33 त्रयस्त्रिंशोऽध्यायः

त्रयस्त्रिंशोऽध्यायः


त्रयस्त्रिंशोऽध्यायः
पञ्चामृतस्नपनविधिः
अथ पञ्चामृतस्नानं देवदेवस्य तु प्रियम्।
विष्णुपञ्चदिनेष्वेवमयने विषुवद्वये ॥ 33.1 ॥
चन्द्रसूर्योपरागे च व्यतीपाते विशेषतः।
प्रतिष्ठान्ते चोत्सवान्ते सर्वशान्त्यर्थमेव च ॥ 33.2 ॥
पञ्चामृताभिषेकस्तु देवदेवप्रियङ्करः।
देवस्य पुरतः सम्यक् गोमयेनोपलिप्य च ॥ 33.3 ॥
यवैर्वा तण्डुलैर्वाऽत्र द्विहस्तायतविस्तृतम्।
स्थण्डिलं कल्पयित्वाऽष्टदलं पद्मञ्च कल्पयेत् ॥ 33.4 ॥
पद्मस्योर्ध्वे तु पुष्पाणि प्रक्षिपेत्तुलसीन्तु वा।
पद्माकारस्य मध्ये तु प्रणवं विलिखेद्बुधः ॥ 33.5 ॥
प्रगादीशानपर्यन्तं दलेष्ठष्टाक्षरं लिखेत्।
कलशांश्च समाहृत्य तन्तुना वेष्टयेद्गुरुः ॥ 33.6 ॥
पञ्चामृतद्रव्यम्
गुडं क्षीरं दधि घृतं मधु सर्वं समन्वितम्।
पञ्चामृतन्तु विज्ञेयं स्नानार्थ शार्ङ्गिणः प्रियम् ॥ 33.7 ॥
पञ्चाभिषेककलशान् पूरयेदमृतेन वै।
गुडसम्मिश्रितं तोयं पद्मध्ये सुविन्यसेत् ॥ 33.8 ॥
क्षीरसम्पूर्णकलशं प्राच्यां पद्मदले न्यसेत्।
दधिसम्पूर्णकलशं विन्यसेद्दक्षिणे दले ॥ 33.9 ॥
पश्चिमे धृतपात्रन्तु उत्तरे च मधु विन्यसेत्।
आग्नेयादिदलेष्वेवमुपस्नानानि विन्यसेत् ॥ 33.10 ॥
मध्यादीशानपर्यन्तमुपस्नाने तथैव च।
आदित्यमश्विनौ चैव रुद्रञ्चैव तु वत्सरान् ॥ 33.12 ॥
प्रागादि पञ्चवायूंश्च मध्यादिषु सामह्वयेत्।
देवदेवं समादाय स्थापयेदथ पश्चिमे ॥ 33.13 ॥
पाद्याद्यैरर्चयेद्विद्वान् स्नपनोक्तविधानतः।
‘सोमं राजा’ मित्युक्त्वा ‘शन्नो देवी’ रिति क्रमात् ॥ 33.14 ॥
‘इषे त्वोर्जे’ त्वेति जपन् ‘अग्न आयाहिवी’ ति च।
‘अग्निमील’ इति प्रोच्य देवेशं स्नापयेद्बुधः ॥ 33.15 ॥
‘वारीश्चतस्र’ इत्युक्त्वा सर्वोपस्नानमाचरेत्।
एवं पञ्चामृतस्नानं सर्वशान्तिकरं परम् ॥ 33.16 ॥
राजराष्ट्रर्द्धिजननं सर्वाभीष्टफलप्रदम्।
पञ्चगव्यविधिः
अतः परं प्रवक्ष्यामिं पञ्चगव्यविधि हरेः ॥ 33.17 ॥
तण्डुलोपरि देवाग्रे स्थण्डिले चतुरश्रके।
पद्मष्टदलं कृत्वा तन्मध्ये प्रणवं न्यसेत् ॥ 33.18 ॥
प्रागादीशानपय्रन्तं दलेष्वष्टाक्षरं न्यसेत्।
तत्पद्मं कुशपुष्पाद्यैरलङ्कत्य तथोपरि ॥ 33.19 ॥
पञ्चगव्यलक्षणम्
कपिलाया वरं वरं क्षीरं श्वेताया ?दधि शस्यते।
