3
रात्रिसूक्तञ्च आ. अष्टमोऽध्यायः ई. 2. प्रतिष्ठादिनमारभ्य तृतीये पञ्चमेऽहनि। गार्हपत्यादिकुण्डेषु पञ्चाग्निषु तथैव च । अग्निप्रणयनं कुर्यादाघारं विधिवद्यजेत् । आघारान्ते तु होतव्यं मन्त्रं पूर्वोक्तमेव च । यद्यत्कुण्डेषु योमन्त्रस्तत्तत्कुण्डेषु होमयेत्। आघार दिनमारभ्य अन्तहोम दिनान्तकम् । एतान् मन्त्रांश्च सर्वांश्च सायं प्रातर्यजेद्बुधः। प्रायश्चित्ताग्निकुण्डे तु सायान्ते होममाचरेत्। तत्तत्कुण्डेषु तान् मन्त्रान् शान्तिहोमञ्च कारयेत्। दिने दिने तु कर्तव्यं प्रतिष्ठान्तं हुनेद्बुधः। एवमेव क्रमेणैव यजेदहरहः क्रमात्। सभ्यञ्च पौण्डरीकञ्च विनान्येष्वन्तहोमकम्। अन्तहोमावसानेऽग्नि समिध्यारोपयेद्भुधः। समिध्यारोपिते पश्चात्सभ्याग्नौ तु सुहोमयेत् इत्यधिकं आ कोशेषु। 3.
२० अध्यायः ख. ८ ई. सप्तमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १०८ अष्टमोऽध्यायः रत्नन्यासः प्रातस्स्नात्वा विधानेन जप्त्वा सूक्तानि पूर्ववत् । प्रविश्य यागशालाञ्च देवदेवं प्रणम्य च ॥ १ ॥ ततस्सुप्तं हरिं किञ्चिदोङ्कारेण प्रबोधयेत् । प्रणम्य ‘भूः प्रप’ द्येति विष्णुसूक्तेन चोद्धरेत् ॥ २ ॥ (कौतुकाद्यधिवासञ्चेत्कौतुके स्नानमाचरेत् । उत्सवादिषु बेरेषु अधिवासं भवेद्यदि ।) व्यपोह्य वस्त्रमाल्यादीन् पुनरन्यैश्च भूषयेत् । त्रयोदशोपचारैश्च समभ्यर्च्य यथाविधि ॥ ३ ॥ रत्नानि धातुबीजानि गृहीत्वाऽन्तः प्रविश्य च । अर्चापीठेऽवटं कृत्वा सोपपीठपदं तथा ॥ ४ ॥ उपपीठपदञ्चेति पञ्चविंशत्पदं स्मृतम् । ‘तमेकने’ मिमित्युक्त्वा रत्नादीन्यभिमृश्य च ॥ ५ ॥ ‘प्रजापतेः प्रथम’ मिति रौक्मं कूर्मन्तु सन्न्यसेत् । ‘तमेकनेमि’ मन्त्रेण सैवर्णं दन्तिनं न्यसेत् ॥ ६ ॥ ‘शदधार’ मिति प्रोच्य1 सौवर्णं गरुडं तथा । ब्रह्मस्थाने ब्रह्ममणिं ‘ब्रह्मा देवा’दिमुच्चरन् ॥ ७ ॥ ‘इन्द्रं प्रणयन्त’ मित्युक्त्वा वज्रमैन्द्रे विनिक्षिपेत् । ‘अग्नावग्नि’रिति प्रोच्य त्वाग्नेय्यां मौक्तिकं क्षिपेत् ॥ ८ ॥ 1. प्राच्यां अ. १०९ ‘यमो दाधार’ मन्त्रेण याम्ये वैङूर्यमाक्षिपेत् । ‘वसवः प्रथम’ इत्युक्त्वा नैॠत्यां शङ्खजं क्षिपेत् ॥ ९ ॥ चतुर्भिर्वारुणैर्मन्त्रैः स्फाटिकं वारुणे न्यसेत् । ‘मरुतः परमा’ त्मेति वायव्ये पुष्यकं क्षिपेत्1 ॥ १० ॥ ‘सोमं राजान’ मित्युक्त्वा चन्द्रकान्तमथोत्तरे । ‘ईशानस्सर्व’ मन्त्रेण नीलमीशानदिश्यपि ॥ ११ ॥ ‘शन्नो निधत्ता’ मित्युक्त्वा वासुकेरमृताश्मकम् । ‘धाता धातृणा’ मिति च साध्येभ्यो लोहिताश्मकम् ॥ १२ ॥ ‘विश्वे देवस्य’ मन्त्रेण विश्वेदेवेभ्य उत्पलम् । ‘अधिब्रह्मा यत’ तेति सिद्धानान्तु प्रवालकम् ॥ १३ ॥ ‘इमां मूर्धन्या’ इत्युक्त्वा गन्धर्वेभ्यो मनश्शिलाम् । ‘अप्सरस्सु’ ब्रुवन्विद्वानप्सरेभ्योऽथ शुक्तिजम् ॥ १४ ॥ ‘यं काद्रवेया’ इत्युक्त्वा नागेभ्यो विमलं मणिम् । ‘अर्यम्ण’ इति मन्त्रेण अर्यम्णे कुरुविन्दकम् ॥ १५ ॥ ‘तत्त्रीण्ये’षेति च वदन् भूतेभ्यो नीलमुत्तमम् । अमृताश्मकादिरत्नानि मध्येऽवान्तरदिक्ष्वपि ॥ १६ ॥ ‘शन्नो निधत्ता’ मित्याद्यैर्मन्त्रैः क्षिप्त्वा यथाक्रमम् । ततो बीजानि धातूंश्च न्यसेन्मध्यपदेऽष्टके ॥ १७ ॥ सौवर्णं गैरिकं मध्ये हरितालं मनश्शिलाम् । अज्जनं श्यामकासीसं रसं सौराष्ट्रकं तथा ॥ १८ ॥ 1. तत्र नीलमणिं क्षिपेत् ई. अष्टमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ११० गोरोचनं चतुर्दिक्षु तत्तन्मन्त्रैश्च सन्न्यसेत् । सर्वगन्धयुतं सर्वबीजं ब्राह्मे तु सन्न्यसेत् ॥ १९ ॥ एन्द्रे तु षष्टिकान्व्रीहीन्न्यसेन्माषकुलुत्थकौ । याम्ये गोधूममुद्गौ च तिलतिल्वौ च र्नैॠतौ ॥ २० ॥ यवद्वयं तु वारुण्यां नीवारञ्च प्रियङ्गुकम् । सौम्ये तु मुद्गगोधूमावीशान्ये सर्वबीजकम् ॥ २१ ॥ पूर्वोक्तैरेव मन्त्रैस्तु क्रमेणैतान्बहिर्न्यसेत् । 1ब्रह्मस्थानस्य परितः विन्यसेदष्टमङ्गलान् ॥ २२ ॥ ‘भूयाम’ इति मन्त्रेण श्रीवत्सं चैन्द्रके न्यसेत् । आग्नेय्यां पूर्णकुम्भन्तु ‘नमस्सुलोमि’ मन्त्रतः ॥ २३ ॥ याम्ये भेरीं न्यसेत्तत्र ‘स एकोऽभू’ दिति ब्रुवन् । र्नैॠत्यां विन्यसेत्पश्चा ‘द्देवस्य’ त्वेति दर्पणम् ॥ २४ ॥ वैष्णवं मन्त्रमुच्चार्य वारुण्यां मत्स्ययुग्मकम् । वायव्यामङ्कुशं पश्चात् ‘क्ष्मामेका’ मिति च ब्रुवन् ॥ २५ ॥ ‘तन्मा यशोग्र’ इत्युक्त्वा शङ्खं सौम्ये तु निक्षिपेत् । ‘ब्रह्मा देवे’ ति चैशान्यामावर्तं निदधीत वै ॥ २६ ॥ गदाचक्रासिशक्तीश्च शरं मध्येऽथ दक्षिणे । ‘भूमानन्तोऽग्र’ इत्युक्त्वा प्रत्येकं च विनिक्षिपेत् ॥ २७ ॥ वामभागे तथा शङ्खं शार्ङ्गं खेटकमेव च । ‘तन्मा यशोऽग्रे’ इत्युक्त्वा प्रत्येकं च विनिक्षिपेत् ॥ २८ ॥ 1. ब्रह्मस्थाने आ. १११ स्रुवादिवर्णचिह्नानि तत्तद्वर्णविवृद्धये । श्रीरूपं च श्रियः स्थाने ‘श्रिये जात’ इति ब्रुवन् ॥ २९ ॥ हरिणीं हरिणीस्थाने मेदिन्यादि समुच्चरन् । ‘प्रजापति’ मिति प्रोच्य कूर्मं चोपरि विन्यसेत् ॥ ३० ॥ यथाशक्ति सुवर्णेन सर्वाण्येतानि कल्पयेत् । अलाभे प्रतिनिधिः रत्नालाभे सुवर्णं वा बीजानां यवमेव वा ॥ ३१ ॥ धातूनां पारदं वाऽपि तत्तत्प्रतिनिधिं हरेत् । क्षौमेणाच्छाद्य तच्छ्वभ्रं सुधयोपरि लेपयेत् ॥ ३२ ॥ पीठे पुरातने पूर्वं रत्नादौ सुप्रतिष्ठिते । तत्तद्रत्नादिकं बुध्द्वा मन्त्रांस्तान्त्समुदीर्य च ॥ ३३ ॥ ‘अपो हिष्ठा’ दिभिर्मन्त्रैः प्रोक्षयेच्च कुशोदकैः । पूर्णाहुतिः महाशान्तिः यज्ञशालां ततो गत्वा देवेशं सम्प्रणम्य च ॥ ३४ ॥ जुहुयात्पौण्डरीकाग्नौ विष्णुगायत्रिया शतम् । श्वेतपद्मं घृतासिक्तं रक्ताब्जं बिल्वमेव वा ॥ ३५ ॥ नरसूक्तं वैष्णवं च ‘यद्देवा’दि तथैव च । ब्राह्मैन्द्रवारुणान् हुत्वा रात्रिसूक्तसमन्वितम् ॥ ३६ ॥ जुहुयाद्विश्वजित्सूक्तं महाशान्तिरियं स्मृता । 1सभ्ये तु वैष्णवं विष्णुसूक्तं पुरुषसूक्तकम् ॥ ३७ ॥ 1. सभ्ये तु नरसूक्तञ्च वैष्णवं विष्णुसूक्तकं आ अष्टमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ११२ एकाक्षरादि हुत्वा तु व्याहृत्यन्तं प्रतिप्रति । समिद्घृताभ्यां चरुणा देवदेवमनुस्मरन् ॥ ३८ ॥ (रात्रावेवाहुतिर्होमं प्रातर्नेवात्रिकाश्यपौ ।) दक्षिणादानम् दद्यादाचार्यपूर्वेभ्यो दक्षिणां च यथाविधि । (समिद्घृताभ्यां चरुणा देवदेवमनुस्मरन् ॥ पूर्णाहुतिं प्रकृर्वीत सर्वकर्म समापयेत् ततस्तु पौण्डरीकाग्निं विसृजेद्विधिवद्बुधः ॥ सभ्यमग्निं सुसंरक्ष्य नित्यहोमाय विन्यसेत् । आलयाद्दक्षिणे पार्श्वे कुण्डमौपासनाग्निवत् ॥ कुर्यान्महानसे वाऽथ र्नैॠतेऽर्चकसद्मनि । कृत्वा तत्र निधायाग्निं नित्यहोमं समाचरेत् ॥ नित्यहोमे त्वशक्तस्य विशेषस्संप्रवक्ष्यते । तत्रस्थाग्निषु सर्वेषु यजेयुर्वैष्णवं पुनः ॥ षडग्निकुण्डहोमान्तेऽप्यावसथ्ये ततः परम् । अन्तहोमं ततो हुत्वा स त्वाचार्यपुरस्सरम् ॥ समिध्यग्निं समारो ‘प्योपावरोहे’ ति च ब्रुवन् । समिधं तां समानीय आचार्याय समर्पयेत् । समिधं गृहीत्वाप्याचार्यो हुनेदाहवनीयके । तत्कुण्डेऽप्यन्तहोमान्ते समिध्यारोपयेद्बुधः ॥ सामिधं तां समानीय आचार्याय समर्पयेत् । आचार्यस्त्वरितः पश्चादन्वाहार्ये जुहोति च ॥ ११३ तत्कुण्डेऽप्यन्तहोमान्ते समिध्यारोपयेत्सुधीः । समिधं तां ततो गृह्य आचार्याय प्रदीयताम् ॥ समिधं गृहीत्वाप्याचार्यो जुहुयाद्गार्हपत्यके । तत्कुण्डेऽप्यन्तहोमान्ते समिध्यारोपयेद्बुधः ॥ समिधं तां समानीय आचार्याय समर्पयेत् । तत्कुण्डेऽप्यन्तहोमान्ते समिध्यारोपयेद्बुधः ॥ समिधं तां समानीय आचार्याय समर्पयेत् । समिधं गृहीत्वाऽऽचार्यस्तां जुहुयात्पद्मकुण्डके ॥ तत्कुण्डेऽप्यन्तहोमान्ते समिध्यारोपयेत्सुधीः । समिधं तां समानीय आचार्याय समर्पयेत् ॥ समिधं गृहीत्वाऽऽचार्यस्तां हुनेत्सभ्याग्निकुण्डके । सभ्यमग्निं सुसंरक्ष्य नित्यहोमाय विन्यसेत् ॥ नित्यहोमेऽप्यशक्तिं तां ज्ञात्वाऽऽचार्यो यथाक्रमम् । कुम्भस्योत्थापनात्पूर्वं यजेत्पूर्णाहुतिं बुधः ॥ ध्रुवे अग्न्यारोपपक्षः आचार्यः प्रयतो गत्वा अक्षतान्त्संप्रगृह्य च । साक्षतेनैव हस्तेन ‘याते अग्न’ इति ब्रुवन् ॥ सभ्याग्निं च समारोप्य शक्तिं कुम्भेऽक्षतान्न्यसेत् । ध्रुवस्यावाहनात्पश्चाद्देवेशं सम्प्रणम्य च ॥ कुर्चेनादाय तत्तोयं याते अग्न‘ इति ब्रुवन् । संस्राव्य बिम्बं परितः ध्रुवेऽग्न्यारोपणं चरेत् ॥ अष्टमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ११४ यद्यग्निः न गृहीतस्स्याद्भूणहा भवति ध्रुवम् । तत्काले यजमानश्च श्रद्धया देवसन्निधौ ॥ दक्षिणादानम् सदनप्रदक्षिणम् यथोक्तमाचार्यदिभ्यो दक्षिणां सोदकं ददेत् ।) देवं देवीसमायुक्तं सर्वालङ्करणैस्सह ॥ ३९ ॥ जपन्वै शाकुनं सूक्तं तोयधारापुरस्सरम् । आचार्यश्शिरसा कुम्भं गृहीत्वा पूर्वतो व्रजेत् ॥ ४० ॥ ततोऽनु देवं देव्यौ च नयन्ति स्थापकास्तथा । बिम्बस्थापनप्रकारः बहुबेरप्रतिष्ठा चेत्तत्तद्बेरक्रमान्नयेत् ॥ ४१ ॥ बहुभूमिप्रतिष्ठा चेत्तत्तद्बुद्ध्वा समाहितः । तले तले विधानेन यथोचितमथाचरेत् ॥ ४२ ॥ परीत्य मन्दिरं पश्चाद्गर्भगेहं प्रविश्य च । विष्णुसूक्तं समुच्चार्य स्थापयित्वा ततः परम् ॥ ४३ ॥ ध्रुवसूक्तं ततो जप्त्वा पौरुषं सूक्तमेव च । एकाक्षरादिसूक्तं च स्थापयेयुस्समाहिताः ॥ ४४ ॥ दक्षिणे ब्रह्मसूत्रस्य बेरमध्यं यथा तथा । देवदेवं जगद्योनिं स्थापयेद्विष्णुमव्ययम् ॥ ४५ ॥ स्थापयेदन्यदेवास्तु तद्वामे बेरमध्यमम् । सूत्रसन्धौ न कुर्वीत सर्वेषां बेरमध्यमम् ॥ ४६ ॥ स्थापितं चेत्तदज्ञानात्सर्वमाशु विनश्यति । औत्सवं कोत्तुकाद्वामे दक्षिणे स्नापनं तथा ॥ ४७ ॥ ११५ औत्सवं दक्षिणे वामे स्नापनन्त्विति केचन । गर्भालयस्य सङ्कोचे त्वथवा मुखमण्डपे ॥ ४८ ॥ प्रतिष्ठाप्यान्तराले वा पूजयेदिति चाङ्गिराः । आचार्यः पुरतः कुम्भं धान्यपीठे सुसन्न्यसेत् ॥ ४९ ॥ व्याहृतिन्यासादिः न्यसेद्बिम्बस्य मूर्धादि पादान्तं व्याहृतित्रयम् । यकारं पादयोर्मध्ये त्वकारं हृदये न्यसेत् ॥ ५० ॥ प्रणवेन समावेष्ट्य मूर्ध्नि च प्रणवं न्यसेत् । (एकाक्षरादिमन्त्रैश्च सन्न्यसेत्तु विधानतः । अकारादिक्षकारान्तं विन्यसेद्विधिना बुधः ।) आत्मसूक्तं ततो जप्त्वा कूर्चेनादाय वै ततः ॥ ५१ ॥ आवाहनप्रकारः कुम्भाच्छक्तियुतं तोय ‘मायातु भगवा’ निति । ‘विष्णुमावाहया’ मीति स्रावयेद्बिम्बमूर्धनि ॥ ५२ ॥ प्रागादि ‘पुरुषं सत्यमच्युतं चानिरुद्धकम्’ । बिम्बमूर्ध्नि समावाह्य पीठे तु परितः क्रमात् ॥ ५३ ॥ तत्तद्दिक्षु समावाह्य पुष्पन्यासोक्तदेवताः । श्रीदेवीहृदये कृत्वा श्रीवत्सादिकमक्षरम् ॥ ५४ ॥ लक्ष्मीपूर्वाक्षरं मन्त्रं हृदये चैव विन्यसेत् । सानुस्वारञ्च विन्यस्य ‘श्रिये जात’ इति श्रियम् ॥ ५५ ॥ मेदिन्यादीन् समुच्चार्य महीमावाहयेत्क्रमात् । गर्भालयस्थितान् देवान् द्वारेशान् द्वारपालकान् ॥ ५६ ॥ अष्टमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ११६ विमानेशान् लोकपालाननपायिन एव च । तत्तन्मन्त्रैस्समावाह्य ततो वै कौतुकादिषु ॥ ५७ ॥ कृत्वा मन्त्राक्षरन्यासौ ध्रुवादावाहयेत्क्रमात् । आवाहने विशेषः यद्यत्र लौकिकं बेरं प्रादुर्भावादयो ध्रुवाः ॥ ५८ ॥ प्रतिष्ठाप्य क्रमात्तेषां तस्मादावाहयेद्ध्रुवात् । यत्रालये तु यद्बेरं ध्रुवहीनं प्रतिष्ठितम् ॥ ५९ ॥ आवाह्य तद्ध्रुवादेव तत्तद्विधिवदर्चयेत् । पृथगेवाथवा कुम्भं संसाध्यावाहयेत्ततः ॥ ६० ॥ आसनादिभिरभ्यर्च्च हवींष्यपि निवेदयेत् । प्रतिष्ठान्तोत्सवः बलौ बल्युत्सवं कुर्यात्स्नापने स्नपनं चरेत् ॥ ६१ ॥ तद्दिने सायमारभ्य चौत्सवे चोत्सवं चरेत् । 1घोषणं सद्य एवात्र कुर्यादित्याह पूर्वजः ॥ ६२ ॥ अङ्कुरार्पणविकल्पाः प्रतिष्ठान्तोत्सवारम्भध्वजस्नापनकर्मसु । नैवाङ्कुरार्पणं कुर्यादेकाहे बहुकर्मणाम् ॥ ६३ ॥ पूर्वस्मिन्नेव दिवसे चैकमेवाङ्कुरार्पणम् । पृयक्पृथक्प्रकर्तव्यं भिन्नकर्तृककर्मणाम् ॥ ६४ ॥ अङ्कुरार्पणकादूर्ध्वं प्रतिष्ठादिवसादधः । कर्मणां क्रियमाणानां 2न कुर्यात्पृथगङ्कुरम् ॥ ६५ ॥ 1. ब्रह्मघोषमकृत्वैव इति पूर्वजशासनम् आ.2. न कुर्यादङ्कुरार्पणम् ई. ११७ विनियुक्तसम्भाराणां विनियोगः देवयागोपयुक्तानि तानि द्रव्याणि यानि वै । गृह्णीयादुपयोज्यानि गुरुरेवाखिलानि च ॥ ६६ ॥ स्रुक्स्रुवादीनि पात्राणि त्वरणी मङ्गलाष्टकम् । पुनश्च कर्मयोग्यानि यानमासनमेव च ॥ ६७ ॥ वितानं च ध्वजं छत्रं चामरव्यजनादिकम् । ग्राह्यं पुनश्च कर्मार्थं हविरर्घ्यादिपात्रकम् ॥ ६८ ॥ अन्यान्यनुपयोज्यानि दाह्यान्याहुर्मनीषिणः । ब्रह्मस्थाने शिलाबेरप्रतिष्ठा एवं कर्तुमशक्तश्चेद्वर्णहीनं शिलामयम् ॥ ६९ ॥ ब्रह्मस्थाने प्रतिष्ठाप्य पूजयेदिति केचन । वक्ष्यामि तत्क्रमं बेरं चित्रं सर्वाङ्गसुन्दरम् ॥ ७० ॥ कृत्वाऽक्षिमोचनं पश्चादमन्त्रकमतः परम् । (पञ्चगव्याधिवासादीन् कृत्वा चैवमतः परम् ।) तत्तत्पदे प्रतिष्ठाप्य शिलास्थापनमार्गतः । पर्यग्निपञ्चगव्याभ्यां शुद्धिं कृत्वा तु तत्र वै ॥ ७१ ॥ समन्त्रकाक्षिमोक्षान्ते पञ्चगव्यादिपूरितान् । कुम्भांस्त्रियष्टियोगेन सरन्ध्रान्बेरमूर्धनि ॥ ७२ ॥ पतेद्धारा यथा तस्मात्तथा सन्न्यस्य तान्क्रमात् । अधिवासक्रियां कुर्यादभिषेकान्वितं पृथक् ॥ ७३ ॥ अष्टमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ११८ अथवाऽभिमुखे कृत्वा पञ्चगव्यादिपूरितान् । अष्टोत्तरशतं जप्त्वा तत्तन्मन्त्रान्यथाक्रमम् ॥ ७४ ॥ अभ्युक्ष्य स्नापयेद्देवं प्रत्येकं भावयेज्जलैः । महाप्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत् ॥ ७५ ॥ औत्सवे बलिबेरे च तस्मादावाहनं स्मृतम् । अथवा त्वरितः कर्तुमेकबेरविधिं यदि ॥ ७६ ॥ बेरं कृत्वाऽक्षिमोक्षान्ते गव्यादिष्वधिवास्य च । प्रतिष्ठोक्तक्रमेणैव कुम्भपूजादिकाः क्रियाः ॥ ७७ ॥ रात्रौ समाप्य विधिना प्रातः स्नात्वा यथाविधि । ब्रह्मस्थाने प्रतिष्ठाप्य रत्नन्यासपुरस्सरम् ॥ ७८ ॥ शिल्पिस्पर्शविशुद्ध्यर्थं वास्तुहोमावसानके । ध्रुवबेरोक्तवच्छुद्धिं कृत्वा बेरस्य मन्त्रवित् ॥ ७९ ॥ कुम्भाच्छक्तिं समावाह्य समभ्यर्च्य निवेदयेत् । ब्रह्मस्थानेऽथवा कृत्वा रत्नादिन्यासमत्वरः ॥ ८० ॥ पीठसंङ्घातमार्गेण तत्र संस्थाप्य शिल्पिना । अमन्त्रकाक्षिमोक्षं च कृत्वोद्वास्य च शिल्पिनम् ॥ ८१ ॥ अष्टबन्धे दृढे पश्चादनुकूले शुभे दिने । अक्ष्युन्मेषाधिवासादि प्रतिष्ठामाचरेत्तथा ॥ ८२ ॥ राष्ट्रान्तरानीतबिम्बप्रतिष्ठा राजा राष्ट्रान्तरं जित्वा बेरं यदि समानयेत् । तद्बिम्बञ्च समुद्दिश्य स्वराष्ट्रे च मनोरमे ॥ ८३ ॥ ११९ ध्रुवं तस्यानुरूपं च विमानमपि कारयेत् । संस्थाप्य पूर्ववत्तत्र कुर्यात्तत्रार्चनं बुधः ॥ ८४ ॥ ध्रुवबेरानुरूपञ्चेदथवा मन्दिरे क्वचित् । औत्सवं स्नापनं वाऽथ स्थापयेदिति केचन ॥ ८५ ॥ अथवा नानुरुपं चेल्लौकिकं वाऽथ कुत्रचित् । स्थाप्य त्रयाणां बिम्बानां स्थानादन्यत्र पूजयेत् ॥ ८६ ॥ स लभेदिष्टकादीनां फलं द्विगुणमेव च । नीतमाग्नेयबिम्बं चेत्सप्ताहं पद्मकुण्डके ॥ ८७ ॥ महाशान्तिं च जुहुयादधिवासादि पूर्ववत् । कारयित्वा तु विधिना लौकिकं स्थापयेत्पुनः ॥ ८८ ॥ कुम्भं संसाध्य विधिना समावाह्यार्कमण्डलात् । कुम्भात्तस्मिन्त्समावाह्य पूजयेदिति शासनम् ॥ ८९ ॥ भूमिं परीक्ष्य विधिना सद्यः कर्तुं त्वरान्वितः । ब्रह्मपद्मावसाने तु गर्भगेहे विशेषतः ॥ ९० ॥ अधिष्ठानोदयान्ते तु घनं भित्तिं प्रकल्पयेत् । पञ्जरं च बहिः कृत्वा तत्र बेरं यथाविधि ॥ ९१ ॥ (प्रतिष्ठाप्यर्चनं कुर्वन्नारभेदालयक्रियाम् । तत्र प्रायश्चित्तनिमित्तसम्भवे पतिते चौत्सवे बिम्बे राजराष्ट्रविनाशकृत् ॥ तदर्थं वै महाशान्तिं महास्नापनमुत्तमम् । कुर्याच्च पौण्डरीकाग्नावब्जपत्रं घृताप्लुतम् ॥ अष्टमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १२० अष्टोत्तरसहस्रं वा शतमष्टोत्तरन्तु वा । यजेद्वै विष्णुगायत्र्या राजराष्ट्राभिवृद्धये ॥) प्रायश्चित्तविशेषाः श्रद्धाभक्तो पुरस्कृत्य त्वरितो येन केनचित् । अकृत्वा भूपरीक्षादीन् विनाऽचार्यं पदार्थिभिः ॥ ९२ ॥ स्थापनानुक्तनक्षत्रमासादौ स्थापयेद्यदि । सुमासपक्षनक्षत्रमुहूर्तेषु यथाविधि ॥ ९३ ॥ मासं पक्षं च सप्ताहं पञ्चाहं वा त्र्यहन्तु वा । त्रिकालं पौण्डरीकाग्नौ महाशान्तिं जुहोति वै ॥ ९४ ॥ तत्तन्मन्त्रजपं कुर्याद्भूपरीक्षादिकर्मणाम् । कृत्वाऽङ्कुरार्पणं पश्चात् नयनोन्मीलनं तथा ॥ ९५ ॥ पञ्चगव्याधिवासादि कुर्याद्यत्नेन पूर्ववत् । प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ॥ ९६ ॥ स्नापनौत्सवयोः पश्चात्प्रतिष्ठामाचरेद्यदि । सभ्यञ्च पौण्डरीकञ्च द्वावग्नी इति केचन ॥ ९७ ॥ बलिबेरप्रतिष्ठायां सभ्यमेकाग्निमेव वा । तत्र प्रणीय नित्याग्निं होमं हुत्वा यथाविधि ॥ ९८ ॥ आदधीत प्रतिष्ठान्ते नित्यकुण्डे तु पूर्ववत् । नास्ति चेत्तत्र नित्याग्निः पञ्चाग्नीन् परिकल्पयेत् ॥ ९९ ॥ तत्कुण्डाद्गार्हपत्याख्यात्प्रणीय जुहुयात्तथा । देव्योः पश्चात्प्रतिष्ठायां कुण्डमौपासनोक्तवत् ॥ १०० ॥ १२१ प्रत्येकं कल्पयित्वा तु तन्त्रयित्वैकमेव वा । स्नपनं कुम्भपूजाञ्च शयनञ्च पृथक्पृथक् ॥ १०१ ॥ तत्तत्सूक्तञ्च तन्मन्त्रं वैष्णवेन शतं यजेत् । एष एव विशेषस्स्यात्सर्वमन्यत्समं भवेत् ॥ १०२ ॥ ध्रुवार्चायां विशेषः विमानारम्भतः पूर्वं स्थापिते चेद्ध्रुवार्चनम् । परितः पञ्जरं कृत्वा शिल्पिस्पर्शनिवारणम् ॥ १०३ ॥ तथाऽऽलयगतान् देवान् तथैवाऽऽवाह्य पञ्जरे । विमानं कारयेच्छीघ्रं परितः पञ्जराद्बहिः ॥ १०४ ॥ शिल्पिस्पर्शविशुद्ध्यर्थं तत्क्रियोपरतौ पुनः । वास्तुहोमं ततः कृत्वा पर्यग्निञ्चैव कारयेत् ॥ १०५ ॥ पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचयेत् । स्नापयेत्कलशैर्देवं यथाशक्ति मुदान्वितः ॥ १०६ ॥ देवालयस्याभिुखे पौण्डरीके विशेषतः । महाशान्तिं तथैकाहं हुत्वा विप्रांश्च भोजयेत् ॥ १०७ ॥ सभ्याब्जकुण्डे कृत्वाऽग्रे तत्राघारं जुहोति च । रात्रिपूजावसाने तु देवं कुम्भे निवेश्य च ॥ १०८ ॥ संस्नाप्य सप्तकलशैर्बिम्बं कुम्भसमन्वितम् । धान्यपीठे प्रतिष्ठाप्य बिम्बं सन्न्यस्य पश्चिमे ॥ १०९ ॥ हौत्रं प्रशंस्य विधिना होता हौत्रक्रमेण वै । तदालयगतान्देवान्त्समावाह्य यथाविधि ॥ ११० ॥ अष्टमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १२२ आवाहनक्रमेणैव निरूप्याज्याहुतीर्यजेत् । वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ १११ ॥ वैष्णवं श्रीमहीसूक्तं पञ्चवारुणसंयुतम् । जयादिभिश्च कूष्माण्डैस्सहस्राहुतिभिस्तथा ॥ ११२ ॥ तदालयगतानाञ्च मन्त्रैः परिषदामपि । मिन्दाहुतिभ्यां विच्छिन्नैर्विष्णुसूक्तेन वैष्णवैः ॥ ११३ ॥ तथैव विष्णुगायत्र्या पद्महोमं जुहोति च । तथाऽऽग्नेय्यान्तु पद्माग्नौ जुहुयात्पारमात्मिकम् ॥ ११४ ॥ प्रातः स्नात्वा विधानेन कुम्भमन्तः प्रगृह्य च । कुम्भाद्बिम्बे समावाह्य समभ्यर्च्य निवेदयेत् ॥ ११५ ॥ तदालये समावाह्य देवान्पञ्जरगानपि । व्यपोह्य पञ्जरं सर्वं शेषं पूर्ववदाचरेत् ॥ ११६ ॥ ध्रुवार्चादिनिरुक्तिः ध्रुवकौतुकसंयुक्तं ध्रुवार्चनमिति क्रमात् । स्थापनं तत् द्विधा प्रोक्तं देवदेवस्य शार्ङ्गिणः ॥ ११७ ॥ पतनादिषु सर्वेषु प्रायश्चित्तमिदं स्मृतम् । ध्रुवस्य कौतुकस्यापि विधिवत्स्थापनञ्च यत् ॥ ११८ ॥ ध्रुवकौतुकसंयुक्तं तदुवाच पितामहः । पदेषूक्तेषु यत्स्थाप्यं तद्ध्रुवार्चनमीरितम् ॥ ११९ ॥ ध्रुवञ्च कौतुकञ्चैकं ध्रुवार्चनमुदाहृतम् । तदेव देवीहीनञ्चेदेकबेरमिति स्मृतम् ॥ १२० ॥ १२३ एकबेरञ्च तत्प्राहुः केवलामुष्मिकप्रदम् । इति सङ्क्षेपतः प्रोक्तं स्थापनं मुनिसत्तमाः ॥ १२१ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे महाप्रतिष्ठा रत्नन्यासावाहनाग्निसमारोपण राष्ट्रान्तरानीत बेरस्थापनानुक्तकालप्रतिष्ठाप्रायश्चित्तादि विधिर्नामाष्टमोऽध्यायः1