४ अध्यायः ई. २३ चतुर्थोऽध्यायः मूलागारकल्पनम् पञ्चहस्तादिभेदैस्तु बालगेहस्वरूपकम् । विमानं परिकल्प्यैव सर्वालङ्कारमर्पयेत् ॥ १ ॥ सप्तांशेष्वंशिते तारे रसबाणयुगाधिकम् । द्विगुणं द्विगुणादूर्ध्वे वसुबाणक्रमेण च ॥ २ ॥ (सप्तषट्पञ्चवेदाग्निभागे त्वंशाधिकं तु वा) पञ्चधोत्सेधमुद्दिष्टं शान्तिकादिक्रमेण वै । शान्तिकं पौष्टिकं जय्यमद्भुतं सार्वकामिकम् ॥ ३ ॥ आयादिसंग्रहः त्रिगुणेऽष्टहृते तारे स्मृतं योनिर्ध्वजादिकम् । नाहे नवहते सप्तहृते सौरादिकं दिनम् ॥ ४ ॥ उत्सेधेऽष्टगुणे सप्तविंशत्यपहृते दिनम् । नाहे त्रिगुणिते त्रिंशद्धृते तिथिरुदाहृता ॥ ५ ॥ उत्सेधेऽष्टगुणे भानुहृते चायुर्विनिर्दिशेत् । तारे नवगुणे चाष्टहृते शेषं व्ययो भवेत् ॥ ६ ॥ गुणैर्योनिं व्ययाधिक्यं वारान् भौमार्किभास्वताम् । वैनाशिकशशाङ्काष्टविपत्प्रत्यरनैधनान् ॥ ७ ॥ मर्त्यासुरर्क्षयोगं च यत्नतः परिवर्जयेत् । गणयेत्कर्तृभान्तं वा वास्तुभान्तमतोऽन्यथा ॥ ८ ॥ श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २४ सिद्धामृतवरैर्योगैस्त्याज्या अपि शुभावहाः । एकभूमौ शान्तिकादिलक्षणम् शान्तिकेऽर्धाष्टभागन्तु पूर्वोक्तं गण्यमर्पयेत् ॥ ९ ॥ मुनिभिस्तद्वदेवोक्तं सर्वदेशिकमन्दिरम् । नवांशे पौष्टिकोत्सेधे सार्धपादांशकं तलम् ॥ १० ॥ व्द्यंशकं चरणं सार्धपादांशं च चतुर्गुणम् । एकांशं गलमानं स्यात् व्द्यंशकं शिखरोदयम् ॥ ११ ॥ एकांशं स्थूपिकोत्सेधमेवं पौष्टिककल्पनम् । दशांशे जयदोत्सेधे स्थूपिका प्रस्तरं तथा ॥ १२ ॥ एकांशं सार्धनयनं चरणं शिखरोऽग्नयः । सार्धांशन्तु गलोत्सेधमेवं जयदमीरितम् ॥ १३ ॥ (षण्मन्विषुरसार्केषु भागे षड्वर्गमेव वा) रुद्रांशे सदनोत्सेधे सपादांशं तलोदयम् । सार्धाक्षमङ्घ्रितुङ्गं स्यादेकांशं प्रस्तरोदयम् ॥ १४ ॥ ग्रीवोदयं च सार्धांशं सार्धांशं शिखरोदयम् । सपादं शिखरोत्सेधमेवमद्भुतमीरितम् ॥ १५ ॥ धात्वंशे हर्म्यतुङ्गे स्यात्तलं तद्द्विगुणांशकम् । त्र्यंशकं शिखरोत्सेधमेकांशं स्थूपिकोदयम् ॥ १६ ॥ सार्वकामिकमित्येतदेकभूमौ विशेषतः । द्वितले शान्तिकादिविधिः द्वितले शान्तिकोत्सेधे चतुस्सप्तांशभाजिते ॥ १७ ॥ २५ अधिष्ठानं त्रिभिर्भागं षड्भागं चक्रमग्निभिः । पादोदयं तु पञ्चांशं द्व्यंशकं मञ्चमीरितम् ॥ १८ ॥ वितर्दिका शशी ग्रीवा द्विभागं शिखरोदयः । अध्यर्घचतुरंशं स्यास्थूपिका सार्धमंशकम् ॥ १९ ॥ पौष्टिके द्वितलोत्सेधे चतुस्त्रिंशद्विभाजिते । सार्धांशकमधिष्ठानं द्विगुणं चरणोदयम् ॥ २० ॥ साग्न्यंशं प्रस्तरोत्सेधं षड्भागं चरणोदयम् । तदर्धं मञ्चतुङ्गं स्याद्वेदिकैकेन कल्प्यते ॥ २१ ॥ सार्धाग्न्यंशं गलोत्सेधं शरांशं शिखरोदयम् । सार्धाशं स्थूपितुङ्गं स्यादेतत्सर्वसुखावहम् ॥ २२ ॥ जयदस्य त्रयस्त्रिंशद्भागे सार्धानलं धरा । सप्ताङ्घ्रिस्तलमंशं स्याद्रसाङ्घ्रिर्मञ्चमग्निभिः ॥ २३ ॥ वेदिकैकं गलं सार्धं दृक्छरंशं तु मूर्धनि । सार्धांशं स्थूपितुङ्गं स्याज्जयदालयमीरितम् ॥ २४ ॥ षड्भागे त्वद्भुतोत्सेधे चतुरंशं तलोदयम् । (अष्टांशं चरणोत्सेधं सार्धाग्निः प्रस्तरोदयम्) सप्तांशं चरणोत्सेधं मञ्चोत्सेधं त्रियंशकम् ॥ २५ ॥ वेदिकैकं गलं त्र्यंशं भूतांशं शिखरोदयम् । स्थूपिका सार्धपादं स्यादेवमद्भुतमीरितम् ॥ २६ ॥ चत्वारिंशद्भागिके हर्म्यतुङ्गे वेदा भूमावष्टपादौ च मञ्चम् । पादेनार्धं सप्तभागं तलोऽग्निः वेदिर्द्वाभ्यां वह्निभिः कन्धरोच्चम् ॥ २७ ॥ चतुर्थोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २६ सप्तांशं शिखरोत्सेधं सार्धांशं स्थूपिकोदयम् । अद्भुते शान्तिकं गण्यं योजयेत्सर्वदेशिकः ॥ २८ ॥ त्रितले शान्तिकादिविधिः त्रितले शान्तिकोत्सेधे चतुर्विंशतिभाजिते । अधिष्ठानं व्द्यंशकं स्याद्वेदभागं पदोदयम् ॥ २९ ॥ अक्षांशं प्रस्तरोत्सेधं सत्रिपादाग्निरङ्घ्रयः । सार्धाभागं तु मञ्चं स्यात्सार्धाग्निश्चरणोदयम् ॥ ३० ॥ सपादांशन्तु मञ्चोच्चं सत्रिभागं वितर्दिका । ग्रीवोत्सेधं शिवांशं स्याच्छिखरं सार्धवह्निभिः ॥ ३१ ॥ एकांशं स्थूपिकोत्सेधमेवं त्रितलशान्तिकम् । पौष्टिके सदनोत्सेधे चतुर्विंशतिभाजिते ॥ ३२ ॥ अधिष्ठानं द्वियंशं स्याद्वेकांशं चरणोदयम् । प्रस्तरोत्सेधमष्टांशं सत्रिपादाग्निरङ्घ्र्यः ॥ ३३ ॥ मञ्चं सार्धांशकं पादं साग्निरध्यर्धकं तलम् । एकांशं वेदिकोत्सेधं ग्रीवामानं तथैव च ॥ ३४ ॥ त्रियंशं शिखरोत्सेधं पादोनांशं शिखोदयम् । जयदे हर्म्यतुङ्गे तु सप्तविंशतिभाजिते ॥ ३५ ॥ मुखोदयं द्व्यंशतलं द्वंशं च चरणोदयम् । द्वियंशं प्रस्तरोत्सेधं चतुर्भिश्चरणोदयम् ॥ ३६ ॥ पादहीनं द्विभागेन प्रस्तरोत्सेधमिष्यते । सार्घाग्न्यंशं तु पादोच्चमध्यर्धांशन्तु मञ्चकम् ॥ ३७ ॥ २७ सोमांशं वेदिकामानं गलमानं द्विभागतः । वेदांशं शिखरोत्सेधं सपादांशं शिखोदयम् ॥ ३८ ॥ अद्भुते सदनोत्तुङ्गे द्विचत्वारिंशत्तदंशके । सार्धामग्न्यंशमधिष्ठानं सप्तांशं चरणोदयम् ॥ ३९ ॥ अधिष्ठानसमं मञ्चं सार्धषट् चरणोदयम् । अग्न्यंशं प्रस्तरोत्सेधं पादमानं षडंशकम् ॥ ४० ॥ प्रस्तरं सार्धमक्षांशं सोमांशं वेदिकोदयम् । ग्रीवामानं द्विभागेन पञ्चांशं शिखरोदयम् ॥ ४१ ॥ पक्षांशं स्थूपिमानं तु शालादीन्सर्वदेशिकः । सार्वकामिकहर्म्योच्चे षडष्टांशविभाजिते ॥ ४२ ॥ पादांशं तु धरातुङ्गं पादस्यार्धाष्टकांशकः । अधिष्ठानसमं मञ्चमष्टांशं चरणं ततः ॥ ४३ ॥ मञ्चं पादोनवेदांशं पादपादाधिकाचलम् । अध्यर्धाग्न्यंशकर्णं च शिवांशा वेदिका भवेत् ॥ ४४ ॥ व्द्यंशं गलं शरांशन्तु शिखरं स्थूपिकावनिः । गण्येत्वन्योन्यसंकीर्णे ग्रामकर्तृविनाशनम् ॥ ४५ ॥ विस्तारं पादबाह्यं स्यात् खुरास्थूप्यन्तमुन्नतम् । अग्निभागैकभागं वा भूतभागेऽग्निभागकम् ॥ ४६ ॥ युगांशमृषिभागे तु पञ्चांशं वा नवांशके । ॠ त्वंशं रुद्रभागे तु वस्वंशं षोडशांशके ॥ ४७ ॥ नवांशं सप्तपङ्क्त्यंशे व्यासार्धं गर्भगेहकम् । शेषं कुड्यविशालं स्यादेकभूमिविमानके ॥ ४८ ॥ चतुर्थोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २८ नवांशे धामविस्तारे हारं चैकांशकेन तु । हारान्तरं तथैकांशमेकांशं भित्तिविस्तरः ॥ ४९ ॥ त्र्यंशकं गर्भगेहं स्यान्मन्दिरे तु द्विभूमिके । विस्तारे रसभागे तु सोमांशं कूटविस्तरम् ॥ ५० ॥ शालातारं तु व्द्यंशं स्याच्छेषं पञ्जरहारके । एवं द्वितलविन्यासं त्रितलं श्रृणु तत्पृथक् ॥ ५१ ॥ रुद्रभागेंऽशकं हारं तारहारान्तरं तथा । कुड्यस्य सममेकांशं शेषं गर्भगृहं भवेत् ॥ ५२ ॥ आदिभूमिघनं केचिदिन्छन्ति मुनिसत्तमाः । तारेऽष्टांशे कर्णकूटं शिवांशं शालमुच्यते ॥ ५३ ॥ सपञ्जरं सार्धभागं शेषं हारं तथैव च । तदूर्ध्वं नासिकोष्ठं च नीडं वा पञ्जरस्य च ॥ ५४ ॥ ऊर्ध्वभूमौ रसांशे तु कूटमेकांशकं भवेत् । व्द्यंशं कोष्ठं शिवं नीडं शेषं हारान्तरं भवेत् ॥ ५५ ॥ ऊर्ध्वभूम्यग्निभागे तु मध्ये भद्रं शिवांशकम् । एवं त्रितलविन्यासमुक्तमुद्देशमानतः ॥ ५६ ॥ वासाधिकारे यत्प्रोक्तमनुक्तं शिल्पशास्त्रतः । अधिष्ठानोदये भूतभागषड्भागभाजिते ॥ ५७ ॥ सोमाक्ष्यग्निचतुर्बाणषट्सप्तांष्टांशकोच्छ्रितम् । साधारणे तु पूर्वार्धमत्रोपेतं ततः परम् ॥ ५८ ॥ उपपीठे तलाधस्ताज्जांगले तन्न कल्पयेत् । (दण्डं सार्धद्विदण्डं वा त्रिदण्डं वाऽऽस्यनिर्गमम् २९ सरस्सरित्समुद्रान्तपुलिनेष्वालयं यदि उपपीठं तलोत्तुङ्ग त्रिचतुः पञ्चषड्गुणम् एकभक्तिं विनिष्क्रान्तं तलोर्ध्वं हर्म्यखण्डकम् एवं चूलीयुतं वापि परितः कल्पयेत्सुधीः सान्तर्मण्डलकं चेत्तद्विभक्तसमनिर्गमम् तन्निर्गमतुरीयांशं भित्तिव्यासमुदाहृतम् द्व्यंशकं मालिका पङ्क्तिः शेषं चर्यापदं भवेत्) पादमार्गे गलेऽधस्ताद्वेदिकां परिकल्पयेत् ॥ ५९ ॥ वेदिकारहितं केचित्पादवर्गं वदन्ति हि । ॠजुभित्तिमधिष्ठानं केचिदाहुस्सपट्टिकम् ॥ ६० ॥ (क्रूहताद्यादिरहितं ? पादमत्र सबोधिकम् । पद्भ्यां भाव्यं पादमध्यं शालामण्डपयोः स्मृतम्) मण्डपं तत्त्रिवर्गाढ्यमृजुभित्तिकमेव वा । ॠजुभित्तितले पादं केवलं स्यात्सबोधिकम् ॥ ६१ ॥ मध्यस्तम्भविहीनं च लुपाच्छन्नं च मण्डपम् । तन्मध्ये स्नपनश्वभ्रमौपासनविधानतः ॥ ६२ ॥ आस्थाने पश्चिमे भागे कुर्यादौपासनं शुभम् । पञ्चभागे तदुत्सेधे भागं पद्मं सपादकम् ॥ ६३ ॥ पादोत्सेधं सपादं स्यादेकांशं प्रस्तरं भवेत् । उपपीठतलोत्सेधे अधिष्ठानोक्तवद्भवेत् ॥ ६४ ॥ तत्र लांगलकुड्यस्थमधिष्ठानं प्रकल्पयेत् । तलोपरि तले नेष्टमिति पूर्वजशासनम् ॥ ६५ ॥ चतुर्थोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३० अत्रानुक्तानि सर्वाणि शिल्पशास्त्रोदितानि वै । शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कारयेद्वुधः ॥ ६६ ॥ प्राकारलक्षणम् रक्षार्थं परिवाराणां स्थापनार्थं तथैव च । प्राकाराणां प्रवक्ष्यामि लक्षणं तु तपोधनाः ॥ ६७ ॥ विमानसमविस्तारं प्रथमावरणं स्मृतम् । अथ पादाधिकं वापि कुर्यादर्धाधिकं तु वा ॥ ६८ ॥ द्वितीयं द्विगुणं तस्मादन्योन्यद्विगुणं बहिः । पञ्चमावरणान्तानि प्राकाराणि प्रकल्पयेत् ॥ ६९ ॥ एकावरणमात्रं चेत्परितो द्विगुणं भवेत् । कृत्वा तच्चतुरश्रं च मुखायामं प्रकल्पयेत् ॥ ७० ॥ द्विगुणं द्विगुणार्धं वा त्रिगुणं त्रिगुणार्धकम् । चतुर्गुणमुखायामं मुखमण्टपपूर्वतः ॥ ७१ ॥ समप्रमाणं कुर्वीत दक्षिणोत्तरपश्चिमम् । यदि पश्चिमवृद्धिस्तु स्थाननाशो भवेद्धृवम् ॥ ७२ ॥ दक्षिणोत्तरवृद्धिश्चेद्ग्रामस्सर्वोऽपि नश्यति । केचित्प्राकारविस्तारं हस्तमानं वदन्ति हि ॥ ७३ ॥ अधमं मध्यमं श्रेष्ठं विस्तारस्तु त्रिधा त्रिधा । एकावरणमात्रं च हस्तमानं यदीच्छति ॥ ७४ ॥ पञ्चहस्तं समारभ्य द्विद्विहस्तविवर्धनात्1 । एकविंशतिहस्तान्तं नवधा परिकल्पयेत् ॥ ७५ ॥ 