रक्तायाश्च घृतं ग्राह्यं कृष्णांया गोमयं तथा ॥ 33.20 ॥
गोमूत्रं नीलवर्णायाः पञ्चगव्यं शुभप्रदम्।
प्रस्थपादं घृतञ्चैव दधि तद्दिवगुणंस्मृतम् ॥ 33.21 ॥
त्रिगुणं क्षीरमित्युक्तं गोमयन्तु चतुर्गुणम्।
षङ्गुणञ्चैव गोमूत्रं पञ्चगव्यं सुयोजयेत् ॥ 33.22 ॥
पतितं गोमयं श्रेष्ठं गोमूत्रञ्चाप्यपातितम्।
धारोष्णं क्षीरमादेयं सद्यस्तप्तं घृतं तथा ॥ 33.23 ॥
दधि चाप्यनतीताहतमेतद्गव्यस्य लक्षणम्।
मध्ये पदे तु गोमुत्रं दधि पूर्वं यमे घृतम् ॥ 33.24 ॥
क्षीरञ्च पश्चिमे सौम्ये गोमयं स्थापयेत्क्रमात्।
आग्नेय्यां गन्धतोयञ्च नैर्ऋत्यामाम्लकं तथा ॥ 33.25 ॥
वायव्यामपि हारिद्रमैशान्याञ्च कुशोदकम्।
एवं क्रमे विन्यस्य अधिदेवांत्समर्चयेत् ॥ 33.26 ॥
अधिदेवाः
गोमूत्रे जाह्रवी प्रोक्ता यजुर्वेदश्च दध्नि वै।
सामवेदो घृते प्रोक्तः क्षीरे ऋग्वेद एव च ॥ 33.27 ॥
अथर्वा गोमये चैव अभ्यर्च्या अष्टविग्रहैः।
सयोजनम्
गायत्र्या चैव गोमूत्रं ‘दधिक्रा’ व्णेति वै दधि ॥ 33.28 ॥
आज्यं ‘शुक्रम’ सीत्युक्त्वा ‘आप्याय’ स्वेति वै पयः।
गोमयं ‘गन्धद्वा’ रेति ‘देवस्य त्वा’ कुशोदकम् ॥ 33.29 ॥
एवं क्रमेण संयेज्य चतुर्वेदादिमन्त्रकैः।
स्नपनप्रकारः
स्नापयेत्पञ्चगव्येन आम्लेन च सुशोधयेत् ॥ 33.30 ॥
?‘सिनीवा’ लीति हारिद्रैः गन्धैः ‘भूरानिले’ ति च।
स्वादुशीतलतोयेन नरसूक्तेन वै हरिम् ॥ 33.31 ॥
सस्नाप्य वस्न्नाभरणैरलङ्कृत्य निवेदयेत्।
अभिषिक्तावशिष्टं तदमृतं गव्यमेव वा ॥ 33.32 ॥
प्राशयित्वा महापापैरुपपापैः प्रमुच्यते।
ऐहिकान् सकलान् भोगान् भुक्त्वा सायुज्यमाप्नुयात् ॥ 33.33 ॥
शुद्यर्थ पञ्चगव्यसाधनम्
देहबेरालयादीनां शुद्ध्यर्थं यत्प्रयुज्यते ॥ 33.34 ॥
सूतसात्त्वतचण्डालसूतिकादिप्रवेशने।
पञ्चगव्यन्तु संयोज्यं प्रोक्षयेत्तेन मन्दिरम् ॥ 33.35 ॥
पञ्चगव्यानि सङ्गृह्य पञ्चपात्रेषु पूरयेत्।
स्वगृहस्याङ्गणे चैव गोमयेनोपलिप्य च।
तन्मध्ये षोडशदलं रङ्गवल्लीञ्च कारयेत् ॥ 33.37 ॥
द्रोणार्धतण्डुलैः पूर्णं कांस्यपात्रं प्रगृह्य च।
तन्मध्ये विलिखेत्पद्मं दलपञ्चकसंयुतम् ॥ 33.38 ॥
पात्राणि पञ्चगव्यानां विन्यसेत्तद्दलेषु च।
मध्य आज्य प्रतिष्ठाप्य पूर्वस्मिन् दधि निक्षिपेत् ॥ 33.39 ॥
