०७

2


प्रजापतिरवी स्मृतौ ख. 2. सप्तमोऽध्यायः ई. षष्ठोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ८८ सप्तमोऽध्यायः (उपोषितैः प्रकर्तव्यमृत्विग्भिर्वह्निमन्थनम् अग्नेः प्रणयनं तोयाहरणं कुम्भपूजनम् । अथवा फलमूलाद्यैर्भवेयुः कृतभोजनाः अशक्तौ विधिरेष स्यात्सर्वेषाञ्च पदार्थिनाम्) कुम्भपूजाप्रकारः जलाहरणम् प्राङ्मुख प्रयतो भूत्वा ‘धरा’स्विति च मन्त्रतः । पुण्यनद्यां जलं शुद्धं शुद्धपात्रे समाहरेत् ॥ १ ॥ स्नात्वा गुरुः प्रसन्नात्मा श्वेतगन्धानुलेपनः । उत्तरीयाङ्गुलीयाद्यैर्भूषणैरपि भूषितः ॥ २ ॥ पादौ प्रक्षाल्य चाऽचम्य श्वेतमाल्यपरिष्कृतः । कुम्भलक्षणम् द्वात्रिंशत्प्रस्थसम्पूर्णं लौहं मृण्मयमेव वा ॥ ३ ॥ पक्वालर्कफलाकारं खण्डस्फुटितवर्जितम् । कुम्भसंस्कारः ‘इषे त्वोर्जे त्वे‘ति जपन् ‘स्वस्ति दे’ त्यथवा पुनः ॥ ४ ॥ इन्द्रं नरो न’ इति वा तन्तुना परिवेष्टयेत् । ‘शुची वो हव्या’ इत्युक्त्वा प्रक्षाल्याद्भिस्तु सर्वतः1॥ ५ ॥ 1. आ. पूर्वतः ८९ वस्त्रेणोत्पूय तत्तोय‘मिदमापश्शिवा’ इति । कुशैः पश्चात्समुत्पूय कुम्भं तेनैव वारिणा ॥ ६ ॥ ‘आप उन्दन्त्विति जपन् पूरयेत्सुसमाहितः’ । ‘1आपो हि’ ष्ठेत्यभिमृशेत्सर्वगन्धाधिवासितम् ॥ ७ ॥ 2रत्नानि गजतार्क्ष्यौ च मङ्गलान्यायुधान्यपि । कूर्मरूपं च सौवर्णं कुशपुष्पाक्षतानि च ॥ ८ ॥ स्रुक्स्रुवौ वर्णवृद्ध्यर्थं 3श्वेतच्छत्रध्वजादिकम् । सन्न्यसेद्विष्णुगायत्र्या 4अष्टनिष्ककृतं पृथक् ॥ ९ ॥ तानि द्यङ्गुलमात्राणि सौवर्णान्येव निक्षिपेत् । 5क्षौमाभ्यामथवा द्वाभ्यां सूक्ष्मवस्त्रद्वयेन वा ॥ १० ॥ 6कुम्भस्य वेष्टयेत्कण्ठं तथा कुसुमदामभिः । अश्वत्थपल्लवं कूर्चं न्यसेद्दूर्वाङ्कुराण्यपि ॥ ११ ॥ कुम्भे रत्नादि निक्षेपणप्रयोजनम् अस्थि रत्नं सिरास्तन्तुर्मांसं मृत्स्ना प्रकीर्तिता । शोणितं रक्तमृत्तत्र जलं मेदस्तथैव च ॥ १२ ॥ शुक्लं तु कूर्चमित्युक्तं चर्म स्याद्वेष्टनाम्बरम् । सप्तधातव इत्येते कुम्भेषु कलशेषु च ॥ १३ ॥ एतेष्वेकं विहीनं चेन्नास्ति तत्राऽस्य सन्निधिः । रत्निमात्रायते रम्ये तालोत्सेधे त्रिवेदिके ॥ १४ ॥ 1. ख. आपो वेत्याभिमृश्यैव2. ख. नवरत्नं गजं तार्क्ष्यं 3. क. स्वर्णच्छत्रध्वजादिकान्4. ख. तुलाद्यं युगलाङ्गलम् 5. क. पट्टाभ्यां.6. कण्ठमावेष्ठ्यपुष्पमालापरिष्कृतम् । सप्तमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ९० देवस्य पुरतः कुम्भं धान्यपीठे तु सन्न्यसेत् । अक्षरन्यासः वेष्टितं प्रणवैर्दिक्षु बीजमादिं हृदि न्यसेत् ॥ १५ ॥ ध्यानप्रकारः अक्षरन्यासः आत्मसूक्तं ततो जप्त्वा पौरुषं सूक्तमेव च । नारायणानुवाकं च हृदये भावयेज्जपेत् ॥ १६ ॥ शुद्धस्फटिकसङ्काशमर्धचन्द्रसमाकृतिम् । 1वारुणं मण्डलं ध्यायेत्पूते कुम्भस्थवारिणि ॥ १७ ॥ वैष्णवैः प्रणवैश्चापि तोयं तदभिमन्त्रयेत् । जगत्कारणमव्यक्तमदिबीजं सुवर्णरुक् ॥ १८ ॥ तदाधावे सुसन्न्यस्य प्रणवैर्दिक्षु वेष्टयेत् । ‘सहस्त्रशीर्र्षं देव’मिति जप्त्वा समाहितः ॥ १९ ॥ गुरूपदेशसंसिद्धो भगवद्ध्यानतत्परः । आचार्यस्सुप्रसन्नात्मा ध्यानकर्म समारभेत् ॥ २० ॥ स्वस्तिकासनमासीनो जितेन्द्रिय उदङ्मुखः । दक्षिणं पादमूर्ध्वञ्च वामपादमधस्तथा ॥ २१ ॥ जान्वन्तरे तदङ्गुष्ठौ द्वौ च सम्यङ्निगृह्य च । अङ्के वामं न्यसेत्पाणिमन्यञ्चोत्तानमूर्ध्वतः ॥ २२ ॥ ॠजुकायो निवातस्थप्रदीप इव निश्चलः । एवमासनमासीनो नासान्ताहितलोचनः ॥ २३ ॥ 1. क. ततो वारिणि कुम्भस्य ध्यायेद्वरुणमण्डलम्. ९१ प्राणानायम्य विधिना रेचपूरककुम्भकैः1 । विषयेभ्यश्च सर्वेभ्यः प्रत्याहृत्येन्द्रियाणि च2॥ २४ ॥ एकाग्रं च मनः कृत्वा ततः पश्येत्समाधिना । पद्मकोशप्रतीकाशे विश्वस्यायतने पृथौ ॥ २५ ॥ हृदयेऽग्निशिखामध्ये परमात्मा व्यवस्थितः । (ध्यानात्तद्दृश्यते तस्य यत्सूक्ष्मं रूपमव्ययम् ।) निवात इव दीपार्चिर्विद्युल्लेखेव चाम्बरे ॥ २६ ॥ ईश्वरस्यात्मनो ज्योतिर्य एष पुरुषोऽक्षरः । शुद्धज्ञानात्मकं ब्रह्म तदक्षरमुदाहृतम् ॥ २७ ॥ यदोङ्कारमयं ब्रह्म सम्यघ्घृदि निधाय च3 । तच्चिन्तनपरं ध्यानं तद्ब्रह्मार्पणमुच्यते ॥ २८ ॥ ब्रह्मभूते च देहेऽस्मिन् दृढं कुर्यान्मनोऽर्पणम् । तत्राचलं मनः कृत्वा धारणां सम्प्रविश्य च ॥ २९ ॥ निर्गुणं निर्मलं नित्यमक्षरं सर्वकारणम् । निष्कलं सकलं देवं तेजोभासुरभासितम्4॥ ३० ॥ विष्णुं तं मनसा ध्यायन् भत्त्यैव परया मुदा । तं रुक्मवर्णं रक्तास्यं रक्तनेत्रं सुखोद्वहम् ॥ ३१ ॥ किरीटहारकेयूरप्रलम्बब्रह्मसूत्रिणम् । कौस्तुभोद्भासितोरस्कं श्रीवत्साङ्कं चतुर्भुजम् ॥ ३२ ॥ 1. क. प्राणायामञ्चकृत्वैव वशं नीत्वा मनस्ततः इत्यधिकं दृश्यतेः 2. क. यत्रेन्द्रियं मनो याति निवृत्य च मनस्ततः इत्यधिकम् 3. क. तच्चिन्तनपरं ध्यानं तद्ब्रह्मार्पणमुच्यते इति, ग. हृदिस्थितमजं देवं तद्ब्रह्मार्पणमुच्यते इति चाधिकं दृश्यते. 4. ख. तेजोभास्वरभासुरम्. सप्तमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ९२ शङ्खचक्रधरं सौम्यं दक्षिणेनाभयप्रदम् । कटिन्यस्तेतरकरं शुकपिच्छाम्बरं परम् ॥ ३३ ॥ एवं तं परमात्मानं प्रणवात्मकमव्ययम् । 1(दक्षिणेनैकहस्तेन भक्तानामभयप्रदम् । वामेनाप्यन्यहस्तेन स्वकट्यामवलम्ब्य च । पराभ्याञ्चकराभ्याञ्च शङ्खचक्रधरं परम् शुकपिञ्छाम्बरधरं विष्णुं प्रणवरूपिणम् ।) एकाग्रमनसा भक्त्या सकलीकृत्य भावयन् ॥ ३४ ॥ कुम्भेऽम्भसि ततो भक्त्या देवमावाहयेत् ततः2 । आसनादिभिरभ्यर्चेदर्घ्याद्याचमनान्तकैः ॥ ३५ ॥ आवाहनशब्दार्थः आवाहनप्रकारभेदाः सर्वत्र व्यापिनस्तस्य परस्य परमात्मनः । एकत्र स्मरणं यत्तदावाहनमुदीरितम् ॥ ३६ ॥ अरण्यां व्यापितो वह्निरेकत्र ज्वलितो यथा । तथा ध्यानेन भक्तस्य हृदि विष्णुः प्रकाशते ॥ ३७ ॥ 3मन्त्रैरावाहितो बेरे स्थले कूर्चे जलेऽथवा । भक्तानुकम्पया स्थित्वा पूजां गृह्णाति पूजितः ॥ ३८ ॥ वदन्त्यावाहनं केचिद्धरेरादित्यमण्डलात् । देवेन सह तत्कुम्भे देव्यौ ध्यायेद्यथाविधि ॥ ३९ ॥ मूलालयप्रतिष्ठा चेन्नीत्वा बालालयाद्धरिम् । देवं विशेषतोऽभ्यर्च्च हविस्सम्यङ् निवेदयेत् ॥ ४० ॥ 1. इत आरभ्य श्लोकद्वयमन्यत्र न दृश्यते. 