०२

द्वितीयोऽध्यायः भूपरीक्षा अङ्कुरार्पणकादूर्ध्व भूमिं सम्यक्यरीक्षयेत् । यजमानगृहे देवं सप्तविंशतिविग्रहैः ॥ १ ॥ पूजयित्वा जपन्नग्रे ‘प्रियतां भगवा’निति । प्रणम्य देवदेवेशं ‘प्रसी’ देत्यनुमान्य च ॥ २ ॥ वर्णजां कन्यकामेकामलङ्कृत्य यथोचितम् । पायसं प्राशयित्वा तां श्वेतवस्त्रानुलेपनाम् ॥ ३ ॥ पद्मदीपकरामग्रे गमयेत्सर्वमङ्गलैः । शाकुनं सूक्तमुच्चार्य स्वस्तिसूक्तं समुच्चरन् ॥ ४ ॥ आचार्यो यजमानश्च तोयधारापुरस्सरम् । गत्वा भूमिं समुद्दिष्टामारूढतरुजन्तुभिः ॥ ५ ॥ गन्धवर्णाकृतिरसैश्शकुनैश्च यथाविधि । सम्यक्परीक्ष्य पृथिवीं भूसूक्तं भूमिदैवतम् ॥ ६ ॥ जपन् भूमिं गृहीत्वा तु शोभनां दोषवर्जिताम् । ‘अपक्रामन्तु भूतानि देवताश्चासुरादयः ॥ ७ ॥ विमानार्थं गृहीतेयं भूमिर्विष्णो’ रिति ब्रुवन् । उद्वास्य देवतास्सर्वा भूमिं तत्र समर्चयेत् ॥ ८ ॥ विमानं शिल्पिना सार्धमग्रमण्डपसंयुतम् । निश्चित्याऽवरणैर्युक्तं तृणगुल्मानि शोधयेत् ॥ ९ ॥ श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १० आचार्यवरणम् भूमिः परीक्षिता येन गुरुणा विधिपूर्वकम् । कर्षणादि प्रतिष्ठान्तं कर्म तेनैव कारयेत् ॥ १० ॥ तदभावे तु तत्पुत्रं पौत्रं नप्तारमेव वा । तथैव भ्रातरं शिष्यं प्रशिष्यं गुरुमेव वा ॥ ११ ॥ सब्रह्मचारिणं वापि पूर्वाभावे तथोत्तरम् । तदनुज्ञातमन्यं वा आचार्यार्थं नियोजयेत् ॥ १२ ॥ अन्यथा चेन्महादोषो राजा राष्ट्रं विनश्यति । क्षीयन्ते वर्णधर्माश्च जायते वर्णसंकरः ॥ १३ ॥ अग्नयश्च न सिद्ध्यन्ति स्वाध्यायो न प्रवर्तते । विपरीतानि चान्यानि भविष्यत्यधरोत्तरम् ॥ १४ ॥ तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं खिलोक्तवत् । कारयित्वा च तेनैव सर्वकर्माणि कारयेत् ॥ १५ ॥ सर्वत्र गुरुरित्युक्तः तत्तत्स्थानप्रवर्तकः । सकथञ्चिदयुक्तश्चेत्युक्तेनान्येन कारयेत् ॥ १६ ॥ तत्कर्मणोऽवसाने तु तस्मै दद्याच्च दक्षिणाम् । स्थानाचार्यः प्रधानः स्यात्तन्नियुक्तोऽन्य एव वा ॥ १७ ॥ आचरेत्सर्वकर्माणि तद्वंशजनितोऽपि वा । शिल्पिलक्षणम् शिल्पिनस्त्रिविधाः प्रोक्तास्तत्तत्कर्मोपजीविनः ॥ १८ ॥ कुलालस्तक्षकश्चैव तथा पारशवस्त्विति । त्रैवस्तुकानि बेराणि शैलोर्ध्वे चित्रकर्म च ॥ १९ ॥ ११ सुधाकर्म विमानोर्ध्वे भित्तौ चित्रक्रियादिकम् । एवं कुलालकः कुर्यान्मठाद्याभासकर्म यत् ॥ २० ॥ तत्तु पारशवः कुर्यात्तक्षकस्सर्वमेव तत् । लोहाश्मदारुबेराणि चाष्टबन्धादिकां क्रियाम् ॥ २१ ॥ ग्रामादिवास्तुविन्यासं वर्णिनां गृहकर्म च । प्रासादमण्डपद्वारप्राकाराणां च कल्पनम् ॥ २२ ॥ आचरेत्तक्षकस्सर्वं कुर्युश्शिल्पिन एव तत् । अन्यथा यदि स ग्रामो राजा राष्ट्रं च नश्यति1॥ २३ ॥ कर्षणम् अतः परं प्रवक्ष्यामि परं कर्षणलक्षणम् । (उक्तेष्विष्टदिने शुद्धे कर्तुश्चाप्यनुकूलके) ॥ २४ ॥ षट्स्वाषाढादिमासेषु कर्षणं सम्यगाचरेत् । युगलाङ्गलक्लृप्त्यर्थमुक्तवृक्षं समाहरेत् ॥ २५ ॥ संशोध्य वृक्षमूलं च गोमयेनोपलिप्य च । रुद्रभूतेन्द्रकीनाशान् मातॄस्सोमं च वीरकम् ॥ २६ ॥ अष्टोपचारैरभ्यर्च्य बलिं दत्वा च तद्वने । रुद्रेन्द्रयमवृक्षेन्द्रान्वृक्षमूले तथाऽर्चयेत् ॥ २७ ॥ वनस्पतिभ्य इत्युक्त्वा कुमारीभ्य उदीर्य च । वृक्षराजेभ्य इत्युक्त्वा परितश्च बलिं ददेत् ॥ २८ ॥ 1. आद्यप्रभृति २३ श्लोका एते आ, कोशसमुदाये न पठ्यन्ते, द्वितीयाध्यायारम्भश्चेतः पश्चात् दृश्यते । द्वितीयोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १२ सर्वकामप्रदेभ्यश्च पश्चाद्धोमं समाचरेत् । अग्नये वनराजाय सोमाय च 1यमाय च ॥ २९ ॥ 2शाखाय स्थूललाक्षाय 3व्याधाय मृगरूपिणे । वनस्पतिभ्यः कुमारीभ्यो वल्लीभ्यः कुसुमाय च ॥ ३० ॥ शलाटवे बृहत्त्वचे पुण्यायामृततेजसे । सूर्याय 4हरिरूपाय श्रुङ्गिणे भूतरूपिणे ॥ ३१ ॥ नागहस्ताय दिव्याय त्रिहस्ताय तथैव च । विघ्नाय विघ्नरूपाय विनायकमुदीर्य च ॥ ३२ ॥ 5प्रसारिणे मुरुण्डाय 6न्यर्णायेति समुच्चरन् । नागेभ्यो भूतराजेभ्यश्चारणेभ्य इति ब्रुवन् ॥ ३३ ॥ दिवा नक्तंचेरभ्यश्च 7संध्याभ्यश्च तथैव च । सन्ध्याचरेभ्य इत्युक्त्वा अप्सरोभ्यस्तथैव च ॥ ३४ ॥ यक्षीभ्यश्च कुमारीभ्योऽप्यासुरीभ्यस्तथैव च । राक्षसीभ्यः पिशाचेभ्यो वनाय स्थलचारिणे ॥ ३५ ॥ जुहुयाद्वृक्षदेवेभ्यः स्थानदेवेभ्य एव च । रूपिभ्यो मिथुनेभ्यश्च सुखेभ्यश्च जुहोति च ॥ ३६ ॥ व्याहृतीश्च तथा हुत्वा ‘निर्दग्ध’ मिति चोच्चरन् । पर्यग्निकरणं कृत्वा वृक्षस्य च पुनर्यजेत् ॥ ३७ ॥ सर्वेश्वराय मातृभ्यो वक्रतुण्डाय मूर्तिभिः । हुत्वा मातृस्तथा सोमं वक्रतुण्डं च पूजयेत् ॥ ३८ ॥ 1. जयाय. आ.2. शङ्खाय. आ. 3. वायवे. आ. 4. सूर्यरूपाय. आ. 5. प्रासारिणे. आ. 6. अग्रये. आ. 7. सन्धिभ्य. आ. १३ पुण्याहं वाचयित्वा तु बध्द्वा प्रतिसरं तथा । रात्रिशेषं ततो नीत्वा प्रातस्स्नात्वा यथाविधि ॥ ३९ ॥ छेदयित्वा तरुं सम्यग्युगादीन्परिकल्पयेत् । लक्षणं तु युगादीनां खिलोक्तविधिना चरेत् ॥ ४० ॥ प्राच्यामुदीच्यां वा स्थित्वा प्रागादिषु सुविन्यसेत् । बलिं दत्वा समाहृत्य गन्धोदैरभिषिच्य च ॥ ४१ ॥ देवदेवं समभ्यर्चेत् सप्तविंशतिविग्रहैः । चतुर्विंशतिमायामं चतुरश्रं सुलक्षणम् ॥ ४२ ॥ षडङ्गुलसमुत्सेधं रत्निमात्रं त्रिमेखलम् । अन्यत्रापि समुद्दिष्टं पीठमेवं तथार्चने ॥ ४३ ॥ देवेभ्यश्चापि भूतेभ्यो नागयक्षेभ्य एव च । पिशाचेभ्यस्सर्वभूतेभ्यो राक्षसेभ्यस्तथैव च ॥ ४४ ॥ वैरोचनगणेभ्यश्च परितो निक्षिपेद्बलिम् । मध्ये नागबलिं दत्वा कृत्वा पुण्याहमत्वरः ॥ ४५ ॥ बलीवर्दावलङ्कृत्य रूप्यश्रृङ्गखुरौ शुभौ । दक्षिणे पूर्वपादे तु बध्नीयात्कौतुकं तयोः ॥ ४६ ॥ रात्रिशेषं निनीयैव प्रातः स्नात्वा विधानतः । तस्य पश्चिमदेशे तं देवदेवं समर्चयेत् ॥ ४७ ॥ चक्रवीशामितैस्सार्धमभ्यर्च्याऽचमनान्तकैः । ‘प्रियतां मेदि’ नीत्युक्त्वा पञ्चभिर्भूमिदैवतैः ॥ ४८ ॥ प्रणम्य भूमिं देवेशं प्रणम्यैवानुमान्य च । ‘नमो वरुण’ इत्यद्भिः कृत्वा सीमाविनिर्णयम् ॥ ४९ ॥ द्वितीयोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १४ ‘अक्षैर्मादीव्य’ इत्युक्त्वा प्रोक्षयेत्कर्षकं पुनः । दक्षिणे ‘त्वं वृषे त्युक्त्वा ‘सौरभेये’ ति वामतः ॥ ५० ॥ कुशरज्ज्वा युगे बध्द्वा ‘युगं युग’ इति ब्रुवन् । युगे लाङ्गलमाबद्ध्य कुशरज्ज्वा स्मरन् हरिम् ॥ ५१ ॥ ‘ॠषिं गृह्णामि’ मन्त्रेण गृह्णीयादृषिमत्वरः । ‘विष्णुर्मा’ मुच्चरन् मन्त्रमात्मरक्षां प्रकल्प्य च ॥ ५२ ॥ ‘येऽस्मिन्देशे’ इति जपन् कर्षणं तत्र कारयेत् । सर्वबीजानि चाऽहृत्य ‘इमे बीजा’, इति स्पृशन् ॥ ५३ ॥ ‘देवि त्व’ यीति मन्त्रेण प्रदक्षिणवशेन तु । 1उप्त्वा तु सर्वबीजानि जलसेकं च कारयेत् ॥ ५४ ॥ 2दक्षिणोक्तविधानेन दद्यादाचार्यदक्षिणाम् । सद्यः कर्षणम् एवं कर्तुमशक्तश्च सद्यः कुर्यात्त्वरान्वितः ॥ ५५ ॥ भूमिं परीक्ष्य सद्यस्तु कर्षयित्वा यथाविधि । बीजानि च समाहृत्य ब्राह्मणेभ्यः प्रदाय च ॥ ५६ ॥ तृणपूलं पलालं वा समास्तीर्य च सर्वतः । गोगणांस्तत्र चानीय गोगणेभ्यो निवेदयेत् ॥ ५७ ॥ ‘भुञ्जन्तु देवा इत्युक्त्वा बलिं तत्र समर्पयेत् । देवायार्घ्यं निवेद्यैव प्रणम्यैवानुमान्य च ॥ ५८ ॥ 1. क्षिप्त्वा. इ. 2. रक्षां सम्यग्विधायैव । इ. १५ पदकल्पनम् एकाशीतिपदं कृत्वा सम्पूज्य पददेवताः । गर्भालयं समुद्दिश्य उपपीठपदं नयेत् ॥ ५९ ॥ नागादि पञ्चभूतान्तं पञ्च पञ्च पदाधिपाः । प्रागुदक्पञ्चसूत्रस्थास्सन्धिस्था देवता इमाः ॥ ६० ॥ शेषादीन् बहिरभ्यर्च्य पश्चिमादि बहिर्मुखान् । कुस्तुरुण्डादयः पूज्या आग्नेयादि प्रदक्षिणम् ॥ ६१ ॥ (प्रागुदग्वेदसूत्रस्थाः पदे पूज्या विशेषतः) किष्किन्धादि हितान्ताश्च मध्ये प्रागादि दिक्ष्वपि । अङ्कणे तु समभ्यर्च्य सक्त्वपूपैर्बलिं ददेत् ॥ ६२ ॥ पिशाचेभ्यश्च भूतेभ्यो बलिं दत्वा जलान्वितम् । ब्रह्मपद्मविधिं कृत्वा परीक्ष्य च शुभाशुभे ॥ ६३ ॥ अशुभे शान्तिहोमान्ते शुभे कर्म समाचेरत् । ग्रामकल्पनम् ग्राममानं विनिश्चित्य कृत्वाऽऽयादिपरीक्षणम् ॥ ६४ ॥ प्रागुत्तराननैस्सूत्रैर्दशभिस्सप्तभिर्युतैः । पदं कृत्वा विधानेन चतुष्षष्टिं चतुर्गुणम् ॥ ६५ ॥ त्यक्त्वा ब्राह्मं च पैशाचं विप्रावासं प्रकल्पयेत् । ब्राह्मे वायव्यभागे तु प्राङ्मुखं विष्णुमन्दिरम् ॥ ६६ ॥ ईशानानलनीलेषु सभागोष्ठापणान् क्रमात् । पश्चिमे यदि कुर्याच्चेद्ब्रह्मसूत्रात्तथोत्तरे ॥ ६७ ॥ द्वितीयोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः १६ विसृज्य भागं पैशाचं बहिरन्तरथापि वा । विमानं प्राङ्मुखं कुर्यादिति पूर्वजशासनम् ॥ ६८ ॥ यदि पैशाचभागस्थ देवदेवस्य मन्दिरम् । आधिव्याध्यादिभिस्सर्वे पीड्यन्ते वास्तुवासिनः ॥ ६९ ॥ चतुष्षष्टिविभागे तु बहिरावरणे तथा । भद्रकाळीं हरं चापि शास्तारं बहिरंशके ॥ ७० ॥ बहिर्मुखान् क्रमात्कुर्यात्सर्वेऽन्ये तद्बहिः स्थिताः । मानुषेऽभ्यन्तरेऽर्धांशे गृहश्रेणीं प्रकल्प्य च ॥ ७९ ॥ (पैशाचे बहिरर्धे तु गृहवाटीं प्रकल्प्य च) पैशाचे बहिरर्धेतु गृहनाडीं प्रकल्पयेत् । एवं देशं विनिश्चित्य विमानं परिकल्पयेत् ॥ ७२ ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे कर्षणादिपदविन्यासविधिर्नाम द्वितीयोऽध्यायः1 ॥