क्षीरन्तु दक्षिणे चैव गोमय पश्चिमे तथा।
उत्तरे चैव गोमूत्र क्रमेण स्थापयेद्बुधः ॥ 33.40 ॥
घृते तु सामवेदञ्च दध्नि ऋग्वेदमेव च।
क्षीरे अथर्ववेदञ्च गोमये स्कन्दमेव च ॥ 33.41 ॥
शर्व देवञ्च गोमूत्रे अधिदेवान् समर्चयेत्।
आज्यं ‘शुक्रम’ सीत्युक्त्वा षोडशाशां प्रगृह्यं च ॥ 33.42 ॥
‘दधिक्राण्ण’ इत्युक्त्वा क्षिप्त्वा तद्दिवगुणं दघि।
‘आप्याय’ स्वेति मन्त्रेण त्रिगुणं क्षीरमाहरेत् ॥ 33.43 ॥
‘गन्धद्वा’ रेति मन्त्रेण गोमयञ्च चतुर्गुणम्।
षड्गुणञ्चैव गोमूत्रं गायत्?त्र्य तत्र निक्षिपेत् ॥ 33.44 ॥
‘वणोः पवित्र’ मित्युक्वा एकीकुर्यात्तु पञ्चकम्।
पञ्चगव्याधिदेवस्य मूर्तिमन्त्रं वदाम्यहम् ॥ 33.45 ॥
‘पञ्चगव्यं शिवञ्चेशमव्यक्त’ मिति पूजयेत्।
जपित्वा विष्णुसूक्तञ्च ‘रुद्रमन्यं-त्र्यम्बकम्’ ॥ 33.46 ॥
प्रोक्षणम्
‘अणोरणीया’ नित्युक्त्वा ‘आपो हि ष्ठा’ दि भिस्तथा।
प्रोक्षणैरनुवाकैश्च प्रोक्षयेत्सर्वमन्दिरम् ॥ 33.47 ॥
प्राशनम् ‘शन्नो देवी’ रिति प्रोच्य पञ्चगव्यञ्च त्रिः पिबेत्।
पञ्चगव्य तथा पीत्वा पूतो भवति निश्चयः ॥ 33.48 ॥
आचार्यकरदत्तं तत्पञ्चगव्यं पिबेद्बुधः।
प्रतिष्ठार्थञ्चोत्सवार्थमन्यकार्यार्थमेव च ॥ 33.49 ॥
वैखानसकुले जातं निषेकादिक्रियान्वितम्।
उक्तलक्षणसम्पन्नं श्रेष्ठं ज्ञानसमन्वितम् ॥ 33.50 ॥
गृहस्थं कर्मकुशलं ब्रह्मचारिणमेव वा।
वानप्रस्थमथो वाऽपि वरयेद्गुरुमुत्तमम् ॥ 33.51 ॥
रक्षाबन्धनकार्यादीन् कारयेदिति शासनम्।
आचार्यमृतिज्वजः कुर्याद्वनस्थब्रह्मचारिणौ ॥ 33.52 ॥
तयोरपि न दोषः स्यादिति पूर्वजशासनम्।
आचार्यकरदत्तन्तु त्रिः पिबेत्पञ्चगव्यकम् ॥ 33.53 ॥
फलश्रुतिः
पञ्चगव्यं तथा पीत्वा सर्वपापैः प्रमुच्यते।
अङ्कुरार्पणकदूर्ध्वमारम्भदिवसादधः ॥ 33.54 ॥
दीक्षितानामाशैचाभावकथनम
आशौयं यदि सम्प्राप्तं कर्ममध्ये विशेषतः ॥ 33.55 ॥
स्नानेनैव विशुद्धिः स्यात्स्नात्वा कर्म समाचरेत्।
दीक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् ॥ 33.56 ॥
आशौचं न भवेत्तेषामुदके पद्मपत्र वत्।
दीक्षितोऽप्येकपुत्रस्तु मातापित्रोर्गुरोर्मृतौ ॥ 33.57 ॥
संस्कृत्य शालामागत्य देवकार्यं समाचरेत्।
देवकार्यसमाप्तौ तु प्रेतकार्य समाचरेत् ॥ 33.58 ॥
प्रेतकार्यसमाप्तौ तु देवकार्यं समाचरेत्।
