११

2


पुत्रमित्र आ. 2. १३ अध्यायः ख.॥ ११. अध्यायः ई. दशमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १६० एकादशोऽध्यायः दशावतारकल्पः (वक्ष्ये दशावताराणां प्रतिष्ठां मुनिसत्तमाः ।) मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः । रामो रामश्च रामश्च कृष्णः कल्कीति ते दश ॥ १ ॥ आविर्भावाः पञ्च पूर्वे प्रादुर्भावास्तथाऽपरे । मत्स्यकूर्मौ द्विधा प्रोक्तौ वाराहस्त्रिविधः स्मृतः ॥ २ ॥ पञ्चधा नारसिंहस्तु द्विविधो वामनः स्मृतः । एकधा भार्गवो रामो राघवो द्विविधः स्मृतः ॥ ३ ॥ द्विविधो बलभद्रश्च कृष्णोऽसङ्ख्यातविग्रहः । एकधा कल्किरूपश्च तेषां श्रृणुत लक्षणम् ॥ ४ ॥ मत्स्यः महाजलौघप्रलये चराचरजगत्क्षये । तत्तोयमुपसंहर्तुमासीत्प्रथममत्स्यकः ॥ ५ ॥ तद्रोमकूपविवरे प्रमितः प्रलयार्णवः । कल्पावसानप्रलयलीनवेदोपदेशकः ॥ ६ ॥ मत्स्य आसीद्द्वितीयश्च देवदेवो जनार्दनः । तप्तहाटकसङ्काशः प्रथमोऽन्योऽञ्जनप्रभः ॥ ७ ॥ १६१ 1रक्तपद्मासनारूढौ वितस्तिर्विसृतौ? तथा । विस्तारद्विगुणायामौ कुर्यान्मत्स्यौ यथाविधि ॥ ८ ॥ पौण्डरीकः प्रधानाग्निरन्यत्सर्वं खिलोक्तवत् । कूर्मः स्वस्थानचलितक्षोणीभरणायादिकच्छपः ॥ ९ ॥ द्वितीयश्चामृतोद्धारमन्थमन्दरधारकः । अञ्जनाभं तयो रूपं चतुरश्रासनस्थितिः ॥ १० ॥ गार्हपत्यः प्रधानाग्निरन्यत्सर्वं खिलोक्तवत् । वराहः पातालमग्नां वसुधामुद्धर्तुं प्रथमस्तथा ॥ ११ ॥ आसीदादिवराहाख्यस्तस्य वक्ष्यामि लक्षणम् । नररूपो वराहश्च सस्यश्यामश्चतुर्भुजः ॥ १२ ॥ दक्षिणस्सुस्थितः पादः पीठे वामस्तु कुञ्चितः । पञ्चतालप्रमाणेन तदूरौ श्यामलां महीम् ॥ १३ ॥ प्राञ्जलीकृतहस्तां तां प्रसारितपदद्वयाम् । पुष्पाम्बरां समुद्वीक्ष्य व्रीलाहर्षसमन्विताम् ॥ १४ ॥ देवो दक्षिणहस्तेन देव्योः पादौ प्रगृह्य च । वाममाधारवत्कृत्वा देव्या बाह्नोरधोपरि ॥ १५ ॥ पातालमग्नां वसुधां तामुद्धृत्य समुत्थितः । पराभ्याञ्च कराभ्याञ्च शङ्खचक्रधरं परम् ॥ १६ ॥ 1. रक्तमण्डपमारूढैः द्विहस्तविसृतौ ? आ. एकादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १६२ जिघ्रन्मूर्ध्नि तथा देवीं सर्वाभरणभूषिताम् । श्वेतपद्मसिताभौ तु पुण्यतीर्थौ तदर्चकौ ॥ १७ ॥ 1ब्रह्मराजश्रियौ श्वेतरक्ताभौ द्वारपालिके । श्वेताभाश्च चतुर्वेदाः वाहनस्थानमाश्रिताः ॥ १८ ॥ पुलिन्दं शैषिकं श्यामं शेषं पूर्ववदाचरेत् । प्रलयेऽवान्तरोद्भूते तञ्च संहर्तुमुद्यतः ॥ १९ ॥ वराहः प्रलयाख्योऽभू2त्पूर्ववच्च किटेर्मुखम् । तप्तहाटकसङ्काशं नीलाम्बरधरं परम् ॥ २० ॥ अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् । शङ्खचक्रधरावूर्ध्वमन्यत्सर्व च पूर्ववत् ॥ २१ ॥ देवस्य दक्षिणे पार्श्व महीं देवीं प्रकल्पयेत् । देवदेव्यौ सुखासीनौ तस्य सिंहासनादधः ॥ २२ ॥ नारदं रक्तवर्णञ्च वीणाहस्तं प्रकल्पयेत् । पूजकौ3 भृगुपुण्यौ तावन्यत्सर्वञ्च पूर्ववत् ॥ २३ ॥ हिरण्याक्षासुरं हत्वा सर्वयज्ञविनाशकम् । 4यज्ञस्य स्थापनं कर्तुमासीद्यज्ञवराहकः ॥ २४ ॥ श्वेतो वर्णोऽखिलञ्चान्यत्प्रलयाख्यवराहवत् । सिंहासने सुखासीनः श्रीभूमिसहितः परः ॥ २५ ॥ 1. ब्रह्मा च श्वेतरक्ताभः कनकाभश्च मौलिकः । इति आ पाठः 2. पूर्ववच्चाहवोन्मुखं आ. देवस्य दक्षिणे भागे मही देवीं प्रकल्पयेत् इत्यधिकं ई. 3. पृथु आ.4. यज्ञार्थस्थापानं आ. १६३ उक्तौ कनकयज्ञाख्यौ पूजकौ रुक्मसन्निभौ । तेषां सभ्यः प्रधानाग्निरन्यत्सर्वं खिलोक्तवत् ॥ २६ ॥ ‘क्ष्मामेका’ मिति मन्त्रेण शतमष्टोत्तरं यजेत् । नारसिंहभेदाः गिरिजः स्थूणजश्चैव सुदर्शननृसिंहकः ॥ २७ ॥ तथा लक्ष्मीनृसिंहश्च पातालनरसिंहकः । इति पञ्चविधः प्रोक्तो नारसिंहो मनीषिभिः ॥ २८ ॥ गिरिजस्थूणजौ प्रोक्तौ खिले विस्तरतो मया । सुदर्शननृसिंहः सुदर्शननृसिंहस्य लक्षणं सम्प्रवक्ष्यते ॥ २९ ॥ कोटिसूर्यप्रतीकाशं चक्रं विमलमुज्ज्वलम् । बृहद्भानुपुरद्वन्द्वं1 चक्रमध्ये प्रकल्पयेत् ॥ ३० ॥ तस्य मध्ये 2सुखासीनं नृसिंहमरुणप्रभम् । अत्यन्तभीषणाकारं भक्तानामभयप्रदम् ॥ ३१ ॥ चक्रायुधं चतुर्बाहुं देवदेवं प्रकल्पयेत् । तस्य सिंहसनाधस्ताद्दक्षिणेतरपार्श्वयोः ॥ ३२ ॥ 3वदन्तौ कोपशान्त्यर्थं ब्रह्मरुद्रौ प्रकल्पयेत् । ‘यो वा नृसिंह’ इत्युक्त्वा चक्रमन्त्रद्वयेन च ॥ ३३ ॥ अष्टोत्तरशतं होममन्यत्सर्वं नृसिंहवत् । 1. द्वारं आ.2. समासीनं आ.3. वन्दनौ आ. एकादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १६४ लक्ष्मीनृसिंहः वक्ष्ये लक्ष्मीनृसिंहस्य लक्षणं मुनिसत्तमाः ॥ ३४ ॥ सिंहासने सुखासीनं वामपादं प्रसार्य च । आसने निहितं पादं दक्षिणं कुञ्चितं तथा ॥ ३५ ॥ देवस्योरौ प्रकुर्वीत लक्ष्मीं सर्वाङ्गसुन्दरीम् । सर्वाभरणसंयुक्तां व्रीलाहर्षसमन्विताम् ॥ ३६ ॥ प्राञ्जलीकृतहस्तान्तां1 पद्मकिञ्जल्कसन्निभाम् । प्रसारितपदां देवीं पञ्चतालप्रमाणतः ॥ ३७ ॥ वरदाभयहस्तां वा उद्यत्पद्मधरान्तु वा । दक्षिणेनैव हस्तेन कुर्वंस्तदुपगूहनम् ॥ ३८ ॥ वाममूरौ निवेश्यैव पराभ्यां शङ्खचक्रभृत् । भुक्तिमुक्तिफलापेक्षी कुर्यादेवं यथाविधि ॥ ३९ ॥ केवलामुष्मिकापेक्षी लक्ष्मीं वामे प्रकल्पयेत् । वामभागे तु कुर्याच्चेद्वामोरौ तां निवेश्य च ॥ ४० ॥ (प्रसार्य दक्षिणं पादं वामपादन्तु कुञ्चितम् ।) वामेन तां परिष्वज्य दक्षिणेनाभयप्रदम् । पराभ्याञ्च कराभ्याञ्च शङ्खचक्रधरं तथा ॥ ४१ ॥ एवं सम्परिकल्प्यैनं ब्रह्मेशावपि 2पूजयेत् । औपासनाग्निकुण्डञ्च कुर्याद्देव्याः पृथक् श्रियः ॥ ४२ ॥ एककुण्डेऽथ वा होमं कुर्यादस्याश्च केचन । लक्ष्म्याः श्रीसूक्तसंयुक्तं ‘श्रिये जात’ इति ब्रुवन् ॥ ४३ ॥ 