०५

. अध्यायः. ३३ पञ्चमोऽध्यायः आद्येष्टकान्यासः वक्ष्याम्याद्येष्टकान्यासं विमानादिप्रकल्पने । वास्तुहोमावसाने तु पञ्चाग्नीन् परिकल्पयेत् ॥ १ ॥ आघारान्ते यजेत्तेषु देवं ध्यायंश्च वैष्णवम् । होतव्यं पौरुषं सूक्तमैन्द्रमाहवनीयके ॥ २ ॥ आग्नेयं च विधानेन1 व्याहृत्यन्तं पृथक् पृथक् । अन्वाहार्ये विष्णुसूक्तं याम्यं र्नैॠतमेव च ॥ ३ ॥ वैष्णवं गार्हपत्याग्नौ वारुणं वायुदैवतम् । सौम्यमीशानदैवत्यमावसथ्ये सवैष्णवम् ॥ ४ ॥ सभ्ये तु सर्वदैवत्यं विष्णुसूक्तं सवैष्णवम् । प्राच्यामाहवनीयाग्नेः श्वभ्रे संस्थाप्य ताश्शिलाः ॥ ५ ॥ समभ्यर्च्य चतुर्वेदांस्तासु वै प्रागुपक्रमात् । संस्नाप्य सप्तकलशैरिष्टकास्ताः पृथक् पृथक् ॥ ६ ॥ पश्चिमस्यां ततस्सभ्याद्धान्यराश्युपरि क्रमात् । पञ्चवस्त्राणि चास्तीर्य वाससा वेष्टयेच्च ताः ॥ ७ ॥ समारोप्यार्चयेत्तत्र चतुर्वेदाधिदेवताः । बद्ध्वा प्रतिसरं तासां शाययेत्ताः पृथक् पृथक् ॥ ८ ॥ द्वाराग्रे पुष्पसंयुक्तं वस्त्रैराच्छाद्य चोपरि । प्रातः स्नात्वा विधानेन मुहूर्ते तु 2शुभे बले ॥ ९ ॥ 1. आ. होतव्यं च. 2. ख. शुभोज्ज्वले श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३४ गृहीत्वा स्थापकास्तास्ताः ग्राममालयमेव वा । जपन्तः शाकुनं सूक्तं स्वस्तिसूक्तसमन्वितम् ॥ १० ॥ परीत्यान्तः प्रविश्यैव देवं ध्यायन्त एव वै । द्वारदक्षिणभागे तु स्थापयेदिष्टकाश्शिलाः ॥ ११ ॥ एकाक्षरसूक्तान्ते 1चतुर्वेदादिमन्त्रतः । उत्तराग्रं तु पूर्वस्यां प्रागग्रं चैवदक्षिणे ॥ १२ ॥ प्रतीच्यामुत्तराग्रं स्यादुदीच्यां पूर्वशीर्षकम् । मध्ये रत्नं सुवर्णं वा ध्रुवसूक्तं जपन्न्यसेत् ॥ १३ ॥ अथातः शयनात्प्राच्यामग्नावाहवनीयके । पौरुषं विष्णुसूक्तं च वैष्णवं च ततः परम् ॥ १४ ॥ एकाक्षरादिसूक्तं च दिग्दैवत्यसमन्वितम् । 2दशकृत्वस्तथा हुत्वा सर्वं पूर्ववदाचरेत् ॥ १५ ॥ तथैव गोपुराणाञ्च सन्न्यसेद्वारदक्षिणे । प्रवेशदक्षिणे न्यासो गोपुराणां विशिष्यते ॥ १६ ॥ प्राकाराणां च सर्वेषामैशान्ये र्नैॠतेऽथवा । प्राग्द्वाराद्दक्षिणे कुर्यादिष्टकास्स्नपनालये ॥ १७ ॥ आस्थानमण्डपादीनामैशान्ये प्रथमेष्टकाम् । 3नास्ति चेत्तत्र तद्भित्तिः भित्त्यैशान्येऽथवा न्यसेत् ॥ १८ ॥ शालाश्रयाणां सर्वेषां नाचरेत्प्रथमेष्टकाम् । महानसस्य चाग्नेय्यां कल्पयेत्प्रथमेष्टकाम् ॥ १९ ॥ 1. ख. चतुर्वेदादिमन्त्रकैः अ. 2. आ. दक्षिणाग्नौ तथाहुत्वा. 3. आ. अस्य श्लोकार्धस्य स्थाने एवमेव प्रकारेण हीशान्यां भित्तिरेव वा. इति ख कोशे दृश्यते । ३५ 1शालादीनां तु सर्वेषां सभ्यमौपासनं तु वा । प्राकारेषु यजेत्तत्तत्परिवाराधिदैवतम् ॥ २० ॥ द्वारेषु द्वारपालानां यजेन्मन्त्रांश्च गोपुरे । चतुर्वेदादिमन्त्रांश्च वारुणं स्नपनालये ॥ २१ ॥ श्रीभूमिसूक्तमन्त्रास्तु यजेदास्थानमण्डपे । हवीरक्षकदैवत्यं श्रीभूसूक्तं महानसे ॥ २२ ॥ वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च । प्राकारादिषु सर्वेषु चैकामेव शिलां न्यसेत् ॥ २३ ॥ आलये परिवाराणां तत्तन्मन्त्रं सवैष्णवम् । अष्टोत्तरशतं हुत्वा सन्न्यसेच्चतुरिष्टकाः ॥ २४ ॥ एष एव विशेषः स्यादन्यत्सर्वं खिलोक्तवत् । गर्भन्यासप्रकारः गोपुरव्यतिरिक्तानां गर्भन्यासं प्रकल्पयेत् ॥ २५ ॥ केचिन्महानसस्यापि गर्भमाहुर्मुनीश्वराः । न्यसेद्गोपुरगर्भे तु सौवर्णद्वारदेवताः ॥ २६ ॥ गर्भे महानसस्यापि पञ्चाग्नीन् हविरक्षकम् । गर्भाणि चालयोक्तानि फेलायां पूर्ववन्न्यसेत् ॥ २७ ॥ खिलोक्तेनैव मार्गेण गर्भफेलां प्रकल्प्य च । गर्भद्रव्याणि चाहृत्य तत्र सन्न्यस्य मन्त्रतः ॥ २८ ॥ पिधाय च पिधानेन धान्यराश्युपरि न्यसेत् । रात्रावेव निधातव्यं शुभांशे च स्थिरोदये ॥ २९ ॥ 1. सालाश्रय. इत्यादि. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३६ ऊर्ध्वानने शुभैर्युक्ते राशौ शुद्धेऽष्टमे व्यये । ब्राह्मणः पट्टिकोर्ध्वे तु उपानोर्ध्वे तु भूमिपः ॥ ३० ॥ तथैकैकांगुलन्यूने सन्न्यसेद्वैश्यशूद्रयोः । द्वारस्य दक्षिणे भागे भित्तिमध्ये त्रिभागतः ॥ ३१ ॥ धातुस्समीपे न्यस्तव्यमिति शास्त्रस्य निश्चयः । तत्र विष्णुं स्मरन् बुद्ध्या स्नपनं चार्चनं तथा ॥ ३२ ॥ अधिवासं च होमं च खिलोक्तिविधिना चरेत् । मूर्धेष्टकान्यासः समाप्ते तु विमाने तु पुनर्मूर्धेष्टकां न्यसेत् ॥ ३३ ॥ पूर्वोक्तलक्षणोपेताः शिला वा पञ्चवेष्टकाः । गृहीत्वा स्थूपिशूलं च सर्वमाद्येष्टकोक्तवत् ॥ ३४ ॥ अधिवासं च होमं च स्नपनं चार्चनादिकम् । न्यक्षादीन् धान्यपीठे तु पूजयेत्प्रागुपक्रमात् ॥ ३५ ॥ 1स्थूप्याधारेष्टकायां तु पूजयेत्प्रकृतिं पराम् । प्रातः स्नात्वा विधानेन 2स्रग्वस्त्रालंकृतो गुरुः ॥ ३६ ॥ पूर्वोक्तैरेवमन्त्रैस्तु सन्न्यसेन्मूर्ध्नि चेष्टकाः । भूमिसूक्तं समुच्चार्य स्थूप्याधारेष्टकां न्यसेत् ॥ ३७ ॥ ‘आत्वाहर्षे’ण सूक्तेन स्थूपिशूलं पुनर्न्यसेत् । तत्तद्दिक्षु विमानेशान् समावाह्यार्चयेत्पुनः ॥ ३८ ॥ 1. स्थूपिकायष्टिकायां ई. 2. शुक्लवस्त्राद्यलङ्कृतः ख. ३७ विमानदेवताकल्पनम् 1दक्षिणादिदिशि द्वारे द्वाराग्रे न्यक्षमर्चयेत् । तद्वशेनेतरान्कुर्यात्सर्वानेतान्बहिर्मुखान् ॥ ३९ ॥ द्वारेषु द्वारपालांश्च प्रकल्प्याऽवाह्य पूजयेत् । द्वारापालान् प्रकुर्वीत किंचिद्द्वारनिरीक्षकान् ॥ ४० ॥ अन्तरालं यदि भवेत्तत्र वै पार्श्वयोः क्रमात् । वक्रतुण्डं च दुर्गां च बहिर्भित्तौ प्रकल्पयेत् ॥ ४१ ॥ अग्रमण्टपभित्तौ वा पादवर्गे प्रकल्पयेत् । पादवर्गे गले चैव विमाने परितः क्रमात् ॥ ४२ ॥ प्रागादि पुरुषादींस्तान् पादवर्गे प्रकल्पयेत् । उपानार्धांशमात्रेण विमानेशान्प्रकल्पयेत् ॥ ४३ ॥ इन्द्रं च दक्षिणामूर्तिं नारसिंहं पितामहम् । प्रागादि कल्पयेदेतान् गले लक्षणसंयुतान् ॥ ४४ ॥ अथवा पुरुषादींस्तु वाराहं नारसिंहकम् । सुखासीनं हयग्रीवं कल्पयेदथवा गले ॥ ४५ ॥ 2ध्रुवबेरसमं वापि पादहीनमथापि वा । अर्धं त्रिभागादेकं वा तेषामुत्सेध उच्यते ॥ ४६ ॥ तथा कोणेषु गरुडं प्रस्तरोपरि कल्पयेत् । आलयेष्वन्यदेवानां 3वाहनानि प्रकल्पयेत् ॥ ४७ ॥ मृगेन्द्रमथवा कुर्यात् सर्वदेवालयेषु च । तेषामभिमुखे कुर्यात् कुण्डमौपासनं तथा ॥ ४८ ॥ 1. इन्द्रादिदिशि द्वारे वा द्वारदेवं समर्चयेत्. ई.2. सुखासनं. आ. 3. वाहनं. न च कल्पयेत्. आ. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३८ कुम्भं च साधयित्वैव कलशैः प्रोक्ष्य सप्तभिः । हौत्रं प्रशंस्य विधिना तत्तन्मन्त्रं शताष्टकम् ॥ ४९ ॥ वैष्णवेन समायुक्तं व्याहृत्यन्तं जुहोति वै । प्रातः स्नात्वा समावाह्य समभ्यर्च्य निवेदयेत् ॥ ५० ॥ सप्तविंशतिभोगैश्च1 नित्यमर्चनमुत्तमम् । त्रयोदशोपचारैश्च मध्यमं पूजनं स्मृतम् ॥ ५१ ॥ पुष्पमन्नसमायुक्तं निर्वपेदधमे बलिम् । यत्र यत्रैव वा भक्तिर्यजमानस्य जायते ॥ ५२ ॥ प्रतिष्ठाप्यार्चनं नित्यं कारयेत्तत्र तत्र वै । द्वारेशान् पादवर्गेषु गोपुरेषु प्रकल्पयेत् ॥ ५३ ॥ गले विमाने तान् देवान् कल्पयित्वा समर्चयेत् । अथवा नारसिंहं वा दुर्गी वापि सुदर्शनम् ॥ ५४ ॥ कल्पयित्वा समावाह्य नित्यं पूर्ववदर्चयेत् । एतेषां कौतुकं चैव कर्तुमिच्छति चेत्तथा ॥ ५५ ॥ कौतुकं च प्रतिष्ठाप्य तदग्रे नित्यमर्चयेत् । 2कल्पयित्वाऽथवा पीठं तत्तत्पार्श्वे समर्चयेत् ॥ ५६ ॥ प्रागादिचतुरो3 वेदान् पूजयेत्स्नपनालये । तथैव यागशालायां शक्रमास्थानमण्डपे ॥ ५७ ॥ वरुणं यादसां नाथं जलक्रीडार्थमण्डपे । मण्डपेष्वधवाऽन्येषु तत्तद्दिक्पालसंयुतम् ॥ ५८ ॥ 1. भेदैश्च ख. 2. अत्र कल्पयेद्वा यथोक्ते तु विष्वक्सेनं समर्चयेत् इति ख. कोशे दृश्यते. 3. आ. देवान् ३९ विष्वक्सेनं समभ्यर्च्य यथाशक्ति निवेदयेत् । एतेषु च समाप्तेषु वास्तुहोमावसानके ॥ ५९ ॥ कुम्भं संसाध्य विधिना तत्तन्मत्रं सवैष्णवम् । व्याहृत्यन्तं यजित्वा तु पुनरावाह्य पूजयेत् ॥ ६० ॥ मण्डपादिषु देवेशं संस्थाप्य च शुभोदये । सप्तविंशतिभोगैश्च1 सम्पूज्यान्तः प्रवेशयेत् ॥ ६१ ॥ आधाय यागशालायां मुहूर्ते हव्यवाहनम् । वैष्णवेन शतं हुत्वा नित्यहोमं समाचरेत् ॥ ६२ ॥ हवीरक्षकमाग्नेय्यां पूजयेत्तु महानसे । देवदेवं समभ्यर्च्य पश्चात्पाकक्रियां चरेत् ॥ ६३ ॥ मण्डपादिषु कुड्येषु सुधाकर्मक्रियोपरि । देवस्य विजयक्रीडाविग्रहेषु यथारुचि ॥ ६४ ॥ यद्यदिच्छति वै2कर्ता तत्तदाभासकर्मणा । 3सर्वलक्षणसंयुक्तं कल्पयित्वाऽतिसुन्दरम् ॥ ६५ ॥ अमन्त्रकाक्ष्युन्मेषान्ते वास्तुहोमं जुहोति च । अक्ष्युन्मेषं तथा कृत्वा पूर्वोक्तेन विधानतः ॥ ६६ ॥ ध्रुवशुद्धिं च कृत्वा तु कुण्डमौपासनं न्यसेत् । कुम्भं संसाध्य विधिना कलशैः प्रोक्ष्य सप्तभिः ॥ ६७ ॥ कुम्भं वेद्यां समारोप्य (तस्मिन्प्रतिसरं तथा । औपासनं च कृत्वैव) हौत्रं चैव प्रशंसयेत् ॥ ६८ ॥ 1. आ. भेदैश्च2. कर्तुं तत्र चैव स कर्मणा. 3. ख. सर्वालङ्कार संयुक्तम् पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४० वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च । हुत्वा तदुक्तमन्त्रांश्च शतमष्टोत्तरं यजेत् ॥ ६९ ॥ प्रातरावाह्य सम्पूज्य हवींषि च निवेदयेत् । त्रिवेदिसहितं पीठं तत्तदग्रे प्रकल्पयेत् ॥ ७० ॥ तत्राऽवाह्य समभ्यर्च्य पूजनान्ते विसर्जयेत् । एवमेव पटाभासबिम्बानां स्थापनार्चने ॥ ७१ ॥ 1एवं मूर्धेष्टकान्यासे विमानस्य कृते सति । शूलग्रहणमार्गेण गृहीत्वा शूलमत्र तु ॥ ७२ ॥ शूलं संस्थाप्य विधिवत् ध्रुवबेरं प्रकल्पयेत्2 । गृहीत्वा वा शिलां सम्यक्स्थापयित्वा तदुक्तवत् ॥ ७३ ॥ बेरेषु योगादिभेदाः कारयेद्ध्रुवबेरं तु योगभोगादिभेदतः । आसनं शयनं चैव स्थानकं चेति तत्त्रिथा ॥ ७४ ॥ चतुर्विधं तदेकैकं योगं भोगं तथैव च । वीरं च विरहं चैव पूर्वमेव मयोदितम् ॥ ७५ ॥ चक्रशङ्खधरं देवं योगं भोगं प्रकल्पयेत् । चक्रशङ्खगदायुक्तं वीरमार्गेण कल्पयेत् ॥ ७६ ॥ गदां 3वामे वरे पाणौ कल्पयेद्विजयाय वै । निरायुधं तथा देवं विरहं परिकल्पयेत् ॥ ७७ ॥ 1. हेममूर्ध्वे तु सन्न्यस्य आ. 2. अत्र ३ अध्यायसमाप्तिः दृश्यते. ख. कोशे 3. पद्मं आ. ४१ ताम्रजं ध्रुवबेरं चेद्व्यक्तं सर्वाङ्गसुन्दरम् । कारयित्वा प्रतिष्ठाप्य तथा पर्वणि पर्वणि ॥ ७८ ॥ शुद्धोदैरभिषिच्यैव वस्त्राद्यैरपि भूषयेत् । एकबेरप्रतिष्ठा चेद्वर्णहीनं शिलामयम् ॥ ७९ ॥ लौहं वा ब्राह्मभागे तु स्थापयित्वा समर्चयेत् । एकबेरविधानेन लोहबेरे प्रतिष्ठिते ॥ ८० ॥ अर्च्यमाने पुनर्गुप्ते चोरशत्रुभयादिभिः । स्थाने तस्य यथालाभप्रमाणेन शिलामयम् ॥ ८१ ॥ संस्थाप्य जङ्गमं तस्मिन् नित्यपूजां समाचरेत् । चोरशत्रुभये शान्ते समुद्ध्रुत्य पुरातनम् ॥ ८२ ॥ शिलाबेरात्समावाह्य लोहबेरे समर्चयेत् । अथवा लौहबेरस्य प्रमाणेन शिलामयम् ॥ ८३ ॥ कृत्वाऽचलं प्रतिष्ठाप्य ध्रुवार्चास्थापनोक्तवत् । लैहबेरं च 1तत्तस्मिन् उत्सवं परिकल्पयेत् ॥ ८४ ॥ ध्रुवस्थित्यनुरोधेन परिवारस्थितिः परिवारांश्च तान् सर्वान् तत्तदावरणेषु च । ध्रुवे स्थिते स्थितान्कुर्यादासीनानासने स्थितान् ॥ ८५ ॥ आसीनान्वा स्थितान्वापि शयने परिकल्पयेत् । विष्वक्सेनश्च विघ्नेशो रोहिण्यो मातरस्तथा ॥ ८६ ॥ ज्येष्ठा च सर्वदाऽऽसीना इति पूर्वजदर्शनम् । बाह्वन्तं वा स्तनान्तं वा नाभ्यन्तं वा ध्रुवस्य च ॥ ८७ ॥ 1. यस्योक्तं । ख. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४२ ब्रह्मेशावमितं सूर्यं तत्समान्वा प्रकल्पयेत् । तत्त्रिभागैकभागादिमानैः कुर्याच्च कौतुकम् ॥ ८८ ॥ बेराणामुपादानद्रव्यनियमः देवेशाधिकमानेन परिवारान्न कल्पयेत् । ध्रुवबेरं तु यद्द्रव्यं तद्द्रव्येण च पार्षदान् ॥ ८९ ॥ विष्वक्सेनरविस्कन्दाः दुर्गा गरुड एव च । शैलेऽपि 1वा न दोषस्स्यादिति पूर्वजदर्शनम् ॥ ९० ॥ ध्रुवकौतुकसंयुक्ते तथा वै परिषद्गणाः । ध्रुवार्चनं ध्रुवार्चायां विपरीतं न कारयेत् ॥ ९१ ॥ बेराणां स्थाननियमः (एकबेरप्रतिष्ठा चेद्ब्राह्मे संस्थापयेदिति ध्रुवकौतुकसंयुक्ते मानुषे स्थापयेदिति ब्राह्मे तत्कौतुकं स्थाप्यमिति पूर्वजदर्शनम्) बेरविशेषाणां मुखनियमः द्वारपालाः प्रकर्तव्याः किंचिद्वारनिरीक्षकाः । बहिर्मुखा विमानेशाः प्रासादाश्रयमन्दिराः ॥ ९२ ॥ ईशानसोमयोर्मध्ये दक्षिणाभिमुखोऽमितः । श्रीभूतारिध्वजाम्भोजयूथेशाश्चाक्षहा तथा ॥ ९३ ॥ कल्प्या बहिर्मुखा एव वीशस्त्वभिमुखो मतः । देवाग्रे स्थापयेदेतांस्तत्तदावरणे पृथक् ॥ ९४ ॥ 1. ख. च. ४३ अनपायिनः श्रीभूतश्चैव गरुडः प्रथमावरणे स्थितौ । चक्रध्वजाब्जयूथेशा द्वितीयावरणादिषु ॥ ९५ ॥ एतेऽनपायिनः प्रोक्ता विष्वक्सेनसमन्विताः । प्राकाराश्रयवासाः स्युरन्ये वास्तुनिरीक्षकाः ॥ ९६ ॥ श्रीदेवी तप्तहाटकसङ्काशां पद्मपत्रायतेक्षणाम् । तिसृभिः पुष्पचूडाभिर्ललाटोपरिशोभिताम् ॥ ९७ ॥ सपद्मवामहस्तान्तां कक्ष्याबद्धघनस्तनीम् । प्रसारितेतरकरां सर्वाभरणभूषिताम् ॥ ९८ ॥ श्रीवत्सादिमबीजां तां फाल्गुने चोत्तरोद्भवाम् । श्रियं दक्षिणपार्श्वे तु हंसनिर्याख्यवाहिनीम् ॥ ९९ ॥ भूदेवी वामपार्श्वे महीं श्यामां सर्वाभरणभूषिताम् । वैशाखे रेवतीजातां दधतीं दक्षिणेऽम्बुजम्1॥ १०० ॥ प्रसारितेतरकरां प्रसन्नेन्दुनिभाननाम् । महाचातकवाहां तां लक्ष्मीपूर्वाक्षरान्विताम् ॥ १०१ ॥ श्रीभूम्योः केचिदिच्छन्ति व्यत्ययेन करद्वयम् । मार्कण्डेयभृगू एकजानुक्रमासीनो भित्तिमूले तु दक्षिणे ॥ १०२ ॥ 1. अब्जकम्. आ. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४४ सोपवीतो जटामौलिः रोहिणीशोऽथ फाल्गुने । तप्तहाटकसंकाशो मार्कण्डेयस्तु पूजकः ॥ १०३ ॥ वामपार्श्वे भृगुः कार्यो जातिहिङ्गुलिकप्रभः । वैशाखे रोहिणीजातः ख्यातीशः पुष्पपाणिकः ॥ १०४ ॥ अत्रानुक्तं तु तत्सर्वं पुराणस्योक्तवद्भवेत् । ब्रह्मशङ्करौ पद्मासने समासीनो रुक्मवर्णश्चतुर्मुखः ॥ १०५ ॥ कलशाक्षमालापाणिः जटामौलिश्चतुर्भुजः । हंसोऽस्य वाहनं प्रोक्तं सावित्रीपतिरुच्यते ॥ १०६ ॥ चैत्रेऽभिजिति सञ्जातोंऽबरीषश्शौषिकस्यतु (?) । कमण्डलुध्वजश्चापि ब्रह्माख्यो दक्षिणे ध्रुवात् ॥ १०७ ॥ उत्तरे ध्रुवबेरस्य प्रवालाग्निनिभो भवेत् । टंकैणधृत् चतुर्बाहुर्व्याघ्रचर्माम्बरो हरः ॥ १०८ ॥ सोऽर्धचन्द्रजटामौलिः पिङ्गनेत्रैस्त्रिभिर्युतः । आर्द्राजो मार्गशीर्षे तु शिवश्चण्डीशशैषिकः ॥ १०९ ॥ दक्षिणाभिमुखश्चैव वृषभध्वजवाहनः । पार्वतीशश्शूलपाणिः1 पूज्यश्चात्र पिनाकवान् ॥ ११० ॥ कौतुकद्वितीयावरणे शिवादयः शिवः शुभेश्वरः श्यामः सवारिकलशध्वजः । भेरीशब्दरवो रक्तवासाश्च गजवाहनः ॥ १११ ॥ 1. शूकहेतिः ख. ४५ विश्वः श्यामनिभश्चैव शुद्धेशो वेदिकेतुकः । हयश्च वाहनं तस्य मित्रश्श्यामोऽरुणाम्बरः ॥ ११२ ॥ स्रुवध्वजश्च मित्रेशः अत्रिः श्यामस्सतीश्वरः । जुहूध्वजो रक्तवर्णो रुरुवाहन एव च ॥ ११३ ॥ माघमासे तु रोहिण्यां जातास्ते तु बहिर्मुखाः । सनत्कुमारसनकसनातनसनन्दनाः ॥ ११४ ॥ हेमाभाः शुक्लवासनाः तैष्यमासे तु पुष्यजाः । 1कूर्चध्वजा इति ध्येयास्सर्वे ते ब्रह्मचारिणः ॥ ११५ ॥ धात्रादयो द्वारदेवाः वेणुपत्रनिभो धाता रथयान उदङ्मुखः । 2पुष्पकेतुः सन्धिनीशो रक्तवस्त्रश्च दक्षिणे ॥ ११६ ॥ विधाता शुकपत्राभ ऊर्ध्वेशो गजवाहनः । सर्पध्वजः शुक्लवस्त्रः पूज्यावेतौ कवाटयोः ॥ ११७ ॥ भुवङ्गो दक्षिणशिरा उत्तराङ्घ्रिः खलोचनः । प्रीतीशोऽग्निशिखाकेतुर्नीलोत्पलदलप्रभः ॥ ११८ ॥ हस्तजो माघमासे तु ह्रदी वृषभवाहनः । पतङ्गोऽधोमुखश्चोर्ध्वः शुक्लाभः पौष्यहस्तजः ॥ ११९ ॥ भरणीश उत्तरशिराः अश्वयानध्वजस्तथा । कवाटोर्ध्वशिलाश्लिष्टः पूज्यो रक्ताम्बरोऽमलः ॥ १२० ॥ 1. कूर्चचूडाः ख. 2. पुष्पकेतुश्च सन्धीशः ख. पूजयेद्दक्षिणोत्तरे. ख. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४६ पतिरो हेमवर्णाभः किञ्चिद्धाटकमिश्रितः । उदङ्मुखो रक्तवस्त्रो वृषाङ्को गजवाहनः ॥ १२१ ॥ नागेशो माघमासे तु तथा हस्तर्क्षजः स्मृतः । वरणो हेमपद्माभः किञ्चिद्धाटकमिश्रितः ॥ १२२ ॥ धरणीशः फाल्गुने तु हस्तजो रथवाहनः । शरध्वजोऽत्र पूज्यश्च 1द्वारभागे तु वामतः ॥ १२३ ॥ (धात्राद्या हस्तजास्सर्वे क्रमादाश्वयुजादिषु) । द्वारे द्वारे तु धात्रादीन् षडेतान्सम्यगर्चयेत् । मणिकादयो द्वारपालाः मणिकं रक्तवर्णं च 2शुकपत्राम्बरं तथा ॥ १२४ ॥ उपवीताजिनोद्दीप्तं पिङ्गलाक्षं जटाधरम् । हृदयेऽज्जलिसंयुक्तं सन्ध्यानाथं स्रुवध्वजम् ॥ १२५ ॥ स्थितं द्वारं समीक्ष्यैव द्वारनिर्गमदक्षिणे । चैत्रे मासे च रोहिण्यां जातं द्विभुजमर्चयेत् ॥ १२६ ॥ वामे सन्ध्यां च हेमाभां हृदयेऽञ्जलिसंयुताम् । सौम्यजां श्रावणे मासि द्विभुजां कुसुमाम्बराम् ॥ १२७ ॥ तस्य द्वितीयद्वारस्य बहिः पार्श्वे च दक्षिणे । शातातपं च दिव्येशं कुशध्वजमृषीश्वरम् ॥ १२८ ॥ चैत्रे तु रोहिणीजातं जटामौलिं चतुर्भुजम् । स्फटिकाभं नीलवस्त्रं रुरुवाहनमर्चयेत् ॥ १२९ ॥ 1. द्वारवामे यथाविधि. आ.2. शतपत्राम्बरस्तथा. ख. ४७ 1तापसं वामपार्श्वे तु श्यामाभं रुरुवाहनम् । फाल्गुने पुष्यजं कूर्चध्वजं सन्धीशमर्चयेत् ॥ १३० ॥ श्रीभूतः रक्ताम्बरधरं चैव द्विभुजं जटिलं तथा । सोपानमध्ये श्रीभूतमर्चयेद्बहिराननम् ॥ १३१ ॥ विराजेशं भूतकेतुं ज्येष्ठमासे धनिष्ठजम् । न्यक्षादयः न्यक्षो दूर्वाङ्कुराभश्च प्रज्ञाप्तीशोऽरुणाम्बरः ॥ १३२ ॥ 2श्येनयानध्वजो दण्डपाणिर्वीररवध्वनिः । रोहिण्यां मार्गशीर्षे तु मासि जातो बहिर्मुखः ॥ १३३ ॥ विवस्वान् रक्तवर्णश्च तथैवोत्सादिनीपतिः । भिण्डिवालध्वजश्चैव 3दण्डी गवयवाहनः ॥ १३४ ॥ प्रोष्ठपादे मघोद्भूतो द्विभुजो नीलवस्त्रकः । मित्रो बहुप्रजानाथो शरभाण्डनिभस्तथा ॥ १३५ ॥ कपोतवाहनश्चैव मेघनादरवस्तथा । द्विभुजो 4रक्तवर्णश्च यूपकेतुर्हलायुधः ॥ १३६ ॥ ज्येष्ठाजो मासि वैशाखे धामपालस्तु पश्चिमे । एष पङ्क्तीशनामा हि 5भित्तावभिमुखेऽर्चयेत् ॥ १३७ ॥ क्षत्ता पद्मनिभश्चैव वाणीनाथस्सिताम्बरः । कुशध्वजश्चक्रहेतिस्सावाद्राणकवाहनः6 (?) ॥ १३८ ॥ 1. तापसो वामपार्श्वे तु श्यामवर्णोऽहिवाहनः आ.2. ख. श्येनवाहध्वज. 3. ख. दिण्डिकारथवाहनः4. ख. रक्तवस्त्रश्च5. ख. पङ्क्त्यां 6. महिषवाहन इति केचित्. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४८ श्रावणे श्रवणोद्भूतो द्विभुजः पूज्य उत्तरे । हविःपालः हविः पालोऽसितो विद्युत्पतिः कालाग्निशूलधृत् ॥ १३९ ॥ रोहिण्यां मार्गशीर्षे तु जातो रक्ताम्बरस्तथा । पुष्पेशः पुष्पेशः पुष्पवच्छ्यामः 1तथापि नरवाहनः ॥ १४० ॥ पुष्पायुधो मीनकेतुः चैत्रेऽनूराधजस्तथा । बलीशो 2बालिकेशोऽद्रिध्वजो दण्डी सितासितः ॥ १४१ ॥ मृगेन्द्रवाहनश्चैत्रे सौम्यजो रक्तवस्त्रधृत्3 । इन्द्रादयो लोकपालाः इन्द्रस्सस्यनिभः श्यामो द्विभुजः कुलिशायुधः ॥ १४२ ॥ शचीशः पीतवस्त्रश्च ज्येष्याजः श्रावणे तथा । 4किरीटी मुकुटी दण्डी चासीनश्चेन्निरायुधः ॥ १४३ ॥ 1. क. तथा बिरलवाहन. 2. वालकेशः ख. 3. अत्र अध्यायसमाप्तिः ख. कोशे. 4. ख. किरीटी मुकुटी दण्डी सर्वाभरणभूषितः। वेणुध्वजो मेघरवो गजवाहश्शचीपतिः॥ जकारबीजसंयुक्तः इन्द्रश्शच्याः पतिस्तथा। पुरुहूतस्तथा प्रोक्तः पुरुन्दरमथार्चयेत् ॥ अभ्यन्तरमुखञ्चैवमिन्द्रं चैव समर्चयेत् । आग्नेय्यां कार्तिके मासि वाह्रिजाऽतस्स एव हि ॥ किंशुकीपुष्पसङ्काशश्शक्तिपाणिश्च कुण्डली । केयूराभरणश्चैव शुकपिञ्छाम्बरस्तथा॥ कपिध्वजो मेषवाह. स्वाहापतिरथापि वा । रकारबीजसंयुक्तः सर्वदेवमुखस्तथा ॥ आसीनञ्च प्रणम्यैव पूजयेच्च विशेषतः । याम्ये मिथुनमासे तु भरण्यां जात एव च॥ श्यामाभो रक्तवस्त्रश्च व्यालध्वजसमन्वितः। महिषो वाहनञ्चैव फकारं बीजमेव च॥ शुकाङ्गीदेवीसहितः घण्टानादरवस्तथा । किरीटी मुकुटी दण्डी पाशहस्तस्तथैव च ॥ इति पाठो दृश्यते । ४९ कृत्तिकास्वनले जातो मार्गशीर्षेु तु मासि वै । किञ्जल्कपुञ्जसदृशो लोहिताक्षोऽजवाहनः ॥ १४४ ॥ देव्यौ स्वाहा स्वधा तस्य शक्तिरायुधमस्य वै । फाल्गुने भरणीजातो यमो नीलोत्पलप्रभः ॥ १४५ ॥ सत्यव्रतापतिर्दण्डी पाशी महिषवाहनः । आरम्भाधिपतिस्तैष्ये मूलजो 1भञ्जनीपतिः ॥ १४६ ॥ शार्दूलवाहनश्चैव शूलपाणिस्त्रिलोचनः । चैत्रे शतभिषग्जातो वरुणो नीलवर्णकः ॥ १४७ ॥ दण्डपाशकरो रक्ताम्बरो द्विरदवाहनः । कनकेशस्सिंहकेतुः प्रतीच्यां प्राङ्मुखः स्थितः ॥ १४८ ॥ वायुः स्वच्छाम्बुसङ्काशश्शूलपाणिश्च खड्गधृत् । स्वातिजः कार्तिके मासि देवी तस्याञ्जना मता ॥ १४९ ॥ पीताम्बरधरो वीरः कृष्णसाररथध्वजः । कुबेरो दण्डपाणिस्तु सहंसरथवाहनः ॥ १५० ॥ त्रिपाद्यवनलानाथः श्रविष्ठाजश्च कार्तिके । श्यामो रक्ताम्बरधर उदीच्यां दक्षिणामुखः ॥ १५१ ॥ आर्द्रायां मार्गशीर्षे तु जात ईशान उच्यते । पाटलीकुसुमाभस्तु वृषभध्वज वाहनः ॥ १५२ ॥ त्रिलोचनोऽम्बिकानाथः शूलपाणिश्चचर्मधृत् । सूर्यः मार्ताण्डः पद्महस्तश्च पृष्ठे मण्डलसंयुतः ॥ १५३ ॥ 1. रञ्जनीपतिः, ख. रजनीपतिः क. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५० चतुष्पादो द्विपादो वा पलाशकुसुमप्रभः । श्रावणे हस्तजो देव्यौ रेणुका च सुवर्चला ॥ १५४ ॥ सप्तसप्तिसमायुक्तो रथो वाहनमुच्यते । 1अनूरुस्सारथिस्सर्पो ध्वजस्तुरग एव वा2 ॥ १५५ ॥ विष्वक्सेनः शान्तस्सोमेशयोर्मध्ये ह्यासीनो दक्षिणामुखः । श्रीवत्सं ब्रह्मसूत्रं च विना सर्वं हरेरिव ॥ १५६ ॥ प्रलम्बसूत्र पदव्युत्पत्तिः प्रलम्बासुरसङ्ग्रामे ह्युपवीतं तु शार्ङ्गिणः । तदायुधपरिच्छिन्नमेकसूत्रं प्रलम्बितम् ॥ १५७ ॥ तदभ्यर्थनया तच्च तथैव धृतमेव हि । 3लम्बयज्ञोपवीतित्वं ततः प्रभृति शार्ङ्गिणः ॥ १५८ ॥ तदसाधारणं नाम लोकेऽस्मिन् प्रथितं पृथु4 । तत्सूत्रं लम्बितं छेदाद्गत्वाऽधो दक्षिणस्तनात् ॥ १५९ ॥ वामांसात्सव्यगुल्फान्तं लम्बितं तनुमध्यतः । तद्ब्रह्मसूत्रमित्युक्तं तदसाधारणं हरेः ॥ १६० ॥ आकुञ्च्य दक्षिणं पादं वामं पादं प्रसार्य च । जयया सार्धमासीनः पुष्पहस्तोऽग्निसन्निभः ॥ १६१ ॥ गदाशक्तिकरो वाऽथ पूज्यः स्थानाभिवृद्धये । चतुर्भुजो यदि भवेच्छङ्खचक्रे गदावरौ ॥ १६२ ॥ 1. ख. अरुणः 2. अत्राव्यवहितोत्तरं अङ्गारकः संहितासु प्रस्तुत. 3. ख. प्रलम्ब ब्रह्मसूत्रित्वं.4. क. पृथक्. ५१ सस्यश्यामनिभौ देव्यौ सर्वमन्यच्च पूर्ववत् । पूर्वाषाढासमुद्भूतो मासि भाद्रपदे तथा ॥ १६३ ॥ ध्रुवकौतुकसंयुक्तमुत्तमं परिचक्षते । मध्यमं चैकबेरं स्यादधमं पीठपूजनम् ॥ १६४ ॥ ग्रामस्य जयमानस्य चानुकूलप्रमाणतः । विष्वक्सेनं प्रकुर्वीत मूलबेरवशात्तु वा ॥ १६५ ॥ आयादयो न कर्तव्या मूलबेरवशाद्यदि । गरुत्मान् गरुडो वेदमूर्तिस्तु तप्तहाटकसन्निभः ॥ १६६ ॥ शुकपिञ्छाम्बरधरो झल्लरीमेखलायुतः । किङ्किणीजालसंयुक्तः कुण्डलाङ्गदहारधृत् ॥ १६७ ॥ 1छन्नवीरोत्तराबद्धः कौबेरमकुटोज्ज्वलः । तैष्ये स्वातिदिने जातः तथा श्वसनवाहनः ॥ १६८ ॥ त्रिवृत्तस्य शिरस्साम गायत्रं चक्षुरेव च । आत्मा स्तोमाह्वयं साम वामदेव्यं तनुस्तथा ॥ १६९ ॥ बृहद्रथन्तरे पक्षौ यज्ञायज्ञियपुच्छकः । छन्दांस्यङ्गानि वै तस्य यजूंषि च शफाः स्मृताः ॥ १७० ॥ एवं ध्यात्वाऽर्चयेद्वीशं वाहनानां तु वृद्धये । वक्रतुण्डः प्रवालाभश्चतुर्बाहुरेकदंष्ट्रो गजाननः ॥ १७१ ॥ 1. ख. छन्नवीरोदराबद्धः पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५२ चैत्रे मासे श्रविष्ठाजः कदलीमोदकेक्षुधृत् । अनन्तः दक्षिणे गोपुराद्बाह्ये वामेऽनन्तस्सितप्रभः ॥ १७२ ॥ आश्रेषाजश्च वैशाखे द्विबाहुश्च सुरापतिः । फणामण्डलमध्यस्थः प्राञ्जलिर्भुजगाधिपः ॥ १७३ ॥ भौमः शक्तिपाणिस्तथा भौमः कदम्बकुसुमप्रभः । देवी च कुमुदा तस्य वराहो वाहनं तथा ॥ १७४ ॥ पूर्वाषाढासमुद्भूतो ज्येष्ठमासे कुजस्तथा । शनैश्चरः सौरिं कृष्णनिभं कुर्यात् 1कुशचीराम्बरं तथा ॥ १७५ ॥ माघमासे तु रेवत्यां जातं नीलोत्पलध्वजम् । स्यन्दनं वाहनं तस्य वराहोरगसंयुतम्2 ॥ १७६ ॥ बृहस्पतिः कुर्याद्बृहस्पतिं पीतं कदलीवनमध्यगम् । कुशध्वजं हंसरथं पुष्पश्यामाम्बरोज्ज्वलम् ॥ १७७ ॥ आषाढे तिष्यसम्भूतं तारां देवीं च तस्य वै । बुधः बुधं 3सस्यनिभं कुर्याच्छरबाणासनान्वितम् ॥ १७८ ॥ 1. ख. शुकपिञ्छाम्बरं2. म. वराहध्वजसंयुतम्3. ख. श्यामनिभं ५३ 1बुद्धादेवीसमायुक्तं वामदेवाश्ववाहनम् । श्रावणे च श्रविष्टाजं दर्पणं ध्वजमेव च ॥ १७९ ॥ शुक्रः शुक्रो रजितवर्णश्च जटाभृद्वल्कलाम्बरः । 2जयन्तीशोऽम्बररथो माघमासे तु भाग्यजः ॥ १८० ॥ जाह्नवी जाह्नवीं श्वेतरक्ताभां पीतवस्त्रां तथैव च । विभज्यैकदलं हस्तेनाऽघ्रायन्तीं तदम्बुजम् ॥ १८१ ॥ अश्वयुङ्मासि रेवत्यां जातां तां लोहितध्वजाम् । सर्वाभरणसंयुक्तां गङ्गां कुर्याद्विचक्षणः ॥ १८२ ॥ चन्द्रः आत्रेयं हरिवत्कुर्या3च्छीतमण्डलमध्यगम् । तत्र रुक्मनिभं श्वेतमिश्रमावर्तकं4 स्मृतम् ॥ १८३ ॥ राजानं द्विभुजं कुर्याद्रोहिणीवल्लभं तथा । चैत्रे मृगशिरो जातं साश्वस्यन्दनवाहनम्5 ॥ १८४ ॥ श्रीः पद्मपीठे समासीनां मण्डले चोर्ध्वकर्णिके । तथा प्रसृतिके कुर्याद्देवीं धृतकुशेशयाम् ॥ १८५ ॥ शातकुम्भमयैः कुम्भैर्दिग्गजैरभिषेचिताम् । क्रीडन्तीं विष्णुना वाऽथ श्रीदेवीं कारयेद्बुधः ॥ १८६ ॥ 1. ख. सिद्धा.2. ख. जयाधीशः3. ख. सितमण्डल. 4. ख. आहितकम्. 5. चन्द्रादनन्तरं भवकुमारपुरुषाणां वर्णनं पौर्वापर्येण लभ्यतेऽन्यत्र. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५४ सप्तरोहिण्यः मयूरवाहा रोहिण्यः कृकलासध्वजप्रियाः । पुष्पाम्बराः पुष्पहस्ता शुककञ्चुकसंयुताः ॥ १८७ ॥ रोहिणीसम्भवास्तैष्ये नित्यं लोकप्रसादकाः । धात्री कुर्याद्धात्रीं महारौद्रीं दंष्ट्राभ्यामप्यलङ्कृताम् ॥ १८८ ॥ बालमौल्युत्तरासङ्गां तां त्रिशूलां च षड्भुजाम् । रक्तोग्रनयनापाङ्गीं भ्रूभङ्गविकटोग्रकाम् ॥ १८९ ॥ 1नरस्त्रीणामिव तनुमतिरौद्रीं समाचरेत् । ज्येष्ठा कपालवामहस्तां च रक्तकुञ्चितमूर्धजाम् ॥ १९० ॥ उष्ट्रपीठे समासीनामट्टहाससमन्विताम् । चैत्रे याम्यर्क्षसञ्जातामुल्काध्वजसमन्विताम् ॥ १९१ ॥ त्रिपीठकाख्यपीठे च ज्येष्ठां कुर्याद्विचक्षणः । 2प्रसारासनगां स्थाने न दैवे मानुषांशके3 ॥ १९२ ॥ वामहस्तेन सम्पूर्णं वहन्तीं निधिभाजनम् । दक्षिणं पुष्पहस्तं च किंचिल्लम्बोदरीं शुभाम् ॥ १९३ ॥ सरक्तपुष्पवस्त्रां तामतिपीनचलस्तनीम् । तस्याश्च दक्षिणे पुत्रं तस्या बाहुप्रमाणतः ॥ १९४ ॥ 1. क. न स्त्रीणामिव तद्वक्त्रमतिरौद्रं.2. ख. प्रसारघ्नगतां. 3. आ, न दैवे न च मानुषे. ५५ 1पीतं समृषकं नाम शुक्लवर्णाऽहिताम्बरम् । 2तदासने सहासीनं दण्डपाणिकमुन्नतम् ॥ १९५ ॥ 3वृषभागं शिरस्तस्य पूर्वोक्तं किञ्चिदुन्नतम् । वामे सुमाञ्जलिं तस्यास्सुतां परमलालिताम् ॥ १९६ ॥ अर्धसाचीकृते तस्याः स्वार्धासनसमास्थिते । रक्तनीलपरीताङ्गीं 4रक्तोत्पलकराम्बुजाम् ॥ १९७ ॥ एकपादप्रसारां तामेकमाकुञ्चितासनाम् । पञ्चाशत्खरसंयुक्तरथस्तस्यास्तु वाहनम् ॥ १९८ ॥ कृष्णकाकध्वजां ज्येष्ठासम्भवां मार्गशीर्षके । भृग्वादयः सप्तर्षयः नवार्धतालमानेन मां च कुर्याच्चतुर्भुजम् ॥ १९९ ॥ ब्राह्ममासनमासीनं ब्रह्माञ्जलिकरद्वयम् । अङ्के वाममथोत्तानं प्रसृतं तस्य चोपरि ॥ २०० ॥ हस्तं च दक्षिणं तस्मादुपर्युत्तानमाचरेत् । 5आत्मनासाग्रगा दृष्टिर्योगदृष्टिरिति स्मृता ॥ २०१ ॥ दक्षिणे चोर्ध्वगे हस्ते कलशं धारयेत् भृगुः । वामे स शिक्यं संशुद्धं ब्रह्मदण्डं च वैणवम् ॥ २०२ ॥ 6जातिहिङ्गुलिकाभं वै सजटामकुटोज्जवलम् । ताम्रास्यनयनं कुर्यात्सुमुखं मृगचर्मिणम्7॥ २०३ ॥ 1. ख. पीतं स्पिष्टभगं नाम, 2. आ. एकासने तथाऽऽसीनं 3. ख. पुष्पभद्रं शिरस्तस्य, ग. पृष्टभागशिरस्तस्य. 4. ख. रक्तोत्पलकराम्बराम् 5. ख. स्वनासावाहिता दृष्टिरूर्ध्वदृष्टिरिति स्मृता म. अर्धवृष्टिः 6. ख. जातिहिङ्गाकृतिभावैः मुखार्धमकुटे जटा. 7. य. संवृतं मृगचर्मणा. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५६ 1ब्रह्मासने समासीनं मरीचिमनलप्रभम् । षडङ्घ्रिवाहनं 2मालायुधं सुमतिमञ्जलिम्॥ २०४ ॥ तस्योत्पत्तिः तथाऽऽषाढे नक्षत्रं पूर्वफल्गुनी । ध्वजश्च ब्रह्मणः प्रोक्तः सर्वमन्यत् भृगोरिव॥ २०५ ॥ पुलस्त्यः काञ्चनाभोऽयमासीनो ब्राह्ममासनम् । 3प्रीतीशश्शङ्खहेतिश्च तथा षट्पदवाहनः॥ २०६ ॥ चैत्रेऽनूराधसञ्जातः 4ऊर्वाणाख्यो ध्वजस्तथा । पुलहस्ताम्रवर्णोऽयमासीनश्च पुलस्त्यवत्॥ २०७ ॥ 5क्षमाधीशः क्षमाधैर्यस्तुलाधारोऽस्य वाहनम् । हस्तजश्चाश्वयुङ्मासि सर्वमन्यद्भृगोरिव॥ २०८ ॥ सन्नतीशः ॠतुश्शुक्लो वैशाखे मासि हस्तजः । बडबा बाहनं प्रोक्तं सर्वमन्यद्भृगोरिव॥ २०९ ॥ वसिष्ठोऽथ हरिद्राभोऽरुन्धतीशस्तथैव च । ऊर्वाणध्वजसंयुक्तो वषट्काराख्यवाहनः॥ २१० ॥ तैष्ये पुष्यर्क्षसञ्जातो ब्रह्मदण्डायुधस्तथा । अनसूयापतिस्त्वत्रिर्मधुवर्णोऽस्य वाहनम्॥ २११ ॥ वषट्कारश्च ऊर्वाणध्वजः श्रवणसम्भवः । 6कार्तिक्यां मासि सम्भूतः सर्वमन्यद्भृगोरिव॥ २१२ ॥ द्विबाहवो मरीच्याद्या अङ्के वामकरं तथा । तदूर्ध्वे दक्षिणं पाणिमुत्तानं परिकल्पयेत्॥ २१३ ॥ 1. ख. ब्राह्ममासनमासीनं 2. ख. चैव हलायुधसुसंस्थितम् म. हयरावं. 3 . क. सतीशः 4. क. पर्वणाख्यध्वजस्तथा.(?) 5. क. यन्मनुष्याकृतिस्समः 6. ख. श्रावण्यां. ५७ 1मरीचिः पुलहश्चैव पुलस्त्यः क्रतुरेव च । 2वसिष्ठोऽत्रिरहं चैवमृषयः सप्त कीर्तिताः ॥ २१४ ॥ सम्भूतिश्च क्षमा प्रीतिः सन्नत्यूर्जाऽनसूयकाः । 3अरुन्धती क्रमादेताः कर्तव्यास्तैस्सहासने ॥ २१५ ॥ गविष्ठः (आकाशः) गविष्ठो हि महाभूतश्चेन्दीवरदलप्रभः । मकुटी पीतवासाश्च सर्वाभरणसंयुतः ॥ २१६ ॥ 4स सत्यलोचनेशश्च दण्डी कुम्भकवाहनः । भेरुण्डकेतुस्संप्रोक्तो मारुद्रवरसं तथा (?) ॥ २१७ ॥ चैत्रे चित्रर्क्षसम्भूतो योषास्यात्सत्यलोचना । वायुः वायुश्श्यामोऽसिपाणिस्तु प्लवकाख्याहिवाहनः ॥ २१८ ॥ शङ्खध्वजो ह्रंसरवो 5माघे स्वातीदिनोद्भवः । उदायिनीश्वरश्चैव पीतवस्त्र इति स्मृतः ॥ २१९ ॥ अग्निः 6अग्निस्सुवर्णर्णोऽयमर्चिष्केशश्च शक्तिभृत् । बडबावाहनश्चैव स्वाहेशो वानरध्वजः ॥ २२० ॥ प्रोष्ठपादेऽग्निभोद्भूतो नीलवस्त्रस्तथैव च । एषां त्रयाणां 7देव्यश्च पृथक्स्थाने समाचरेत् ॥ २२१ ॥ 1. ख. भृगुश्च 2. ख. वसिष्ठोऽत्रिर्मरीच्याद्याः 3. ख. अरुन्धतीति विख्याता ॠषिपत्न्यः प्रकीर्तिताः 4. ख. ससत्यलोचनः श्रीमान् गविष्टः कुम्भवाहनः 5. ख. मेषे 6. ख. अग्निस्तु किंशुकाभस्तु अङ्गदैश्चाप शक्तिभृत् 7. ख. देवानां पूर्वस्थाने समाचरेत्. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ५८ तोयम् तोयं चाञ्जनवर्णञ्च तथा वृषभवाहनम् । हरिपिञ्जरवासः स्याद्भूतमेतच्चतुर्गुणम् ॥ २२२ ॥ तोयं नपुंसकं 1चेति मुनिश्शातातपोऽब्रवीत् । गलकाख्यं ध्वजं चैव तथोदग्ररवध्वनिः ॥ २२३ ॥ ऊर्म्यायुतं तथाऽऽषाढे सौम्यनक्षत्रसम्भवम् । भूमिः हरिणीं श्यामवर्णां तां श्वेतवस्त्रां किरीटिनीम् ॥ २२४ ॥ पद्महस्तां क्षमां देवीं पद्मनेत्रां सुभूषिताम् । वैशाखे रेवतीजातां महाचातकवाहिनीम् ॥ २२५ ॥ सावित्री सावित्रीं ध्वजिनीं चापि2 श्वेतवस्त्रां सुसंस्थिताम् । 3विद्यां चतुर्भुजां कुर्याद्रक्तामृतकुशेशयाम् ॥ २२६ ॥ दक्षिणे त्वक्षमालां च करे वामे कमण्डलुम् । ज्ञानमुद्रां दक्षिणेऽथ करे वामेऽथ पुस्तकम् ॥ २२७ ॥ तैष्ये पुनर्वसूद्भूता तत्र पूज्याधिकेन सा । सर्वेश्वरः सर्वेश्वरोऽम्बुवाहाभष्षडङ्घ्रिध्वजवाहनः ॥ २२८ ॥ 4श्वेतवस्त्रधरो दण्डी कुम्भशब्दरवस्तथा । 5तैष्ये पुष्यभवः श्वेतवस्त्रश्चैवोष्ट्रवाहनः ॥ २२९ ॥ 1. ख. मुनयासनमेव च (?) 2. ख. श्रीभूम्योरिव शब्दिनीम् 3. क. सावित्रीं, 4. क. दण्डीविद्युन्निभेशश्च ढक्का शब्दरवस्तया. 5. ख. तैष्ये पुष्ये भवस्तत्र पश्चिमामुखमर्चयेत् ५९ सप्तमातरः ब्रह्मणीं पिंगलाञ्चैव चतुर्वक्त्रां चतुर्भुजाम् । 1कलशाक्षमालां दधतीं जटामण्डलमण्डिताम् ॥ २३० ॥ दर्भध्वजां हंसरथां चैत्रे याम्यदिनोद्भवाम् । सरित्प्रियां श्यामवर्णां शूलहस्तां चतुर्भुजाम् ॥ २३१ ॥ तस्या हंसो ध्वजः प्रोक्तः सौरभेयी च वाहनम् । वैशाखे रेवतीजातां रक्तवस्त्रां त्रिलोचनाम् ॥ २३२ ॥ मौलौ वेणीसमायुक्तां भीमरूपां भयानकाम् । 2वैशाखिनी स्वर्णनिभा शक्तिहस्ता चतुर्भुजा ॥ २३३ ॥ कृकलासध्वजा रक्तवसना 3च गुहाधिपा । ज्येष्ठमासे तथा देवी कृत्तिकर्क्षसमुद्भवा ॥ २३४ ॥ शङ्खचक्रधरा श्यामा वैष्णवी 4नीलवासिनी । फाल्गुने श्रवणोद्भूता गरुडध्वजवाहना ॥ २३५ ॥ वाराही कृष्णवर्णा च वराहवदना तथा । शङ्खचक्रधरा चैव वराहध्वजवाहना ॥ २३६ ॥ पौषे श्रवणसम्भूता 5रक्तवस्त्रा चतुर्भुजा । इन्द्राणी 6यवसश्याभा वज्रहस्ता चतुर्भुजा ॥ २३७ ॥ श्वेतवस्त्रसमायुक्ता शुकतुण्डाख्यवाहना । 7वेणुपत्रध्वजा माघे ज्येष्ठानक्षत्रसम्भवा ॥ २३८ ॥ 1. ख. कलशीमक्षमालाञ्च रत्नकुण्डलमण्डिताम् 2. ख. सुवर्णाभा. 