१०

2 ।


यदिवा आ. 2. १२ अध्ययः ख. १० अघ्यायः ई. नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १५२ दशमोऽध्यायः अर्चनाङ्गोपचाराः अथोपचारान्वक्ष्यामि श्रृणुध्वं मुनिसत्तमाः । देवोपचारहेतुत्वादुपाचाराः प्रकीर्तिताः ॥ १ ॥ पूजनार्थं विशेषेण ग्रहणाद्विग्रहाश्च ते । चतुष्पष्ट्यृपचारांश्च पञ्चपञ्चाशदेव च ॥ २ ॥ चत्वारिंशत्सहाष्टभिर्द्विचत्वारिंशदेव च । षट्त्रिंशच्च चतुस्त्रिंशत् द्वात्रिंशन्नवविंशतिः ॥ ३ ॥ सप्तविंशतिरित्येते नवधा परिकीर्तिताः । आलयार्चाविधावेते हविर्हीने त्रयोदश ॥ ४ ॥ द्रव्यदेवार्चने चैव परिवारार्चने तथा । एकादशोपचाराः स्युश्शिवादीनां तथाऽर्चने ॥ ५ ॥ प्रतिद्रव्यार्चने प्रोक्तास्स्नपने त्वष्टविग्रहाः । होमे षड्विग्रहाः प्रोक्ता अवतारेषु षोडश ॥ ६ ॥ बालालये ध्रुवार्चायां पञ्चविंशतिविग्रहाः । द्वौ विग्रहावशक्तानामेको विग्रह एव वा ॥ ७ ॥ इत्येतेषाञ्च सर्वेषामाद्यमावाहनं तथा । सामान्यमर्चनान्ते च तथैवोद्वासनं स्मृतम् ॥ ८ ॥ ताभ्यां विनैव सङ्ख्यातमासनं स्वागतं तथा । १५३ उत्तमकल्पे चतुष्षष्ट्युपचाराः अनुमानञ्च पाद्यञ्च तथैवाचमनं पुनः ॥ ९ ॥ पुष्पं गन्धञ्च दीपञ्च दीपार्घ्याचमनानि च । स्नानं प्लोतञ्च वस्त्रञ्च उत्तरीयञ्च भूषणम् ॥ १० ॥ उपवीतञ्च पाद्यञ्च तथैवाऽचमनं पुनः । पुष्पं गन्धञ्च धूपञ्च दीपमाचमनं तथा ॥ ११ ॥ हविर्मन्त्राभिधानं स्यात्पानीयाचमनं पुनः । मुखवासोऽष्टपाद्यादि दर्पणं छत्रचामरौ ॥ १२ ॥ तालवृन्तं ध्वजगजरथाश्वा नृत्तगेयकौ । वाद्यमायुधसेवा च मङ्गलानां प्रदक्षिणम् ॥ १३ ॥ वेदपारायण दिक्षु पुराणस्तुतिरेव च । (देवस्यापरभागे तु वेदमन्त्रान्त्सुघोषयेत् ॥ ब्राह्मणैः विष्णुभक्तैश्च सहाचार्यपुरस्सरम् । देवेशमनुगच्छेयुर्वेदानुच्चार्य भूसुराः ॥) मात्रा च मधुपर्कञ्च हविर्होमौ ततः परम् ॥ १४ ॥ पानीयाचमने चैव मुखवासमतः परम् । बलिश्चैव प्रणामश्च पुष्पाञ्जलिरतः परम् ॥ १५ ॥ स्तुतिश्च दक्षिणा पश्चादनुमानञ्च भक्तितः । चतुष्षष्ट्युपचारास्युरुत्तमोत्तमपूजने ॥ १६ ॥ पञ्चपञ्चाशदुपचाराः गजध्वजरथाश्वैश्च मङ्गलैरायुधैरपि । 1विनैवाप्यनुमानेन स्तुत्या दक्षिणया तथा ॥ १७ ॥ 1. वितानैश्चामरैश्चापि आ. दशमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १५४ विग्रहाः पञ्चपञ्चाशत् प्रोक्ता उत्तममध्यमे । षड्भिश्च दक्षिणापूर्वैः 1पुष्पस्याञ्जलिना विना ॥ १८ ॥ अष्टचत्वारिंशदुपचाराः मध्यमकल्पे भोगाष्षडष्टसङ्ख्याता उत्तमाधमपूजने । ततो मन्त्रहविः पूर्वैर्विनाषड्भिश्च विग्रहैः ॥ १९ ॥ द्विचत्वारिंशदुपचाराः द्विचत्वारिंशदुद्दिष्टा मध्यमोत्तमपूजने । स्तोत्रेण च विना वेदैर्मधुपर्केण मात्रया ॥ २० ॥ षट्त्रिंशदुपचाराः छत्रेण व्यजनेनापि ततष्षट्त्रिंशदीरिताः । षट्त्रिंशद्विग्रहा एते प्रोक्ता मध्यममध्यमे ॥ २१ ॥ चुतस्त्रिंशदुपचाराः मध्यमाधमपूजायां विना दर्पणचामरौ । विग्रहाश्च चतुस्त्रिंशन्नृत्तगेयविवर्जिताः ॥ २२ ॥ अधमकल्पे द्वात्रिंशदुपचाराः द्वात्रिंशद्विग्रहाः प्रोक्ता अधमोत्तमपूजने । विनैव वाद्यहोमाभ्यां दीपान्ताचमनेन च ॥ २३ ॥ एकोनत्रिंशदुपचाराः नवविंशतिभोगास्ते प्रोक्ता अधममध्यमे । सप्तविंशत्युपचाराः विना बलिप्रणामाभ्यां सप्तविंशतिविग्रहाः ॥ २४ ॥ अधमाधमपूजायां 2नवधा विग्रहाः स्मृताः । 1. पुष्पन्यासाञ्जली विना क. 2. ब्रह्मणा परिकीर्तिताः । एवं विमानपूजायां नवधा विग्रहः स्मृताः आ. १५५ कौतुकादीनामुपचाराः अन्येषाञ्च हविर्लाभे सप्तविंशतिविग्रहाः ॥ २५ ॥ अर्चायामौत्सवे वापि लौकिकेष्वितरेषु वा । विहितं पूजनं सद्भिः सप्तविंशतिविग्रहैः ॥ २६ ॥ हविर्हीने प्रयोक्तव्यास्ते त्रयोदश विग्रहाः । अर्घ्याद्याचमनान्ताः स्युरासनाद्याश्च विग्रहाः ॥ २७ ॥ पुष्पाञ्जलिनमस्कारयुता एते त्रयोदश । पुष्पाञ्जलिनमस्कारहीना एकादशैव ते ॥ २८ ॥ अष्टोपचाराः पाद्याद्या अर्घ्याद्याचमनान्तकैः । पुष्पादयस्ते षट् प्रोक्ताः होमध्यानार्चनाय वै ॥ २९ ॥ एकादशोपचारास्ते चयुर्भिर्हविरादिभिः । प्रणामेन च संयुक्ताः प्रोक्ताष्षोडश विग्रहाः ॥ ३० ॥ (पुष्पाञ्जलिस्तुतिभ्याञ्चेत्युक्तास्तेऽष्टादश स्मृताः । पाद्यमाचमनं स्नानं प्लोतवस्त्रोत्तरीयके । भूषणं यज्ञसूत्रञ्च पाद्याद्या अष्टविग्रहाः) हविः पानीयमाचामो मुखवासो बलिस्तथा। होमश्चैव प्रणामश्च तथा पुष्पाञ्जलिः स्तुतिः ॥ ३१ ॥ एकबेरार्चने उपचाराः एकबेरार्चने प्रोक्ताः पञ्चविंशतिविग्रहाः । पुष्पाञ्जलिप्रणामौ द्वौ प्रणामस्त्वेकविग्रहः॥ ३२ ॥ दशमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १५६ प्रादुर्भावार्चनायां षोडशोपचाराः प्रादुर्भावालयार्चायां वक्ष्ये षोडशविग्रहान् । पाद्याद्याष्टोपचारान्ते चत्वारो हविरादयः ॥ ३३ ॥ बलिश्चैव प्रणामश्च स्तुतिः पुष्पाञ्जलिस्तथा । आलयार्चाविधाने तु पूर्वोक्तविधिनाऽर्चयेत् ॥ ३४ ॥ उपचाराणां चातुर्विध्यम् स्पृश्या दृश्यास्तथा श्राव्या भोज्याश्चैव चतुर्विधाः । आसनं पाद्यदानञ्च पुष्पं गन्धं तथैव च ॥ ३५ ॥ अर्घ्यं स्नानादयष्षट् च मात्रा च मधुपर्ककम् । पुष्पाञ्जलिप्रयोगश्च स्पृश्या दक्षिणया सह ॥ ३६ ॥ भोज्या एव समुद्दिष्टाश्चत्वारो हविरादयः । देवस्य दक्षिणे हस्ते दद्यात्तानर्घ्यसंयुतान् ॥ ३७ ॥ गीतं वाद्यं तथा वेदाः पुराणं स्तुतिरेव च । श्राव्या एव समुद्दिष्टा 1दृश्याश्चाष्टोपचारकाः ॥ ३८ ॥ धूपार्घ्यमधुपर्काणि आघ्रेयाणीति केचन । उपचारा इति प्रोक्तस्तत्प्रयोगक्रमादिकम् ॥ ३९ ॥ स्वरूपञ्च खिले प्रोक्तं विज्ञेयं विधिवित्तमैः । ध्रुवबेरपूजायां विशेषः भक्तयाऽथवा ध्रुवे बेरे पूजां कर्तुं यदीच्छति ॥ ४० ॥ स्नानानुलेपनप्लोतैर्विनाऽन्यैः सर्वविग्रहैः । पूजयेन्मुखवासान्तैः ध्रुवबेरन्तु केचन ॥ ४१ ॥ 