2. क. हरिम् 3. ख. मन्त्रेण. ९३ तद्बिम्बसंस्थितां शक्तिं कुम्भे कूर्चेन विन्यसेत् । ध्रुवानुरूपं तद्बिम्बं यदि दोषविवर्जितम् ॥ ४१ ॥ तदेव कौतुकं कुर्यान्नानुरूपं तु 1लौकिकम् । संस्थाप्य 2लौकिकादीनां स्थानादन्यत्र पूजयेत् ॥ ४२ ॥ सदोषं बिम्बमम्भोधौ नद्यां वा विधिना त्यजेत् । भूपरीक्षादिकर्मार्थमन्यस्थानस्थलौकिकम् ॥ ४३ ॥ याचितं चेत्प्रदातव्यं कर्मान्ते तद्यथा पुरा । स्थापयेद्धाम्नि पूर्वस्मिन् उत्सवार्थमथापि वा ॥ ४४ ॥ बालालयप्रतिष्ठार्थं याचयेदिति केचन । अन्यालयध्रुवस्यैतदनुरूपं भवेद्यपि ॥ ४५ ॥ कौतुकं चौत्सवं वापि स्थापयेदिति केचन । स्नपनोद्योगः वदन् शकुनसूक्तं तु कुम्भं बिम्बं समानयेत् ॥ ४६ ॥ कौतुकं पूर्वतो देव्यावौत्सवं स्नापनं क्रमात् । आचार्यश्शिरसा कुम्भं धारयन्नग्रतो व्रजेत् ॥ ४७ ॥ स्थापका बिम्बमादाय गच्छेयुरनु तं गुरुम् । विष्णुसूक्तेन देवेशं श्वभ्रमध्ये निवेश्य च ॥ ४८ ॥ श्वभ्रस्य दक्षिणे धान्यपीठे हस्ततलायते । षडङ्गुलसमुत्सेधे न्यसेच्छ्वभ्रसमीपतः ॥ ४९ ॥ 1. कौतुकम्. ई. 2. कौतुकादीनां संस्नाप्य. ई. सप्तमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ९४ धान्यपङ्क्तिः देव्यावप्यौत्सवं बिम्बं स्नापनं च तथा न्यसेत् । पङ्क्तिं तदग्रतो धान्यै1र्दक्षिणाद्युत्तरान्तकम् ॥ ५० ॥ 2कुर्याद्धस्तत्रयायामां हस्तविस्तारसंयुताम् । कलशन्यासः स्नपनद्रव्याणि उत्तरादि न्यसेत्तत्र कलशान् तन्तुवेष्टितान् ॥ ५१ ॥ 3क्षीराज्यमधुसिद्धार्थाक्षतोदकुशचन्दनैः । पूरितांश्च सकूर्चांश्च सोपस्नानान्यथाक्रमम् ॥ ५२ ॥ 4तदर्धपादहीनानि सिद्धार्थादीनि निक्षिपेत् । दध्याज्यमधुदुग्धानामाढके सति दुर्लभे ॥ ५३ ॥ त्रिपादमर्धहीनं वा पादार्धं वा यथोदयम् । सन्न्यसेदुत्तराद्येव देवेशाभिमुखांस्तथा ॥ ५४ ॥ उपस्नानकलशन्यासः, कलशाधिदेवार्चनम् तदुपस्नानकलशांस्तत्तत्पृष्टे च सन्न्यसेत् । अथर्वसामॠग्वेदाः आदित्यः काश्यपस्तथा ॥ ५५ ॥ ॠतवो मुनयश्चैव सप्त द्रव्याधिदेवताः । 5अश्विनौ वत्सरा वायुः अप्सरा मरुतस्तथा ॥ ५६ ॥ 1. दक्षिणाद्युत्तरादिकम् ख.2. कुयाद्बेरायतायामा. ख. 3. क्षीराज्यमधुसिद्धार्थकुशगन्धाक्षतोदकैः4. दशाष्टांशादहीनानि ई । 5. उपस्नानाधिदेवञ्च अश्विनौ वत्सरानसून् । पवित्रं वाक्पतिञ्चैव तक्षकं मरुतस्तथा। समभ्यर्च्य च देवेशं संस्नाप्यैव च मन्त्रवित् । शन्नो देवीरित्यादि ख पाठः ॥ ९५ तक्षको वायवश्चैव सप्तोपस्नानदेवताः । त्रयोदशोपचारैस्तांस्तत्तन्नामभिरर्चयेत् ॥ ५७ ॥ स्नपनप्रकारः ‘शन्नो देवी’ ‘रग्न आया - ह्यग्निमील’ इति क्रमात् । ‘पूतस्त - स्येमा ओषधयः ‘अभित्वा शूर’ इत्यपि ॥ ५८ ॥ ‘चत्वारि वा’ गिति जपन् स्नापयेत्सप्तभिश्चतैः । ‘वारीश्चतस्र’ इत्युक्त्वा सर्वोपस्नानमाचरेत्1 ॥ ५९ ॥ द्रव्याणि प्रोक्ष्य चादाय गायत्र्या प्रणवेन वा । स्वललाटान्तमुद्धृत्य त्रिस्सकृद्वा प्रदक्षिणम् ॥ ६० ॥ तत्तन्मन्त्रावसाने तु स्नापयेत्पञ्चमूर्तिभिः । पूर्व कुम्भञ्च सम्प्रोक्ष्य तत्तद्द्रव्यैः पृथक्पृथक् ॥ ६१ ॥ सर्वेषामवताराणां दव्योः परिषदामपि । तत्तत्प्रधानमन्त्रान्ते तत्तन्मूर्तिभिराचरेत् ॥ ६२ ॥ ‘इषे त्वोर्जे त्वेति जपन् ‘आप उन्द’ न्त्विति क्रमात् । शोधयेद्गन्धतोयेन स्नापयेच्च यथाविधि ॥ ६३ ॥ श्वभ्रादादाय देवेशं पीठे संस्थाप्य र्नैॠते । 2‘मित्रस्सुपर्ण’ इत्युक्त्वा प्लोतेन विमृजेत्पुनः ॥ ६४ ॥ 1. द्रव्यं प्रति समभ्यर्च्य कुम्भं प्रोक्ष्यैव मन्त्रवित् ‘इषे त्वो र्जेत्वा’ दि जपन् ‘आप उन्दन्तु’ वै पुनः । उष्णोदकेन संस्नाप्य द्रव्येणाम्लादिना क्रमात् शोधयित्वा सुगन्धेन तोयेन स्नापयेत्तथा’ इति - आ पाठः ॥ 2. प्लोतवस्त्रेण संमृज्य नवेनोत्तमवाससा । नवेनेवोत्तरीयेण भूषणैरपि शक्तितः । माल्यैर्गन्धश्च देवेशमलङ्कुर्यात्प्रयत्नतः’ इति आ पाठः । सप्तमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ९६ नवाम्बरोत्तरीयस्रग्भूषणैरपि भूषयेत् । देव्योश्चैवौत्सवादीनां तत्तद्देव्योरपि क्रमात् ॥ ६५ ॥ सर्वेषां परिवाराणां स्नापनं पृथगेव वा । मध्ये चोष्णोदकस्नानं प्रवदन्ति महर्षयः ॥ ६६ ॥ क्षीराज्यादीनि संशोध्य स्नाप्यालङ्कारमर्पयेत् । शयनाधिवासारम्भः शय्यावेद्यास्तु मध्ये च ‘वेदाह’ मिति मन्त्रतः ॥ ६७ ॥ तिलतण्डुलशालीनां राशिं कृत्वा विपर्ययात् । (शय्या वितर्दिकान्तस्था तद्बिम्बार्धाधिकायता । अधः खट्वाङ्गसंयुक्ता चोर्ध्वे पट्टी समायुता ॥ शाण्यादिरज्जुसंयुक्ता खट्वा शय्या प्रकीर्तिता । एतल्लक्षणसंयुक्ता बिल्वादिफलका यदि ॥ शय्याख्यफलका प्रोक्ता यथालाभं समाहरेत्) तदूर्ध्व चर्मजादीनि ‘वेदाह’ मिति मन्त्रतः ॥ ६८ ॥ व्रीहीणां तण्डुलानाञ्च राशिमास्तीर्य चोर्ध्वतः । शयनानि समास्तीर्य क्रमेणैवं पृयक्पृथक् ॥ ६९ ॥ पञ्चशयनानि चर्मजै रोमजैश्चैव मुण्डजैरण्डजैस्तथा । वामजैश्च सुसम्पन्नं शयनं तत्प्रचक्षते ॥ ७० ॥ व्याघ्रादिचर्मणाक्लुप्तं चर्मजं 1शयनं स्मृतम् । रोमभिश्चाविकादीनां कृतं तद्रोमजं स्मृतम् ॥ ७१ ॥ 1. समुदाहृतं आ. ९७ कार्पासेन कृतं यत्तन्मुण्डजं त्वभिधीयते । पक्षिपिच्छैः कृतं यत्तदण्डजं परिकीर्तितम् ॥ ७२ ॥ कौशेयं क्षौमसङ्कलृप्तं वामजं त्वभिधीयते । अलाभे चर्मजादीनां पञ्चवस्त्राणि वा तथा ॥ ७३ ॥ शयनं कल्पयेदेवं धान्यराश्युपरि क्रमात् । शिरः पादोपधाने द्वे देव्योश्चापि पृथक्पृथक् ॥ ७४ ॥ पूर्णकुम्भाङ्कुरान्दीपान्मङ्गलान्परितो न्यसेत्1 । शयने पूजयेच्छेषं फणामण्डलमण्डितम् ॥ ७५ ॥ मित्रादींश्च जयादींश्च प्रागाद्यभ्यर्च्य वै बहिः । शयनाधिवासः देवं शकुनसूक्तेन स्थापयेच्छयनोपरि ॥ ७६ ॥ दक्षिणे च श्रियं देवीं स्थापयेद्वामतो महीम् । स्नापनं चौत्सवं चापि न्यसेद्दक्षिणवामयोः ॥ ७७ ॥ शयनन्त्वेकवेद्यान्तु पृथगास्तृणुयात्तयोः । देववच्च स्मरन् कुम्भं भक्त्या देवाग्रतो न्यसेत् ॥ ७८ ॥ अष्टोपचारैरभ्यर्च्य देवं कुम्भञ्च वै पृथक् । आचार्यः स्थापकैर्युक्तः पुण्याहमपि वाचयेत् ॥ ७९ ॥ पूरितञ्च न्यसेत्पात्रमाढकाहीनतण्डुलैः । 1. पश्चाद्देवं समादाय कुम्भेन सहितं क्रमात् । शय्यावेदिं सुसम्प्राप्य देवेशमुपवेशयेत्। देव्यौ तन्न भवेतां चेत्क्रमाद्दक्षिणवामयोः । स्नापनं चौत्सवञ्चापि न्यसेद्दक्षिणवामयोः। देवं कुम्भं समभ्यर्च्य देवं कुम्भमपि पृथक् । आचार्यः स्थापकैरिति आ पाठः । सप्तमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ९८ प्रतिसरबन्धः सौवर्णं तान्तवं वाऽथ तत्र प्रतिसरं न्यसेत्1 ॥ ८० ॥ ‘कृणुष्व पाज’ इत्युक्त्वाऽभिमृश्य ‘स्वस्ति’ देति च2 । बध्नीयात् कौतुकं हस्ते देवदेवस्य दक्षिणे ॥ ८१ ॥ वामहस्ते च बध्नीयाद्देव्योः प्रतिसरं क्रमात् । स्नापने चौत्सवे बिम्बे बलिबेरे तथैव च ॥ ८२ ॥ ध्रुवे च बन्धयेत्पूर्वं क्रमेणैव समाचरेत् । ‘स्वस्तिदा’ इति मन्त्रेण ‘विष्णुस्त्वा’ मिति मन्त्रतः ॥ ८३ ॥ एताभ्यां देवदेवस्याप्याचार्यस्यर्त्विजामपि । तत्तन्मन्त्रेण देव्योश्च बन्धयेद्वामहस्तके ॥ ८४ ॥ आचार्यस्यर्त्विजाञ्चैव बन्धयेद्दक्षिणे करे । प्रतिष्ठायामुत्सवे वा कुर्यात्कौतुकबन्धनम् ॥ ८५ ॥ रक्षाबन्धनहीने च सर्वं कार्यं विनश्यति । ‘यद्वैष्णवं’ समुच्चार्य शयने शाययेद्विभुम् ॥ ८६ ॥ तत्तन्मन्त्रेण देव्यौ च शाययेत्पार्श्वयोः क्रमात् । स्नापनं चौत्सवं चैव शाययेत्पार्श्वयोस्तथा ॥ ८७ ॥ प्राग्द्वारे देवतागारे देवोऽपि प्राक्च्छिरा भवेत् । दक्षिणादिषु दिक्ष्वेवं यतो द्वारं ततश्शिरः ॥ ८८ ॥ उत्तराच्छादनं कुर्यादहतेनैव वाससा । ध्रुवबेरे तु बध्नीयात् कौतुकं तद्वदेव हि ॥ ८९ ॥ 1. सौवर्णमुत्तमं कुर्यान्मध्यमं राजितं तथा । अधमं क्षौमकार्पासमेवं प्रतिसरं न्यसेत् । इत्यधिकं आ.2. स्वस्तिसूक्तं समुच्चरन् आ. ९९ कौतुकार्चौत्सवाख्यानां तत्तद्देव्योस्तथैव च । (एककुम्भे सह ध्यानं न स्नानं पृथगेव हि । शायनं चैकवेद्यान्तु स्नापनौत्सवयोः पृथक् ॥ गर्भालयस्य भेदे च तलभेदे तथैव च) निमित्तभेदेनाग्निभेदः पृथक्सर्वञ्च कर्तव्यं पौण्डरीकं विनाऽनलम् ॥ ९० ॥ अथवा पुरुषादीनां तत्प्रधानाग्निरेव वा । स्थापिते कौतुके पश्चात्स्नापनस्यौत्सवस्य च ॥ ९१ ॥ तयोस्सह प्रतिष्ठायां पञ्चाग्नींश्च सहैव हि । सभ्यञ्च पौण्डरीकञ्च द्वावग्नी इति केचन ॥ ९२ ॥ तयोर्नित्याग्निमाधाय हुत्वा होमावसानके । 1सभ्यकुण्डे तु सभ्याग्निमादधीत यथा पुरा ॥ ९३ ॥ नित्यहोमविहीने तु कृत्वा कुण्डानि पञ्च च । प्रणीय गार्हपत्याग्निं सर्वाग्निषु जुहेति च ॥ ९४ ॥ तयोरपि पृथक्त्वेतु पृथगग्निं प्रकल्पयेत् । यथोक्तहोमं जुहुयुः कुम्भं सम्पूज्य पूर्ववत् ॥ ९५ ॥ देवस्याभिमुखे न्यस्य तत्रैवावाहयेद्ध्रुवात् । स्नपनं शयनं हौत्रं होमं पूर्ववदाचरेत् ॥ ९६ ॥ नाचरेद्देवताह्वानं सर्वदेवार्चनं तथा । ध्रुवबेरे समावाह्य तस्मादावाहयेत्तयोः ॥ ९७ ॥ 1. ख. नित्यकुण्डे सप्तमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १०० बालालये तयोः पश्चात्प्रतिष्ठा यदि कौतुकात् । आवाहनं तथा प्रोक्तं सर्वमन्यत्समं भवेत् ॥ ९८ ॥ (अवतारप्रतिष्ठा चेन्नित्याग्निं नैव कारयेत् । आचार्यस्य गृहादग्निं गृहीत्वा विधिनाऽचरेत् ॥) चतुर्वेदाध्ययनम् हौत्रप्रशंसनम् प्रागादि चतुरो वेदान् अध्यापयति वै क्रमात् होतारं समलङ्कुर्यात् वस्त्रपुष्पाङ्गुलीयकैः ॥ ९९ ॥ सोत्तरीयैर्यथाशक्ति सोऽपि होता सुपूजितः । सभ्यात्प्रत्यङ्मुखः प्राच्यां हौत्रमेवं प्रशंसति ॥ १०० ॥ अध्वर्युः ‘होतरे’ हीति होतारमभिसंवदेत् । ‘अध्वर्वो देवता’ श्चेति सोऽध्वर्युं प्रतिभाषते ॥ १०१ ॥ पश्चादायम्य कूर्चञ्च गृहीत्वा पश्चिमामुखः । ‘नमः प्रवक्त्रा’ इत्यादि तिष्ठन्नुच्चैस्समुच्चरेत् ॥ १०२ ॥ एव ‘मो’ मिति मन्त्रान्ते होता शर्मान्तमेव च । स्वकं नाम द्वितीयान्त ‘ममु’ मित्येव योजयेत् ॥ १०३ ॥ ‘भूते भविष्यति’ च ‘हिं र्भुवस्सुवरो’मिति । वदन् स प्राङ्मुखे भूत्वा ‘प्रवो वा’ जेत्यृचं वदेत् ॥ १०४ ॥ ‘प्रवो वाजे’ त्यृचं चादा ‘वाजुहोते’ ति चान्ततः । त्रिधा वाच्ये ततोऽन्यास्तु प्रणवेन समं ततः ॥ १०५ ॥ होत्रा तेनोक्तमोङ्कारं श्रुत्वाऽध्वर्युर्विशेषतः । ‘ओं स्वा’ हेति वदन् इध्ममाज्याक्तं जुहुयाब्दुधः ॥ १०६ ॥ १०१ सामिधेनीस्तथा शंसेद्धोता सप्तदश क्रमात् । ‘ब्राह्मण भार’ तेत्यन्तमुक्त्वैवाग्निं च बोधयन् ॥ १०७ ॥ यजमानस्य गोत्रं च प्रवदेत्प्रवरं क्रमात् । ‘देवेद्धो मन्विद्ध’ इति पुनराह तथैव च ॥ १०८ ॥ ग्रामस्तु यजमानश्चेत्काश्यपप्रवरं वदेत् । पुरोहितस्य प्रवरं ब्रूयात्कर्ता नृपो यदि ॥ १०९ ॥ (आचार्यप्रवरं ब्रूयाद्वैश्यशूद्रादिकर्तृके । तमेव प्रवरं ब्रूयादस्ति चेत्क्षत्रवैश्ययोः ।) आचार्यप्रवरं वाऽथ काश्यपप्रवरं तु वा । ब्राह्मणव्यतिरिक्तानां सर्वेषामिति केचन ॥ ११० ॥ होता हौत्रक्रमेणैव हौत्रमेवं प्रशंस्य च । ‘आया’त्विति समुच्चार्य मूर्तिमन्त्रैरनुक्रमात् तं देव ‘माव’ हेत्युक्त्वा अध्वर्युञ्च प्रयोजयेत् । अध्वर्युरपि तत्काले दक्षिणप्रणिधौ जले ॥ १११ ॥ आदिमूर्त्यादिशर्वान्तं मूर्तिमन्त्रैः क्रमात्तदा । ‘आवाहया’मीत्यावह्य चोत्तरप्रणिधौ ततः ॥ ११२ ॥ धात्रादिविष्णुभूतान्तं देवानावाहयेब्दुधः । आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेत् ॥ ११३ ॥ होमद्रव्यभेदेन हस्तभेदः साङ्गुष्ठयानामिकया स्रुवमालम्ब्य यत्नतः । प्रदेशिनीं मध्यमां च स्रुवस्याधः प्रसार्य च ॥ ११४ ॥ सप्तमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १०२ कनिष्ठिकां विसृज्यैव समालम्ब्य स्रुवादिकम् । वेदाङ्गुलप्रमाणाञ्च यजेदाज्याहुतिं बुधः ॥ ११५ ॥ अङ्गुष्ठानामिकामध्यैस्समिधं जुहुयाच्चरूम् । अपूपतिललाजाश्च सक्तवो घृतमिश्रिताः ॥ ११६ ॥ सर्वेष्वग्निषु होतव्या महाशान्तिरिहोदिता । महाशान्तिहोमः वैष्णवं विष्णुसूक्तञ्च सूक्तं पौरुषमेव च ॥ ११७ ॥ प्रत्येकं विशंतीर्हुत्वा व्याहृत्यन्तं प्रति प्रति । शर्कराज्यदधिक्षीरं समभागं प्रगृह्य च ॥ ११८ ॥ जुहुयात्पौण्डरीकाग्नावुपजुह्वा स्मरन् हरिम् । कुण्डेषु लोकपालानां तत्तन्मन्त्रं यथाक्रमम् ॥ ११९ ॥ प्रत्येकं विंशतीर्हुत्वा स्वनामपदपूर्वकम् । सभ्याग्निं परिषिच्यैव जुहुयात्पञ्चवारुणम् ॥ १२० ॥ जयादी‘न्यद्देवादीं’श्च व्याहृत्यन्तं प्रति प्रति । सर्वदेवार्चनम् पश्चात्समर्चयेद्देवान्परितः स्व स्व नामभिः ॥ १२१ ॥ विष्णुं पूर्ववदभ्यर्च्य श्रीभूमिसहितं क्रमात् । मार्कण्डेयं विधिं सव्ये भृगुं वामेऽर्चयेद्भवम् ॥ १२२ ॥ शालाद्वारेषु धात्रादीन् मणिकं सन्ध्यया सह । तापसं सिद्धिदं वाऽथं शङ्खं चक्रमथापि वा ॥ १२३ ॥ १०३ श्रीभूतमर्चयेदग्रे बहिर्मुखमनुस्मरन् । इन्द्रार्कश्रीहविः पालानग्निं वै पश्चिमामुखान् ॥ १२४ ॥ चैत्रादिषट्सु मासेषु क्रमादुत्तरतो रविम् । प्राच्यामभ्यर्च्य भौमञ्च गुहं दुर्गां यमं शनिम् ॥ १२५ ॥ रोहिणीं सप्तमातॄश्च दक्षिणे चोत्तरामुखाः । नीलं 1बृहस्पतिं धात्रीं विष्णुं च वरुणं बुधम् ॥ १२६ ॥ ज्येष्ठां 2फुल्लञ्च वायुञ्च पश्चिमे प्राङ्मुखानिमान् । शुक्रं सप्तॠषीन् गङ्गां धन्यं चन्द्रं तथैव च ॥ १२७ ॥ पञ्च भूतामितेशानानुदीच्यां दक्षिणामुखान् । अष्टमूर्तिं शिवं चैव बलिरक्षं सरस्वतीम् ॥ १२८ ॥ इन्द्रद्वारस्य वामे तु पश्चिमाभिमुखान्क्रमात् । न्यक्षञ्च भरतं मित्रं क्षत्तारं प्रागुपक्रमात् ॥ १२९ ॥ बहिर्मुखान् समभ्यर्च्य न्यक्षं देवाग्र एव वै । 3पीठगोपुरयोर्मध्ये गरुडं सम्यगर्चयेत् ॥ १३० ॥ बहिर्विघ्नेशनागेशौ4 द्वारदक्षिणवामयोः । चक्रं ध्वजञ्च शङ्खञ्च यूथनाथाक्षहावपि ॥ १३१ ॥ द्वाराग्रे पूजयेदेतान्प्रागन्तान्बहिराननान् । त्रयोदशोपचारैस्तान्पूजयेच्च पृथक् पृथक् ॥ १३२ ॥ शयानं देवमासाद्य प्रणम्यैवानुमान्य च । 5सुवर्भुवर्भूरित्युक्त्वा मूर्धनाभिपदान् स्पृशन् ॥ १३३ ॥ 1. चैव महाकालीं आ 2. मूलं आ. 3. गोपुरागारयोर्मध्ये आ. 4. नागेन्द्रौ आ. 5. भूर्भुवस्सुवरित्युक्त्वा आ. सप्तमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १०४ सभ्याग्निं परिषिच्याथ तां सहस्राहुतिं यजेत् । स्वस्ति चैवेह स्वा’ हेति ‘प्रजापतय’ इत्यपि ॥ १३४ ॥ ‘अग्निर्धीमतये’ चैव‘मादित्येभ्य’ इति ब्रुवन् । ‘विश्वेभ्यो देवेभ्य’ इति ‘गणेभ्यो मरुता’मिति ॥ १३५ ॥ मन्त्रैरेतैर्यजेदाज्यं महाव्याहृतिभिस्सह । शतकृत्वो यजेदेतैर्यजेद्व्याहृतिभिः पुनः ॥ १३६ ॥ वैष्णवं विष्णुसूक्तञ्च सूक्तं पौरुषमेव च । श्रीसूक्तञ्च ‘श्रिये जातो’ भूसूक्तं भूमिदैवतम् ॥ १३७ ॥ यजेच्च सर्वदैवत्यं व्याहृत्यन्तं पृथक्पृथक् । अथवा नवधा मार्गे यन्मार्गमवलम्बते ॥ १३८ ॥ तन्मार्गे परिषद्देवानावाह्य परितोऽर्चयेत् । विनैव सर्वदैवत्यं तत्तन्मन्त्रैस्तथा यजेत् ॥ १३९ ॥ प्रधानहोमः जुहुयात्पैरुषं सूक्तं विष्णुसूक्तमतः परम् । यद्देवाद्यैस्ततो हुत्वा वैष्णवञ्च सुहूयताम् ॥ १४० ॥ जुहुयात्पौरुषं सूक्तं प्राच्यामाहवनीयके । अन्वाहार्ये सुहोतव्यं विष्णुसूक्तं यथाविधि ॥ १४१ ॥ गार्हपत्ये सुहोतव्यं ब्राह्ममेकाक्षरादिकम् । आवसथ्ये सुहोतव्यं ‘त्वमग्ने रुद्र’ इत्यपि ॥ १४२ ॥ पारमात्मिकमब्जाग्नौ वैष्णवं विष्णुसूक्तकम् । व्याहृत्यन्तं च जुहुयादथवा मुनिसत्तमाः ॥ १४३ ॥ १०५ पञ्चाग्निषूक्तहोमः देवतावाहनान्ते तु सर्वदेवार्चनं चरेत् । सभ्यमग्निं परिस्तीर्य पालाशेध्मान् घृताप्लुतान् ॥ १४४ ॥ जुहुयाद्विष्णुगायत्र्या (अष्टोत्तरसहस्त्रकम् । पालाशेध्मैश्च होतव्यं) पुनष्षङ्भिश्च वैष्णवैः ॥ १४५ ॥ सूक्तेन वैष्णवेनाज्यं यजेदुपभृता बुधः । वैष्णवं जुहुयाज्जुह्वा चरुमाज्यमतः परम् ॥ १४६ ॥ विष्णोर्नुकाद्यैस्सूक्तेन पौरुषेण च वैष्णवैः । ‘हिरण्यवर्णा’ मित्युक्त्वा ‘भूमिर्भूम्ने’ ति च क्रमात् ॥ १४७ ॥ 1ॠत्विक्कृत्वोऽर्ककृत्वो वा दशकृत्वोऽथवा यजेत् । ता सहस्राहुतिं हुत्वा धाताद्यैः पञ्च वारुणैः ॥ १४८ ॥ जयादिभिश्च कूष्माण्डैर्जुहुयात्तदनु क्रमात् । तथैव सर्वदैवत्यं तत्तन्मार्गानुसारतः ॥ १४९ ॥ वैष्णवैर्विष्णुसूक्तेन मिन्दाहुत्या तथैव च । विच्छिन्नाहुतिभिश्चापि महाव्याहृतिभिस्तथा ॥ १५० ॥ ‘नारायणाय वि’द्मेति हुत्वा2 षङ् वैष्णवी ॠचः । यजेदाहवनीयाग्नौ नरसूक्तं स्मरन् हरिम् ॥ १५१ ॥ अन्वाहार्ये विष्णुसूक्तं ब्राह्ममन्त्रद्वयं तथा । वैष्णवञ्च ‘श्रिये जातो-मेदिनी’ति समुच्चरन् ॥ १५२ ॥ गार्हपत्ये सुहोतव्यमावसथ्ये ततः परम् । एकाक्षरादिसूक्तेन रुद्रमन्त्रद्वयेन च । चतुरग्निषु चैतेषु मन्त्रैरेतैर्यथोदितम् ॥ 1. ॠत्विग्भिरथवाऽऽचार्यः ? आ 2. षड्वैष्णवैस्सह आ. सप्तमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १०६ आज्यं षोडशकृत्वश्च यजेद्द्वादश वा दश । पयोदधिघृतैरुक्तैरुपजुह्वा यथाक्रमम् ॥ १५३ ॥ जुहुयाद्विष्णुसूक्तेन पञ्चाग्निषु सलाजकम् । 1आज्यं स्रुचा गृहीत्वैव जुहुयात् वैष्णवैरणि ॥ १५४ ॥ जुहुयात्पौण्डरीकाग्रौ ‘अतो देवा’ दि वैष्णवम् । श्वेतमब्ज ततः पश्चाद्घृताक्तो जुहुयाद्बुधः ॥ १५५ ॥ जपन्वै विष्णुगायत्रीं रक्ताब्जं बिल्वमेव वा । आज्येन जुहुयात्सम्यक्सूक्तैः पौरुषवैष्णवैः ॥ १५६ ॥ पारमात्मिकमन्त्रैश्च देवं ध्यायन् जुहोति च । इन्द्रादीनाञ्च होमेषु तत्तन्मन्त्रं सवैष्णवम् ॥ १५७ ॥ आज्यं विंशतिकृत्वश्च स्रुवेण जुहुयादिति । ॠषिरत्रिरुवाचैवं जुहुयादेवमेव वा ॥ १५८ ॥ अथवा हौत्रशंसान्ते वैष्णवैः पञ्चवारुणैः । जयादिभिश्च कूष्माण्डैर्हुत्वा तत्परिषद्गणान् ॥ १५९ ॥ समभ्यर्च्य यथामार्गं सप्तविंशतिविग्रहैः । त्रयोदशोपचारैर्वा पश्चाद्धोमं समाचरेत् ॥ १६० ॥ सभ्यमग्निं परिस्तीर्य तां सहस्राहुतिं यजेत् । अब्जाग्नौ विष्णुगायत्र्या घृताक्तं श्वेतपङ्कजम् ॥ १६१ ॥ शतकृत्वो यजेदाज्यं जुहुयात्पारमात्मिकम् । यजेदाहवनीयग्नौ पौरुषं सूक्तमेव च ॥ १६२ ॥ अन्वाहार्ये विष्णुसूक्तं ब्राह्मं व्याहृतिसंयुतम् । वैष्णवं गार्हपत्याग्नौ चाऽवसथ्ये तु वैष्णवम् ॥ १६३ ॥ 1. स्रुवेणाज्यं गृहीत्वाऽथ आ १०७ जुहुया 1द्रुद्रसूक्तञ्च देवदेवमनुस्मरन् । यजेत्षोडशकृत्वस्तु तेनैव चतुरग्निषु ॥ १६४ ॥ जयादींश्च सकृद्धुत्वा एन्द्रादीनामथाग्निषु । एकविंशतिकृत्वस्तु तत्तन्मन्त्रैर्जुहोति च ॥ १६५ ॥ वीशशैषिकयोर्मन्त्रैश्शतमष्टोत्तरं यजेत् । एतेषां मूर्तिमन्त्रैश्च जुहुयात्सकृदग्निषु ॥ १६६ ॥ सभ्ये तु सर्वदैवत्यं हुत्वा वै वैष्णवं यजेत् । विष्णुसूक्तञ्च जुहुयान्मिन्दाहुतिसमन्वितम् ॥ १६७ ॥ ‘आश्राविता’ दिमन्त्रैश्च जुहुयादिति काश्यपः । सभ्याग्निहोममाचार्यस्स्वयमेव समाचरेत् ॥ १६८ ॥ (अन्यथा जुहुयाच्चेत्तु सर्वमाशु विनश्यति)2 नृतैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेद्बुधः ॥ १६९ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे महाप्रतिष्ठातन्त्र शयनास्तरण प्रतिसर हौत्रप्रशंसाहवनीयादि- होमविधानं नाम सप्तमोऽध्यायः