पूर्वन्तु देवकार्य स्यात्प्रेतकार्यमनन्तरम् ॥ 33.59 ॥
दिने दिने च कर्तव्यमिति शातातपोब्रवीत्।
देवकार्यस्य मध्ये चेदाचार्यमरणं यदि ॥ 33.60 ॥
प्राणोत्क्रमणकोल तु रक्षाबन्धं विसृज्य च।
तत्पुत्रादिषु चद्वध्द्वा शीघ्रं कर्म प्रवर्तयेत् ॥ 33.61 ॥
तत्पुत्रादिष्वलब्धेषु देवहस्ते तु बन्धयेत्।
अन्यमार्चायमा हूय कार्यशेषं समापयेत् ॥ 33.62 ॥
बन्धनन्तु न कर्तव्यं सर्वकर्म समारेत्।
अज्ञानादन्यहस्ते तु बुन्धयेद्यदि मूढधीः ॥ 33.63 ॥
तत्कर्म निष्फलं प्रोक्तं राजराष्ट्रविनाशनम्।
शुद्धस्पनविधिः
अतः परं प्रवक्ष्यामि शुद्धस्नानविधिं हरेः ॥ 33.64 ॥
मण्डले त्वभिषेकार्थ बहिः सोपानमण्डपे।
संस्थापयदेद्देवदेवं स्नपनाय एव वा ॥ 33.65 ॥
आस्थानमण्डपे वाऽथ कुर्याच्दुद्धाभिषेचनम्।
गोमयेनोपलिप्यैव मण्डपं चतुरश्रकम् ॥ 33.66 ॥
पञ्चवर्गैरलङ्कत्य वितानस्तम्भवेष्टनैः।
मुक्तादामावलम्बैश्च पुष्पदामवालम्बनैः ॥ 33.67 ॥
पताकाभिर्ध्वजैश्चैव अलङ्कत्य च सर्वतः।
सर्वत्र दीनानरोप्य तन्मध्ये सोत्तरच्छदम् ॥ 33.68 ॥
विष्टरं सुस्थिरं न्यस्य पूजकस्सुसमाहितः।
‘भुः प्रपद्य’ इति देवेशं प्रणम्यैवानुमान्य च ॥ 33.69 ॥
‘परं रं’ हेति मन्त्रेण पीठादादाय चात्वरः।
स्वस्तिसूक्तं समुच्चार्य शाकुनं सूक्तमेव च ॥ 33.70 ॥
शङ्खघोषयुतं नीत्वा स्थापयेदत्र विष्टरे।
‘प्रतद्विष्णुःस्तवत’ इति स्थापयित्वा समाहितः ॥ 33.71 ॥
स्नपाङ्गोपचारः
‘नरायणाय वि’ द्मेति पादपुष्पाणि विन्यसेत्।
पाद्यमाचमनं दत्वा पूर्वोक्तविधिना ततः ॥ 33.72 ॥
‘अन्नाद्यां येति मन्तेण दन्तधावनमाचरेत्।
तेनैव जिह्वाशुद्धिञ्च मुखप्रक्षालनं तथा ॥ 33.73 ॥
पुनराचमनं दत्वा प्लोतेन परिमृज्य च।
मुखवासं निवेद्यैव प्रणम्यैवानुमान्य च ॥ 33.74 ॥
देवस्यापरभागं तदाच्छाद्यैव गलादधः।
देवस्य पश्चिमे स्थित्वा गुरुस्तद्भावभावितः ॥ 33.75 ॥
‘अतो देवा’ दि मन्त्रांश्च ‘सोमं राजान’ मुच्चरन्।
तैलेनाभ्यञ्जनं कृत्वा केशानाबद्ध्य वै पुनः ॥ 33.76 ॥
सुगन्धिमालयाऽऽवेष्ट्य पाणी प्रक्षाल्य वै ततः।
ललाटात्पादपर्यनतं तैलेनाभ्यज्य मर्दयेत् ॥ 33.77 ॥
शालिपिष्टेन देवाङ्गं विमृजेच्चन्दानेन वा।
तैलसमर्पण्वर्ज्यकालाः
अष्टम्याञ्च नवम्याञ्च चतुर्दश्याञ्च पर्वणि ॥ 33.78 ॥
