चतुस्त्रिंशोऽध्यायः
ॐ
चतुस्त्रिंशोऽध्यायः
गोदाप्रतिष्ठा
अतः परं प्रवक्ष्यामि गोदायाः स्थापनं परम्।
विष्णोः प्रीतिकरं पुण्यं सर्वकामफलप्रदम् ॥ 34.1 ॥
पुरा बृन्दावने पुण्ये भूमिदेव्यंशसम्भावा।
विष्णुभक्तिसमायुक्ता विष्णुभोगाभिलाषिणी ॥ 34.2 ॥
द्विभुजा मानुषी भूत्वा हरिं प्राप्तवती स्वयम्।
गोदेति नाम्ना विख्याता भूमिलोके विशेषतः ॥ 34.3 ॥
सायुज्यं प्राप्तवत्यन्ते विष्णुना सहचारिणी।
तत्प्रतिष्ठाक्रमं वक्ष्ये शृणुध्वं मुनिसत्तमाः ॥ 34.4 ॥
मासर्क्षतिथिवारादिः पूर्वमेव मयोदितः।
यथोक्तदिवस कुर्यादङ्कुरार्पणपूर्वकम् ॥ 34.5 ॥
सम्भाराहरणादीनि कृत्वा चैचव प्रयत्नतः।
भूदिदेवीप्रतिष्ठोक्तं विधिना सर्वमाचरेत् ॥ 34.6 ॥
अक्ष्युन्मेषं द्वितीयेऽह्रि वास्तुहोमादिकं तथा।
अधिवासत्रयञ्चापि बिम्बशुद्ध्यर्थमाचरेत् ॥ 34.7 ॥
पौण्डरीकः प्रधानाग्निः शेषं पूर्ववदाचरेत्।
कुम्भान् वेद्यां समारोप्य धान्यराशौ तु पूर्ववत् ॥ 34.8 ॥
पञ्चनिष्कप्रमाणेन प्रतिमास्तेषु निक्षिपेत्।
नवरत्नानि निक्षिप्य वस्त्रैरावेष्ट्य यत्नतः ॥ 34.9 ॥
ततो ध्यानसमायुक्तः कुम्भेष्वावाहनं चरेत्।
जयाद्यप्सरसोऽष्टौ च संमभ्यर्च्य निवेदयेत् ॥ 34.10 ॥
कौतुकं पूर्ववद्वध्द्वा शयने शाययेच्च ताम्।
सर्वदेवार्चनं कृत्वा वेदानध्यापयेत्ततः ॥ 34.11 ॥
पौण्डरीकं परिस्तीर्य हौत्रशंसनमाचरेत्।
हौत्रशंसनवेलायां समाह्वानञ्च मूर्तिभिः ॥ 34.12 ॥
‘गोदां वसुमतीं लक्ष्मीसखीं विष्णुसतीं’ विदुः।
पूर्वोक्तेन विधानेन सर्वकुण्डेषु होमयेत् ॥ 34.13 ॥
भूमिमन्त्रद्वयेनैव हुनेदष्टोत्तरं शतम्।
एष एव विशेषस्स्यात्सर्व पूर्वोक्तवच्चरेत् ॥ 34.94 ॥
नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः।
ततः प्रभाते धर्मात्मा देवीमुत्थाप्य मन्त्रतः ॥ 34.15 ॥
कलशैः स्नाप्य पूर्वोक्तैरलङ्कत्याम्बरादिभिः।
रत्नन्यासादिकं कृत्वा पीठे संयोजृय मन्त्रवित् ॥ 34.16 ॥
सुधया वा दृढीकृत्य यजमानुयजो गुरुः।
शिरसा कुम्भमादाय ग्राममालयमेव वा ॥ 34.17 ॥
प्रदक्षिणवशान्नीत्वा देवागारं प्रवेशयेत्।
गुरं सम्पूज्य विधिना वस्त्राभरणकुण्डलैः ॥ 34.18 ॥
यथोक्तदक्षिणां दद्याद्देवीप्रीतिकरं भवेत्।
मुहूर्ते समनुप्रप्ते सम्यगावाहनं चरेत् ॥ 34.19 ॥
भूमिमन्त्रद्वयेनैव सर्वं पूर्ववदाचरेत्।
उपचारैस्मभ्यर्च्य प्रभूतं वा महाहविः ॥ 34.20 ॥
निवेदयित्वा विधिना ब्रह्मघोषञ्च कारयेत्।
सहस्रविप्रभुक्तिञ्च दशदानञ्च कारयेत् ॥ 34.21 ॥
एवं यः कुरते भक्त्या गोदास्थापनमत्वरः।
सर्वान् कामानवाप्यैव विष्णुसायुज्यमाप्नुयात् ॥ 34.22 ॥
