त्रयस्त्रिंशोऽध्यायः ॐ त्रयस्त्रिंशोऽध्यायः पञ्चामृतस्नपनविधिः अथ पञ्चामृतस्नानं देवदेवस्य तु प्रियम्। विष्णुपञ्चदिनेष्वेवमयने विषुवद्वये ॥ 33.1 ॥ चन्द्रसूर्योपरागे च व्यतीपाते विशेषतः। प्रतिष्ठान्ते चोत्सवान्ते सर्वशान्त्यर्थमेव च ॥ 33.2 ॥ पञ्चामृताभिषेकस्तु देवदेवप्रियङ्करः। देवस्य पुरतः सम्यक् गोमयेनोपलिप्य च ॥ 33.3 ॥ यवैर्वा तण्डुलैर्वाऽत्र द्विहस्तायतविस्तृतम्। स्थण्डिलं कल्पयित्वाऽष्टदलं पद्मञ्च कल्पयेत् ॥ 33.4 ॥ पद्मस्योर्ध्वे तु पुष्पाणि प्रक्षिपेत्तुलसीन्तु वा। पद्माकारस्य मध्ये तु प्रणवं विलिखेद्बुधः ॥ 33.5 ॥ प्रगादीशानपर्यन्तं दलेष्ठष्टाक्षरं लिखेत्। कलशांश्च समाहृत्य तन्तुना वेष्टयेद्गुरुः ॥ 33.6 ॥ पञ्चामृतद्रव्यम् गुडं क्षीरं दधि घृतं मधु सर्वं समन्वितम्। पञ्चामृतन्तु विज्ञेयं स्नानार्थ शार्ङ्गिणः प्रियम् ॥ 33.7 ॥ पञ्चाभिषेककलशान् पूरयेदमृतेन वै। गुडसम्मिश्रितं तोयं पद्मध्ये सुविन्यसेत् ॥ 33.8 ॥ क्षीरसम्पूर्णकलशं प्राच्यां पद्मदले न्यसेत्। दधिसम्पूर्णकलशं विन्यसेद्दक्षिणे दले ॥ 33.9 ॥ पश्चिमे धृतपात्रन्तु उत्तरे च मधु विन्यसेत्। आग्नेयादिदलेष्वेवमुपस्नानानि विन्यसेत् ॥ 33.10 ॥ मध्यादीशानपर्यन्तमुपस्नाने तथैव च। आदित्यमश्विनौ चैव रुद्रञ्चैव तु वत्सरान् ॥ 33.12 ॥ प्रागादि पञ्चवायूंश्च मध्यादिषु सामह्वयेत्। देवदेवं समादाय स्थापयेदथ पश्चिमे ॥ 33.13 ॥ पाद्याद्यैरर्चयेद्विद्वान् स्नपनोक्तविधानतः। ‘सोमं राजा’ मित्युक्त्वा ‘शन्नो देवी’ रिति क्रमात् ॥ 33.14 ॥ ‘इषे त्वोर्जे’ त्वेति जपन् ‘अग्न आयाहिवी’ ति च। ‘अग्निमील’ इति प्रोच्य देवेशं स्नापयेद्बुधः ॥ 33.15 ॥ ‘वारीश्चतस्र’ इत्युक्त्वा सर्वोपस्नानमाचरेत्। एवं पञ्चामृतस्नानं सर्वशान्तिकरं परम् ॥ 33.16 ॥ राजराष्ट्रर्द्धिजननं सर्वाभीष्टफलप्रदम्। पञ्चगव्यविधिः अतः परं प्रवक्ष्यामिं पञ्चगव्यविधि हरेः ॥ 33.17 ॥ तण्डुलोपरि देवाग्रे स्थण्डिले चतुरश्रके। पद्मष्टदलं कृत्वा तन्मध्ये प्रणवं न्यसेत् ॥ 33.18 ॥ प्रागादीशानपय्रन्तं दलेष्वष्टाक्षरं न्यसेत्। तत्पद्मं कुशपुष्पाद्यैरलङ्कत्य तथोपरि ॥ 33.19 ॥ पञ्चगव्यलक्षणम् कपिलाया वरं वरं क्षीरं श्वेताया ?