप्रतिष्ठा पटकुड्यसुधाऽऽलेख्यबिम्बानां स्थापनाविधिम् प्रवक्ष्यामि समासेन बिम्बं कृत्वा सलक्षणम् ॥ ४० ॥ औपासनाग्निमाधाय वास्तुहोमविधानतः । पर्यग्निपञ्चगव्याभ्यां शोधयित्वा समीपतः ॥ ४१ ॥ पूर्वोक्तेन क्रमेणैव कृत्वा तस्याक्षिमोचनम् । कुम्भं पूर्ववदादाय शुद्ध्यर्थं प्रोक्षणं चरेत् ॥ ४२ ॥ प्रदोषे समनुप्राप्ते कुण्डे चौपासने तथा । आघारं विधिवत्कृत्वा कुम्भं संसाध्य पूर्ववत् ॥ ४३ ॥ अभ्युक्ष्य सप्तकलशैर्बध्द्वा प्रतिसरं तथा । हौत्रं प्रशंस्य विधिना देवमावाह्य पूर्ववत् ॥ ४४ ॥ आवाहनक्रमेणैव निरूप्याज्याहुतीर्यजेत् । आदिमूर्तिप्रतिष्ठा चेद्वैष्णवं विष्णुसूक्तकम् ॥ ४५ ॥ सूक्तञ्च पौरुषं हुत्वा पुनश्चापि च वैष्णवम् । पञ्चवारुणसंयुक्तं जयादींश्च तथैव च ॥ ४६ ॥ १८५ यद्देवादींस्ततो हुत्वा सहस्राहुतिसंयुतम् । अवतारप्रतिष्ठा चेत्तत्तन्मत्रं शतं यजेत् ॥ ४७ ॥ प्रातर्मन्त्राक्षरन्यासं कृत्वाऽऽवाह्य स्मरन् हरिम् । अधस्तात्तस्य बिम्बस्य पीठं कृत्वा त्रिवेदिकम् ॥ ४८ ॥ 1वितस्त्यायामविस्तारं षडङ्गुलसमुच्छ्रयम् । तस्सिन्कूर्चञ्च विन्यस्य द्वादशाङ्गुलमात्रकम् ॥ ४९ ॥ तस्मिन्देवं समावाह्य समभ्यर्च्य निवेदयेत् । अर्चनान्ते तथा बिम्बे विसर्जनमथाऽचरेत् ॥ ५० ॥ एष एव विशेषः स्यादन्यत्सर्वञ्च पूर्ववत् । इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे पश्चात् स्नपनौत्सवेदेवीप्रतिष्ठाविधिर्नाम द्वादशोऽध्यायः