प्रथमोऽध्यायः मङ्गलाचरणम् नारायणः पिता यस्य यस्य माता हरिप्रिया । भृग्वादिमुनयः शिष्यास्तस्मै विखनसे नमः ॥ १ ॥ ॠषय ऊचुः ॠषिप्रश्नोत्तरम् आश्रमे सम्यगासीनमृषिं सर्वहितोद्यतम् । ॠषयोऽभ्यागतास्सर्वे प्रणिपत्येदमब्रुवन् ॥ २ ॥ भगवान् केन मार्गेण कं देवं पूजयन्ति वै । आचक्ष्व सन्तो ब्रह्मर्षे सर्वमेतत्सविस्तरम् ॥ ३ ॥ भृगुरुवाच युष्माभिः परिपृष्टं यत्तत्सर्वमृषिसत्तमाः । वक्ष्यामि सावधानेन श्रृणुध्वं मत्प्रबोधितम् ॥ ४ ॥ हृदिस्थितिगतं पीठं चतुरश्रं हिरण्मयम् । नानामणिगणज्वालादुष्प्रेक्ष्यं शुभमुज्ज्वलम् ॥ ५ ॥ श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः २ तस्य मध्यगतं ध्यायेन्नारायणमनामयम् । शुद्धस्फटिकसङ्काशं शङ्खचक्रधरं परम् ॥ ६ ॥ आसनाद्युपचाराणि मनसा तस्य भावयेत् । एषा तु मानसी पूजा बेरपूजा तु वक्ष्यते ॥ ७ ॥ उक्तप्रमाणप्रतिमां हाटकादिविधिं1 पराम् । प्रतिष्ठाप्यार्चयेत्सा तु बेरपूजेति चोदिता2॥ ८ ॥ ध्यात्वाऽग्निमण्डलं तस्य ध्यायेन्मध्ये प्रभां शुभाम् । प्रभामध्यगतं ध्यायेदासीनं वा जनार्दनम् ॥ ९ ॥ तप्तहाटकसङ्काशं चतुश्श्रृङ्गं द्विशीर्षकम् । सप्तहस्तं त्रिचरणं दुष्प्रेक्ष्यं सप्तजिह्वकम् ॥ १० ॥ स्रुक्स्रुवौ चाक्षमालां च शक्तिं दक्षिणपाणिषु । चामरं व्यजनं चैव घृतपात्रं च वामतः ॥ ११ ॥ ध्यात्वा यथोक्तहविषा यजेत्तद्धोमपूजनम् । यथोपयोगशक्यत्वात्कर्तुं पुष्पादिपूजनम् ॥ १२ ॥ चक्षुषः प्रीतिकरणान्मनसो हृदयस्य च । 3प्रीत्या सञ्जायते भक्तिर्भक्तस्य सुलभो हरिः ॥ १३ ॥ तस्मात्रयाणामेतेषां बेरपूजा विशिष्यते । बेरपूजाद्वैविध्यम् गृहार्चा चाऽलयार्चेति बेरपूजा च सा द्विधा ॥ १४ ॥ 1. मयीं आ. 2. अग्निहोत्रादिहोमेषु सूत्रोक्तेन विधानतः - इत्यधिकं दृश्यते ई 3. प्रत्यहं इ. ३ बल्युत्सवादिभिर्दिव्यैः1 पूर्णत्वात्सर्वविग्रहैः । प्रमीते यजमानेऽपि त्वविच्छिन्नप्रवर्तनात् ॥ १५ ॥ साधारणत्वात्सर्वेषां तद्ग्रामादिषु वासिनाम् । मुख्यमाह पुरा ब्रह्मा बेरपूजनमालये ॥ १६ ॥ आलयार्चाद्वैविध्यम् आलयार्चाविधिस्सोऽपि द्विधा विष्णोः प्रकीर्तितः । वैखानसः पाञ्चरात्रो वैदिकस्तान्त्रिकः क्रमात् ॥ १७ ॥ विधिस्तु वेदमूलश्च दीक्षायुक्तस्तु तान्त्रिकः । केवलामुष्मिकफलो वेदवैदिकवर्धनः ॥ १८ ॥ कारयेद्वैदिकेनैव ग्रामादिषु च वास्तुषु । नदीतीरेऽद्रिश्रृङ्गे वा वने वाऽन्यत्र निर्जने ॥ १९ ॥ पूजयेत्तान्त्रिकेणैव ग्रामादौ न कदाचन । अनुलोमनिवासेषु तान्त्रिकेणैव पूजयेत् ॥ २० ॥ व्रात्यान्तरालप्रभृतिप्रतिलोमनिवासने । उभाभ्यां नार्चयेद्विष्णुमिति पूर्वजशासनम् ॥ २१ ॥ आचार्यलक्षणम् एवं मनसि सञ्जाते यजमानो मुदान्वितः । वैखानसेन सूत्रेण निषेकादिक्रियान्वितम् ॥ २२ ॥ विप्रं स्वाध्यायसंयुक्तं वेदतत्त्वार्थदर्शिनम् । सौम्यं जितेन्द्रियं शुद्धं विष्ण्वर्चनपरायणम् ॥ २३ ॥ ऊहापोहविधानेन ध्वस्तसंशयमानसम् । पत्न्यपत्ययुतं शान्तं स्नानशीलं च धार्मिकम् ॥ २४ ॥ 1. बिम्बैः ई. प्रथमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ४ आहूय देववत्पूज्य सर्वकार्योपदेशकम् । आचार्यं वरयित्वा तु तेनोक्तं सर्वमाचरेत्1॥ २५ ॥ अङ्कुरार्पणम् तस्मात्तु दिवसात्पूर्वं नवमे वाऽथ सप्तमे । पञ्चमेऽहनि वा कुर्यात्तृतीये वाङ्कुरार्पणम् ॥ २६ ॥ अथवा त्वरयायुक्तः कुर्यात्तत्सद्य एव वा । अमावास्याव्यवहिते कुर्यात्सद्योऽङ्कुरार्पणम् ॥ २७ ॥ सङ्क्रमव्यवधानेऽपि सद्य एवेति केचन । कर्मणां साधिवासानां सद्यश्चेदङ्कुरार्पणम् ॥ २८ ॥ आरम्भकालात्पूर्वं तु पूर्वं 2निश्चित्य कारयेत् । अथवा स्थापन कालात्पूर्वमेव त्वरान्वितः ॥ २९ ॥ कृत्वाऽक्षिमोचनं सद्यो जलादिष्वधिवास्य च । अग्न्याघारादि कर्माणि कृत्वाऽऽवाह्य च पूर्ववत् ॥ ३० ॥ पुण्याहं विधिवत्कृत्वा पूजयेदिति केचन । बहुक्रियाणामेकाहे त्वेकमेवाङ्कुरार्पणम् ॥ ३१ ॥ (एकाहेऽपि पृथक्कार्य भिन्नकर्तृककर्मणाम्) तदर्थं पालिकाः कुम्भाञ्छरावानपि चाऽहरेत् । षोडश द्वादशाऽष्टौ च चतुरश्च पृथक्पृथक् ॥ ३२ ॥ 1. इतः परं ‘कृत्वा स्वार्थं त्रिधैकांशं कुटुम्बार्थं विशेषतः । द्वाभ्यां तदवशिष्ठाभ्यां विमानार्चनमारभेत् । युक्तमासर्क्षपक्षेषु भूपरीक्षणमारभेत् इत्यधिकं. इ. कोशे दृश्यते तत्र प्रथमाध्यायस्य समाप्तिश्च ई. 2. निश्येव इ. ५ वर्णानां ब्राह्मणादीनां सर्वेषां चतुरोऽथवा । नव वा पञ्च वैकं वा सद्यः कालाङ्कुरार्पणे ॥ ३३ ॥ दिनसंख्याक्रमात्केचिद्वदन्ति मुनिसत्तमाः । पूर्वोक्तलक्षणोपेतान्कल्पयित्वा यथाबलम् ॥ ३४ ॥ यजमानगृहे चापि 1चैशान्येष्वितरेषु वा । अन्यस्मिन्वा शुचौ देशे 2गृहे वा ग्रामकर्तृके ॥ ३५ ॥ चतुर्दिशं चतुर्हस्तं गोमयेनोपलिप्य च । प्रागन्तं चोत्तरान्तं च षट्सूत्राणि समर्पयेत् ॥ ३६ ॥ उपपीठे पदं चैकं ब्रह्मपीठाय कल्पयेत् । चर्यार्थं परितोऽष्टौ च पङ्क्त्यर्थं षोडशेतरे ॥ ३७ ॥ तत्पदान्तर्गतं पङ्क्त्या ब्रह्मपीठं प्रकल्पयेत् । शेषादीनां तु पीठानि पङ्क्त्यामेव प्रकल्पयेत् ॥ ३८ ॥ मरीचिः पङ्क्तिबाह्येऽपि तेषां पीठानि चोक्तवान् । षडङ्गुलसमुत्सेधं षोडशाङ्गुलमायतम् ॥ ३९ ॥ त्रिवेदिसहितं कुर्यात् षण्णां पीठं पृथक्पृथक् । यजमानगृहार्चायां स्थण्डिले वा तथैव च ॥ ४० ॥ देवदेवं समभ्यर्च्य सप्ताविंशतिविग्रहैः3 । पादौ प्रक्षाल्य चाचम्य मध्ये ब्रह्माणमर्चयेत् ॥ ४१ ॥ प्राग्द्वारादुत्तरे शेषं वक्रतुण्डन्तु दक्षिणे । दक्षिणद्वारपूर्वे तु गरुडं च समर्चयेत् ॥ ४२ ॥ 1. चालयेषु ई.2. प्रपायां ई.3. पङ्क्तिमध्ये तथा पीठे ब्रह्माण- मपि पूजयेत्। विनैव देवदेवेशं पूजयेदत्रिणोक्तवत्। इत्यधिकं, ई. प्रथमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ६ सुदर्शनं पश्चिमे च विधिनैव समर्चयेत् । पङ्क्तीशं पश्चिमद्वारदक्षिणे च विधानतः ॥ ४३ ॥ उत्तरे भूतभर्तारमर्चयित्वा यथाविधि । पूर्वस्मिन्नुत्तरद्वारात्सोमं शान्तं समर्चयेत् ॥ ४४ ॥ ऐन्द्रादि च तथैशान्तं जयाद्यप्सरसोऽर्चयेत् । हविषा च समायुक्तं सर्वेषामुत्तमं पृथक् ॥ ४५ ॥ ब्रह्मादीनां तु षण्णां वै मध्यमं तत्प्रकीर्तितम् । ब्रह्मणश्च तु शेषाणां बलिरेवाधमं भवेत् ॥ ४६ ॥ (ब्रह्मा सोमश्च विघ्नेशः पङ्क्तीशश्शान्तसोमकौ । षडेते मध्यमे प्रोक्ता देवा मध्यमपूजने ॥ बाह्येऽष्टाङ्गुलविस्तारे पीठे स्थण्डिल एव वा । पूर्वोक्तमूर्तिभिर्मध्ये ब्रह्माणं प्राङ्मुखं यजेत् ॥ शेषादींश्च जयादींश्च पूर्वोक्ताभिश्च मूर्तिभिः । संपूज्य विधिना पश्चान्निवेदनमथाऽचरेत् ॥ हविर्निवेदयेत्तेभ्यस्तदलाभे बलिं ददेत् । अपनीय तु निर्माल्यं प्रोक्षणैः प्रोक्षयेत्ततः ॥) मृद्भिर्वा सिकताभिर्वा पालिकादीन्प्रपूरयेत् । तेषां मध्ये कुशैर्वापि वेष्टयेत्तन्तुनाऽथवा ॥ ४७ ॥ प्राङ्मुखः प्रयतो भूत्वा विन्यसेत्तु क्रमेण वै । ब्रह्मणः परितः पङ्क्त्यां गायत्रीं वैष्णवीं जपन् ॥ ४८ ॥ चिन्तयेन्मेदिनीं देवीं तां सर्वेषु समर्चयेत् । (ईशानादिषु कोणेषु पालिकास्स्थापयेद्बुधः । द्वारदक्षिणपार्श्वेषु छिद्रकुंभांश्च विन्यसेत् ॥ ७ द्वाराणां वामपार्श्वेषु शरावानथ विन्यसेत् । प्रधानाभिमुखद्वारं तद्वशात्परिकल्पयेत् ॥ चरस्थिरद्विदेहेषु पालिकादीन् यथाक्रमम् । मेषादिराशिवशतः स्थापयेदिति केचन ॥ पालिकादिषु पात्रेषु मेदिनीमभिपूजयेत् । पुण्याहं स्वस्तिमृद्धिं च वाचयित्वा यथाक्रमम् ॥ प्रोक्षणैः प्रोक्षयेदेष पुण्याहो दैविकः स्मृतः) सौवर्णे राजते पात्रे ताम्रे1 कांस्यमये तथा ॥ ४९ ॥ उद्धृत्य तोयमग्नानि क्षीरप्रक्षालितानि वै । बीजानि पूरयित्वा तु सोमं तत्र समर्चयेत् ॥ ५० ॥ तत्काले तूर्यघोषैश्च घोषयित्वा समाहितः । परिधायाहतं वस्त्रं सोत्तरीयाङ्गुलीयकः ॥ ५९ ॥ आचार्यो यजमानो वा वापयेदङ्कुरान् शुभान् । ‘सोमं राजान’ मित्युक्त्वा विष्णुसूक्तं च सञ्जपन् ॥ ५२ ॥ स्त्रीशूद्रौ कारयेतां चेत्ताभ्यां वापं न कारयेत् । वारुणं मन्त्रमुच्चार्य जलसेकं च कारयेत् ॥ ५३ ॥ नववस्त्रेण सञ्छाद्य पुण्याहं वाचयेत्ततः । जलेन सेचयेन्नित्यं दीपं च परिरक्षयेत् ॥ ५४ ॥ यथाङ्कुरस्सुसंपंन्नस्तथा यत्नेन रक्षयेत् । श्यामलाश्च तथा रक्ता ये च तिर्यग्गता अपि ॥ ५५ ॥ अङ्कुराश्चाप्ररूढाश्च वर्जनीयाः प्रयत्नतः । श्यामेषु द्रव्यनाशः स्याद्रक्तेषु कलहो भवेत् ॥ ५६ ॥ 1. कांस्येऽथ मृण्मये, ई. प्रथमोऽध्यायः श्रीवैखानसे भगवच्छास्त्रे क्रियाधिकारः ८ तिर्यग्गर्तेषु रोगस्स्यादप्ररूढेषु वै मृतिः । शुभं पीतेषु शुक्लेषु ॠ जूर्ध्वगतिरोहिषु ॥ ५७ ॥ कर्तुः कारयितुश्चापि भवत्येव न संशयः । एवमेव क्रमेणैव मङ्गलायाङ्कुरार्पणम् ॥ ५८ ॥ पञ्चमेऽहन्ययुक्ते तु सद्यः कर्ता त्वरान्वितः । तृतीयेऽहनि वा तद्वदङ्कुरानर्पयेद्बुधः ॥ ५९ ॥ अशक्तस्तण्ड्डुलैश्शुद्धैः सद्यश्चैव शुभाङ्कुरैः । पालिकादीन्प्रपूर्यैव पञ्चभिर्वाऽथ वर्णकैः ॥ ६० ॥ अलङ्कृत्य च पद्माद्यैः पुष्पैर्वाऽऽपूर्य विन्यसेत् । अङ्कुरोक्तक्रियास्सर्वास्तैस्तैरेव समाचरेत् ॥ ६१ ॥ अङ्कुराणां तु सर्वेषां चन्द्रः प्रोक्तोऽधिदैवतम् । नैव प्रीणाति भगवानङ्कुरार्पणमह्नि चेत् ॥ ६२ ॥ तस्मात्सर्वप्रयत्नेन रात्रावेवाङ्कुरार्पणम् ॥ ६३ ॥ (अर्पयेत्तण्डुलान् शुद्धान् सद्यः कालाङ्कुरार्पणे । गृह्णीयात्पालिकास्तत्र पञ्च सप्त नवापि वा ॥ ब्रह्माणोऽभिमुखे पङ्क्तौ परितो दिक्षु देवताः । तत्तद्दिगीशानभ्यर्च्य तत्तन्मन्त्रेण चार्पयेत् ॥ (एष एव विशेषः स्यादन्यत्सर्वं खिलोक्तवत् ।) इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे अग्निध्यानाऽचार्यलक्षणाङ्कुरार्पणविधिर्नाम प्रथमोऽध्यायः1
अध्यायः ई. ९