1. शेषोपचारकाः आ. १५७ कौतुके नित्यपूजा, उपचारसमर्पणप्रकारः नित्यपूजां विशेषेण कुर्यात्कौतुक एव वै । तत्तन्मन्त्रावसाने तु पञ्चभिर्मूर्तिभिः पृथक् ॥ ४२ ॥ द्रव्यनाम च संयोज्य ‘ददा’मीति वदन्ददेत् । वस्त्रोत्तरीयोपवीतभूषणादीन् यथाविधि ॥ ४३ ॥ संयोज्य पञ्चमूर्तिभ्यो दद्यादित्याह काश्यपः । वस्तूना 1मर्चनार्थानामाधावमधिकं स्मृतम् ॥ ४४ ॥ 2अर्चने तु विहीनं यत्तत्तोयेन प्रकल्पयेत् । प्रातःकालार्चनार्हपुष्पाणि पङ्कजञ्च पालाशञ्च तुलसी नवमालिका ॥ ४५ ॥ नन्द्यावर्तञ्च मन्दारं माधवी चम्पकं तथा । पुन्नागं केतकी चापि प्रातःकालार्चने दश ॥ ४६ ॥ मध्याह्नकालार्चनार्हपुष्पाणि श्वेताब्जं करवीरञ्च पलाशं तुलसी तथा । उत्पलं बिल्वपत्रञ्च रक्तोत्पलमथापि वा ॥ ४७ ॥ कोविदारैकपत्रञ्च तापसाङ्कुरमेव च । प्रोक्तान्येतानि पुष्पाणि दश मध्याह्नपूजने ॥ ४८ ॥ सायमर्चनार्हपुष्पाणि रक्ताब्जं कुमुदञ्चैव मल्लिका जातिमालती । माधवी करवीरञ्च ह्नीबेरं 3गजकार्णिका ॥ ४९ ॥ तथा दमनकञ्चैव सायंकालार्चने दश । 1. अर्चनास्थानां जा. 2. अर्चनेन विधानेन क. 3. पृषदंशकम् ? आ. दशमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १५८ सर्वकालार्चनार्हपुष्पाणि दूर्वा च तुलसी बिल्वं करवीरञ्च चम्पकम् ॥ ५० ॥ सर्वकालार्चनार्हाणि विष्णुक्रान्तञ्च भद्रया । तुलसीमहिमा वर्ज्य पर्युषितं पुष्पं वर्ज्यं पर्युषितं जलम् ॥ ५१ ॥ न वर्ज्यं तुलसीपत्रं न वर्ज्यं जाह्नवीजलम् । कपित्थदलप्रशंसा बिल्वपत्रसमं रात्रौ कपित्थदलमुच्यते ॥ ५२ ॥ यद्यत्पुष्पाणि चोक्तानि तत्तत्पत्रैश्च पूजयेत् । अर्चको वारि दीपञ्च पुष्पमेतच्चतुष्टयम् ॥ ५३ ॥ ग्राह्यं सामान्यतस्तेन सम्पूर्णं पूजनं भवेत् । पञ्चाङ्गमर्चनम् ध्रुवबेरार्चनं पूर्वं द्वितीयं शान्तपूजनम् ॥ ५४ ॥ कौतुकाभ्यर्चनं पश्चाद्भूतपीठार्चनं परम् । पञ्चमं बलिपूजा स्यादेतैः पञ्चभिरर्चनैः ॥ ५५ ॥ सम्पूर्णमर्चनं युक्तमयुक्तं विकलार्चनम् । (पञ्च तुल्यफलान्याहुरर्चनानि तपोधनाः ॥) ध्रुवबेरार्चनात्सिद्ध्येत् सायुज्यं पदमक्षयम् ॥ ५६ ॥ सर्वलोकाधिपत्यं वै सारूप्यं शान्तपूजया । ऐहिकामुष्मिकं सर्वं भुक्त्वा सायुज्यमाप्नुयात् ॥ ५७ ॥ १५९ कौतुकाभ्यर्चनाद्वापि भूतपीठार्चनात्ततः । सर्वशत्रुजयं दीर्घमायुरारोग्यमेव च ॥ ५८ ॥ 1श्रियं पुत्रसमृद्धिञ्च सालोक्यं पदमाप्नुयात् । सर्वलोकेऽपि विख्यातिं सामीप्यं बलिपूजया ॥ ५९ ॥ तत्तत्प्रतिष्ठाकर्तॄणां तत्तत्फल मुदाहृतम् । बेरे चैव विमाने च भूतपीठे तथैव च ॥ ६० ॥ सदा सन्निहितो विष्णुः छाययोर्धामबेरयोः । प्रदक्षिणविधावेतल्लङ्घनन्तु न दोषकृत् ॥ ६१ ॥ युग्मप्रदक्षिणं कुर्यादयुग्मं त्वाभिचारिकम् । नैव प्रदक्षिणं कुर्यादन्तरे देवशान्तयोः ॥ ६२ ॥ देव पीठान्तरे चैव न कुर्यादिति केचन । एष एव विशेषस्स्यादन्यत्सर्वं खिलोक्तवत् ॥ ६३ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे उपचारभेदपुष्पनिर्णयविधानं नाम दशमोऽध्यायः