अभ्यञ्जनञ्च दन्तानां धावनं चर्जयेत्तथा।
ततो देवं समासाद्य स्नानवेद्यान्तु पूर्ववत् ॥ 33.79 ॥
प्राङ्मुखं स्थापयेत्सम्यक् तमिन्दुमुखमेव वा।
पाद्यमाचमनं दत्वा प्रणम्यैवानुमान्य च ॥ 33.80 ॥
‘परिलिखित’ मिति मन्त्रेण आम्लेन परिशोधयेत्।
तेनैव केशशुद्धिञ्च कुर्यादामलकादिभिः ॥ 33.71 ॥
‘वारीश्चतस्र’ इत्युक्त्वा वारिणा स्नापयेत्पुनः।
‘नमो वरुण’ इत्युक्त्वा स्नापयेत्पुष्पवारिणा ॥ 33.82 ॥
‘सिनीवा’ लीति देवाङ्गमालिप्य च हरिद्रया।
‘भूरानिलय’ इत्युक्त्वा स्नापयेद्गन्धवारिणा ॥ 33.83 ॥
पुनराचमनं दत्वा वस्त्रञ्चैवोत्तरीयकम्।
दद्याद्यज्ञोपवीतञ्च तत्तन्मन्त्रमुदीरयन् ॥ 33.84 ॥
दत्वा चानामिकाङ्गुल्योः पवित्रे परहस्तयोः।
अष्टोपचारैरभ्यर्च्य वेदैः संस्तूय च क्रमात् ॥ 33.85 ॥
सहस्रधारास्नापनक्रमः
शङ्खपद्माङ्कपात्राभ्यामावर्जितजलेन च।
सहस्रधारापत्रेण पौरुषं सूक्तमुच्चरन् ॥ 33.86 ॥
नारायणानुवाकेन स्नापयित्व ततः परम्।
देव्योश्च तत्तन्मन्त्राभ्यां तत्त न्मन्त्रैरथापि वा ॥ 33.87 ॥
संस्नाप्यच चन्दनं दत्वा प्लोतेन परिमृज्य च ।
वस्त्रखण्डेन धौतेन सूक्ष्मेनाच्छाद्य मन्त्रवित् ॥ 33.88 ॥
कल्पयित्वोत्तरासङ्गमलकानपि शोधयेत्।
पुनराचमनं दत्वा दद्यात्पुष्पाणि पादयोः ॥ 33.89 ॥
ततो दंव समादाय स्थापयेत्पूपर्वविष्टरे।
अलङ्करणप्रकारः
सूक्ष्मकौशेयवस्त्रेण चित्रकक्ष्यायुतेन च ॥ 33.90 ॥
अलङ्कृत्य च देवेशं यथा चक्षुर्मनःप्रियम्।
विसृज्यालकबन्धञ्च धूपं दत्वा यथोचितम् ॥ 33.91 ॥
उत्तरीयोपवीताभ्यां भूषणैरपि भूषयेत्।
आसनादिभिरभ्यर्च्य दीपान्ताचमानान्तकैः ॥ 33.92 ॥
नित्यार्चनोक्तविधिना दर्पणादीन् यथाविधि।
राजवद्विग्रहाश्चापि तत्तन्मन्त्रैः प्रयोजयेत् ॥ 33.93 ॥
मात्रादानञ्च कृत्वा तु मधुपर्क निवेद्य च।
‘अथावनीद’ मन्त्रेण मण्डलं चतुरश्रकम् ॥ 33.94 ॥
कृत्वाऽत्रास्तीर्य धौतञ्च पत्रं प्रागुत्तराग्रकम् (?)।
प्रागग्रमुत्तराग्रं वा सन्न्यसेत्कदलीभवम् ॥ 33.95 ॥
‘आ मा वाजस्य’ मन्त्रेण क्षालयेत्प्रोक्षयेत्तु वा।
हविः पात्राधिपं सूर्यं तस्य पार्श्वे समर्चयेत् ॥ 33.96 ॥
‘देवस्य’ त्वेति मन्त्रेण घृतेनाप्यभिघार्य च।
‘अमृतोपस्तरणम’ सीति हविः प्रक्षिप्य तत्र वै ॥ 33.97 ॥