पादुकाप्रतिष्ठा
अतः परं प्रवक्ष्यामि पादुकास्थापनं परम्।
हेमराजितताम्रादिद्रव्यैः कृत्वा सलक्षणम् ॥ 34.23 ॥
पादुकां देवदेवस्य पादयोग्यां सरत्नकाम्।
सर्वलक्षणसंयुक्तां कारयित्वाऽतिसुन्दरम् ॥ 34.24 ॥
यजमानो विशेषेण पादुकास्थापनं क्रमात्।
कारयित्वा यथाशास्त्रं देवदेवस्य पादयोः ॥ 34.25 ॥
योजयेत्सर्वकामांश्च लभेत्कर्ता न शंसयः।
अन्यथा देवदेवस्य प्रीणनं न भवेद्ध्बुवम् ॥ 34.26 ॥
तस्मात्कर्ता यथाशक्ति कारयित्वा ददेन्मुदा।
कृत्वाऽङ्कुरार्पणं पूर्वमाचायर्चवरणादिकम् ॥ 34.27 ॥
ऋत्विजां वरणं सर्वं प्रतिष्ठोक्तवदाचरेत्।
वास्तुहोमं ततो हुत्वा निष्कत्रयसुवर्णकैः ॥ 34.28 ॥
वास्तुपुरुषं समावाह्य शुद्धिं कृत्वा तु तस्य च।
अधिवासञ्च कृत्वा तु पूर्वोकृतविधिना ततः ॥ 34.29 ॥
कुम्भं संसाध्य विधिना निष्कहेम्ना पृथक्पृथक्।
अष्टमङ्गलसंयुक्तं प़ञ्चायुधयुतं पृथक् ॥ 34.30 ॥
पादुकायाः स्वरूपञ्च कृत्वा निष्कत्रयेण च।
वैष्णवेन विनिक्षिप्य कुम्भमध्ये विचक्षणः ॥ 34.31 ॥
कलशैस्सप्तभिस्स्नानं सम्यक्कृत्वा सलक्षणम्।
आघारं विधिवत्कृत्वा हौत्रं तत्र प्रशंस्य च ॥ 34.32 ॥
शेषं तदधिदेवञ्च समावाह्यैव मूर्तिभिः।
निरुप्याऽज्याहुतीर्हुत्वा शयनञ्च प्रकल्प्य च ॥ 34.33 ॥
वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च।
शेषमन्त्रद्वयेनैव शतमष्टोत्तरं यजेत् ॥ 34.34 ॥
दिक्पालानां मनुंश्चैवमष्टाविंशतिसङ्ख्य्या।
जयादीनपि हुत्वा तु यद्देवादिपुरस्सरम् ॥ 34.35 ॥
हुत्वा होमं समाप्यैव रात्रिशेषं व्यपोह्य च।
प्रातस्स्नानादि कृत्यैव मुहूर्ते च समावहेत् ॥ 34.36 ॥
ततो देवस्य पदयोः पैष्णवेन ददेन्मुदा।
महाहविः प्रभूतं वा देवेशाय निवेदयेत् ॥ 34.37 ॥
एवं यः कुरुते भक्त्या पादुकास्थापनं नरः।
सर्वैश्वर्यमवाप्यैव सर्वं पाप व्यापोह्य च ॥ 34.38 ॥
सर्वदानाफलं लब्ध्वा सामीप्यफलमुपाश्नुते।
नवीकरणमुद्धिश्य शक्त्याकर्षणपूर्वकम् ॥ 34.39 ॥
जीर्णबेरविधानेन सर्व कर्म समाचरेत्।
भक्तप्रतिष्ठा
अतः परं प्रवक्ष्यामि भक्तानां स्थापने विधिम् ॥ 34.40 ॥
जटिनं शिखिनं वापि ब्राह्मणं परिकल्पयेत्।
प्राञ्जलिं भावनायुक्तं नासान्ताहितलोचनम् ॥ 34.41 ॥
क्षत्रियं मकुटोपेतं वैश्यमुद्बुद्धकुन्तलम्।
कुर्याच्छूंद्रानुलोमा?दीन् रोमचूडासमन्वितान् ॥ 34.42 ॥
अथवा मुण्डितान्वाऽपि भगवद्ध्यानतत्परान्।
यदाकारेण देवेशं पश्येयुस्तत्तदाकृतीन् ॥ 34.43 ॥
अष्टतालोक्तमार्गेण द्विजातीन् परिकल्पयेत्।
मध्यमेनैव शूद्रादीन् कारयित्वा यथाविधि ॥ 34.44 ॥
