०३

३ अध्यायः ई. १७ तृतीयोऽध्यायः विमानविधिः अतः परं प्रवक्ष्यामि विमानविधिमुत्तमम् । मूलालयादथैशान्यं सौम्ये वायव्य एव वा ॥ १ ॥ प्रथमतरुणालयः बालालयं प्रकल्प्यैव प्रतिष्ठाप्य च केशवम् । ततोऽर्चनमविच्छिन्नं कुर्वन् धाम प्रकल्पयेत् ॥ २ ॥ उत्सवं कर्तुकामश्च प्रथमे तरुणालये । ध्वजं बालालयाग्रे तु समारोप्योत्सवं चरेत् ॥ ३ ॥ जलान्तं वा शिलान्तं वा खात्वा भूमिं समन्ततः । वालुकाभिः प्रपूर्यैव जलेन सहितं शनैः ॥ ४ ॥ मुसलैर्हस्तिपादैश्च दारुतुण्डैर्बृहत्तरैः । दृढीकृत्य तु सर्वत्र जलेनैव प्रपूरयेत् ॥ ५ ॥ प्राचीसाधनम् तत्र शङ्कुं प्रतिष्ठाप्य दिक्परिच्छेदमाचरेत् । तेन प्राचीं विनिश्चित्य शङ्कुना श्रवणेन वा ॥ ६ ॥ यथोक्तविधिना तत्र कृत्वा च प्रथमेष्टकाम् । आरभेत विमानं तु पञ्चहस्तादिभेदतः ॥ ७ ॥ मानलक्षणम् परमाणुरणूरेणुः केशा लिक्षास्तिला यवाः । क्रमादष्ठगुणैरेतैर्मानाङ्गुलमुदाहृतम् ॥ ८ ॥ श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १८ स्वहस्तेनाष्टतालो यस्स वै मध्यमपूरुषः । तस्य दक्षिणहस्तस्य मध्यमाङ्गुलिमध्यमम् ॥ ९ ॥ पर्व दीर्घं ततं वाऽपि मात्राङ्गुलमुदाहृतम् । मानमात्राङ्गुले चैते उत्तमे परिकीर्तिते ॥ १० ॥ तदष्टांशैकहीनं तु मध्यमं परिकीर्तितम् । सप्तांशैकविहीनं तु कनिष्ठाङ्गुलमीरितम् ॥ ११ ॥ चतुर्विंशत्यङ्गुलिभिः हस्तः किष्कुरिति स्मृतिः । अङ्गुलैः पञ्चविंशद्भिः प्राजापत्य उदाहृतः ॥ १२ ॥ षड्विंशद्भिर्धनुर्मुष्टिः सप्तविंशैर्धनुर्ग्रहः । भूमेर्देवालयादीनां मानं मानाङ्गुलेन वै ॥ १३ ॥ गृहं शय्याऽऽसनं यानं पात्रमायुधमेव च । इध्मस्रुक्स्रुवजुह्वादीन् कुर्यान्मात्राङ्गुलेन वै ॥ १४ ॥ भेदो मात्राङ्गुलस्यैव शाखाङ्गुलसमाह्वयः । मुष्टिमध्यप्रमेयः स्यात्सोऽग्निकुण्डादिकल्पने ॥ १५ ॥ तस्य मात्राङ्गुलस्यैव मध्यमाधमकल्पने । पञ्चहस्तादहीनं तु विमानं परिकल्पयेत् ॥ १६ ॥ विस्तारद्विगुणोत्सेधं कल्पयेत्तु विधानवित् । एकांशकं तदष्टांशं दशमं च गलान्तकाः ॥ १७ ॥ अंशकौ पादशिखरौ कल्पयेच्छिल्पिनाऽऽलयम् । गण्यालंकारभेदादि वासाधिकरणोक्तवत् ॥ १८ ॥ गर्भन्यासोक्तमार्गेण गर्भन्यासं समाचरेत् । समाप्ते तु विमाने तु पुनर्मूर्धेष्टकां न्यसेत् ॥ १९ ॥ १९ ध्रुवबेरकल्पनप्रकारः शूलस्थापनमार्गेण शूलं वा शैलमेव वा । संस्थाप्य च यथामार्गं ध्रुवबेरं प्रकल्पयेत् ॥ २० ॥ ध्रुवबेरानुरूपञ्च कौतुकं परिकल्पयेत् । प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ॥ २१ ॥ सद्यश्चेत्त्वरितः कर्तुं शरीरनित्यतादिना । लौहं वा दारवं वापि बिम्बमर्चितमेव1 वा ॥ २२ ॥ यागशालां प्रकल्प्यैव पञ्चाग्नीन्परिकल्प्य च । बालालयप्रतिष्ठार्थमाचार्यं परिकल्प्य च ॥ २३ ॥ बालालयप्रतिष्ठार्थमिष्टकार्थं तथैव च । शूलसंस्थापनार्थं च कल्पयेदृत्विजः पृथक् ॥ २४ ॥ सम्भृत्य सर्वसम्भारांस्तथा शूलांस्तथेष्टकाः । पूर्वरात्रौ विशेषेण कृत्वा सद्योऽङ्कुरार्पणम् ॥ २५ ॥ क्रमाच्च गार्हपत्यादिकुण्डेष्वाघारमाचरेत् । कृत्वा जङ्गमबेरस्य नेत्रोन्मेषाधिवासने ॥ २६ ॥ कुम्भं संसाध्य विधिना सप्तभिः कलशैः पुनः । सोपस्नानैश्च संस्नाप्य कुम्भं 2चापि प्रपूजयेत् ॥ २७ ॥ तत्कुम्भोदिततीर्थैश्च विधिना प्रोक्षणादनु । (बद्ध्वा प्रतिसरं तद्वच्छयने शाययेत्तथा) हौत्रं प्रशंस्य चाऽवाह्य निरुप्याज्याऽहुतीर्यजेत् ॥ २८ ॥ 1. याचितमेव 2. प्रोक्षयेत्तथा ई तृतीयोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २० बालालयप्रतिष्ठोक्तहोमं पूर्वं जुहोति च । इष्टका वा शिला वाऽथ स्नापयेत्कलशैस्तथा ॥ २९ ॥ इष्टकाश्च पृथग्वेद्यमधिवास्य यथाविधि । प्रोक्तं यथेष्टकान्यासे तथा होमं समापयेत् ॥ ३० ॥ शूलं वा शैलबेरं वा स्नापयेत्कलशैस्तथा । बध्द्वा प्रतिसरं तद्वच्छयने शाययेत्पृथक् ॥ ३१ ॥ नृत्तैर्गीतैश्च वाद्यैश्च रात्रिशेषं निनीय च । प्रातस्स्नात्वा विधानेन (सूक्तानि च जपेत्तथा ॥ ३२ ॥ मुहूर्ते समनुप्राप्ते) पूर्वं भूमिं परीक्ष्य च । कर्षयित्वा समास्तीर्य तृणं गोभ्यो निवेद्य च ॥ ३३ ॥ बालालये प्रतिष्ठाप्य पुनराद्येष्टकां न्यसेत् । (नित्यपूजामविच्छिन्नां तत्र सम्यक्प्रकल्पयेत्) गर्भगेहं विनिश्चित्य तद्घनं दृढकुट्टिमम् ॥ ३४ ॥ अधिष्ठानावसानान्तं कल्पयित्वा तु तत्र वै । शूलं वा शैलबेरं वा स्थापयेत्पूर्ववत्सुधीः ॥ ३५ ॥ परितः पञ्जरं कृत्वा विमानं कल्पयेद्बहिः । अथवा यागशालायां मध्ये वेदीः पृथक्पृथक् ॥ ३६ ॥ बालालयेष्टकाशूलस्थापनार्थं तथैव च । तस्य तस्य मुखे सभ्यं 1कुण्डं कृत्वा पृथक्पृथक् ॥ ३७ ॥ कुम्भं संसाध्य संस्नाप्य हुत्वा संस्थापयेत्क्रमात् । एवं कर्तुमशक्तश्चेद्ध्रुवबेरं च कौतुकम् ॥ ३८ ॥ 1. कुण्डलितं आ. न दृश्यते । २१ शैलं ध्रुवार्चाबेरं वा प्रतिष्ठाप्य समर्चयेत् । ब्राह्मादिपैशाचान्तेषु योगादीन् निक्षिपेत्क्रमात् ॥ ३९ ॥ सर्वाङ्गसुन्दरं बेरं कृत्वा चोक्तप्रकारतः । अक्ष्युन्मेषाधिवासौ च कारयित्वा यथाविधि ॥ ४० ॥ शूलस्थापनमार्गेण पूर्वं संस्थाप्य शिल्पिना । महाप्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत् ॥ ४१ ॥ एकबेरप्रतिष्ठां च सद्यः कर्तुं यदीच्छति । पूर्वोक्तेनैव मार्गेण रात्रौ होमं समाप्य च ॥ ४२ ॥ प्रातर्भूमिं परीक्ष्यैव कर्षयित्वा तथा भुवम् । घनभित्तिं च कृत्वा तु तत्र संकल्पयेत्पुनः ॥ ४३ ॥ पञ्जरं परितः कृत्वा विमानं कल्पयेद्बहिः । (ब्रह्मस्थानप्रतिष्ठा चेद्वर्णयुक्तं न कारयेत् दैविके मानुषे चैव स्थापयेच्चेद्विशेषतः वर्णयुक्तं यदीच्छेच्चेच्छर्करादिक्रमाच्चरेत् कौतुकं पूर्ववत्कृत्वा प्रतिष्ठां पुनराचरेत् एवमेव कृतं यत्तद्राजराष्ट्रविवर्धनम् तस्मात्सर्वप्रयत्नेन शर्करादीन्क्रमाच्चरेत्) विमानसमविस्तारमग्रमण्डपमुत्तमम् ॥ ४४ ॥ 1तदर्धं मध्यमं प्रोक्तं द्व्यन्तरेऽष्टांशभाजिते । एकैकांशाधिकं चैव नवधा मुखमण्डपम् ॥ ४५ ॥ 1. तदर्धमद्यमं. ई. तृतीयोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २२ 1त्रयाणामुत्तमादीनामन्तरालं प्रकल्पयेत् । मण्डपं तत्र2 वर्गाढ्यं कल्पयित्वा यथाविधि ॥ ४६ ॥ विमानसमविस्तारं प्रथमावरणं स्मृतम् । पुरस्ताद्द्विगुणं तस्मादग्रमण्डपपूर्वतः ॥ ४७ ॥ द्विगुणं पश्चिमं केचिदिच्छन्ति मुनिसत्तमाः । विमानद्वारदिग्द्वारं प्रथमावरणं स्मृतम् ॥ ४८ ॥ अन्यथा यदि कुर्वीत राजा राष्ट्रं विनश्यति । ग्रामस्य यजमानस्य महती च विपद्भवेत् ॥ ४९ ॥ तस्मात्सर्वप्रयत्नेन प्रथमावरणक्रमम् । विमानद्वारदिग्द्वारं प्रासादार्धसमुच्छ्रयम् ॥ ५० ॥ अवकाशवशाद्द्वारं द्वितीयावरणादिषु । विमानगर्भगेहस्य स्नापनस्यालयस्य च ॥ ५१ ॥ तथैव यागशालायाः प्राकारेषु महानसे । द्वारमन्तर्मुखं विद्यादन्येषां तु बहिर्मुखम् ॥ ५२ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे भूपरीक्षादिप्रतिष्ठोक्तसर्वकर्मणां सद्योविधिर्नाम तृतीयोऽध्यायः3 ॥


षण्णां चैव. ई. 2. त्रिवर्गाढ्यं ई. 3.