फलं गुडोपदंशादीन् दधि क्षीरमथापि वा।
तत्र निक्षिप्य गायत्र्या देवेशायेति संस्मरन् ॥ 33.98 ॥
तस्यैव परितो दिक्षु प्रागादिषु यथाक्रमम्।
पायसान्नेन चत्वारि शुद्धान्नेन हर्वीषि च ॥ 33.99 ॥
पात्रैः पञ्चभिरादाय त्रिपादोपरि विन्यसेत्।
‘यत्ते सुसीम’ इत्युक्त्वा घृतमास्राव्य तत्र वै ॥ 33.100 ॥
अभिमृश्यान्नसूक्तेन दद्यादाचमनं पुनः।
‘तदस्य’ प्रियं’ मित्युक्त्वा ‘सुभूः स्वय’ मुदीर्य च ॥ 33.101 ॥
हविर्निवेदयेद्विष्णोः प्रभूतं भक्तिसंयुतम्।
अमन्त्रकं द्वितीयञ्च तृतीयञ्च निवेदयेत् ॥ 33.102 ॥
अर्चकस्य मनस्तृप्तिर्यावता सन्निवेदयेत्।
चतुर्दिक्षु त्रिपादोर्ध्वे न्यस्तान्यपि हर्वी?षि च ॥ 33.1103 ॥
मूर्तीनां पुरुषादीनां तत्तन्मन्त्रैर्निवेदयेत्।
आज्येन साज्यचरुणा होमं हुत्वा यथाविधि ॥ 33.104 ॥
‘इदं विष्णु’ रिति प्रोज्य पानीयं स्वादु शीतलम्।
प्रस्थपूर्णेन पात्रेण पञ्चधैव निवेदयेत् ॥ 33.105 ॥
पुनराचमनंदत्वा मुखवासं निवेदयेत्।
अपूपान् पृथुकान् लाजान् कदल्यादिफलानि च ॥ 33.106 ॥
निवेद्याष्टाक्षरेणैव नारिकेलफलानि च।
पुनराचमनं दत्वा मुखवासं निवेदयेत् ॥ 33.107 ॥
परीत्य मन्दिरं पश्चात्सर्वालङ्कारसंयुतम्।
स्थापयेज्जीवस्थाने तु ‘भूरसि भ’ रिति ब्रुवन् ॥ 33.108 ॥
विना राजोपचारैश्च प्रभूतहविषा तथा।
स्थापयित्वा समभ्यर्च्य दत्वा पञ्चविधं हविः ॥ 33.109 ॥
अर्चापीठे न्यसद्देवमिदं मध्यममीरितम्।
नित्याभिषेचनान्ते च देवान् संस्थाप्य तत्र च ॥ 33.110 ॥
पाद्यमाचमनं दत्वा कृत्वा वै दन्तभावनम्।
दर्पणं दर्शयित्वा तु मुखवासं निवेद्य च ॥ 33.111 ॥
तैलेनाभ्यज्य चाम्लाद्यैः शोधयित्वाऽभिषिच्य च।
हरिद्रयाऽङ्गमालिप्य गन्धौदैरभिषिच्य च ॥ 33.112 ॥
अष्टोपचौरभ्यर्च्य स्नापयित्वा च पूर्ववत्।
जीवस्थाने प्रतिष्ठाप्य वस्त्रेणाच्छाद्य पूर्ववत् ॥ 33.113 ॥
आसनादिभिरभ्यर्च्य दीपान्ताचमनान्तकैः।
शुद्धान्नमेव देवाय हविर्दद्यात्समन्त्रकम् ॥ 33.114 ॥
पानीयाचमनं दत्वा मुखवासं निवेदयेत्।
एष एव विशेषः स्यादप्यत्सर्वञ्च पूर्ववत् ॥ 33.115 ॥
इत्यार्षो श्रीवैक्षानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे षञ्चामृतस्नान पञ्चगव्यविधि शुद्धस्नानविधि कथनं नाम त्रयस्त्रिंशोऽध्यायः।