०९

एकादशोऽध्यायः ख. ९. अध्यायः ई. अष्टमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १२४ नवमोऽध्यायः नित्यार्चनम्, तत्र साकारनिराकारभेदः अतः परं प्रवक्ष्यामि नित्यपूजाविधिं हरेः । साकारञ्च निराकारं हरेराराधनं द्विधा ॥ १ ॥ (प्रतिमाराधनं मुख्यं साकारमभिधीयते) स्थण्डिले च जले चैव हृदये सूर्यमण्डले ॥ २ ॥ आराधनं निराकारमतः1 साकारमुत्तमम् । साकारं तत् द्विधा प्रोक्तं नित्यं नैमित्तिकन्त्विति ॥ ३ ॥ कौतुकादीनां स्थानम् वक्ष्ये नैमित्तिकं पश्चान्नित्यमद्यवदाम्यहम् । कौतुकं ब्रह्मणः स्थाने स्थापितं सम्यगर्चयेत् ॥ ४ ॥ दक्षिणोत्तरयोस्तस्य पूजयेत्स्नापनौत्सवौ । औत्सवस्नापने वाऽथ स्थापयेदिति केचन ॥ ५ ॥ गर्भालयस्य सङ्कोचे त्वथवा मुखमण्डपे । अन्तरालेऽथवा स्थाप्य पूजयेदिति केचन ॥ ६ ॥ उत्तरे कौतुकस्यैव बलिबेरं समर्चयेत् । यथाकर्मण एकस्य कल्पिताः पञ्चवह्नयः ॥ ७ ॥ यथा चैकशरीरस्य वायुपञ्चककल्पनम् । तथैवैकविमानस्य पञ्चबेराणि कल्पयेत् ॥ ८ ॥ 1. बेरे क. १२५ अथवा त्रीणि बेराणि यथा त्रेताग्निकल्पनम् । ध्रुवार्चाबेरमेकञ्च बलिबेरमथौत्सवम् ॥ ९ ॥ ध्रुवार्चामेकबेरन्तु कुर्यादौपासनाग्निवत् । ध्रुवार्चनविशेषः पुष्पन्यासावसाना स्याद्ध्रुवबेरार्चना मता ॥ १० ॥ अनर्च्यं ध्रुवबेरं तज्जलपुष्षानुलेपनैः । निष्कलं तन्निरालम्बं केवलामुष्मिकप्रदम् ॥ ११ ॥ कौतुकार्चनविशेषः सालाम्बं सगुणं श्रेष्ठं सकलं कौतुकार्चनम् । सकामानां समुचितं संसाराश्रमिणामिदम् ॥ १२ ॥ ध्रुवबेरार्चनं प्रोक्तं निराशीःकर्मकारिणाम् । आवाह्य 1कौतुके तस्मान्नित्यं विधिवदर्चयेत् ॥ १३ ॥ सकामाकामयोर्योग्यमैहिकामुष्मिकप्रदम् । सालम्बं सगुणं श्रेष्ठं सकलं कौतुकार्चनम् ॥ १४ ॥ तथापि ध्रुवबेरेऽपि भक्त्या पूजां यदीच्छति । स्नानप्लोतानुलेपैश्च विनाऽन्यै2रभिपूजयेत् ॥ १५ ॥ तत्रापि कौतुके कुर्यान्नित्यं विधिवदर्चनम् । कौतुकाद्यर्चनफलम् नित्यार्चामधिकार्चाञ्च विशेषार्चाञ्च कौतुके ॥ १६ ॥ 1. कौतुकं आ. 2. अपि. आ. नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १२६ नित्यार्चा बलियात्रान्ता यथाकालं विधीयते । उपसन्ध्यार्चनं यत्तदधिकार्चनमुच्यते ॥ १७ ॥ विशेषार्चनमित्युक्तमङ्कुरार्पणकादिषु । उत्सवं चौत्सवे कुर्याच्छ्रद्धाभक्तिक्रिया अपि ॥ १८ ॥ स्नपनं शान्तिकं कर्म विष्णुपञ्चदिनोत्सवम् । कारयेत्स्नापने बेरे श्रद्धाभक्तिसमन्वितः ॥ १९ ॥ स्नपनं चोत्सवाङ्गं यदौत्सवे तत्समाचरेत् । कुर्याद्बिम्बे स्नापने तु स्नपनाङ्गमथोत्सवम् ॥ २० ॥ नित्यं सन्ध्याद्वयस्यान्ते बलिबेरस्य चोत्सवम् । स्नानार्थं स्नापने हीने कुर्थादौत्सव एव वा ॥ २१ ॥ स्नापनौत्सवयोर्हीने कौतुके सर्वमाचरेत् । अर्चकलक्षणम् वैखानसेन सूत्रेण निषेकादिक्रियान्वितः ॥ २२ ॥ अध्यात्मगुणसंयुक्तो विप्रस्स्वाध्यायसंयुतः । वृत्तवान् सत्यवादी च स्नानशीलश्च योगवित् ॥ २३ ॥ गृहस्थो ब्रह्मचारी वा भक्त्यैवार्चनमारभेत् । अर्चकः प्रातरुत्थाय देवेशं मनसा स्मरन् ॥ २४ ॥ शान्तिकं पौष्टिकं काम्यमिति भिन्नं त्रिधार्चनम् । 1द्रव्यं तदनुरूपञ्च तदादानञ्च चिन्तयेत् ॥ २५ ॥ 1. अर्चनं तदनुरूपञ्च विपर्यासञ्च चिन्तयेत् इति प्रायिकः पाठः १२७ अनुष्ठानप्रशंसा प्रातस्स्नात्वाऽथ सावित्रीं जप्त्वा सन्ध्यामुपास्य च । सूक्तानि ब्रह्मयज्ञान्ते जपेत् द्वादशसंख्यया ॥ २६ ॥ तथाऽनुदित1होमी चेत् होमं कुर्यात्तथाग्निषु । जुहोत्युदितहोमी चेत् प्रातस्सन्ध्यावसानके ॥ २७ ॥ परीत्य मन्दिरं पश्चा ‘त्प्रतद्विष्णु’ रिति ब्रुवन् । ‘मणिकं प्रपद्य’ इत्युक्त्वा मणिकं सम्प्रणम्य च ॥ २८ ॥ ‘निरस्तं रक्ष’ इत्युक्त्वा यन्त्रिकामाहरेत्ततः । ‘हिरण्यपाणि’ मित्युक्त्वा कवाटे योजयेत्पुनः ॥ २९ ॥ ‘दिवं विवृणो’ तु मन्त्रेण कवाटोद्घाटनं चरेत् । मुखं समीक्ष्य देवस्य वैष्णवं मन्त्रमुच्चरन् ॥ ३० ॥ त्रिस्सम्प्रहार्य पाणिभ्यां ‘शाम्य’ न्त्विति समुच्चरन्2 । कृत्वा प्रबोधनं विष्णोर्बलमन्त्रं समुच्चरन् ॥ ३१ ॥ देवदेवं प्रणम्याऽथ शिष्यान् स्वान् स्वेषु कर्मसु । परिचारककृत्यम् नियुज्जीत यथायोगमृत्विगुक्तगुणान्वितान् ॥ ३२ ॥ ‘दुहतां दिव’ मित्युक्त्वा घटमादाय कश्चन । नदीतटाककूपानां पूर्वालाभे तथोत्तरे ॥ ३३ ॥ 