1. हस्ताभ्यां आ. 2. पूर्ववत् ई. १६५ ‘शं सा नियच्छती’त्युक्त्वा शतमष्टोत्तरं यजेत् । ‘श्रियं धृतिं पवित्रीञ्च लक्ष्मी’ मिति च मूर्तिभिः ॥ ४४ ॥ पृथक्कुण्डं यदि भवेत्पुरुषसूक्तसमन्वितम् । पूर्ववन्नारसिंहस्य सर्वं कुर्याद्यथाविधि ॥ ४५ ॥ नृसिंहस्थापने विशेषः (ध्रुवार्चास्थापनं चेद्वै भोगं चेद्दैविके पदे ।) सुदर्शननृसिंहञ्च स्थूणजञ्च विनेतरान् सर्वत्र कल्पयेत्पुष्ट्यै ग्रामादिषु च वास्तुषु ॥ ४६ ॥ ग्राममध्ये यदि भवेत् 1तद्दृष्ट्या सर्वनाशनम् । तस्मात्सर्वप्रयत्नेन चतुर्द्वाराणि कारयेत् ॥ ४७ ॥ सुदर्सननृसिंहञ्च स्थूणजञ्ज यथाविधि । 2स्थापयेद्ग्रामबाह्येषु ग्रामाभिमुखमेव वा ॥ ४८ ॥ (पर्वताग्रे नदीतीरे वने वा वृक्षसङ्कुले । आरामेषु सरित्तीरे जर्झरे स्थापयेद्बुधः ॥ सुदर्शननृसिंहस्य अत्रिणोक्तं समाचरेत् ।) पातालनरसिंहञ्च प्रवक्ष्यामि समासतः । वामजानु समुद्धृत्य दक्षिणेनैव जानुना ॥ ४९ ॥ आसीनं गरुडं कुर्याच्चतुर्भुजसमन्वितम् । उभाभ्यामपि पाणिभ्यां हृदयेऽञ्जलिसंयुतम् ॥ ५० ॥ कराभ्यामितराभ्याञ्च दधानं शेषविग्रहम् । भोगिभोगत्रिवलयं स्कन्धे कुर्याद्गरुत्मतः ॥ ५१ ॥ 1. ग्रामाधिक्यं निरीक्षणम् आ.2. कल्पयेत् आ. एकादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १६६ उत्तमाङ्गं समुद्धृत्य फणामण्डलमण्डितम् । कल्पयेत्तत्फणाधस्तान्नारसिंहं यथाविधि ॥ ५२ ॥ कुञ्चितं वामपादन्तं शेषभोगे निधाय च । आसीनं दक्षिणं पादं वीशक्सन्धे प्रसार्य च ॥ ५३ ॥ अष्टबाहुसमायुक्तमभयं दक्षिणं करम् । शेषैश्चक्रं शरं खड्गं दधतं बाहुभिस्त्रिभिः ॥ ५४ ॥ वामे शङ्खञ्च शार्ङ्गञ्च खेटकञ्च गदामपि । शेष पूर्ववदुद्दिष्टं प्रतिष्ठां कारयेद्बुधः ॥ ५५ ॥ गारुडं शेषदैवत्यं जुहुयादेकविंशतिः । ‘यो वा नृसिंह’ इत्युक्त्वा शतमष्टोत्तरं यजेत् ॥ ५६ ॥ (एवं लक्ष्मीनृसिंहञ्च कुर्यादित्येव केचन ।) नारसिंहप्रतिष्ठायामग्नावाहवनीयके । हौत्रं प्रशंस्य तन्मूर्त्या निरूप्याज्याहुतीर्यजेत् ॥ ५७ ॥ अन्यत्सर्वं खिले प्रोक्तं तत्र ज्ञात्वा समाचरेत् । नारसिंहविकल्पाश्च बहुधा 1परिकीर्तिताः ॥ ५८ ॥ तेषां तालविभागश्च मन्त्रा मूर्तय एव च । कुण्डञ्च परिवाराणां गिरिजस्योक्तवद्भवेत् ॥ ५९ ॥ वामनः वैरोचने बलवति बलिनोऽसुरपुङ्गवात् । काश्यपाद्वामनोऽदित्यामपर्ह्तुं जगच्छलात् ॥ ६० ॥ 1. परिकल्पिताः आ. १६७ आसीत्तस्य प्रवक्ष्यामि प्रतिष्ठामर्चनादिकम् । त्रिविक्रमः स एवासीत्त्रिलोकक्रमणोद्यतः ॥ ६१ ॥ त्रिविक्रमस्त्रिधा प्रोक्तः प्रथमश्च द्वितीयकः । तृतीयश्चेति तद्रूपं यथेष्टं कारयेद्बुधः ॥ ६२ ॥ अष्टबाहुं चतुर्बाहुं दशतालक्रमेण वै । गदाचक्रासिशक्तीश्च शरं शङ्खञ्च शार्ङ्गकम् ॥ ६३ ॥ दधतं श्यामदेहञ्च महारूपधरं हरिम् । स्थितं दक्षिणपादेन वामपादं प्रसार्य च ॥ ६४ ॥ हर्षवेगसमायुक्तं सर्वाभरणभूषितम् । अष्टबाहुं प्रकुर्वीत प्रवक्ष्यामि चतुर्भुजम् ॥ ६५ ॥ पराभ्याञ्च कराभ्याञ्च शङ्खचक्रधरं परम् । दक्षिणं हस्तमादाय पादमन्यत्प्रसारितम् ॥ ६६ ॥ वाममूर्ध्वे प्रसार्याङ्घ्रिं दक्षिणेनैव सुस्थितम् । तत्प्रसारितपादोर्ध्वे हस्तं सम्यक्प्रसारितम् ॥ ६७ ॥ इन्द्रं छत्रधरं कुर्यादाकाशस्थं यथाविधि । पार्श्वयोश्च यमं सम्यग्वरुणं व्याजनौ तथा ॥ ६८ ॥ जानुमात्रोद्धृते पादे प्रथमस्तु विधीयते । नाभिमाने द्वितीयः स्यात्तृतीयस्स्याल्ललाटके ॥ ६९ ॥ ब्रह्माणं कल्पेयेदूर्ध्वे तत्पादक्षालनोद्यतम् । ततो गङ्गां प्रकुर्वीत ब्रह्मलोकात्परिस्रुताम् ॥ ७० ॥ प्राञ्जलीकृतहस्तान्तां नाभेरूर्ध्वे शरीरिणीम् । तस्य पादोर्ध्वतः कुर्यान्नमुचिं भ्रममाणकम् ॥ ७१ ॥ एकादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १६८ शुक्रं विघ्नकरं कुर्यात्स्थितपादस्य वामतः । मुष्टिना प्रहरन्तं तदूर्ध्वे वीशं प्रकल्पयेत् ॥ ७२ ॥ तद्दक्षिणे स्थितं कुर्यात् 1वटुरूपञ्च वामनम् । छत्रदण्डधरं पुण्यं शिखाकौपीनसंयुतम् ॥ ७३ ॥ तत्पार्श्वे बलिनं कुर्याद्गृहीतकरकं2 तथा । सर्वाभरणसंयुक्तं हर्षयुक्तं प्रकल्पयेत् ॥ ७४ ॥ नीलाभं जाम्बवन्तञ्च कल्पये3द्वानराकृतिम् । इन्द्रं श्यामनिभं कुर्याद्यममञ्जनसन्निभम् ॥ ७५ ॥ वरुणं श्यामवर्णञ्च भास्करञ्चाग्निसन्निभम् । श्वेतं निशाकरं कुर्याद्ब्रह्माणं हाटकप्रभम् ॥ ७६ ॥ गङ्गां 4श्वेतप्रभाङ्कुर्यान्नमुचिं श्याममेव च । शुक्रं श्वेतनिभं कुर्यात् कार्यविघ्नत्वरान्वितम् ॥ ७७ ॥ चक्रं श्वेतनिभं कुर्याद्गरुडं पञ्चवर्णकम् । वामनञ्च तथा श्यामं बलिनं कनकप्रभम् ॥ ७८ ॥ एवं त्रिभेदतो रूपं स्वेच्छया कारयेद्बुधः । अन्वाहार्ये प्रधानाग्नौ हौत्रशंसनमाचरेत् ॥ ७९ ॥ ‘यो वा त्रिमूर्ति’ रित्येकं शतमष्टाधिकं यजेत् । 5स्थापनादीनि सर्वाणि विष्णुसूक्तेन कारयेत् ॥ ८० ॥ वामनो न पृथक् स्थाप्यस्सर्वमन्यत्खिलोक्तवत् । 1. वररूपं क. 2. कलशं क. 3. वामनाकृतिं क.4. श्वेतदृहां क. 5. स्नापनादीनि क. १६९ परशुरामः महाबलक्षत्रवधाद्भूभारस्य निरासकः ॥ ८१ ॥ जमदग्निसुतो रामो बभूवात्यन्तदारुणः । कल्पयेद्द्भिुजं रामं दशतालप्रमाणतः ॥ ८२ ॥ दक्षिणे परशुं हस्ते वाममुद्देशकं तथा । रक्तवर्णं प्रकुर्वीत जटामकुटमण्डितम् ॥ ८३ ॥ नीलाम्बरधरं देवमासीनं स्थितमेव वा । तद्रूपं कौतुकं कुर्यादृषींस्तत्परितो लिखेत् ॥ ८४ ॥ अन्वाहार्ये प्रधानाग्नौ हौत्रशंसनमाचरेत् । ‘विष्णुर्वरिष्ठ’ इत्युक्त्वा सप्तत्येकोत्तरं यजेत् ॥ ८५ ॥ शिष्टानि सर्वकार्याणि पूर्ववत्सम्यगाचरेत् । दाशरथिरामः देवहिंसाकरान् हन्तुं रावणाद्यांश्च राक्षसान् ॥ ८६ ॥ आसीद्दाशरथी रामः सायुधाङ्गो निरायुधः । सार्धाष्टतालमानेन राघवं सम्प्रकल्पयेत् ॥ ८७ ॥ श्यामलं द्विभुजं कुर्यात्त्रिभङ्गेन च सुस्थितम् । शरं दक्षिणहस्तेन चापं वामेन बिभ्रतम् ॥ ८८ ॥ सर्वाभरणसंयुक्तं किरीटमकुटोज्ज्वलम् । सीताञ्च दक्षिणे पार्श्वे पीतवर्णां प्रकल्पयेत् ॥ ८९ ॥ सपद्मवामहस्ताञ्च सम्प्रसारितदक्षिणाम् । दक्षिणं सुस्थितं पादं वामं किंचिच्च कुञ्चितम् ॥ ९० ॥ एकादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १७० पादं हस्तं प्रकुर्वीत विपरीतमथापि वा । वामतो लक्ष्मणं कुर्यादष्टतालेन रुक्मभम् ॥ ९१ ॥ 1बालकुन्तलसंयुक्तमन्यत्सर्वञ्च रामवत् । वार्ताविज्ञापनपरं हनूमन्तञ्च दक्षिणे ॥ ९२ ॥ रुक्माभं दक्षिणेनैव पाणिना पिहिताननम् । प्रह्वाङ्गमूर्ध्ववदनं वामेनापि धृताम्बरम् ॥ ९३ ॥ एवं सायुध उद्दिष्टो वक्ष्याम्यन्यं निरायुधम् । सिंहासने समासीनं देवं देवीं यथाविधि ॥ ९४ ॥ वामतो लक्ष्मणं कुर्यात्प्राञ्जलीकृत्य सुस्थितम् । कारयेत्कौतुकं तद्वदासीनं स्थितमेव वा ॥ ९५ ॥ सायुधे सायुधं तद्वत्कौतुकञ्च समाचरेत् । एकस्मिन्नेव कुम्भे तु त्रयाणां ध्यानमाचरेत् ॥ ९६ ॥ तस्य देवस्य देव्याश्च शयनक्रम उच्यते । तद्वेद्यां लक्ष्मणस्यापि शयनं तु पृथग्भवेत् ॥ ९७ ॥ अन्वाहर्ये प्रधानाग्नौ हौत्रशंसनमाचरेत् । ‘रायामीश’ इति जपन् सप्तत्येकोत्तरं यजेत् ॥ ९८ ॥ श्रीवत्सर्वञ्च सीताया युक्त्या बुद्ध्या समाचरेत् । बलभद्ररामः वक्ष्यामि बलभद्राख्यरामं यदुकुलोद्भवम् ॥ ९९ ॥ दानवेन्द्रवधात्सोऽपि भूमिभारापनोदकः । हस्तिपृष्ठविमाने वा सोमच्छन्देऽथवा पुनः ॥ १०० ॥ 1. बालकुन्दजसंयुक्तं आ. १७१ कृष्णस्यार्धासनासीनं स्थापयेत्पृथगेव वा । शङ्खेन्दुकुन्दधवलं द्विभुजं नीलवाससम् ॥ १०१ ॥ मुसलं दक्षिणे हस्ते हलं वामे च कल्पयेत् । इत्येवं सायुधः प्रोक्तः प्रवक्ष्यामि निरायुधम् ॥ १०२ ॥ वामपादं समाकुञ्च्य दक्षिणं सम्प्रसार्य च । सव्यञ्चाभयहस्तन्तु वाममूरुनिवेशितम् ॥ १०३ ॥ रेवतीं दक्षिणे पार्श्वे नीलोत्पलदलप्रभाम् । पद्मं दक्षिणहस्तेन गृहीत्वाऽन्यं तथैव च ॥ १०४ ॥ ऊरौ निवेश्य चासीनां रेवतीञ्च प्रकल्पयेत् । सर्वाभरणसंयुक्तं देवं देवीसमन्वितम् ॥ १०५ ॥ एवञ्च कौतुकं कुर्यात्स्थापनारम्भमाचरेत् । अग्नावाहवनीये तु हौत्रशंसनमाचरेत् ॥ १०६ ॥ ‘क्ष्मामेका’ मिति मन्त्रेण शतमष्टोत्तरं यजेत् । अन्यत्सर्वं विशेषेण विष्णोरिव समाचरेत् ॥ १०७ ॥ कृष्णः कूटे वा गोपुराकारे कुम्भाकारेऽथवाऽऽलये । नवतालप्रमाणेन कृष्णं कृत्वा समर्चयेत् ॥ १०८ ॥ श्यामलं त्रिणतं रक्तवाससं द्विभुजं तथा । पाणिना दक्षिणेनैव क्रीडायष्टिधरं परम् ॥ १०९ ॥ वामेनोत्क्रीडनकरं लीलयैव च सुस्थितम् । सर्वाभरणसंयुक्तं सुन्दरं सौम्यलोचनम् ॥ ११० ॥ एकादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १७२ रुक्मिणीं सत्यभामाञ्च देव्यौ दक्षिणवामयोः । श्यामरक्तनिभे कृष्णपीतवस्त्रविभूषिते ॥ १११ ॥ गरुत्मान् बाहुसीमान्तमानेन कारयेद्भूषणोज्ज्वलम् । कल्पयेत्प्राञ्जलिं वीशं वामपार्श्वे तु तत्र वै ॥ ११२ ॥ ध्रुवबेरानुरूपं वै कौतुकञ्च समाचरेत् । सिंहासने 1समासीनं देवीभ्यां तु निरायुधम् ॥ ११३ ॥ पूर्वोक्तेन विधानेन सर्वाभरणसंयुतम् । नवनीतनटं वाऽथ तथा कालीयमर्दनम् ॥ ११४ ॥ गोपालविग्रहं वाऽथ पार्थसारथिमेव वा । रूपाण्यन्यान्यसङ्ख्यानि कृष्णस्य मुनिसत्तमाः ॥ ११५ ॥ शिल्पशास्त्रोक्तविधिना तत्तद्रूपाणि 2कल्पयेत् । दक्षिणं कुञ्चितं पादं वामपादं तु सुस्थितम् ॥ ११६ ॥ तस्य कुञ्चितपादन्तु 3वामपार्ष्णिनिवेशितम् । गृहीतवेणुं हस्ताभ्यां वेणुरन्ध्राहिताननम् ॥ ११७ ॥ बर्हिबर्हावतंसञ्च कुर्याद्गोपालविग्रहम् । युत्क्त्या बुद्ध्या समूह्यैव कुर्यात्तद्रूपकल्पनम् ॥ ११८ ॥ क्रीडायष्टिधरं कृष्णं तथा गोपालविग्रहम् । विनान्यान्यस्य रूपाणि देवीविरहितानि वै ॥ ११९ ॥ क्रीडायष्टिधरं कृष्णं चौत्सवं विष्णुमेव वा । (ज्ञात्वा च हरिवत्सर्वान्परिवारान्प्रकल्पयेत् ॥ १२० ॥ 1. सुखासीनं आ. 2. कारयेत् आ. 3. वामपादनिवेशितं आ. १७३ सुन्दरं नामगोपालं विधिवत्स्थानमाश्रितम् । द्विभुजं पुष्पवहं चैव कुर्यान्निर्माल्यहारिणम्) ॥ १२१ ॥ पौण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेत् । ‘सत्यस्सत्यस्थ’ इत्युक्त्वा शतमष्टोत्तरं यजेत् ॥ १२२ ॥ हरेरिव समस्तानि स्थापनादीनि कारयेत् । चतुर्भुजकृष्णः कृष्णं चतुर्भुजं केचिदिच्छन्ति मुनिसत्तमाः ॥ १२३ ॥ पूर्ववत्पूर्वहस्तौ तु शङ्खचक्रधरौ परौ । कृष्णादिमूर्तयः प्रोक्ताः वासुदेवपुरस्सराः ॥ १२४ ॥ सर्वमन्यत्समं प्रोक्तमिति पूर्वजशासनम् । कल्की युगान्तसमये विष्णुः कल्किनामा भविष्यति ॥ १२५ ॥ खड्गखेटकहस्तस्तु म्लेच्छादीन् संहनिष्यति । भिन्नाञ्जननिभं रक्तवाससं सम्प्रकल्पयेत् ॥ १२६ ॥ पौण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेत् । ‘ॠ तं स’त्येति मन्त्रेण शतमष्टोत्तरं यजेत् ॥ १२७ ॥ अवतारार्चने विकल्पाः अन्तरालेऽथवा विष्णोर्दक्षिणोत्तरपार्श्वयोः । कल्पयेद्रामकृष्णौ तु मुखमण्डप एव वा ॥ १२८ ॥ अथान्तर्मण्डले वाऽपि तथाऽऽवरणमण्डपे । संस्थाप्य कौतुकं बेरमर्चयेदिति केचन ॥ १२९ ॥ एकादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १७४ नारसिंहं वराहञ्च वामनञ्च त्रिविक्रमम् । ध्रुवबेरं विना कृत्वा कौतुकं लक्षणान्वितम् ॥ १३० ॥ स्थापयित्वा तथा विष्णुं पूजयेदग्रमण्डपे । पाद्यमाचमनं स्नानमलङ्कारं तथैव च ॥ १३१ ॥ पाद्यमाचमनं पुष्पं गन्धं धूपमतः परम् । दीपार्घ्याचमनान्येव हविः पानीयमेव च ॥ १३२ ॥ तयैवाचमनं पश्चात् मुखवासमतः परम् । परप्रधानबिम्बानामेते षोडश विग्रहाः ॥ १३३ ॥ स्वप्रधानावताराणां हरेरिव समाचरेत् । स्थानं दशावताराणां ध्रुवकौतुकसंयुतम् ॥ १३४ ॥ अन्तरालयके केचिदिच्छन्ति मुनिसत्तमाः । स्थानाश्रयावताराणां मुखवासन्तमर्चनम् ॥ १३५ ॥ तत्तत्प्रधानमन्त्रान्ते तत्तन्मूर्तिं समुच्चरन् । अर्चनं स्नपनञ्चैव कुर्याद्भक्तिसमन्वितः1 ॥ १३६ ॥ आविर्भावावताराः अतः परं प्रवक्ष्यामि 2ह्याविर्भावाश्च शार्ङ्गिणः । त्रैलोक्यमोहनञ्चैव हरिशङ्करमेव च ॥ १३७ ॥ पूर्वमेव मया प्रोक्ताः खिले विस्तरतस्तथा । (मत्स्यकूर्मवराहाणां नारसिंहस्य कल्किनः ॥ १३८ ॥ ॠक्षं श्रवणमेवोक्तं वामनस्य तथैव च । अन्येषामवताराणां पृयगृक्षमुदीरितम्) । 1. अत्र अध्यायसमाप्तिः ख.2. स्वाविर्भावांश्च आ. १७५ लक्ष्मीनारायणः लक्ष्मीनारायणं वक्ष्ये सर्वसम्पत्करं वरम् । वीशस्कन्धे समासीनं नारायणमनामयम् ॥ १३९ ॥ सर्वमासीनवत्कृत्वा तस्योरौ दक्षिणे तथा । देवीं श्रियं प्रकल्प्यैव सर्वाभरणभूषिताम् ॥ १४० ॥ प्राञ्जलीकृतहस्तां तां 1व्रीलाहर्षसमन्विताम् । देवेशेनोपगूढां तां दक्षिणापरपाणिना ॥ १४१ ॥ वामापरभुजो विष्णोः सम्यगूरौ निवेशितः । एष एव विशेषस्स्यादन्यत्सर्वं हरेरिव ॥ १४२ ॥ वामोरौ कारयेल्लक्ष्मीमिति केचिद्वदन्ति च । (वीशस्कन्धं विना केचिदेवमासीनमासने) ॥ १४३ ॥ सभ्यहोमे प्रधानाग्नौ प्रतिष्ठोक्ताहुतीः क्रमात् । नारायणानुवाकञ्च श्रियः सूक्तं तथैव च ॥ १४४ ॥ यजेदष्टोत्तरशतमन्येष्वग्निषु पूर्ववत् । ‘श्रिये जात’ इति जपन् पद्माग्नौ पद्महोमकम्2॥ १४५ ॥ (ध्रुवार्चनं यदि भवेत् भोगत्वाद्दैविके पदे? ।) लक्ष्मीनारायणाख्यन्तु यजेद्विष्ण्वादिमूर्तिभिः । विशेषात्स्थापने तत्र विष्णुमूर्तिं प्रकल्पयेत् ॥ १४६ ॥ 1. क्रीडा ई. 2. ततःपरं ‘शंसानियच्छ’ त्वित्युक्त्वा शतमष्टोत्तरं यजेत्। श्रियं धृतिं पवित्रीञ्च लक्ष्मीमित्येव मूर्तिभिः। विशेषात् स्थापने तत्र विष्णुमूर्तिं प्रकल्पयेत। लक्ष्मीशं लक्ष्मीपतिञ्च लक्ष्मीवल्लभमेव च । लक्ष्मीनारायणमिति चतुर्मूर्तिभिरर्चये’दिति अधिकम् आ. एकादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १७६ औत्सवं बलिबेरञ्च विष्णुं वा तद्वदेव वा । पूर्वमष्टोपचारैस्तु ध्रुवमभ्यर्च्य मन्त्रतः ॥ १४७ ॥ द्वात्रिंशद्विग्रहैः पूजां कौतुके तु समाचरेत् । निष्कलार्चाविचारः ‘नारायणपरं ब्रह्म’ परमात्मेति कीर्त्यते ॥ १४८ ॥ तद्रूपं परमं सूक्ष्म1मक्षरं निष्कलञ्च यत् । तत्स्थानीयं ध्रुवं प्रोक्तमशक्यं निष्कलार्चनम् ॥ १४९ ॥ तत्पुष्पन्यासमात्रं स्याद्ध्रुवबेरार्चनं मतम् । विष्णोर्यत्सकलं रूपं स्थूलं सर्वस्य कारणम् ॥ १५० ॥ तत्स्थानीयं कौतुकं स्यात्तत्र पूजां समाचरेत् । ययोपयोगशक्यत्वात्कर्तुं पुष्पादिपूजनम् ॥ १५१ ॥ सालम्बनत्वाद्विहितं 2सकलत्वाच्च पूजनम् । ध्रुवस्य निष्कलत्वाच्च निरालम्बनहेतुना ॥ १५२ ॥ अशक्यत्वात्तत्र कर्तुं स्नानगन्धादिविग्रहम् । आदिकालव्यवच्छेदान्नेष्यते तद् ध्रुवार्चनम् ॥ १५३ ॥ तथापि पूजनं कर्तुं ध्रुवबेरे यदीच्छति । स्नानप्लोतौ विना सर्वैरुपचारैर्यथाविधि ॥ १५४ ॥ ‘ॠतं सत्ये’ ति मन्त्रेण पूजयेदिति केचन । नारायणानुवाकेन पुनः पुष्पाञ्जलिं ददेत् ॥ १५५ ॥ 1. अत्यन्तं ई. 2. सकलार्चनपूजनम आ. १७७ रविमण्डलमध्यस्थं तप्तहाटकसन्निभम् । शङ्खचक्रधरं सौम्यं प्रसन्नेन्दुनिभाननम् ॥ १५६ ॥ अभयं दक्षिणं पाणिं वामं कट्यवलम्बितम् । चन्द्रमण्डलमध्यस्थं शुद्धस्फटिकसन्निभम् ॥ १५७ ॥ अग्निमण्डलमध्यस्थं पूर्ववत्परिकल्पयेत् । चक्रम् अतः परं प्रवक्ष्यामि महाचक्रस्य लक्षणम् ॥ १५८ ॥ स्वतन्त्रं स्थापयेन्नैव महाचक्रं विशेषतः । देवस्य दक्षिणे पार्श्वे र्नैॠते वा प्रकल्पयेत् ॥ १५९ ॥ यमर्नैॠतयोर्मध्ये स्थापयेदालयाश्रयम् । उपानात्स्थूपिपर्यन्तं वृत्तमेवास्य मन्दिरम् ॥ १६० ॥ एकबेरविधानेन स्थापयेत्तद्ध्रुवार्चनम् । अष्टोत्तरशतज्वालं चक्रं कृत्वाऽस्य मध्यमे ॥ १६१ ॥ अग्निमण्डलयुग्मान्तर्गतं चक्रं प्रकल्पयेत् । उत्तमे षोडशभुजं मध्यमेऽष्टभुजं तथा ॥ १६२ ॥ अधमे च चतुर्बाहुं कल्पयेद्वा सुदर्शनम् । चक्रञ्च पट्टसं कुन्तं दण्डाङ्कुशहविर्भुजः ॥ १६३ ॥ क्षुरिकाञ्चैव शक्तिञ्च सव्यैर्दधतमष्टभिः । शङ्खं शरञ्च चापञ्च पाशं हलमतः परम् ॥ १६४ ॥ वज्रं गदां तोमरञ्च दधद्वामैश्च बाहुभिः । इत्युक्तष्षोडशभुजस्त्वष्टबाहुः प्रवक्ष्यते ॥ १६५ ॥ एकादशोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १७८ शङ्खचक्रगदापद्ममुसलाङ्कुश 1पाशिनम् । चापिनं कल्पयेच्चक्रमष्टबाहुधरं परम् ॥ १६६ ॥ शङ्खचक्रधरञ्चैव गदापद्मधरं परम् । चतुर्बाहुं द्विबाहुं वा यथाशक्ति प्रकल्पयेत् ॥ १६७ ॥ दंष्ट्राकरालवदनं अर्केन्द्वग्निविलोचनम् । आजङ्घान्तावलम्बञ्च स्कन्धात्किङ्किणिमालया ॥ १६८ ॥ राजमानमुदाराङ्गं सर्वशत्रुविदारणम् । श्रीवत्सकौस्तुभोद्भासिवक्षसं भक्तवत्सलम् ॥ १६९ ॥ वह्निज्वालावृतञ्चापि किरीटमकुटोज्जवलम् । शरोऽङ्गाराग्निसङ्काशं शुकपत्रनिभाम्बरम् ॥ १७० ॥ एवं कृत्वा महाचक्रं स्थापनारम्भमाचरेत् । अक्ष्युन्मेषादिकं कृत्वा चक्रमन्त्रद्वयेन च ॥ १७१ ॥ अधिवास्य यथाशास्त्रं पञ्चगव्यादिषु क्रमात् । कुम्भे ध्वात्वा समावाह्य संस्न्नाप्य कलशैस्तथा ॥ १७२ ॥ औपासनाग्नौ विधिना हौत्रं सम्यक्प्रशंस्य च । वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ १७३ ॥ चतुरावर्त्य हुत्वा तु चक्रमन्त्रद्वयेन च । अष्टोत्तरशतं हुत्वा जुहुयाच्चक्रमूर्तिभिः ॥ १७४ ॥ प्रातर्मुहूर्ते संस्थाप्य समावाह्य समर्चयेत् । एतद्वैदिकमुद्दिष्टं भुक्तिमुक्तिफलप्रदम् ॥ १७५ ॥ 1. पाशकं आ. १७९ (केवलं भुक्तिकामश्चेत् स्मरेन्मंत्रं षडक्षरम् । सर्वान्कृत्वा विधानेन होमकाले विशेषतः ॥ १७६ ॥ अष्टोत्तरसहस्रं तन्मन्त्रमावर्त्य हूयताम् । एष एव विशेषः स्यादन्यत्सर्वञ्च चक्रवत्) ॥ १७७ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे दशावतारलक्ष्मीनारायणमहाचक्रस्थापनविधानं नाम एकादशोऽध्यायः