3. ख. गुहराडिव. 4. ख. कठिनस्तनी, 5. ख. श्वेतवस्त्रा 6. ख. श्यामवर्णाभा. 7. ख. शुकतुण्डध्वजोपेता मेषे ज्येष्ठानुसम्भवा. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ६० काली 1करालवदना कालाङ्गी चोष्ट्रवाहना । पिशाचाङ्कध्वजा चैव वह्निज्वालाभमूर्धजा ॥ २३९ ॥ 2प्रोष्ठपादे यमोद्भूता शूलपाशकपालिनी । रक्तोग्रनयनापाङ्गा भ्रूभङ्गविकृतानना ॥ २४० ॥ नरस्त्रीणामिव मुखं दंष्ट्राभ्यां समलङ्कृतम् । त्रिनेत्र्यर्धेन्दुमकुटा नागाभरणसंयुताः ॥ २४१ ॥ प्रसारासनमासीनास्सप्तमातर ईरिताः । प्रसारासनलक्षणम् दक्षिणं पादमाकुञ्च्य वामं पादं प्रसार्य च ॥ २४२ ॥ प्रसारासनमित्युक्तं स्त्रीणां सामान्यमेव तत् । स्कन्दः स्कन्दः पलाशपुष्पाभः षट्भुजो वा चतुर्भुजः ॥ २४३ ॥ बालो मौलिसमायुक्तः देवयानीपतिस्तथा । मयूरवाहनश्शक्तिधरः कुक्कुटकेतुकः ॥ २४४ ॥ फाल्गुने कृत्तिकोद्भूतो हस्ती वा तस्य वहनम् । हस्ती नवहस्तमितं कुर्यादुत्सेधं सप्तहस्तकम् ॥ २४५ ॥ आयामार्धं ततः पादं शेषं नाहमुदाहृतम् । प्रादेशिकं ततो विद्या 3च्छिरसोरस्कतस्तयोः ॥ २४६ ॥ 1. ख. करालदंष्ट्रा च. 2 ख. तथा ज्येष्ठे यमोद्भूता. 3. ख. उरसे सप्तकन्तथा (?) ६१ नाहेनार्धपरीणाहं पादहीनं तु गात्रयोः (?) । गात्रस्यार्धपरीणाहं पादहीनं करोर्ध्वगम् ॥ २४७ ॥ 1तस्मात्त्रिभागादेव स्यात्कराग्रे नाह उच्यते । भूमिलम्बं तथा कुर्यात्करस्याग्रमनुच्छ्रितम् ॥ २४८ ॥ (मानं नखानां तस्यैव चतुरङ्गुलमिष्यते ।) गात्रान्तरेषु तेषां वै सर्वं बोद्धव्यमित्यतः ॥ २४९ ॥ ऐरावतं विनाऽन्येषां नीलवर्णमुदाहृतम् । कण्ठेषु द्वादशायामं करिणां परिरुच्यते (?) ॥ २५० ॥ सतालनवहस्तः स्यादुत्सेधः करिणां पतेः । प्रवालाभञ्चगण्डं च गात्रं श्वेतमुदाहृतम् ॥ २५१ ॥ 2यथाऽत्मनस्तथेभस्य माने चैव भयङ्करः । इभानामेव सर्वेषां मानमेवमुदाहृतम् ॥ २५२ ॥ परिणाहे तथा तेषामूर्ध्व युक्त्या समाचरेत् । तथा च नीलहस्ती स्यादिन्द्रनीलप्रभश्शुभः ॥ २५३ ॥ वाराहस्य महाविष्णोर्वाहनं परिकीर्त्यते । पञ्चहस्तायतं पृष्ठे सकोलं चार्धदेहकम् ॥ २५४ ॥ तस्यार्धमूर्ध्वे कर्णः स्यान्नाहं तस्य षडङ्गुलम् । अग्रे भागपरीणाहः शिखा स्यादंगुलास्तु षट् ॥ २५५ ॥ 3गोलकं विस्तृतं तस्य 4तुण्डं स्यात् चतुरङ्गुलम् भुजमात्रं तु पादं स्या5द्भुजमात्रे तले उभे ॥ २५६ ॥ 1. क. तस्य त्रिभाग एव स्यात् 2. क. यथा मानं तथाहि स्यात्. 3. ख. षट्रकोलं. 4. ख. मण्डना.5. ख. भुजमात्रमुभे तले. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ६२ पञ्चाक्षरास्समाख्याताः सुन्दराः पञ्चवर्णकाः । मयूरा एव दृश्यन्ते 1दृश्यन्ते मेचकास्तथा ॥ २५७ ॥ दिव्याश्चेदघिकं कायं देवानां चैवमाचरेत् । हस्तं पादं तथाऽऽयामं त्रितयं तत्समं स्मृतम् ॥ २५८ ॥ चूडं षडङ्गुलं प्रोक्तं विस्तारं कालचोदितम् । गलोत्सेधं च सौन्दर्यं तथा कुर्याद्विचक्षणः ॥ २५९ ॥ चक्रम् कुर्याच्चक्रं नराकारं चक्रचूलितमस्तकम् । चक्रं बहिर्मुखं कुर्याच्छरोऽङ्गाराग्निसन्निभम् ॥ २६० ॥ मुष्टिकेशं धूमकेतुं भानुहेतिं तथैव च । 2विवृत्तवाहनं चैव कार्तिके कृत्तिकोद्भवम् ॥ २६१ ॥ पादहीनं वैनतेयाद्धीन3मध्यर्धमेव वा । आस्थानमण्डपे चैव स्थापयेद्देशिकोत्तमः ॥ २६२ ॥ ध्वजस्थगरुडः तस्मा4त्ततो ध्वजस्थाने बिम्बं कुर्याद्यथाविधि । ध्वजस्थं गरुडं कुर्यादासने चैकमर्पितम् ॥ २६३ ॥ वामपादं समाकुञ्च्य सम्यक् प्रसृतबाहुकम् । दक्षिणेनैकहस्तेन पद्ममुत्पलमेव वा ॥ २६४ ॥ अष्टांगुलमथो नालं भागं पुष्पस्य मण्डलम् । पुष्पापेक्षमुखं कुर्यात्सानन्दं स्मेर5गर्वितम् ॥ २६५ ॥ 1. ख. मयूरा ये प्रदृश्यन्ते ते वै प्राकृतमानवाः म. तथा प्रकृतिमानकम्. 2. ख. प्रवृत्त. 3. क. आर्धार्धं. 4. क. तावत् ध्वजस्यापि. 5. ख. गर्भितं. ६३ एतद्ग्रामहितं प्रोक्तं जयार्थं 1चान्यदिष्यते । जानुना 2पीडितं पीठं सव्येनैवेतरेण वा ॥ २६६ ॥ वसुधां वापि जिघ्रन्तमूर्ध्वदृष्टिं च कारयेत् । पद्मासने समासीनं 3सुखस्यास्पदमव्ययम् ॥ २६७ ॥ ॠषीणां च हितार्थाय कुर्याद्देवं विचक्षणः । ध्वजः प्राङ्मुखं च ध्वजं कुर्यान्न देवं वीक्ष्य4सुस्थितम् ॥ २६८ ॥ एवं ध्वजविधिं कर्तुमशक्तो मण्डपे तथा । समालिख्यार्चयेत्तत्र ध्वजदेवं खगाधिपम् ॥ २६९ ॥ ऊर्ध्वे शङ्खं च भेरीं च वायुवाहनमत्र वै । घण्टारवं च वैशाखे वायुभे जातमुत्तमम् ॥ २७० ॥ हाटकाभं नीलवस्त्रं ध्वजमेवं प्रकल्पयेत् । शङ्खः जलजं चन्द्रवत्कुर्यान्मकुटे शङ्खसंयुतम् ॥ २७१ ॥ शङ्खाभं नीलवस्त्रं च द्विभुजं वारुणीपतिम् । वियद्गतिध्वजं चैव 5वियद्गत्यायुधं तथा ॥ २७२ ॥ भूतः भूताकृतिं वायुभोत्थं हंसवाहनमेव च । आषाढे रोहिणीजातं हृदयेऽञ्जलिसंयुतम् ॥ २७३ ॥ 1. ख. विजयाय. च.2. ख. पीड्य हस्तेन सव्येनैवोत्तरेण वा. 3. ख. सुखं ध्यायन्तं.4. ख. संस्थितं. 5. ख. वियद्गत्यायुधं पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ६४ मूलबेरवशात् परिवारकल्पनम् 1मूलेबेरवशादेव परिवारान्प्रकल्पयेत् । बाह्वन्तं वा स्तनान्तं वा नाभ्यन्तं वा ध्रुवस्य तु ॥ २७४ ॥ ब्रह्मेशावमितं सूर्यं तत्समान्वा प्रकल्पयेत् । तत्त्रिभागैकभागादिमानैः कुर्याच्च कौतुकम् ॥ २७५ ॥ देवेशाधिकमानेन परिवारान्न कल्पयेत् । एकबेरप्रतिष्ठाचेत् ब्राह्मे संस्थापयेत्पदे ॥ २७६ ॥ बलिपीठम् बलिपीठं प्रवक्ष्यामि उत्तमाधममध्यमम् । पद्मश्रीकुम्भबन्धाख्याश्चतुरश्राष्टवृत्तकाः ॥ २७७ ॥ उपपीठादिकं 2सर्वं प्रासादविधिवच्चरेत् । अधिष्ठानोदयं धाम्नो बलिपीठस्य विस्तरम् ॥ २७८ ॥ उत्तमं तत्प्रमाणं स्यात्तदर्धं मध्यमं भवेत् । तदर्धमधमं प्रोक्तं विस्तारं पादबाह्यतः ॥ २७९ ॥ तद्विस्तारसमोत्सेधं पादाधिकमथापि वा । अर्धाधिकं वा कुर्वीत विमानस्यानुरूपतः ॥ २८० ॥ द्वात्रिंशांशोत्तमोत्सेधं व्द्यंशकं पादुकं भवेत् । सप्तांशा जगती प्रोक्ता षड्भागं कुम्भमेव च ॥ २८१ ॥ एकांशमूर्ध्वपट्टी स्यात्पञ्चभागं दलं भवेत् । 3व्द्यंशके कर्णकम्पे च महापट्टी च अंशकम् ॥ २८२ ॥ 1. ख. मूलबेरप्रमाणेन.2. इत आरभ्य सप्तमाध्याये १९ श्लोके दिक्षु इत्यन्तो ग्रन्थः ख. कोशे गलितः ।3. ख. त्रिभागं कर्णकं भागं त्रिभागञ्चोर्ध्वपट्टिकाम्. ६५ एकांशंचोर्ध्वपट्टी स्याद्वेदांशं लम्बपङ्कजम् । 1व्द्यंशकं चोर्ध्वुपद्मं स्याच्चतुर्द्वारं चतुर्मुखम् ॥ २८३ ॥ एतादृशैरलङ्कारैरुक्तमुत्तममुच्यते । मध्यमे च तदुत्सेधे षड्विंशद्भागभाजिते ॥ २८४ ॥ द्व्यंशकं पादुकं चैव षड्भागं जगतीं विदुः । पञ्चांशं कुमुदं विद्यादेकांशं पट्टिका भवेत् ॥ २८५ ॥ 2कर्णं चैव चतुर्भागमेकभागं तु पट्टिका । महापट्टी द्विभागं स्यादेकांशं चोर्ध्वपट्टिका ॥ २८६ ॥ द्विभागं स्यादेकपट्टी द्विभागं लम्बपद्मकम् । द्व्यंशकं लम्बपद्मं तु पद्ममूर्ध्वन्तु द्व्ंयशकम् ॥ २८७ ॥ एवं प्रमाणसंयुक्तं मध्यमं पीठमुच्यते । अधमे तु तदुत्सेधं भागं विंशतिकं भवेत् ॥ २८८ ॥ पादुकं चैकभागन्तु जगती पञ्चभागिका । कुमुदन्तु प्रतिष्ठांशं पट्टिका भागमिष्यते ॥ २८९ ॥ त्रिभागं कण्ठमित्युक्तमेकांशं चोर्ध्वपट्टिका । महापट्टी द्विभागं स्याद्विभागं लम्बपद्मकम् ॥ २९० ॥ ऊर्ध्वपद्मं तथैकांशं कनिष्टं पीठलक्षणम् । गोपुरात्पुरतः कुर्यान्मध्यसूत्रस्थितं यथा ॥ २९१ ॥ (अधिष्ठानतलोत्तुङ्गं बलिपीठं न कल्पयेत् ।) 1. ख. मुखपट्टी स्यात्. 2. क. कर्ण. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ६६ यूथाधिपपीठम् यूथाधिपं समुद्दिश्य द्वितीयावरणेऽथवा ॥ २९२ ॥ गोपुरायाममानं तु 1द्विगुणं समनिर्गमम् । अथवा कारयेद्विद्विान् प्रथमावरणे तथा ॥ २९३ ॥ वीशगोपुरयोः कुर्यात्तावन्मानं चतुर्गुणम् । 2यूथाधिपं समुद्दिश्य पीठं सम्यक् समाचरेत् ॥ २९४ ॥ (पञ्चांशं वा प्रकुर्वीत पीठं सम्यक्सलक्षणम् ।) द्वितीयावरणे कुर्यात् तृतीयावरणेऽपि वा ॥ २९५ ॥ विष्णुभूतं समुद्दिश्य 3पीठं सम्यक्प्रकल्पयेत् । सर्वदेवमयं पीठं सर्वलोकमयं तथा ॥ २९६ ॥ सर्वलोकस्य रक्षार्थं कारयेल्लक्षणान्वितम् । रक्षः पिशाचभूतानां नाशनं धान्यवर्धनम् ॥ २९७ ॥ श्रीसौभाग्याभिवृद्धिश्च भवेत्पीठे कृते नृणाम् । प्रमुखे पृष्ठतो वाऽपि कारयेद्यत्र यत्र हि ॥ २९८ ॥ (तत्र तत्र च संस्थाप्य तत्र तत्र समर्चयेत् । शिल्पशास्त्रोक्तमार्गेण कुर्यात्पीठं सलक्षणम् अष्टाक्षं षोडशदलमथवा कारयेद्बुधः । कुर्वीतचतुरश्रं वा वृत्तं वाऽपि च कारयेत् ॥ २९९ ॥ 1. ख. द्वितीये मण्डपेऽपि वा. 2. ख. यूथाधिपं च संस्थाप्य विधिनाऽपि समर्चयेत् । एवं यूयाधिपं कृत्वा प्रमुखे तु सलक्षणम् - इति अत्र श्लोकः व्यत्ययेन दृश्यते - पञ्चांशं वेति श्लोकार्धं नास्ति. 3. ख. विधिनाऽपि बलिं ददेत् । एवमेव प्रकारेण कारयेद्विष्णुभूतकम् - इति दृश्यते. ६७ (द्वारं समुदितं तस्य तद्द्वारमुखमुच्यते । एवञ्च त्रिविधं कुर्याद्भूतपीठस्य लक्षणम्) ॥ अथवा कारयेद्विद्वान् विमानस्यानुरूपकम् । आयामं च विमानस्य पञ्चधा विभजेत्पुनः ॥ ३०० ॥ द्व्यंशं पीठस्य विस्तारं त्र्यंशकं वाऽपि कारयेत् । 1चतुर्धाशं तु कृत्वा तु प्रासादस्यानुरूपकम् ॥ ३०१ ॥ व्द्यंशकं यत्र कुर्वीत भागं षङ्विंशदाचरेत् । चतुर्धांशन्तु यत्रैव द्वात्रिंशद्भागमुच्यते ॥ ३०२ ॥ पूर्वेक्तेन विधानेन भागं भागेन योजयेत् । नित्यनृत्तं च यत्र स्याद्गोपुरात्प्रमुखेऽपि च ॥ ३०३ ॥ गोपुरस्यैव पार्श्वे तु दक्षिणोत्तरतः क्रमात् । सूत्रं कृत्वा तु यत्रैव गृहभागं विभज्य च ॥ ३०४ ॥ वीथिं दक्षिणतः कुर्यात्सूत्रस्यैव तु दक्षिणे । पीठस्योत्तरतः कुर्यात्सूत्रस्यैव तथोत्तरे ॥ ३०५ ॥ चतुर्दण्डं समारभ्य यावद्विस्तारसंयुतम् । गृहभागं विभज्यैव देवदासीश्च कल्पयेत् (?) ॥ ३०६ ॥ अन्तर्वीथ्यान्तु यत्रैव मध्यसूत्रं तु मध्यतः । पूर्वोक्तेन विधानेन पीठं कुर्याद्विचक्षणः ॥ ३०७ ॥ इन्द्रादिषु चतुर्दिक्षु भूतरूपं प्रकल्पयेत् । शङ्खनादसमायुक्तं पञ्चतालेन कारयेत् ॥ ३०८ ॥ 1. ख. चतुर्थांशन्तु कृत्वा तु प्रासादस्य बहिःकृतम्। विंशद्भागं चतुर्विंशद्भागं चैवं प्रकल्पयेत् । षङ्विशतिविभागं वा द्वात्रिंशद्वाऽपि कारयेत् इति पाठो भिद्यते. पञ्चमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ६८ तन्मध्ये चाधिरूढस्स्यात् दण्डपाणिर्बहिर्मुखः । महाभूतस्य तद्रूपं जत्रोरूर्ध्वं सितेतरम् ॥ ३०९ ॥ जत्रोरधो रक्तवर्णं रुक्माभोरुयुगं तथा । जान्वोरधस्तथा श्वेतमेवं वर्णसमन्वितम् ॥ ३१० ॥ विरजेशो भूतकेतुर्महाचातकवाहनः । ज्येष्ठे मासि धनिष्ठायां जातस्तोकोऽस्य शैषिकः ॥ ३११ ॥ सर्वेषां परिवाराणां ध्रुवकौतुकसंयुतम् । उत्तमं चैकबेरन्तु मध्यमं समुदाहृतम् ॥ ३१२ ॥ भागतालोन्नताभिस्तु वेदिभिस्तिसृभिर्युतम् । हस्तविस्तारसंयुक्तं पीठं कृत्वा तु तत्र वै ॥ ३१३ ॥ अर्चनं त्वधमं प्रोक्तं पीठं चेदालयाश्रयम् ॥ ३१४ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे परिवारलक्षणबलिपीठविधिर्नाम पञ्चमोऽध्यायः1


ख. ई.