७ अध्यायः ६९ षष्ठोऽध्यायः ध्रुवबेरलक्षणम् अतः परं प्रवक्ष्यामि ध्रुवबेरस्य लक्षणम् । 1तद्धामगर्भाधिष्ठानद्वारकर्तृवशात्तथा ॥ १ ॥ लब्धाख्यमानमात्रैश्च बुद्धिमान् भाजयेत्समम् । परिहृत्याङ्गुलिच्छेदं वृद्ध्या हान्याऽथवा पुनः ॥ २ ॥ योज्यं त्याज्यं क्रमादेव युग्मायुग्माङ्गुलैः परम् । (योज्यं युग्माङ्गुलादूर्ध्वं त्याज्यमेकाङ्गुलात् परम् । आयव्ययर्क्षवाराष्टयोन्यंशमशुभं त्यजेत् ॥ ३ ॥ बेरोदयेऽष्टनन्दाग्निहृते चाष्टार्कभाजिते । धनर्णयोनयः प्रोक्ताः आयाधिक्यं शुभं भवेत् ॥ ४ ॥ उत्सेधेऽष्टगुणे चैव सप्तविंशतिभाजिते । शिष्टमश्वयुगाद्यन्तु नक्षत्रञ्च चतुर्गुणे ॥ ५ ॥ हृते नन्दैस्तदुद्दिष्टमंशकं तस्करादिकम् । भुक्तिशक्तिधनोर्वीशक्लीबाभीत्यधनाऽऽह्वयाः ॥ ६ ॥ प्रेष्यश्चैव क्रमात्तेषां स्वनामसदृशं फलम् । वारं नवगुणे तुङ्गे सूर्याद्यं सप्तभिर्हृते ॥ ७ ॥ शुभं च शुभवाराश्च सिद्धामृतवराह्वयाः । ग्रामकर्तृनृपर्क्षाणां नामर्क्षानुगुणं 2शुभम् ॥ ८ ॥ 1. ई. धामगर्भस्वधिष्ठान2. आ. फलम्. श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ७० तस्य त्रैविध्यम् त्रिचतुष्पञ्चभागे तु हर्म्यतारे कृते तथा । तदंशेनोत्तमं मध्यमधमं प्रतिमोदयम् ॥ ९ ॥ गर्भार्धं पञ्चभागेऽग्निभागं त्र्यंशे तु व्द्यंशकम् । अधमं मध्यमं श्रेष्ठं त्रिविधं प्रतिमोदयम् ॥ १० ॥ तदेव नवधा प्रोक्तं 1त्र्यंशके तत्तदन्तरे । 2स्तम्भोत्सेधं सपादञ्च सार्धं चैवाधमं क्रमात् ॥ ११ ॥ तथा द्वारवशाच्चैव अधिष्ठानवशादपि । 3यजमानसमं चापि ध्रुवबेरमुदाहृतम् ॥ १२ ॥ हस्तेनाङ्गुलिभिश्चैव केचिदाहुर्ध्रुवोदयम् । (तिथिपङ्क्तीषु हस्तैश्च श्रेष्ठमध्यकनिष्ठकाः एकत्रिंशाङ्गुलादूर्ध्वं षट्षङङ्गुलवर्धनात् सप्ताधिकाङ्गुलाशीतिशतान्तं प्रतिमोदयम् ॥ १३ ॥ 4अन्यांशेषु युगाग्न्यार्क्षभागेषु स्थावरोदयम् । जङ्गमबेरलक्षणम् जङ्गमानां तदेकांश5मुत्सेधं परिकीर्तितम् ॥ १४ ॥ ध्रुवबेराग्निभागे तु द्विभागं परिगृह्य च । तद्विभागं त्रिधा कृत्वा समस्तञ्चोत्तमं भवेत् ॥ १५ ॥ द्विभागं मध्यमं प्रोक्तमेकभागं तथाऽधमम् । 6कर्मार्चार्चोत्सवानाञ्च मानं वै रामकृष्णयोः ॥ १६ ॥ 1. ख. त्र्यंशके न तदन्तरे2. ख. ततोत्सेधं3. ई. यजमानवशात्. 4. ख. मुन्यंशेषु च गण्यैकवेदांशं5. ख. एकांशं6. ख. कर्मध्रुवार्चौत्सवानां. ७१ एकबेरं ध्रुवं चेत्स्यात्तत्समं चौत्सवं मतम् । ध्रुवबेरमुखोत्सेधं बलिबेरं प्रकल्पयेत् ॥ १७ ॥ कौतुकार्धं त्रिभागैकभागं वा बलिबेरकम् । यदाकरं ध्रुवाकारं तदाकारञ्च कौतुकम् ॥ १८ ॥ आसने स्थानकं वाऽथ शयने स्थानकासने । एवं कौतुकमुद्दिष्टं स्नापनं स्थानकं भवेत् ॥ १९ ॥ कौतुकं विष्णुमूर्तिंस्स्याद् ध्रुवयोर्मत्स्यकूर्मयोः । अन्येषामवताराणां1 तद्वद्वा विष्णुमेव वा ॥ २० ॥ मत्स्यकूर्मवराहाणां नृसिंहस्य च कल्किनः । विष्णुमेवौत्सवं कुर्याज्जमदग्निसुतस्य च ॥ २१ ॥ ध्रुवे निरायुधे रामे कुर्यात्सायुधमौत्सवम् । ध्रुवबेरे तथा कृष्णे 2सायुधे च निरायुधे ॥ २२ ॥ कृष्णरुपेष्वसंख्येषु क्रीडायष्टिधरं परम् । पार्थसारथिरूपं वा कुर्यादौत्सवमत्र तु ॥ २३ ॥ स्नापनं सर्वमूर्तीनां स्थानकं स्याच्चतुर्भुजम् । देवे स्थिते स्थिते देव्यावासीने स्थानकासने ॥ २४ ॥ विपरीतं न कुर्वीत यदि कुर्याद्विनश्यति । सर्वत्र देवीसंयुक्तौ कारयेत्कौतुकौत्सवौ ॥ २५ ॥ सदार्चां बलिबेरञ्च देवीरहितमाचरेत् । 1. ख. परिवाराणां 2. विष्णौ ख. षष्ठोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ७२ पौरणिकस्थलबेरेषु विशेषः पौराणिकेषु स्थानेषु यथापूर्वं तथा चरेत् ॥ २६ ॥ अविधिकमलक्षण्यमप्रयुक्तं न दोषकृत् । आयादि षट्शुभापेक्षा 1नेष्यते कौतुकादिषु ॥ २७ ॥ परिवारबेरलक्षणम् बाह्वन्तं वा स्तनान्तं वा नाभ्यन्तं वा ध्रुवस्य च । भक्तानां परिवाराणां ध्रुवबेरोदयं मतम् ॥ २८ ॥ तत्तद्ध्रुवानुरूपाणि कौतुकानि च कारयेत् । देव्योर्मानलक्षणम् देवस्य कर्णसीमान्तं बाह्वन्तं वा यथाविधि ॥ २९ ॥ हिक्कान्तं वाऽथ नाभ्यन्तं देवीमानमुदाहृतम् । बलिबेरार्चयोर्देव्यौ नैव कुर्याद्विचक्षणः ॥ ३० ॥ एवं बेराणि कृत्वैव शिल्पशास्त्रोक्तमार्गतः । पीठसङ्घातः प्रभां पीठञ्च कृत्वैव तत्तदुक्तप्रकारतः ॥ ३१ ॥ नवरत्नानि सन्न्यस्य पीठे सङ्घातमाचरेत् । केचित्पद्मादधः पीठं पृथगिच्छन्ति सत्तमाः ॥ ३२ ॥ स्थापिते तु पृथक्कृत्वा 2न पुनर्योजयेत्सुधीः । 3अमन्त्रकाक्ष्युन्मेषान्ते प्रतिष्ठां पुनराचरेत्4 ॥ ३३ ॥ 1. अन्येषां आ.2. न पीठे योजपेद् ध्रुवं आ. 3. अत्राक्ष्युन्मेषणान्ते तु.आ.4. अत्र ८ अध्यायसमाप्तिः ख. ७३ प्रतिष्ठामुहूर्तविचारः मासेषु फाल्गुने चैत्रे ज्येष्ठे वैशाखतिष्ययोः । 1उत्तमं श्रावणे मध्यं कार्तिकाश्वयुजोरपि ॥ ३४ ॥ अधमं भाद्रपादेऽपि तथाऽऽषाढे तु मासि वै । मार्गशीर्षञ्च माघञ्च वर्जयित्वा विचक्षणः ॥ ३५ ॥ (शेषेष्वपि च कर्तव्यं त्वरितेनेति मे मतिः) शुक्लपक्षे तथा कृष्णे त्रिभागे त्य्रंशकं विना । रेवतीरोहिणीतिष्यस्वातीश्रवणवासवाः ॥ ३६ ॥ चित्राश्विनीशतभिषक्पुनर्वस्वैन्दवादिषु । कृत्तिका नवमी शस्ता दुर्गायाः कार्तिकेऽपि च ॥ ३७ ॥ प्रतिष्ठा भास्वतश्शस्ता खौ सिहंगते तथा । फाल्गुनोत्तरफल्गुन्योः श्रीप्रतिष्ठा प्रशस्यते ॥ ३८ ॥ (रौद्रं रुद्प्रतिष्ठायां माघमासं च कथ्यते । श्रवणं चाश्वयुङ्मासं मत्स्यादिस्थापनाविधौ ॥ ३९ ॥ अनन्धकाणनक्षत्रे करणे च शुभोदये । त्रिजन्मसु प्रतिष्ठा स्याद्यजमानस्य भूपतेः ॥ ४० ॥ काव्यजीवज्ञवारांशहोराद्रेक्काणराशिषु । बुधवारांशकादींस्तु प्रशंसन्ति मनीषिणः ॥ ४१ ॥ तिथ्यः षष्ट्यष्टमीपर्वरिक्तानन्दातिथिष्वपि । चरेषु करणेष्वेव शुभयोगेष्वविष्टिषु ॥ ४२ ॥ 1. उत्तरायणकाले तु उत्तमं समुदीरितम् । दक्षिणे श्रावणे चैव कार्तिकाश्वयुजोरपि । एवं मध्यममुद्दिष्टं प्रतिष्ठादिषु कर्मसु. ख. षष्ठोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ७४ तिथिवारर्क्षयोगादिदोषैरपि विवर्जिते1 । रव्यादयो ग्रहास्सर्वे चन्द्रे रिक्तेऽष्टमे ग्रहैः ॥ ४३ ॥ त्रिषडायगतैः पापैः शुभैः केन्द्रत्रिकोणगैः । शुभैर्युक्तेऽथवा दृष्टे कामशुक्रविवर्जिते ॥ ४४ ॥ प्रतिष्ठां देवदेवस्य कुर्यात्पूर्वाह्न एव वै । ॠत्विग्वरणम् तस्मात्तु दिवसात्पूर्वं वरयेद्गुरुमत्वरः ॥ ४५ ॥ पूर्वोक्तलक्षणोपेतानृत्विजः स्थापकानपि । श्वेतपुष्पानुलेपैश्च श्वेतवस्त्राङ्गुलीयकैः ॥ ४६ ॥ आचार्यादीन् समभ्यर्च्य नमस्कृत्य स्वदेववत् । ‘कर्मेदं मे कुरु’ ष्वेति याचेदाचार्यमादरात् ॥ ४७ ॥ ‘तथे’ति तेऽपि सङ्कल्प्य कृत्वा चैवाङ्कुरार्पणम् । ॠत्विजां नियमाः वापयित्वा ततस्सर्वे केशश्मश्रुनखानि च ॥ ४८ ॥ शुद्धास्त्रिषवणस्नाताः सूक्ते पौरुषवैष्णवे । जपन्तः पावमान्याख्यां यजुर्वेदस्य संहिताम् ॥ ४९ ॥ ब्रह्मयज्ञं च कुर्वन्तस्सूक्तैर्द्वादशभिस्तथा । 1. संसर्पाहस्पती मासौ समदृष्टिश्च मन्त्रिणोः । मौढ्येन वाधितत्वे वा तयोरपि विशेषतः । अर्काद्यधिष्ठितर्क्षेभ्यो ये दोषाः कण्टकादयः । व्यपोह्यैव च तत्सर्वं राशावूर्ध्वोदये तथा इति अधिकं आ. ७५ द्वादशसूक्तानि जपे ‘दृतं च सत्यं च’ तथा ‘देवकृतस्य’ च ॥ ५० ॥ ‘यन्मे गर्भा’ दि सूक्तं च ‘तरत्सम’ मतः परम् । ‘वसोः पवित्र’ मित्यादि ‘जातवेदस’ इत्यपि ॥ ५१ ॥ विष्णोर्नुकादिसूक्तं च पौरुषं सूक्तमेव च । एकाक्षरादिसूक्तं च ध्रुवसूक्तमतः परम् ॥ ५२ ॥ ‘त्वमग्ने रुद्र’ इत्यादि रुद्रसूक्तमतः परम् । ‘पवस्वा’ दि तथा सूक्तमेतद्द्वादशसूक्तकम् ॥ ५३ ॥ जपन्तः प्रत्यहं देवीं सावित्रीं तु सहस्त्रशः । त्रिरात्रमुपवासं वा पादकृच्छ्रमथापि वा ॥ ५४ ॥ एकाहमुपवासं वा चरेयुस्सर्व एव ते । आचार्यो नियतात्मा वै चरेत्कृच्छ्रं विशुद्धये ॥ ५५ ॥ अशक्तावुपवासादौ ब्राह्मणान्वाऽपि भोजयेत् । ‘यद्देवा’ दि चतुस्सूक्तैर्जुहुयादाज्यमन्वहम् ॥ ५६ ॥ ‘वैश्वानराये’ ति जपन्नुपतिष्ठेत पावकम् । तथैव यजमानोऽपि चरेत्कृच्छ्रं विशुद्धये ॥ ५७ ॥ अनन्यतत्परो भूयाद्धविष्याशी जितेन्द्रियः । आचार्येणोक्तसम्भारान्यजमानस्समाहरेत् ॥ ५८ ॥ यागशाला षोडश स्तम्भसंयुक्तां यागशालां प्रकल्प्य च । स्तम्भान्तरं चतुर्हस्तं त्रिहस्तं वा यथोचितम् ॥ ५९ ॥ षष्ठोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ७६ अग्निकुण्डानि वेदिं च कुर्यात्तत्र यथाविधि । उदीच्यां 1शयनाद्वापि सभ्यमत्रिरुवाच ह ॥ ६० ॥ (सभ्याद्दक्षिणपूर्वस्यां काश्यपोऽब्जाग्निमुक्तवान् । अग्निकुण्डानि सर्वाणि पङ्क्तिमङ्कुरकर्मणि ॥ ६१ ॥ स्त्रुवादिपात्राणीध्मादि चायुधान्यष्टमङ्गलान् । मुष्टिमध्यप्रमाणेन कल्पयेदिति शासनम् ॥ ६२ ॥ अक्षिमोचनम् प्रतिष्ठोक्तदिनात्पूर्वं पञ्चमेऽह्न्यक्षिमोचनम् । प्रपायां मण्डपे वाऽथ कूटे वाऽभिमुखे कृते ॥ ६३ ॥ औपासनाग्निमाधाय 2वास्तुहोमं यजेत्क्रमात् । पर्यग्निपञ्चगव्याभ्यां कृत्वा बिम्बस्य शोधनम् ॥ ६४ ॥ देवं द्विरत्निविस्तारे धान्यपीठे निवेश्य च । औपासनाग्निमाधाय कृत्वाऽऽघारं यथाविधि ॥ ६५ ॥ कुण्डे वा स्थण्डिले वाऽपि चाङ्गहोमस्सुहूयताम् । भूम्यादिपञ्चभूतानां मन्त्रैरपि च वैष्णवैः ॥ ६६ ॥ सूक्तेन पौरुषेणापि जयाद्यैश्च तथैव च । स्थूप्याद्युपानपर्यन्तमङ्गानां नामभिस्तथा ॥ ६७ ॥ वर्णं सुवर्णपात्रेण हेमतूलिकयाऽऽहरेत् । देवस्य दक्षिणे पार्श्वे स्थित्वाऽऽचार्य उदङ्मुखः ॥ ६८ ॥ 1. शयनं, आ. 2. ख. कृत्वाऽऽघारं यथाविधि । वास्तुहोमं यजित्वा तु बिम्बस्यातीव पार्श्वतः इति वर्तते, ७७ नवेनैवाम्बेरणैव प्रच्छाद्याभिमुखे हरेः । वर्णे महीं समभ्यर्च्य तत्पात्रे च दिवाकरम् ॥ ६९ ॥ तूलिकायां तथा चन्द्रमात्मसूक्तं जपेत्ततः । वर्णं तूलिकयाऽदाय सूक्तं पौरुषमुच्चरन् ॥ ७० ॥ दक्षिणे नयने वामे ‘त्वतो देवा’ दि वैष्णवम् । पक्ष्म वर्म च रक्तं च शुक्लं कृष्णं च तैजसम् ॥ ७१ ॥ मण्डलानि षडेतेषां महाभूतानि पञ्च च । दैवतं परमात्मानं क्रमात्स्मृत्वा समाचरेत् ॥ ७२ ॥ प्रच्छन्नपटमुद्धृत्य दर्शनीयानि दर्शयेत् । दर्शनद्रव्यदर्शनम् धान्यराशिं तु कुत्वा तु तिलराशिं प्रकल्पयेत् ॥ ७३ ॥ आज्यं दधि मधु क्षीरं प्रस्थमात्रं पृथक् पृथक् । कांस्यपात्रे गृहीत्वैव सुवर्णकलशान्वितम् ॥ ७४ ॥ दण्डके धान्यपीठे तु स्थापयेदुत्तरादिकम् । सामवेदं यजुर्वेदमृग्वेदाथर्ववेदकौ ॥ ७५ ॥ क्रमेण देवताः पूज्या गामेकां लक्षणान्विताम् । स्वर्णश्रृङ्गां रौप्यखुरां सवस्त्रां कांस्यदोहनाम् ॥ ७६ ॥ सवत्सां पूर्णपुष्टांङ्गां देवाग्रे स्थापयेद्बुधः । धान्यराशौ तथा सोमं तिलराशौ पितॄनपि ॥ ७७ ॥ षष्ठोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ७८ गोसावित्री जप्त्वा ‘शुद्धा इम इति गोसावित्रीमनुस्मरन् । पूजयेत्तत्तदङ्गेषु तदुक्ता देवता अपि ॥ ७८ ॥ तृणमुष्टिं प्रदायाऽस्यै गोसूक्तेनाभिमृश्य च । गोसूक्तम् अत्र ‘गावो हिम’ इति गोसूक्तमभिधीयते ॥ ७९ ॥ ‘इमा ओषधय’ इत्युक्त्वा तिलधान्ये च दर्शयेत् । आज्यं सामादिमन्त्रेण यजुर्वेदादिना दधि ॥ ८० ॥ मध्व ‘ग्निमीळ’ इत्युक्त्वा क्षीरं ‘शन्न’ इति ब्रुवन् । गोदानसूक्तम् गोदानसूक्तमुच्चार्य ‘आगोदानात्पठे’ दिति ॥ ८१ ॥ (सवत्सां चैव गामुक्तां दर्शयित्वाऽतिसुन्दरीम्) । देव्यौश्च दर्शनीयानि दर्शयेच्च पृथक् पृथक् ॥ ८२ ॥ शैलबिम्बानां विशेषः शैलस्य वर्णहीनस्य लोहजानां तथैव च । कृत्वा दृढकरीं सूचीं ताभ्यां पक्ष्मादिमण्डलम् ॥ ८३ ॥ मन्त्रेण कल्पयेदन्यत् ध्रुवबेरोक्तवद्भवेत् । द्रव्याणि दर्शनीयानि पृथगेव प्रकल्पयेत् ॥ ८४ ॥ परिवाराणामक्षिमोचनम् मुन्यादिपरिवाराणां तत्तन्मन्त्रं पृथक् पृथक् । हुत्वा तु दशकृत्वस्तु तन्मन्त्रैरक्षिमोचनम् ॥ ८५ ॥ ७९ पात्रेषु दर्शयेत्तषां पञ्चगव्यं पृथक्पृथक् । 1सहदेवं न चेत्तेषां पृथग्होमं न कारयेत् ॥ ८६ ॥ शिल्पिस्पर्शशुद्धिः शूलग्रहणमारभ्य यावदेवाक्षिमोचनम् । शिल्पिस्पर्शविशुद्ध्यर्थमक्ष्युन्मेषादनन्तरम् ॥ ८७ ॥ षोडशप्रस्थसम्पूर्णं कुम्भं सूत्रेण वेष्टयेत् । पूरयित्वा तथा तोयैर्वस्त्राभ्यामभिवेष्टयेत् ॥ ८८ ॥ पल्लवानि कुशाग्राणि दूर्वाग्राणि तथाऽक्षतम् । सुवर्णं पुण्यपुष्पाणि विष्णुगायत्रिया न्यसेत् ॥ ८९ ॥ उत्तराभिमुखः पश्चाद्ब्राह्ममासनमास्थितः । चतुर्वेदादिमन्त्रांश्च ‘आप उन्दन्तु’ वै क्रमात् ॥ ९० ॥ जपन् पुरुषसूक्तञ्च मन्त्रानपि च वैष्णवान् । कूर्चेनैव तु तत्तोयमभिमृश्य समाहितः ॥ ९१ ॥ सकाञ्चनेन कूर्चेन तत्कुम्भस्थेन वारिणा । ‘आपो हिरण्यवर्णा द्यैः पवमानादिभिस्त्रिभिः ॥ ९२ ॥ ‘शन्नो देवी’ ति मन्त्रेण पुंसूक्तेन च वैष्णवैः । शुद्द्यर्थं प्रोक्षयेद्बेरं पुण्याहमपि वाचयेत् ॥ ९३ ॥ एवं चित्रप्रतिष्ठायां चित्राभासे च कारयेत् । अधिवासाः बिम्बानां कौतुकादीनामधिवासनमारभेत् ॥ ९४ ॥ 1. आ. गर्भदेवं न चेत्तेषां पृथग्धाम न कारयेत्? षष्ठोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ८० पञ्चगव्याधिवासः आलयस्योत्तरे पार्श्वे प्रपायामवटे कृते । लघुबेरं जलद्रोण्यां पञ्चगव्यादिभिःस्तृते ॥ ९५ ॥ आज्यं ‘शुक्रम’ सीत्युक्त्वा षोडशांशं प्रगृह्य च । ‘दधिक्राव्ण्ण’ इत्युक्त्वा क्षिप्त्वा तद्द्विगुणं दधि ॥ ९६ ॥ ‘आप्याय’स्वेति मन्त्रेण त्रिगुणं क्षीरमाहरेत् । ‘गन्धद्वा’ रेति मन्त्रेण गोमयञ्च चतुर्गुणम् ॥ ९७ ॥ षड्गुणं चैव गोमूत्रं गायत्र्या तत्र निक्षिपेत् । ‘वसोः पवित्र’ मित्युक्त्वा तेनापूर्यावटं पुनः ॥ ९८ ॥ पञ्चगव्ये ‘शिवं शर्वमीशमव्यक्त’ मर्चयेत् । विष्णुसूक्तं समुच्चार्य प्राक्छिरस्तत्र शाययेत् ॥ ९९ ॥ अतीते तद्दिने बिम्बं विष्णुसूक्तेन चोद्धरेत् । ‘वारीश्चतस्त्र’ इत्युक्त्वा शुद्धोदैरभिषिच्य च ॥ १०० ॥ क्षीराधिवासः संशोद्ध्यैव जलद्रोणीं ‘शन्नो देवी’ति मन्त्रतः । क्षीरेण पूरयित्वाऽत्र ‘अथर्वं क्षीर’ मित्यपि ॥ १०१ ॥ ‘पवित्रं पुण्य’ मित्युक्त्वा क्षीरेऽथर्वाणमर्चयेत् । पद्मोत्पलादिपुष्पाणि समास्तीर्य च तत्र वै ॥ १०२ ॥ शयनानि च पञ्चात्र समास्तीर्य कुशैस्सह । क्षीरं क्षीरोदधिं तत्र शायिनं शेषशायिनम् ॥ १०३ ॥ ८१ देवदेवं स्मरंस्तत्र पूर्ववच्छाययेद्धरिम् । अतीते तद्दिने बिम्बं पश्चादुद्धृत्य पूर्ववत् ॥ १०४ ॥ संस्नाप्य भूषयित्वैव नववस्त्रैश्च भूषणैः । जलाधिवासः नदीतटाकवापीषु पूर्वालाभे तथोत्तरे ॥ १०५ ॥ प्रपां कृत्वा तु परितः पञ्जरं जालकाकृतिम् । कारयित्वा तु रक्षार्थं वितानाद्युपशोभितम् ॥ १०६ ॥ नववस्त्राणि चास्तीर्यदर्भपुष्पकुशैस्सह । ‘पुण्यं तीर्थं शिवं तोय’ मिति तत्र समर्चयेत् ॥ १०७ ॥ पूर्ववच्छयने देवं शाययेदप्रमादतः । 1एवं कर्तुमशक्तश्चेत्त्रिदिनं केवले जले ॥ १०८ ॥ दिनमेकमहर्वाऽथ यामं वा कालमेव वा । मन्त्रवद्बिम्बशुद्ध्यर्थमधिवासं समाचरेत् ॥ १०९ ॥ अशक्यबेरस्य स्नपनम् अशक्यमधिवासाय गौरवाद्बिम्बमत्वरः । पञ्चगव्यैश्च क्षीरेण कुशोदैश्च पृथक्पृथक् ॥ ११० ॥ शतमष्टोत्तरं कुम्भान् पूरयित्वाऽत्र देवताः । पूर्ववत्पूजयित्वैव मन्त्रैरेवाभिषेचयेत् ॥ १११ ॥ 1. ‘एवं कर्तुमशक्तश्चेत्सद्यः कालो विद्यीयते । अधिवासमशक्तश्चेत्सद्य एवक्रियाद्यदि पञ्चगव्यैश्च क्षीरेण’ इति पाठः आ. षष्ठोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ८२ प्रतिष्ठादिन पूर्वदिनकृत्यम् प्रतिष्ठोक्तदिनात्पूर्व सायं सन्ध्यामुपास्य च । सायं होमावसाने तु आचार्याद्याः पृथक्पृथक् ॥ ११२ ॥ प्राणायामशतं कृत्वा जप्त्वा सूक्तानि पूर्ववत् । तथाऽनुष्ठितकर्मणां यजमानं ततो गुरुः ॥ ११३ ॥ ‘अणोरणीया’ नित्युक्त्वा प्रोक्षयेत् द्विजमत्वरः । ॠत्विजस्तान्त्समाहूय नियुञ्जीत स्वकर्मसु ॥ ११४ ॥ वास्तुशुद्धिः तस्याऽऽलयस्योत्तरतः कुण्डे वा स्थण्डिलेऽथवा । वास्तुहोमं तथा हुत्वा गर्भगेहादिसर्वतः ॥ ११५ ॥ पर्यग्निपञ्चगव्याभ्यां पुण्याहेनापि शोधयेत् । अग्निमथनम् देवालयस्याभिमुखे पञ्चवर्णैरलङ्कृते ॥ ११६ ॥ धान्यराश्युपरि न्यस्य त्वरणी प्राङ्मुखश्शुचिः । मन्थदण्डे हरिं ध्यायेदरण्यां मेदिनीं तथा ॥ ११७ ॥ ऊर्ध्वायामग्निमभ्यर्च्य मौञ्जीरज्जौ च वासुकिम् । जपन् वैश्वानरं सूक्तं रज्ज्वा मन्थं च वेष्टयेत् ॥ ११८ ॥ ‘जातवेदस’ मुच्चार्य मथनं कारयेद्बुधः । करीषं परितः कृत्वा तत्सूक्तेनाहरेत्पुनः ॥ ११९ ॥ ‘अयं त इध्म’ इत्युक्त्वा प्रक्षिपेदिन्धनानि च । ‘घृतप्रतीक’ इत्युक्त्वा प्रज्वाल्याग्निं प्रणम्य च ॥ १२० ॥ ‘आयुर्दा’ इति मन्त्रेण त्वप्रमादं निधापयेत् ॥। १२१ ॥ ८३ मथनाग्न्यलाभे कर्तव्यम् अथवा श्रोत्रियागारादग्निमाहृत्य वै तथा । तत्र वैश्वानरं सूक्तं यजेदिति च केचन ॥ १२२ ॥ वास्त्वग्नेः कार्यान्तरयोग्यताभावः यदि प्रणीयते मोहाद्वास्तुहोमे हुताशनः । तत्सर्वमशुभं कर्म तमग्निं च निरस्य च ॥ १२३ ॥ मथितं श्रोत्रियागारादाहृतं वा निधाय च । शान्तिहोमावसाने तु यथोक्तं होममाचरेत् ॥ १२४ ॥ पञ्चाग्निषु अग्निप्रणयनम् पूर्वं तु गार्हपत्यग्नावाघारं तेन वाह्निना । ‘गार्हपत्याग्नि’ मित्युक्त्वा ‘यज्ञदैवत’ मित्यपि ॥ १२५ ॥ ‘तत्रौं भूः पुरुषं’ चेति ‘अच्युतं’ चेति कीर्तयन् । आवाह्य जुष्टाकारञ्च स्वाहाकारञ्च कारयेत् ॥ १२६ ॥ तस्मादग्निं समादाय दक्षिणाग्नौ ततः परम् । ‘जातवेद’ इति प्रोच्य प्रणीयाग्निं यथाविधि ॥ १२७ ॥ ‘अन्वाहार्याग्नि’ मित्युक्त्वा ‘यज्ञदैवत’ मित्यपि । ‘ओं भुवः पुरुषं सत्यं’ कुर्यादावाहनादिकम् ॥ १२८ ॥ अग्निं तु गार्हपत्याग्ने ‘रग्न आयाहि’ मन्त्रतः । प्रणीयाऽहवनीयाग्नौ वदन्नाहवनीयकम् ॥ १२९ ॥ ‘यज्ञदैवत’ मित्युक्त्वा ओं सुवः पुरुषं त्विति । उच्चरन् ‘पुरुषं’ चेति कुर्यादावाहनादिकम् ॥ १३० ॥ षष्ठोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ८४ ‘अयं ते योनि’ रित्यग्निमावसथ्ये प्रणीय च । ‘आवसथ्याग्नि’ मित्युक्त्वा ‘यज्ञदैवत’मित्यपि ॥ १३१ ॥ ‘ओं महः पुरुषं चेति देवम‘प्यनिरुद्धकम्’ । इत्येवमावसथ्याग्नौ कुर्यादावाहनादिकम् ॥ १३२ ॥ ‘मयि गृह्णामि’ मन्त्रेण सभ्ये चाग्निं प्रणीय च । सभ्याग्निं यज्ञदे’ वेति ‘ओं जनः पुरुषं तथा ॥ १३३ ॥ ‘विष्णु’ मावाहयामीति सभ्यस्यावाहनादिकम् । ‘घृतप्रतीक’ इत्यग्निं पौण्डरीके प्रणीय च ॥ १३४ ॥ ‘पौण्डरीकाग्नि’ मित्युक्त्वा ‘यज्ञदैवत’ मित्यपि । ‘ओं तपः पुरुषं’ चेति ‘वासुदेव’ मतः परम् ॥ १३५ ॥ (अग्निं श्रामणकं प्रोच्य यज्ञदैवतमित्यपि) । ‘ओं तपः पुरुषं चेति ‘नारायण’ मिति ब्रुवन् । एवमावाहनं कृत्वा निरुप्याज्याऽऽहुतीर्यजेत्1 ॥ १३६ ॥ सर्वाग्नीनां प्रणयनं प्रकुर्याद्गार्हपत्यतः । अग्निध्यानम् 2ब्राह्ममानसमासीनं कुण्डमध्ये हुताशनम् ॥ १३७ ॥ प्रत्यङ्मुखं रक्तवर्णं तरुणादित्यसन्निभम् । स्वाहास्वधाभ्यामासीनं सर्वदेवात्मकं परम् ॥ १३८ ॥ 1. ख. औपासनाग्निमित्युक्त्वा यज्ञदैवतमित्यपि॥ औपासनाग्नावन्येन आवाह्याज्यं जुहोति वै। तथाऽऽज्यं जुहुयादेवमित्याधारविधिः क्रमात् इत्यधिकं ख कोशे दृश्यते. 2. क. इतः प्रभृति अध्यायान्तं ख. ग. कौशयोः न दृश्यते, अत्र अध्यायसमाप्तिः ख. आ. ६. ८५ एकं वै हृदयं तस्य त्रयः पादाश्शिरोद्वयम् । चतुश्श्रुङ्गं चतुर्नेत्रं सप्तजिह्वं द्विनासिकम् ॥ १३९ ॥ दक्षिणाऽस्ये चतस्त्रस्तु तिस्त्रो जिह्वास्तथोत्तरे । सप्तहस्तं स्मरन्नग्निं सर्वाभरणभूषितम् ॥ १४० ॥ कृष्णाजिनोत्तरासङ्गं मौञ्जीदण्डसमन्वितम् । सृक्सृवाक्षस्रजश्शक्तिं दधतं दक्षिणैः करैः ॥ १४१ ॥ चामरं व्यजनं चाऽज्यपात्रं वै वामबाहुभिः । बिम्बञ्च यज्ञमूर्तेस्तु ध्यायेदेवमिति श्रुतिः ॥ १४२ ॥ अग्नेः सप्तजिह्वाः हिरण्या कनका रक्ता कृष्णा चैव वसुप्रभा । अतिरक्ता बहुरूपा जिह्वास्सप्त प्रकीर्तिताः ॥ १४३ ॥ ईशानेन्द्राग्निनिॠर्तिवरुणानिलमध्यगाः । आघारान्ते वैष्णवहोमः आघारान्ते तु होतव्यं सप्तजिह्वासु वैष्णवम् ॥ १४४ ॥ जिह्वाभेदेन हविर्भेदहोमः हिरण्यायां समिद्धोमं कनकायां यजेद्घृतम् । सर्षपांश्चैव रक्तायां कृष्णायां लाजमेव च ॥ १४५ ॥ वसुप्रभायां देवन्तं ध्यात्वाऽपूपं जुहोति च । होतव्यमतिरक्तायां तिलं सर्वामरप्रियम् ॥ १४६ ॥ अन्यानि बहुरुपायां जुहोति मनसा स्मरन् । षष्ठोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ८६ हविर्विशेषहोमे अग्निभावनाप्रकारः समिद्धोमे स्थितो वह्निश्शेते स च घृताऽऽहुतौ ॥ १४७ ॥ आसीनश्चरुहोमेऽपि तिलसर्षपसक्तुषु । अन्यथाऽग्नौ हुतं यत्तत् सर्वं भवति निष्फलम् ॥ १४८ ॥ हविर्भेदेन आहुतिप्रमाणम् चतुरङ्गुलिसंस्रावाप्यविच्छिन्ना घृताहुतिः । अङ्गुष्ठपर्वमात्रा तु गृहीताऽन्नाहुतिः स्मृता ॥ १४९ ॥ अन्नमक्षप्रमाणं स्याल्लाजं मुष्टिमितं भवेत् । तिलसर्षपसक्तूनां शुक्तिमात्राऽहुतिर्भवेत् ॥ १५० ॥ होमद्रव्याधिदेवाः अतः परं प्रवक्ष्यामि होमद्रव्याधिदेवताः । सिकतायां मृदश्चैव पृथिवी आधिदेवता ॥ १५१ ॥ स्थण्डिलं सोमदैवत्यं कुण्डवेद्या यथाक्रमम् । ऊर्ध्ववेद्यधिपो ब्रह्मा मध्यवेद्याः प्रजापतिः ॥ १५२ ॥ सभ्ये च पौण्डरीके च सोमोऽधोवेदिदेवता । दलेषु वसवः प्रोक्ताः खननं पितृदैवतम् ॥ १५३ ॥ लेखाः स्कन्दाधिदेवत्याः ॠषयस्सप्तबर्हिषाम् । हव्यवाडिन्धनाधीशो विहारो वायुदैवतः ॥ १५४ ॥ पञ्चभूताधिदैवत्यं करकं समुदाहृतम् । कूर्चाग्रग्रन्थिमूलेषु ब्रह्मविष्ण्वीश्वराः क्रमात् ॥ १५५ ॥ ८७ चत्वारो विष्णुदैवत्याः परिस्तरणकूर्चकाः । पश्चिमः परिधिः प्रोक्तस्तथा गन्धर्वदैवतः ॥ १५६ ॥ दक्षिणश्चेन्द्रदैवत्यः परिधिः परिकीर्तितः । उत्तरः परिधिः प्रोक्तो मित्रावरुणदैवतः ॥ १५७ ॥ तथोर्ध्वसमिधोर्देवः 1प्रजापतिरिति स्मृतः । स्त्रुवस्सोमाधिदैवत्यो जुह्वादिषु दिवाकरः ॥ १५८ ॥ ब्रह्मसोमौ तु सम्प्रोक्तौ तथा प्रणिधिपात्रयोः । वर्षिष्ठसमिधोरग्निराज्यस्थाल्यां वसुन्धरा ॥ १५९ ॥ तोयस्य वरुणो देवश्चाज्यस्य च हुताशनः । चरुरिन्द्राग्निदैवत्य एवं ध्यात्वा जुहोति च ॥ १६० ॥ हेमद्रव्यविशेषे पात्रविशेषः वैष्णवं जुहुयाज्जुह्वा चरुणाऽग्निषु षट्स्वपि । आज्यमप्यग्निकुण्डेषु स्रुवेण जुहुयादिति ॥ १६१ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे महाप्रतिष्ठाकालनिर्णय संभाराहरण अक्षिमोचनाधिवासत्रयाशक्य- बिम्बाधिवासाऽऽचार्यानुज्ञाऽग्निमथन अग्निप्रणयनाग्निध्यानाग्नि- जिह्वास्थाननिर्णय होमद्रव्यप्रमाण होमद्रव्याधिदेवनिर्णयो नाम षष्ठोऽध्यायः