भक्तानां ध्रुवबेरस्य देव्योश्चैव तथैव च।
प्रमाणं पूर्वमेवोक्त ध्रुवबेरवशात्तथा ॥ 34.45 ॥
कृत्वैवं भक्तबिम्बन्तु प्रतिष्ठामाचरेत्पुनः।
असुरा विद्याधराः पूजा ऋषयो मानवास्तथा।
ब्राह्मणैः क्षत्रियै वैष्यैश्शूद्रैरप्यन्त्यजातिभिः ॥ 34.47 ॥
(तत्तद्भक्तिसमायुक्तैः तच्चिह्रैस्तत्परायणैः।
कर्तव्यं भक्तबिम्बानां भजनं विष्णुमन्दिरे) ॥
उत्तरायाणकाले तु दक्षिणे वा त्वरान्वितः।
पुण्यर्क्षे मासनक्षत्रे पूर्वपक्षे विशेषतः ॥ 34.48 ॥
स्थिरराशिं प्रगृह्यैव उभये वा शुभोदये।
तस्मात्तु दिवसात्पूर्वमङ्कुरानर्पयेत्क्रमात् ॥ 34.49 ॥
तृतीये दिवसे कुर्याच्छिल्पिना चाक्षिमोचनम्।
पूर्वोक्तलक्षणैर्युक्तमाचार्य वरयेत्क्रमात् ॥ 34.50 ॥
प्रमुखे दक्षिणे वाऽपि उत्तरे वा मनोरमे।
मण्डपं वाऽथ कूटं वा प्रपां वाऽपि विधानतः ॥ 34.51 ॥
औपासनाग्निकुण्डञ्च कृत्वा आधारमाचरेत्।
अङ्गहोमञ्च हुत्वा तु पाञ्चभैतिकसंयुतम् ॥ 34.52 ॥
नयनोन्मीलनं कृत्वा पुण्याहं वाचयेत्ततः।
नद्यां वाऽथ तटाके वा वाप्यां वाऽथ कटाहके ॥ 34.53 ॥
अधिवास्यैव तद्विम्बं बेरशुद्धिं समाचरेत्।
पूर्वोक्तलक्षणैर्युक्तां यागशालां प्रकल्पयेत् ॥ 34.54 ॥
वितानाद्यैरलङ्कत्य सर्वालङ्कारशोभिताम्।
तन्मध्ये स्थण्डिलं कृत्वा बिम्बाध्यर्धप्रमाणतः ॥ 34.55 ॥
प्राच्यामाहवनीयञ्च श्वभ्रं पूर्ववदाचरेत्।
उत्तरे वास्तुहोमार्थां पूर्वोक्तेन विधानतः ॥ 34.56 ॥
पर्यग्निञ्चैव कृत्वा तु प्रोक्षणैः प्रोक्षणं चरेत्।
आघारं पूर्ववद्धुत्वा वैष्णवेन समन्वितम् ॥ 34.57 ॥
अधिवासगतं बेरं यागशालां प्रवेशयेत्।
पूर्वोक्तेन विधाने कुम्भपूजां समाचरेत् ॥ 34.58 ॥
तत्तद्रूपं तथा ध्यायेत्कुम्भम्ध्ये विशेषतः।
पञ्चभिः कलशैस्स्नाप्य बिम्बं यत्नेन शोधयेत् ॥ 34.59 ॥
वस्त्रपञ्चकमास्तीर्य स्थापयेत्कुम्भसंयुतम्।
अलङ्कत्य च वस्त्राद्यैरर्चयेदष्टविग्रहैः ॥ 34.60 ॥
पुण्याहं वाचयेत्तत्र बध्द्वा प्रतिसरं ततः।
शयने शाययेद्वेरं यतो द्वारं ततश्शिरः ॥ 34.61 ॥
उत्तराच्छादनं कुर्याद्दीपान्तञ्च समर्चयेत्।
अग्निं सम्परिषिच्चैव मूलहोमश्च हूयते ॥ 34.62 ॥
अष्टाशीतिं ततो हुत्वा महाव्याहृतिसंयुतम्।
अष्टाक्षरेण मन्त्रैण शतष्टोत्तरं यजेत् ॥ 34.63 ॥
तत्तन्मूर्तीः स्वमन्त्रेण अष्टोत्तरसहस्रकम्।
नृतैर्गीतैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमात् ॥ 34.64 ॥
पुनः प्रभाते धर्मात्मा स्नात्वा स्नानविधानतमः।
शयितं बेरमुत्थाप्य प्रणम्यैवानुमान्य च ॥ 34.65 ॥
पूर्वमाल्यैरलङ्कत्य पूजयेदष्टविग्रहैः।