1. होमश्चेत् जप्त्वा सन्ध्यामुपास्य च, सूर्योदयात्पूर्वमेव होमं कुर्यात्तथाग्निषु । इति आ कोशेषु. 2. परस्परम् इ. नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १२८ ‘आद्यम’ भीति मन्त्रेण गृह्णीयादुदकं शुचि1 । 2प्रतिलोमादिवासानां समीपेषु न चाहरेत्3 ॥ ३४ ॥ (घटद्वारं समावेष्ट्य वस्त्रखण्डेन चात्वरः ।) । स्स्नानपानीयशालायां ‘सोमं राजान’ मुच्चरन् ॥ ३५ ॥ उदकुम्भं च सन्न्यस्य कुशैर्वस्त्रेण4 वा पुनः । ‘धारास्वि’ ति च मन्त्रेण तोयस्योत्पवनं चरेत् ॥ ३६ ॥ ‘इदमापश्शि’ वे त्युक्त्वागन्धद्रव्यैस्समर्चयेत्5 । ‘अवधूत’ मिति पोच्य मार्जन्या मार्जनं चरेत् ॥ ३७ ॥ पांस्वादीन् सम्परित्यज्य गोमयेनोपलिप्य च । ‘आशासु सप्त’ स्वित्युक्ता प्रोक्षयेत्पञ्चगव्यकैः ॥ ३८ ॥ अर्चनाङ्गन्यासविशेषाः पद्मासने समासीनः 6शुचिर्ब्रह्मासनाञ्जलिः पूजकः पुरुषो विष्णुः जितमन्युर्जितेन्द्रियः ॥ ३९ ॥ सोर्ध्वपुण्ड्रस्सोत्तरीयः सोष्णीषस्सपवित्रकः । तत्तन्मन्त्रं समुच्चार्य धृत्वा पञ्चाङ्गभूषणम् ॥ ४० ॥ ‘अन्तरस्मिन्निम’ इति ब्रह्माणं हृदि संस्मरेत् । ‘ब्रह्म ब्रह्मेति’ मन्त्रेण हृदयन्त्वभिमृश्य च ॥ ४१ ॥ ‘द्यौद्यौर’सीति मन्त्रेण शिरस्समभिमृश्य च । ‘शिखे उद्वर्तया’मीति शिखामुद्वर्तयेत्सकृत् ॥ ४२ ॥ 1 . शुचिः ई.2 . प्रतिलोमसमीपेषु राजकेषु न चाहरेत् ई। 3 . उत्पूय वस्त्रखण्डेन प्राङ्मुखो वाऽप्युदङ्मुखः इत्यधिकं दृश्यते आ.4. दर्भेण.इ. 5. अभिमन्त्र्य च तत्तोयमिदमापश्शिवा, इति अ. पाठः.6. ॠजुः इ. १२९ रक्षां सर्वत्र कृत्वा तु ‘देवानामायुधै’ रिति । ‘सुदर्शनम’ भीत्युक्त्वा दक्षिणे तु सुदर्शनम् ॥ ४३ ॥ ‘रविपा’ मिति वामे च शङ्खञ्च बिभृयात्करे । ‘सूर्योऽसि चन्द्रोऽ’ सीत्युक्त्वा नेत्रयोर्दक्षवामयोः ॥ ४४ ॥ रवीन्दुमण्डले पाण्योर्दक्षिणोत्तरयोर्न्यसेत् । अकारं हृदये न्यस्य प्रणवैरपि वेष्टयेत् ॥ ४५ ॥ अङ्गुष्ठादिकनिष्ठान्तं ‘आभुरण्यं विधिं’ तथा । ‘यज्ञं ब्रह्माण’मित्युक्त्वा ‘देवेन्द्र’ मिति च न्यसेत् ॥ ४६ ॥ निर्माल्यशोधनम् ‘नश्य’न्त्विति च मन्त्रेण बिम्बनिर्माल्यशोधनम् । ‘अहमेवे’ति निर्माल्यं 1पश्चात्पीठञ्च शोधयेत् ॥ ४७ ॥ ‘पूतस्त’स्येति मन्त्रेण वेदिमद्भिस्सुशोधयेत् । पादयेर्विष्णुगायत्र्या दद्यात्पुष्पाणि मूर्तिभिः ॥ ४८ ॥ निर्माल्यं देवदेवस्य गृहीत्वा शान्तमूर्तिभिः2 । विष्वक्सेनमलङ्कृत्य शेषद्रव्यैस्तथाऽर्चयेत् ॥ ४९ ॥ स्नानासनम् ‘भूःप्रपद्ये’ति मन्त्रेण देवदेवं प्रणम्य च । ‘परं रंहे’ति मन्त्रेण पीठादादाय चात्वरः ॥ ५० ॥ ‘प्रतद्विष्णुः स्तवत’ इति विष्टरेऽभिमुखे न्यसेत् । पादप्रक्षालनं कृत्वा ‘त्रीणि पदे’ति मन्त्रतः ॥ ५१ ॥ 1. पीठादपि च शोधयेत् इ. 2. (ततःपश्चात्) ‘मुकुन्दस्नानपूर्वे तु स्नानकर्मसमाचरे’दित्यधिकं ई. कोशेषु. नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १३० ‘शन्नो देवी’ रिति जलं दद्यादाचमनं पुनः । ‘अन्नद्याये’ ति मन्त्रेण दन्तधावनमाचरेत् ॥ ५२ ॥ पुनराचमनं दत्वा ‘देवस्य’ त्वेति दर्पणम् । दर्शयित्वा तु ताम्बूलं ‘विचक्रम’ इति ब्रुवन् ॥ ५३ ॥ निवेद्य तैलमादाय सोमं तत्र समर्चयन् । ‘अतो देवे‘ ति मन्त्रेण तैलाभ्यङ्गं समाचरेत् ॥ ५४ ॥ पुष्पैर्मूर्धानमावेष्ट्य प्रातःकालविकासिभिः । मूर्धादि पादपर्यन्तं गन्धेनोद्वर्तयेत्पुनः ॥ ५५ ॥ अथवा माषपिष्टेन शालिपिष्टेन वा तथा । अष्टम्याञ्च नवम्याञ्च चतुर्दश्याञ्च पर्वणि ॥ ५६ ॥ अभ्यञ्जनञ्च दन्तानां धावनं वर्जयेत्तथा । आलयस्योत्तरे वेदिमौपासनविधानतः ॥ ५७ ॥ कृत्वा तत्र प्रतिष्ठाप्य ‘प्रतिद्विष्णु’ रिति ब्रुवन् । पाद्यमाचमनं दत्वा पश्चाद्दूर्वाक्षताम्बुभिः ॥ ५८ ॥ मूर्धादि पादपर्यन्तं प्रत्यङ्गमभिपूजयेत् । ‘परिलिखित’ मिति मन्त्रेण आम्लेन परिशोधयेत् ॥ ५९ ॥ ‘वारीश्चतस्त्र’ इत्यद्भिः शुद्धाभिरभिषिच्य च । क्षीरेण पुष्पतोयैर्वा ‘नमो वरुण’ इत्यतः ॥ ६० ॥ अङ्गं हरिद्रयाऽऽलिप्य ‘सिनीवा’लीति मन्त्रतः । संस्नाप्य शुद्धतोयेन तद्यादाचमनं पुनः ॥ ६१ ॥ वस्त्रोत्तरीयोपवीतपवित्राणि ददेत्पुनः । अष्टोपचारैरभ्यर्च्य तत्तन्मत्रं समुच्चरन् ॥ ६२ ॥ १३१ पुनः पुरुषसूक्तेन ‘भूरनिलय’ इत्यपि । गन्धतोयेन संस्नाप्य प्लोतेन विमृजेत्तथा ॥ ६३ ॥ वस्त्रमाचमनं दत्वा विष्टरे स्थापयेत्पुनः । वस्त्राभरणमाल्याद्यैरलङ्कृत्यानुलिप्य च ॥ ६४ ॥ (दर्शयेद्धूपदीपौ च अर्घ्यमाचमनं तथा । नीराजनविधानेन नीराजनमथाचरेत् ॥) दर्पणं चामरं छत्रं नृत्तं गेयञ्च वाद्यकम् दर्शयित्वाऽथ देवस्य दत्वा पुष्पाञ्जलिं पुनः ॥ ६५ ॥ ‘भूरसि भूः प्रतिष्ठित्या’ इति मन्त्रं समुच्चरन् । जीवस्थाने प्रतिष्ठाप्य’ ‘क्षमस्वे’ति 1प्रणम्य च ॥ ६६ ॥ वेद्यामेवाथवा स्थाप्य कृत्वाऽऽम्लादिविशोधनम् । गन्धतोयाभिषेकञ्च कृत्वा क्षीराभिषेचनम् ॥ ६७ ॥ गन्धतोयाभिषेकान्ते जीवस्थाने निवेशयेत् । अथ स्नानक्रियास्सर्वा ‘इषे त्वा’दि समुच्चरन् ॥ ६८ ॥ ‘इषे त्वा’ स्नापयेन्नित्यमङ्गिरोमुनिभाषितम्2 । अथवा पौरुषं सूक्तमुच्चरन् स्नापयेत्प्रभुम् ॥ ६९ ॥ तत्राशक्तकल्पः नित्यं कर्तुमशक्तश्चेत्सति वा बेरगौरवे । संस्थाप्य दर्पणं शुद्धं देवदेवस्य सन्निधौ ॥ ७० ॥ 1. प्रसादयेत् इ. 2. कृत्वावास्थापयेत्तत्र प्राणपीठेऽङ्गिराः खलु? ख. नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १३२ प्रतिबिम्बगतं 1बिम्बं दर्शयित्वा दिने दिने । (स्नापयेत्सफलं प्रोक्तमिति शातातपोऽब्रवीत्) विष्णुपञ्चकसङ्क्रान्तिराजकर्तृदिनेषु च ॥ ७१ ॥ अभिषेकं ततः कुर्यान्नित्यस्न्नानोक्त मार्गतः । दिव्यौ नित्यमशक्तश्चेद्विष्णुपञ्चदिनेषु च ॥ ७२ ॥ तत्तन्नक्षत्रयोश्चैव स्नापयेदिति केचन । स्नापनस्यौत्सवस्यापि लौहस्यापि ध्रुवस्य च ॥ ७३ ॥ दर्शे वा श्रवणे वापि स्नानं कुर्याद्यथाविधि । मन्त्रासनम् प्रणिधिं प्रणवेनाद्भिः पूरयित्वा सहाक्षतम् ॥ ७४ ॥ गायत्र्या तु ध्रुवस्थानं प्रोक्षयेत्तेन वारिणा । सम्बन्धकूर्चविचारः संयुक्तमेत’ दित्युक्त्वा ध्रुवकौतुकयोस्तथा ॥ ७५ ॥ न्यसेत्कौतुकबेराग्रं कूर्चं संम्बन्धसंज्ञकम् । (तद्देव्योश्च तथा न्यस्य गर्भागारे प्रतिष्ठिते । स्नापनस्यौत्सवस्यापि तत्तद्देव्योश्च सन्न्यसेत् ॥) जलं पङ्कञ्च नालञ्च पुष्पञ्चेति चतुष्टयम् । मूलबेरन्तु पङ्कं स्यात्पुष्पं कौतुकमेव हि ॥ ७६ ॥ जलं विमानं कूर्चन्तु नालमित्येव भावयेत् । देवस्यावततीर्षोस्तत्सोपानं कौतुकं ध्रुवात् ॥ ७७ ॥ 1. तत्र स्नापयित्वा ई. १३३ अन्यथा तु कृता पूजा 1देवं नैवोपतिष्ठति । गर्भालयात्ततोऽन्यत्र यदि तु स्नापनौत्सवौ ॥ ७८ ॥ आवाहनविसर्गौ द्वौ नाचरेदिति चाङ्गिराः । न तत्र सन्न्यसेत्कूर्चं यत्र नावाह्यते हरिः ॥ ७९ ॥ प्रमाणं तस्य कूर्चस्य सम्बन्धो बेरयोर्यथा । प्रतिमासं व्यपोह्यौव कूर्चमन्यन्तु सन्न्यसेत् ॥ ८० ॥ (आवाहनमिदं 2नित्यमादावेवेति केचन ।) पुष्पन्यासः ध्रुवस्य पादयोर्मध्ये ‘विष्णवे’ इति सन्न्यसेत् । प्रागादि ‘पुरुषं सत्यमच्युतं चानिरुद्धकम्’ ॥ ८१ ॥ विदिक्षु ‘कपिलं यज्ञं नारायण’ मनुस्मरन् । ‘पुण्यं’ चैव च पीठोर्ध्वे प्रथमावरणे न्यसेत् ॥ ८२ ॥ ‘वाराहं नारसिंहञ्च वामनञ्च त्रिविक्रमम्’ । 3स्मरन् प्रागादि दिक्ष्वेवं ‘सुभद्रायेशितात्मने’ ॥ ८३ ॥ ‘सर्वोद्वहाय’ चेत्युक्त्वा ‘सर्वविद्येश्वराय’ च । एवं द्वितीये सन्न्यस्य तृतीयावरणेऽपि च4॥ ८४ ॥ इन्द्रादीनां तथाऽष्टानां तत्तद्दिक्षु सुसन्न्यसेत् । श्रीभूम्योश्च चतुर्दिक्षु पुष्पन्यासं समाचरेत् ॥ ८५ ॥ प्रणवादि नमोऽन्तैश्च चतुर्थ्यन्तैश्च नामभिः । 1. ध्रुवं. इ.2. नैत्यं. क. 3. स्मरेत्. क.4. अथ क. नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १३४ प्रादुर्भावेषु पुष्पन्यासविधिः चतुर्मूर्तिविधिर्यत्र प्रादुर्भावेषु सत्तमाः ॥ ८६ ॥ सन्न्यस्य पादयोर्मध्ये ‘विष्णवे नम’ इत्यपि । तन्मूर्तिभिश्चतुर्दिक्षु पुष्पन्यासं तथा चरेत् ॥ ८७ ॥ एवं 1ध्रुवे सुसन्न्यस्य (स्वप्रधाने ततः परम् । कपिलादीन् सुसन्न्यस्य इन्द्रादींश्च सुसन्न्यसेत् ॥ ८८ ॥ कौतुकबेरपुष्पन्यासः वाराहदीन् विहायैव) कौतुके च2 पुनर्न्यसेत् । प्रगादिषु ‘सुभद्रञ्च हयात्मक’ मनुस्मरन् ॥ ८९ ॥ ‘रामदेव पुण्यदेव’ मिति दिक्षु क्रमान्न्यसेत् । ‘सर्वं सुखावहञ्चैव संवहं सुवहं स्मरेत् ॥ ९० ॥ पुष्पाणि पूर्ववन्न्यस्य 3पीठस्याधः प्रपूजयेत् । ‘शिवं विश्वं मित्रमत्रिं’ पश्चिमादि बहिर्मुखान् ॥ ९१ ॥ ‘सनत्कुमारसनकसनातनसनन्दनान् । वायव्यादिषु कोणेषु तथैकादशविग्रहैः ॥ ९२ ॥ पुष्पन्यासदेवानां स्थितिः ध्रुवपीठस्थिता देवा देवैरिन्द्रादिभिर्विना । बहिर्मुखास्तथेन्द्राद्या देवेशाभिमुखाः स्मृताः ॥ ९३ ॥ स्मरेत्कौतुकपीठान्ते सुभद्रादीन्बहिर्मुखान् । अनिरुद्धं वराहञ्च नारसिंहं हयात्मकम् ॥ ९४ ॥ 1. ध्रुवेषु आ.2. तु क.3. पूजयेत्पीठधारकान् क. १३५ विनाऽन्ये संस्थिता देवे संस्थिते मुनिसत्तमाः । 1आसीनाश्च तथाऽऽसीने 2शयाने तु न शायिनः ॥ ९५ ॥ ध्यायेत्कौतुकवद्देवान् शयनेषु विशेषतः । चत्वारस्सर्वदाऽऽसीना अनिरुद्धादयोऽमराः ॥ ९६ ॥ स्थितावेव सदा ध्यायेद्वामनं च त्रिविक्रमम् । परिषद्देवानां स्थितिः मार्कण्डेयं भृगुञ्चैव ब्रह्माणं शङ्करं तथा ॥ ९७ ॥ भित्तिपार्श्वे समभ्यर्च्य दक्षिणोत्तरयोः क्रमात् । धात्रादीन्द्वारदेवांश्च द्वारे द्वारे समर्चयेत् ॥ ९८ ॥ यजेद्गर्भगृहाद्वाह्ये मणिकं द्वारदक्षिणे । वामभागे तथा सन्ध्यां तस्य पत्नीं समर्चयेत् ॥ ९९ ॥ आलये सर्वदिग्द्वारे देवाग्रे न्यक्षमर्चयेत् । तत्क्रमेणार्चयेदन्यान्विमानेशान्यथाविधि ॥ १०० ॥ तापसं सिद्धिदञ्चैव द्वितीयद्वारपालकौ । अथवा चक्रशङ्खौ द्वौ तृतीयद्वारपालकौ ॥ १०१ ॥ सोपानमध्ये श्रीभूतमर्चयेद्बहिराननम् । पुरस्ताद्गरुडं तस्य देवाभिमुखमर्चयेत् ॥ १०२ ॥ उत्तरे वीशसूत्रे तु विष्वक्सेनं समर्चयेत् । त्रयोदशोपचारैस्तु तत्तन्मन्त्रैस्समर्चयेत् ॥ १०३ ॥ शिष्यैर्वा कारयेत्सम्यग्द्वारदेवादिपूजनम् । द्वारं यवनिकाच्छन्नं कृत्वाऽभ्यन्तरमाविशेत् ॥ १०४ ॥ 1. आसीने च तथाऽऽसीनाः क. 2. शयानाश्शयने तथा, ध्रुवकौतुकयोर्देवा ये चान्ये च विशेषतः क. नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १३६ कूर्मपीठम् द्विहस्तायतविस्तारे षडङ्गुलसमुच्छ्रिते । बिल्वाश्वत्थपलाशाद्यैः कल्पिते कूर्मविष्टरे ॥ १०५ ॥ एकजानुक्रमः एकजानुक्रमेणैव समासीनस्समर्चयेत् । आसने निहितस्सव्यो वामपादस्समुद्धृतः ॥ १०६ ॥ एवं दक्षिणपार्श्वे1 तु एकजानुक्रमो भवेत् । विपरीतमितो वामे 2यद्यासीनोऽर्चयेत्तथा ॥ १०७ ॥ 3तिष्ठन्वा पूजयेद्देवं यथार्हं बेरगौरवे । आसने चैवमासीनस्सम्भृत्य द्रव्यसञ्चयम् ॥ १०८ ॥ 4तत्तद्द्रव्याधिदेवांस्तान् तत्तद्द्रव्यसमीपतः । तत्तद्द्रव्यधरान् स्मृत्वा पूजयेत्तु यथाविधि ॥ १०९ ॥ द्रव्याधिदेवार्चनम् आसनस्य भवेद्धर्मो जलस्य वरुणस्स्मृतः । पुष्पे तु हरितः प्रोक्तो गन्धे तु पृथिवी मता ॥ ११० ॥ धूपे बृहस्पतिः प्रोक्तो दीपे तु श्रीरुदाहृता । अर्घ्यपात्रे स्मृतस्सोमः 5शुक्रोऽर्घ्याधिपतिस्स्मृतः ॥ १११ ॥ उद्दिष्टानामथार्घ्यस्य द्रव्याणामधिदेवताः । सिद्धार्थस्य भवेत्सोमः कुशाग्रस्याथ जाह्नवी ॥ ११२ ॥ 1. पार्श्वस्थः क.2. यथाऽऽसीनः क. 3. तिष्ठन् न पूजयेत् क.4. तत्तद्वद्रव्याधिपांत्स्मृत्वा क. 5. अर्कः आ. १३७ तिलस्य पितरो ज्ञेयास्तण्डुलस्य रविर्भवेत् । यजुर्वेदोऽधिपो दध्नः क्षीरस्याथर्ववेदकः ॥ ११३ ॥ अक्षते काश्यपः प्रोक्तो जलस्य वरुणस्स्मृतः । प्लोते त्वष्टाऽम्बरे सूर्य उत्तरीये निशाकरः ॥ ११४ ॥ भूषणे षण्मुखः प्रोक्तो वह्निर्यज्ञोपवीतके । छत्रे शेषस्तथा वायुश्चामरव्यजनादिषु ॥ ११५ ॥ दर्पणे चन्द्र उद्दिष्टश्चतुरङ्गेषु पक्षिराट् । नृत्ते शर्वस्तथा गाने सामवेदोऽधिदैवतम् ॥ ११६ ॥ वाद्ये नन्दीश्वरः प्रोक्तः स्मृत्वा तान् मनसाऽर्चयेत् । स्त्रीषु नृत्ताभियुक्तासु 1जयाद्यप्सरसोऽर्चयेत् ॥ ११७ ॥ ॠग्वेदो मधुपर्कस्य शर्वो मात्राधिपः स्मृतः । हविःपात्राधिपस्सूर्यो हविषां कमलासनः ॥ ११८ ॥ मुखवासाधिपा भूमिर्यानेषु गरुडः स्मृतः । वरुणः शङ्खकुक्षौ तु तन्मूले पृथिवी मता ॥ ११९ ॥ सर्वतीर्थास्तु धारायां चन्द्रश्शङ्खाधिदैवतम् । 2घण्टाया अधिपो वेधास्तज्जिह्वायां षडाननः ॥ १२० ॥ घण्टानादे महादेव इति ध्यात्वा समर्चयेत् । पानपात्रेषु सर्वेषु सोम एवाधिदेवता ॥ १२१ ॥ 1. गणिकास्वप्सरास्तथा क. 2. घण्टानादधिपः क. नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १३८ उपहारादिभोज्यानां पात्रेषु च दिवाकरः । (त्रिमूर्तयः त्रिपादे स्युर्वलयं चन्द्रदेवतम् ।) अथवा कारयेच्छिष्यैर्द्रव्याधिपसमर्चनम्1 ॥ १२२ ॥ आवाहनार्थं पाद्यार्थं तथैवाचमनार्थकम् । स्नानार्थं चाद्भिरापूर्य शङ्खांश्च चतुरो न्यसेत् ॥ १२३ ॥ आत्मसूक्तं ततो जप्त्वा तन्मयत्वेन भावयेत् । व्याहृतिन्यासादिः ‘सुवर्भुवर्भू’रित्युक्त्वा मूर्ध्नि नाभौ च पादयोः ॥ १२४ ॥ यकारं पादयोर्मध्ये पीठे चैव सुसन्न्यसेत् । यकारं व्यक्तरूपञ्च सम्यग्ध्यात्वा मरुत्पतिम् ॥ १२५ ॥ 2पलालधूम्रवर्णञ्च द्विभुजं रक्तवाससम् । अकारं हृदये न्यस्य कदम्बकुसुमप्रभम् ॥ १२६ ॥ वैभवीशक्तिसंरूढं चतुर्बाहुं परात्परम् । शङ्खचक्रधरं पीतवाससं विष्णुदैवतम् ॥ १२७ ॥ एतांश्च प्रणवैर्मध्ये दिक्ष्वष्टासु च वेष्टयेत् । पश्चात्प्रणिधिमुद्धृत्य1 ध्रुवबेरात्तु तज्जले ॥ १२८ ॥ (यदर्थमम्बु सम्पूर्णं शङ्खोऽन्योऽन्यं न संस्पृशेत् । तद्रूपवत्कृतं शङ्खं पूजायां लोहजं वरम् । यथा निष्कलरूपे तु तथा ध्यात्वा समाहितः) 1. नाममन्त्राक्षरध्यानकेतुनक्षत्रसंयुतम् । मन्त्रसङ्ख्यासमायुक्तमृषिच्छन्दोऽधिदेवताः ॥ देवतायाविभक्तं तमक्षराकार संयुतम् । अष्टभक्तिसमायुक्तो भूत्यादि दशसंयुतः ॥ एवं सम्यग्विदित्वा तु पूजकः पूजयेद्धरिम्। एतेष्वेकं विहीनं चेदसुरा गृहृते सदा॥ आ. 2. पलालधूमधूम्राभं आ. १३९ ध्यानप्रकारः सुवर्णवर्णं रक्तास्यं रक्तनेत्रं सुखोद्वहम् । शुकपिञ्छाम्बरधरं विष्णुं प्रणवरूपिणम् ॥ १२९ ॥ किरीटहारकेयूरप्रलम्बब्रह्मसूत्रिणम् । श्रीवत्साङ्खं चतुर्बाहुं शङ्कचक्रधरं परम् ॥ १३० ॥ एवं ध्यात्वा समावाह्य पश्चात्कौतुकमूर्धनि । आवाहनम् कूर्चेनादाय तत्तोय ‘मिदं विष्णु’ रिति ब्रुवन् ॥ १३१ ॥ ‘आयातु भगवां’श्चेति 1संस्रव्याऽवाहनं चरेत् । विष्णुमावाहयेन्मध्ये पुरुषादींश्चतुर्दिशम् ॥ १३२ ॥ दक्षिणे श्रियमावाह्य वामे चावाहयेन्महीम् । औत्सवं स्नापनं चैव क्रमादावाहयेद्ध्रुवात् ॥ १३३ ॥ स्नापनौत्सवयोः केचित् 2नेच्छन्ति मुनिसत्तमाः । आसनाद्युपचाराणां प्रयोगं श्रृणुत क्रमात् ॥ १३४ ॥ तत्तन्मन्त्रावसाने तु देवेशं मनसा स्मरन् । पञ्चभिर्मूर्तिभिः 3द्रव्य नाम योज्यं पृथक् पृथक् ॥ १३५ ॥ पञ्चधैव ददामीति दद्याद्देवं प्रणम्य च । घण्टाताडनम् प्रतिद्रव्यं विशेषेण घण्टां सन्ताड्य पूजयेत् ॥ १३६ ॥ गृह्णन्ति 4पूजामसुरा घण्टानादं विना कृतम् । 1. स्रवन् क. 2. केचिदिच्छन्ति क. 3. द्रव्यं संयोज्यैव क.4. पूजां रक्षांसि क. नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १४० अर्चनम् ‘प्रतद्विष्णुस्तवत’ इति ‘चास्त्वासन’ मिति ब्रुवन् ॥ १३७ ॥ पुष्पदर्भकुशेष्वेकं पीठान्ते त्वासनं ददेत् । ‘विश्वाधिकाना’ मित्युक्त्वा स्वागतं परिकल्पयेत् ॥ १३८ ॥ ‘मनोभि’ मन्तेत्युक्त्वा तु ‘प्रसीदे’त्यनुमान्य च1 । ‘त्वं स्त्रीत्व’मिति मन्त्रेण पाद्यं तदभिमन्त्रयेत् ॥ १३९ ॥ ‘त्रीणिप’ देति मन्त्रेण पाद्यं दद्यात्तु पादयोः । 2‘शन्नो दे वीति मन्त्रेण दद्यादाचमनं करे ॥ १४० ॥ ‘‘तद्विष्णो’’ रिति वै पुष्पं मूर्ध्नि पूर्वं सुसन्न्यसेत् । पीठान्ते परितो दद्यान्मूर्तिभिः पुरुषादिकैः ॥ १४१ ॥ ‘तद्विप्रास’ इति प्रोच्य गन्धं दद्यात्तथैव च । ‘बृहस्पति’ रिति प्रोच्य धूपं दद्याच्चतुर्दिशम् ॥ १४२ ॥ शुभ्रा ज्योति’ रिति प्रोच्य दीपं देवस्य दर्शयेत् । अर्घ्यपात्राणि पञ्च द्वे चैकं 3वाऽथाऽहरेद्बुधः ॥ १४३ ॥ 4‘आमावाजस्य’ मन्त्रेण क्षालयित्वा पृथक्पृथक् । सोमं तेषु समभ्यर्च्य 5पुष्पाण्यपि विशोधयेत् ॥ १४४ ॥ गायत्रीमुच्चरन् द्रव्यैरापूर्यैवाभिघार्य च । ‘त्रिर्देव इन्द्रिया’णीति सम्यगर्घ्यं निवेदयेत् ॥ १४५ ॥ 6पात्रद्वयं यदि भवेदेकं विष्णोर्निवेदयेत् । दद्याद्वै पुरुषादीनां कूर्चेनादाय चान्यतः ॥ १४६ ॥ 1. अनुमानकम् क.2. दद्यादाचमनं हत्ते शन्नोदेवीरिति ब्रुवन् क. 3. वापि यथोदयं क. 4. आमावाज्जयस्येति प्रोच्य क. 5. पुनश्चापि क. 6. पात्रद्वयञ्च कुर्वीत क. १४१ 1एकं चेत्पुरुषादीनां कूर्चेनैव निवेदयेत् । त्रिविधमर्घ्यम् दृश्यं स्पृश्यं निवेद्यं च त्रिधार्घ्यं परिकीर्तितम् ॥ १४७ ॥ अलङ्कारासने दृश्यं स्पृश्यं स्नानासने तथा । मन्त्रासने निवेद्यं स्यात्तत्रापि स्पृश्यमेव वा ॥ १४८ ॥ पुनराचमनं दद्यात्पूर्ववद्दक्षिणे करे । ‘इषे त्वोर्जे’ त्वेति तथा मन्त्रस्नानं समाचरेत् ॥ १४९ ॥ ‘मित्रस्सुपर्ण’ इत्युक्त्वा प्लोतेन विमृजेत्ततः । ‘तेजो वत्सव’ इत्युक्त्वा वस्त्रं दद्यात्ततः परम् ॥ १५० ॥ ‘सोमस्ये ति वदन्मन्त्रमुत्तरीयं प्रयच्छति । 2‘भूतो भूते’ ष्विति तथा भूषणैरपि भूषयेत् ॥ १५१ ॥ (जातिहिङ्गुलिकैर्नाभ्यामञ्जनेन विलोचने । उरोमनशिशलाख्येन गलं रोचनया तथा । पाणिपादतलञ्चैव जातिहिङ्गुलिकेन वै । ‘जातवेदस’ इत्येतैरलङ्कुर्याद्यथाविधि ।) 3‘अग्निं दूतं’ समुर्च्चाय दद्याद्यज्ञोपवीतकम् । पुनः पाद्यादि दीपान्ते तथैवाचमनं ददेत् ॥ १५२ ॥ राजविग्रहाः कृत्वा यवनिकोद्धारं कारयेद्राजविग्रहान् । दर्पणं चामरं छत्रं व्यजनं चतुरङ्गकम् ॥ १५३ ॥ 1. एकञ्चेत्पञ्चमूर्तीनां क. 2. भूतो भूतेषु इत्युक्त्वा क. 3. ततोऽग्निं दूतमित्युक्त्वा क. नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १४२ नृत्तं गेयञ्च वाद्यञ्च वैष्णवं मन्त्रमुच्चरन् । देवस्य दर्शयित्वा तु स्तोत्रं वेदै1श्च कारयेत् ॥ १५४ ॥ (पुराणैः स्तोत्रपाठैश्च भाषाभेदैरिति क्रमात् । गोग्रासं च ततो दद्यात्सूक्तं गोदानमुच्चरन् ।) मात्रादानम् द्रोणतण्डुलमादाय तदर्धं पादमेव वा । तण्डुलार्धतिलैर्युक्तं मुखवास2 फलान्वितम् ॥ १५५ ॥ दर्शयेद्देवदेवस्य ‘सोमं राजान’मुच्चरन् । 3आचार्याय ततो दद्याद्भक्त्या सम्पूज्य पूजकः ॥ १५६ ॥ (अथ वाप्यर्चकेभ्यो वा दद्यादित्याह पद्मभूः ।) मधुपर्कनिवेदनम् समांशानि दधिक्षीरमध्वाज्येक्षुरसानि च । ‘अग्निमीले’ ति मन्त्रेण मधुपर्कं निवेदयेत् ॥ १५७ ॥ पञ्चानामप्यलाभे तु दधि केवलमेव वा । हविर्निवेदनम् ‘अथावनीद’मित्युक्त्वा मण्डलञ्चोपलिप्य च ॥ १५८ ॥ ‘आ मा वाजस्य’ मन्त्रेण हविः पात्राणि शोधयेत् । रविं तत्र समभ्यर्च्य पुनश्चापि विशोधयेत् ॥ १५९ ॥ अभिघार्य घृतेनैव ‘देवस्य’ त्वेति मन्त्रतः । ‘अमृतोपस्तरे’त्युक्त्वा हविः प्रक्षिप्य तत्र वै ॥ १६० ॥ 1. क्रमाच्चरेत् क.2. समन्वितं क. 3. आचार्यायैव तद्दद्यान्मनसा भावयन् हरिम् क. १४३ गायत्रीमन्त्रमुच्चार्य््1 क्षिपेत्सर्वोपदंशकम् । अन्नसूक्तेन मन्त्रेण हवींषि चाभिमृश्य च ॥ १६१ ॥ घृतपात्रं ततो गृह्य त्रिपादोपरि संस्थितम् । ‘यत्ते सुसीम’ इत्युक्त्वा घृतमास्स्रावयेत्पुनः ॥ १६२ ॥ ‘तदस्य प्रिय’मित्युक्त्वा ‘सुभूस्स्वय’ मिति क्रमात् । हिरण्यगर्भ इत्युक्त्वा पायसं पुरुषाय च ॥ १६३ ॥ ‘इह पुष्टि’मिति प्रोच्य सत्यनाम्ने तिलौदनम् । ‘समा ववर्ती’ त्युच्चार्य गौल्यं स्यादच्युताय च ॥ १६४ ॥ ‘त्रीणि पदे’ त्यनिरुद्धाय यावकञ्च निवेदयेत् । सर्वेषामप्यलाभे तु शुद्धान्नं वा पृथक् ददेत् ॥ १६५ ॥ पञ्चपात्रेष्वलब्धेषु एकस्मिन्पात्र एव वा । हविर्यथैकपात्रस्थमात्मयाजी जुहोति च ॥ १६६ ॥ प्राणादीनाञ्च पञ्चानां विष्ण्वादीनां तथा ददेत् । पञ्चभिर्मूर्तिभिर्दद्यात् बुद्ध्या सङ्कल्प्य पञ्चधा ॥ १६७ ॥ पक्वान्यनुक्तद्रव्याणि ‘सुभूस्स्वय’मिति ब्रुवन् । अपक्वानि च सर्वाणि दद्यादष्टाक्षरेण वा ॥ १६८ ॥ पेयानि सर्वद्रव्याणि ‘इदं विष्णु’रिति ब्रुवन् । दद्यादष्टाक्षरेणैव मन्त्रो यस्य न विद्यते ॥ १६९ ॥ देवीभ्याञ्च मुनिभ्याञ्च ब्रह्मेशाभ्यां तथैव च । 1. सूपैस्सर्वोपदंशकैः । क. नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १४४ नित्यौपासनम् नित्याग्निकुण्डे छुल्ल्यां वा परिषिच्य च पावकम्1 ॥ १७० ॥ ‘अतो देवा’ दिभिष्षड्भिः पञ्चभिर्मूर्तिभिस्तथा । देव्यादिपरिवाराणां मूर्तिभिश्चापि हूयताम् ॥ १७१ ॥ नित्यमग्निमविच्छिन्नमशक्तो रक्षितुं यदि । समिध्यग्निं समारोप्य निधायाहरहर्यजेत् ॥ १७२ ॥ तस्मात्सर्वप्रयत्नेन समिध्यारोपयेद्बुधः । समिधावप्यशक्तश्चेदात्मन्यारोपयेत्सुधीः ॥ १७३ ॥ आत्मना चाप्यशक्तोऽपि ध्रुवे चारोपयेद्बुधः । ध्रुवादग्निं प्रणीयाथ अहरहर्यजेत्क्रमात् ॥ १७४ ॥ तस्मात्सर्वप्रयत्नेन अग्निं संरक्षयेद्बुधः । येन केन प्रकारेणाप्यग्निमारोपयेद्गुरुः ॥ १७५ ॥ अग्नौ च न गृहीतेऽपि भ्रूणहा भवति ध्रुवम् । बलिप्रकारः, द्वारपाल-लोकपालानपायिनः 2‘विमानद्वारलोकेशानपायिभ्यो बलिं ददेत् ॥ १७६ ॥ 1. ततः इन्द्रादिलोकपालांश्च तत्तद्दिक्षु समर्चयेत् । परिस्तरणकूर्चादीन् परिधीः समिधस्तथा। प्रतिमासं व्यपोह्यैव तद्वदन्यानि निक्षिपेत् । दिनं प्रति तथा शोध्य प्रणिधी पूरयेज्जलम् । इत्यधिकं क. 2. धातारञ्च विधातारं भुवङ्गञ्च पतङ्गकम् । पतिरं वरणञ्चैव षङेते द्वारदेवताः ॥ मणिकश्च तथा सन्ध्या तापसः सिद्धिदः पुनः। किष्किन्धस्तीर्थसहितः चक्रचूडस्तु शङ्खकः॥ धनदश्चैव रक्ताब्जो विघ्नेशो नागराजकः। एतैर्द्बादशभिर्देवैः द्वारपालाः प्रकीर्तिताः?॥ न्यक्षश्चैव विवस्वांश्च मित्रः क्षत्ता तथैव च। चत्वारः प्रथिता देवाः विमानपालाः प्रकीर्तिताः ॥ इन्द्रश्चाग्निर्यमश्चैव र्निॠतिर्वरुणस्तथा। वायुः कुबेर ईशान अष्टौ ते लोकपालकाः॥ १४५ मणिकश्च तथा सन्ध्या तापसस्सिद्धिदस्तथा । किष्किन्धतीर्थौ विघ्नेशनागेशौ द्वारपालकाः ॥ १७७ ॥ न्यक्षो विवस्वान् मित्रश्च क्षत्ता विमानपालकाः । भूतद्वयामितार्यब्जध्वज वीशोऽनपायिनः ॥ १७८ ॥ अष्टाविन्द्रादिदिग्देवाः लोकपाला इति स्मृताः । (अर्चनं नित्यमेतेषां न कुर्याच्छक्तिवञ्चनाम्) ॥ १७९ ॥ ‘इदं विष्णु’ रिति प्रोच्य पानीयं शीतलं ददेत् । दद्यादाचमनान्ते तु विचक्रम’ इति ब्रुवन् ॥ १८० ॥ मुखवासं शिलाचूर्णयुक्तं रहितमेव वा । विधिना बलिमाराध्य कारयित्वा प्रदक्षिणम् ॥ १८१ ॥ पञ्चप्रणामैरानम्य विष्णुसूक्तं समुच्चरन् । द्वादशाष्टाक्षराभ्याञ्च ‘नमो ब्रह्मण’ इत्यपि ॥ १८२ ॥ ‘नारायणाय वि’ द्मेति पादे पुष्पाञ्जलिं ददेत् । पौरुषं सूक्तमुच्चार्य देवं संस्तूय भक्तितः ॥ १८३ ॥ प्रणवेन यथाशक्ति दक्षिणां विष्णवे ददेत् । दक्षिणेत्यविशेषोक्तौ मुखवासं निवेदयेत् ॥ १८४ ॥ समयभेदेन - ध्यानप्रकारभेदः स्नानादिषट्सु तिष्ठन्तमन्येष्वासीनमेव च । ध्यायन्नेवार्चयेद्भक्त्या प्रतिद्रव्यं प्रणम्य च ॥ १८५ ॥ द्रव्यं स्वस्य ललाटान्तमुद्धृत्वोर्ध्वमुखं ददेत् । कवाटबन्धनं कुर्या ‘त्सूर्यस्त्वे’ ति समुच्चरन् ॥ १८६ ॥ नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १४६ तत ‘उद्वय’मित्याद्यैरुपतिष्ठेत भास्करम् । जुहोत्युदितहोमी चेत्कृत्वाऽऽत्मयजनं ततः ॥ १८७ ॥ मध्याह्नार्चनम् कवाटोद्धाटनादीनि मध्याह्ने पूर्ववच्चरेत् । विना बिम्बाभिषेकेन त्वासनादित्रयेण च ॥ १८८ ॥ रात्र्यर्चनम् रात्रौ स्नानादिषड्भिश्च विनान्यैर्विग्रहैर्यजेत् । हविर्निवेदनात्पूर्वं रात्रौ नीराजनं चरेत् ॥ १८९ ॥ नीराजनविधिः शातकुम्भमयं कुम्भं गृहीत्वाऽऽढकपूरणम् । राजतं ताम्रजं वाऽथ यथाशक्ति प्रगृह्य च ॥ १९० ॥ तन्मुखे चषकं न्यस्य तदूर्ध्वे वर्तिकायुतम् । अथवा बलिपात्रोक्तप्रमाणं पात्रमाहरेत् ॥ १९१ ॥ नव वा पञ्च चैकं वा कल्पयेत्तत्र वर्त्तिकाः । आनीतान्देवदासीभिर्दीपांश्च पचनालयात् ॥ १९२ ॥ दीपमारोप्य देवाग्रे त्रिपादोपरि विन्यसेत् । श्रियं तत्र समभ्यर्च्य ‘शुभ्रा ज्योति’ रिति ब्रुवन् ॥ १९३ ॥ उभाभ्यामेव हस्ताभ्यां 1त्रिस्सकृद्वा प्रदक्षिणम् । 2समाहितं परं नेयात् देवपार्श्वे 3प्रभाकृतिम् ॥ १९४ ॥ (गन्धेनोर्ध्वाग्रमालिप्य दद्यादाचमनं पुनः । नीत्वा पुष्पाक्षताम्बूनि देवस्याग्रे प्रदक्षिणम् ।) 1. तिस्रः कृत्वा प्रभाकृती. क. 2. समाहितोऽत्वरः क. 3. प्रदक्षिणम् क. १४७ चतुर्वेदादिमन्त्रैश्च इन्द्रादीनां च नामभिः । विसृजेदुक्तदिक्ष्वेवं पुनः पुष्पाञ्जलिं ददेत् ॥ १९५ ॥ 1स्न्नपनोत्सवार्चनान्तेषु एकं नीराजनं चरेत् । हविर्निवेदनादीनि कुर्यात्सर्वाणि पूर्ववत् ॥ १९६ ॥ अर्धयामाद्यर्चनम् अर्धयामेऽर्चयेद्देवं पाद्याद्यैरष्टविग्रहैः । हविर्दत्वा यथापूर्वं पानीयादि निवेदयेत् ॥ १९७ ॥ उपसन्ध्यासु सर्वासु केवलं त्वष्टविग्रहैः । अर्चयित्वा निवेद्यैव पानीयाचमनं ददेत् ॥ १९८ ॥ मुखवासावसानानि हविरादीनि कारयेत् । प्रादुर्भावादीनामर्चने विशेषः प्रादुर्भावांश्च सर्वान्वै देवान्वह्मादिकानपि ॥ १९९ ॥ तत्तन्मन्त्रावसाने तु तत्तन्मूर्तिभिरर्चयेत् । कौतुकादीनामर्चनम् पूर्वं कौतुकमभ्यर्च्य औत्सवार्चाबलीनपि ॥ २०० ॥ समभ्यर्च्य क्रमेणैव हविः पञ्च निवेदयेत् । देव्योरर्चनम् देव्यौ प्रत्युपचारं तु सहदेवेन पूजयेत् ॥ २०१ ॥ तन्मन्त्रैर्मूर्तिभिश्चैव सूक्ताभ्यां पृथगर्चनम् । मन्त्राणां स्खलने कुर्यात् स्वमूर्त्याष्टाक्षरेण वा ॥ २०२ ॥ 1. अर्चनान्ते स्नापनान्ते उत्सवान्ते विशेषतः। नीराजनं चरेदेवं देवाय प्रथतोऽर्चकः॥आ. नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १४८ ध्रुवार्चापूजाविशेषः अतः परं ध्रुवार्चायाः प्रवक्ष्याम्यर्चनक्रमम् । परीत्य मन्दिरं विष्णोः ‘प्रतद्विष्णु’रिति ब्रुवन् ॥ २०३ ॥ ‘अतो देवा’ दिना देवं प्रणम्यैवानुमान्य च । अङ्गन्यासं ततः कुर्यादात्मसूक्तं तथोच्चरेत् ॥ २०४ ॥ ‘अहमेवेद’ मन्त्रेण कुर्यान्निर्माल्यशोधन् । ‘पूतस्त’ स्येति मन्त्रेण वेदिमद्भिस्सुशोधयेत् ॥ २०५ ॥ पादपुष्पं ततो दत्वा गायत्रीं वैष्णवीं वदन् । विष्वक्सेनमलङकृत्य देवनिर्माल्यहारिणम् ॥ २०६ ॥ दद्याद्वै पादयोः पाद्यं विष्णो ‘स्त्रीणिप’देति च । दद्यादाचमनं हस्ते ‘शन्नो देवी’ रिति ब्रुवन् ॥ २०७ ॥ ‘अतो देवा’ इति वदन् तैलाभ्यङ्गं समाचरेत् । ‘इषे त्वोर्जेत्वे’ ति जपन् स्नानकर्म समाचरेत् ॥ २०८ ॥ विष्णुसूक्तेन वस्त्राद्यैरलङ्कृत्य यथाविधि । देवस्य पादयोर्मध्ये ‘विष्णवे नम’ इत्यतः ॥ २०९ ॥ प्रागादि पुरुषादिभ्यः पुष्पन्यासं समाचरेत् । आग्नेयादिषु कोणेषु कपिलादिभ्य एव च ॥ २१० ॥ वाराहादिचतुर्णान्तु पूर्वाद्येव प्रदिक्षणम् । आग्नेयादिषु कोणेषु सुभद्रादिभ्य एव च ॥ २११ ॥ तृतीयावरणे पश्चाद्दद्यादिन्द्रादिनामतः । । सुभद्रादिचतुर्भ्यश्च चतुर्थावरणे ददेत् ॥ २१२ ॥ १४९ आग्नेयादिषु कोणेषु सर्वादिभ्यस्तथैव च । शिवं विश्वं मित्रमत्रिं 1प्रागादिषु च पूजयेत् ॥ २१३ ॥ सनत्कुमारं सनकं सनातनसनन्दनौ । 2आग्नेयादिषु कोणेषु पूजयित्वा तथैव च ॥ २१४ ॥ ऐन्द्रादिषु तथैशान्तं जयाद्यप्सरसोऽर्चयेत् । जयां च विजयां विन्दां नन्दकं पुष्टिकामपि ॥ २१५ ॥ कुमुद्वतीमुत्पलकां विशोकाञ्चापि पूजयेत् । द्वारदेवद्वारपालधामपालानपायिनः ॥ २१६ ॥ पूजयित्वा प्रविश्यान्तः पाद्यमाचमनं ददेत् । ‘तद्विष्णोः परम’ञ्चेति दद्यात्पुष्पञ्च भक्तितः ॥ २१७ ॥ गन्धेन लेपनं कुर्या ‘त्तद्विप्रास’ इति ब्रुवन् । ‘परो मात्र’ येति मन्त्रेण धूपं दद्याच्चतुर्दिशम् ॥ २१८ ॥ ‘विष्णोः कर्माणि’ चेत्युक्त्वा पार्श्वे दीपञ्च दर्शयेत् । अर्घ्यं ‘त्रिर्देव’ इत्युक्त्वा देवेशाय निवेदयेत् ॥ २१९ ॥ पुनराचमनं दत्वा राजवद्विग्रहानपि । दर्शयित्वा तथा मात्रां मधुपर्कं निवेदयेत् ॥ २२० ॥ ‘तदस्य प्रिय’ मित्युक्त्वा हवींषि च निवेदयेत् । प्रणवादि नमोऽन्तं वै परिवारबलिं ददेत् ॥ २२१ ॥ मूर्तिहोमावसाने तु पानीयं स्वादुशीतलम् । गन्धाधिवासितं दद्या ‘दिदं विष्णु’ रिति ब्रुवन् ॥ २२२ ॥ 1. पश्चिमादिषु क. 2. वायव्यादिषु कोणेषु क. नवमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १५० दद्यादाचमनान्ते तु मुखवासं यथाविधि । ‘विचक्रमे’ ति च जपन् देवदेवस्य भक्तितः ॥ २२३ ॥ विधिना बलिमाराध्य कुर्याद्धामप्रदक्षिणम् । पञ्चप्रकारैरानम्य विष्णुसूक्तेन वै पुनः ॥ २२४ ॥ द्वादशाष्टाक्षारभ्याञ्च दद्यात्पुष्पाञ्जलीन् बहून् । पुरुषसूक्तेन संस्तूय तं यज्ञपुरुषं स्मरन् ॥ २२५ ॥ कवाटबन्धनं कुर्या ‘त्सूर्यस्त्वे’ति ततो जपन् । तत ‘उद्वय’ मित्याद्यैरुपतिष्ठेत भास्करम् ॥ २२६ ॥ रात्रौ स्नानं न कुर्वीत सर्वमन्यत्समाचरेत् । निर्माल्यशोधनं पीठात्प्रतिस्नानं ध्रुवार्चने ॥ २२७ ॥ स्नपने स्नापने बेरे प्रतिद्रव्यं विशोधयेत् । हविर्निवेदनात्पूर्वं कुर्यान्नीराजनं तथा ॥ २२८ ॥ एष एव विशेषः स्यात्सर्वमन्यत्समं भवेत् । (नवषट्पञ्चमूर्तीनामर्चनं मुनिसत्तमाः । खिले विस्तरशः प्रोक्तं तथैव च समाचरेत् । अर्चनं पञ्चवीराणां पश्चाद्वक्ष्यामि सत्तमाः ।) अर्चनाकालविचारः उदयादथ मध्याह्नात्तथैवास्तमयाद्रवेः ॥ २२९ ॥ कालः स्यादुत्तमे यामो मध्यमे पञ्च नाडिकाः । यामार्धमधमे प्रोक्तो हविर्हीने तु तद्भवेत् ॥ २३० ॥ एका स्याद्द्रव्यसम्भारे सार्धैका स्नानकर्मणि । घटिके द्वेऽर्चने स्यातामेका स्याद्राजविग्रहे ॥ २३१ ॥ १५१ घटिकार्धं हविर्दाने घटिकैका तथा बलौ । शेषाः शेषोपचाराणामिति यामे प्रकीर्तिताः ॥ २३२ ॥ एका स्याद्द्रव्यसम्भारे एका स्यात्स्नानकर्मणि । अर्चने घटिके स्यातामेका स्याद्धविरादिषु ॥ २३३ ॥ समांशा अधमे द्रव्यसम्भारे स्नापनेऽर्चने । मध्यमं बलिहीनं स्याद्धविर्हीनं तथाऽधमम् ॥ २३४ ॥ उपसन्ध्यासु यामार्धं नाडिकास्तिस्र एव वा । प्रादुर्भावानां कालविशेषे ध्यानप्रकारः हविर्दानेऽर्चनाकाले रामकृष्णादि सायुधान् । निरायुधान् स्मरेद्बुद्ध्या 1अथवा सहजायुधान् ॥ २३५ ॥ वंशस्यायुधसाधर्म्यं भवेद्गोपालविग्रहे । अत्रानुक्तानि सर्वाणि खिलोक्तविधिना चरेत् ॥ २३६ ॥ (स्नानादिषु च तिष्ठन्तमन्येष्वासीनमेव च । ध्यायन्नेवार्चयेद्देवं शयाने यानकेऽपि च) इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे नित्यार्चनविधानं नाम नवमोऽध्यायः