1. पञ्चमावरणान्तानां त्रयस्त्रिंशत्करावधीति श्लोकार्धं खकोशे अधिकं दृश्यते । ३१ विमानं येन हस्तेन प्रमितं तेन बाहुना । प्राकारं मण्टपं कुर्यान्नाधिकेन कदाचन ॥ ७६ ॥ आयादिविचारविस्तरः हस्तमानेन कुर्याच्चेदायादि न परीक्षयेत् । आहृत्य भुजया कोटिं तद्राशित्रिगुणीकृतम् ॥ ७७ ॥ अष्टभक्तावशिष्टं तद्योनिरित्यभिधीयते । अष्टभिर्वर्धिते तस्मादायं स्याद्भानुभिर्हृते ॥ ७८ ॥ त्रिगुणे दशभिर्भक्ते व्ययमित्युपदिश्यते । अष्टाभिर्वर्धिते सप्ताविंशत्यपहृते दिनम् ॥ ७९ ॥ त्रिंशताप्ते तिथिर्वारं सप्तभक्तावशिष्टकम् । एवमायादिभिष्षड्भिरनुकूलं प्रकल्पयेत् ॥ ८० ॥ तिथिवारौ वदन्त्येके नाहप्रभृति1 वर्धिते । एवं ग्रामादिविन्यासेऽप्यायादिपरिशोधनम् ॥ ८१ ॥ तताहतायतकरैर्मण्डपानां ततेन वा । तत्राष्टवर्धिते ॠक्षं हृते लब्धं व्ययो भवेत् ॥ ८२ ॥ अनपायिनां स्थानम् पूर्ववत्तु मुखायामं हस्तमानेऽपि कल्पयेत् । प्रकाराणां मुखायामं चतुर्धा परिकल्प्य च ॥ ८३ ॥ मण्डपादीनां स्थानम् चक्रं ध्वजं च शङ्खं च यूथेशं चाक्षहन्तकम् । तत्र तत्र तृतीयांशे स्थापयेच्च यथाक्रमम् ॥ ८४ ॥ 1. बाहे बृहति । ई. चतुर्थोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ३२ सोपानं प्रथमे कुर्यान्मण्डपार्धप्रमाणतः । द्वितीयांशे द्वितीये तु कुर्यात्स्नपनमण्डपम् ॥ ८५ ॥ तृतीयांशे तृतीये तु कुर्यादास्थानमण्डपम् । चतुर्थावरणे वाऽथ पञ्चमावरणेऽथवा ॥ ८६ ॥ द्वितीयांशे तटाकं च मण्डपं च तदुत्तरे । परितः पुष्पवृक्षांश्च कल्पयेद्भक्तिसंयुतः ॥ ८७ ॥ 1नित्यं नृत्तं प्रकृर्वीत नित्यस्नपनमण्डपे । 2आस्थानमण्टपं चैव तथा स्नपनमण्टपम् ॥ ८८ ॥ दक्षिणामुखमैशान्ये सौम्ये वाऽपि प्रकल्पयेत् । श्रीभूतञ्चैव गरुडं कुर्यात्सोपानमण्डपे ॥ ८९ ॥ चतुस्सोपानसंयुक्तं कुर्यात्स्नपनमण्डपम् । प्राक्सोपाने कुम्भपूजां विदध्याद्याम्ये होमं वारुणे तैलकर्म । कृत्वोदीच्यां तैलमोक्षं विधिज्ञः श्वभ्रे मध्ये स्थापयेत् स्नापयेच्च॥ ९० ॥ होमाद्वा? प्राच्यपादाद्वा भित्त्यभ्यन्तरमुत्तमम् । मध्यमं भित्तमध्यं स्याद्भित्तिबाह्यमथाधमम् ॥ ९१ ॥ कुर्याच्छालां त्रिवर्गाढ्यामृजुभित्तिमथापि वा । विमानोत्सेधतुल्यां वा त्रिपादं3 वोदयं मतम् ॥ ९२ ॥ इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे शान्तिकादिविमानालङ्कारविधिर्नाम चतुर्थोऽध्यायः4 ॥
वाद्यं. ख ई. 2. मण्डपे.। ई.3. द्विगुणं. ई. 4. ई. 5