अन्तहोमं ततः कृत्वा गर्भागारं प्रवेशयेत् ॥ 34.66 ॥
प़ञ्चरत्नं सुवर्णञ्च पीठस्थाने विनिक्षिपेत्।
आचार्यदक्षिणां शिष्यो दत्वोदकपुरस्सरम् ॥ 34.67 ॥
मुहूर्ते समनुप्राप्ते यजमानयुतो गुरुः।
कुम्भ बेरं समादाय आलयं सम्परीत्य च ॥ 34.68 ॥
जीवस्थाने निवेश्यैव स्थापयित्वोक्तविष्टरे।
आत्मसूक्तं जपित्वा तु तत्तद्वीज़्च विन्यसेत् ॥ 34.69 ॥
तन्नामाद्यक्षर बीजं न्यसेदोङ्कारवेष्टितम्।
तन्मुर्तिमन्त्रे सयोज्य मूलमन्त्रावसानके ॥ 34.70 ॥
घटाच्छक्तिं समावाह्य बेरमूर्धनि चाह्वयेत्।
पुण्याहं वाचयेत्तत्र स्वस्तिघोषणमाचरेत् ॥ 34.71 ॥
पूर्वोक्तविग्रहैः सर्वैरर्चयित्वा निवेद्य च।
तन्निवेदितशेषन्तु तद्भक्तानां प्रदापयेत् ॥ 34.72 ॥
अनुक्तानि च सर्वाणि मूर्तिमन्त्रेण कारयेत्।
प्रतिष्ठायामुत्सवे च नित्यहोमे तथैव च ॥ 34.73 ॥
परिवारप्रितिष्ठासु भक्तानां स्थापने तथा।
भक्तानां परिवाराणां स्वाहान्ते च वदेद्गुरुः ॥ 34.74 ॥
विष्णवे नम इत्यक्त्वा सर्वेषामाहुतीर्यजेत्।
(तदन्तर्यामिणं विष्णुं सर्वहूतिषु संयजेत्) ॥ 34.75 ॥
विष्णवालयगताश्चैव परिवारास्तथैव च।
भक्ता भृत्याश्च सर्वे च विष्णुरुपाश्च भाविताः ॥ 34.76 ॥
इत्यूचे भगवान् ब्रह्मा पुरा सर्वान् मुनीन् प्रति।
तच्छ्रुत्वा मुनयस्सर्वे पर्यपृच्छन् पितामहम् ॥ 34.77 ॥
ब्रह्मन् विष्णुस्वरुपाः स्युः परिवाराः कथं प्रभो।
इत्युक्तस्सर्वलोकानां सुष्टा प्रोवाच तान्मुनीम् ॥ 34.78 ॥
श्रृणुध्वं मुनयस्सर्वे यद्यूयं परिपृच्छथ।
विश्वव्यापनशीलत्वाद्विणुरित्यभिधीयते ॥ 34.79 ॥
तस्माद्विष्णुष्णुस्वरुयांश्च परिवारान् विभावयेत्।
परिवारस्य मन्त्रान्ते तत्तन्नाम वदेत्सुधीः ॥ 34.80 ॥
तत्तन्नाम्ना न कुर्याच्चेत्क्रुद्धः स्याद्भगवान् हरिः।
(तच्छिष्याश्च प्रशिष्याश्च तत्तत्पादाश्च? देवताः)
तस्माच्छास्त्रं समालक्ष्य विष्णवे सम्प्रदापेयत् ॥ 34.71 ॥
कर्षणे भूनरीक्षायां गोगणानां निवेदने।
शिलादार्वोश्च ग्रहणे मधूच्छिष्टविधावपि ॥ 34.82 ॥
लोहस्रावे तथा नैत्ये देव्योश्च स्थापने तथा।
तयोस्तु पाणिग्रहणे भक्तानां स्थापने तथा ॥ 34.83 ॥
जयन्त्यां स्नपने चैव मधुवल्मीकसम्भवे।
कलहादिसमुद्भूतौ वास्तुहोमाङ्गहोमयोः ॥ 34.84 ॥
नयनोन्मीलने चैव अधिवासत्रयेऽपि च।
कर्मस्वेतेषु विंशत्सु कार्यः श्रामणकानलः ॥ 34.85 ॥
अथवाऽऽहवनीयग्नौ हुत्वा कर्म पृथक्चरेत्।
श्रामणाहवनीयौ च पर्यायाविति केचन ॥ 34.86 ॥
एवं यः कुरुते भक्त्या भक्तानी पूजनं बुधाः।
ग्रामशान्तिकरञ्चैव भक्तानामभिवृद्धिदम् ॥ 34.87 ॥
इह लोके सुखं भुङ्क्त्वा पत्नीपुत्रासमन्वितः