दधि शस्यते। रक्तायाश्च घृतं ग्राह्यं कृष्णांया गोमयं तथा ॥ 33.20 ॥ गोमूत्रं नीलवर्णायाः पञ्चगव्यं शुभप्रदम्। प्रस्थपादं घृतञ्चैव दधि तद्दिवगुणंस्मृतम् ॥ 33.21 ॥ त्रिगुणं क्षीरमित्युक्तं गोमयन्तु चतुर्गुणम्। षङ्गुणञ्चैव गोमूत्रं पञ्चगव्यं सुयोजयेत् ॥ 33.22 ॥ पतितं गोमयं श्रेष्ठं गोमूत्रञ्चाप्यपातितम्। धारोष्णं क्षीरमादेयं सद्यस्तप्तं घृतं तथा ॥ 33.23 ॥ दधि चाप्यनतीताहतमेतद्गव्यस्य लक्षणम्। मध्ये पदे तु गोमुत्रं दधि पूर्वं यमे घृतम् ॥ 33.24 ॥ क्षीरञ्च पश्चिमे सौम्ये गोमयं स्थापयेत्क्रमात्। आग्नेय्यां गन्धतोयञ्च नैर्ऋत्यामाम्लकं तथा ॥ 33.25 ॥ वायव्यामपि हारिद्रमैशान्याञ्च कुशोदकम्। एवं क्रमे विन्यस्य अधिदेवांत्समर्चयेत् ॥ 33.26 ॥ अधिदेवाः गोमूत्रे जाह्रवी प्रोक्ता यजुर्वेदश्च दध्नि वै। सामवेदो घृते प्रोक्तः क्षीरे ऋग्वेद एव च ॥ 33.27 ॥ अथर्वा गोमये चैव अभ्यर्च्या अष्टविग्रहैः। सयोजनम् गायत्र्या चैव गोमूत्रं ‘दधिक्रा’ व्णेति वै दधि ॥ 33.28 ॥ आज्यं ‘शुक्रम’ सीत्युक्त्वा ‘आप्याय’ स्वेति वै पयः। गोमयं ‘गन्धद्वा’ रेति ‘देवस्य त्वा’ कुशोदकम् ॥ 33.29 ॥ एवं क्रमेण संयेज्य चतुर्वेदादिमन्त्रकैः। स्नपनप्रकारः स्नापयेत्पञ्चगव्येन आम्लेन च सुशोधयेत् ॥ 33.30 ॥ ?‘सिनीवा’ लीति हारिद्रैः गन्धैः ‘भूरानिले’ ति च। स्वादुशीतलतोयेन नरसूक्तेन वै हरिम् ॥ 33.31 ॥ सस्नाप्य वस्न्नाभरणैरलङ्कृत्य निवेदयेत्। अभिषिक्तावशिष्टं तदमृतं गव्यमेव वा ॥ 33.32 ॥ प्राशयित्वा महापापैरुपपापैः प्रमुच्यते। ऐहिकान् सकलान् भोगान् भुक्त्वा सायुज्यमाप्नुयात् ॥ 33.33 ॥ शुद्यर्थ पञ्चगव्यसाधनम् देहबेरालयादीनां शुद्ध्यर्थं यत्प्रयुज्यते ॥ 33.34 ॥ सूतसात्त्वतचण्डालसूतिकादिप्रवेशने। पञ्चगव्यन्तु संयोज्यं प्रोक्षयेत्तेन मन्दिरम् ॥ 33.35 ॥ पञ्चगव्यानि सङ्गृह्य पञ्चपात्रेषु पूरयेत्। स्वगृहस्याङ्गणे चैव गोमयेनोपलिप्य च। तन्मध्ये षोडशदलं रङ्गवल्लीञ्च कारयेत् ॥ 33.37 ॥ द्रोणार्धतण्डुलैः पूर्णं कांस्यपात्रं प्रगृह्य च। तन्मध्ये विलिखेत्पद्मं दलपञ्चकसंयुतम् ॥ 33.38 ॥ पात्राणि पञ्चगव्यानां विन्यसेत्तद्दलेषु च। मध्य आज्य प्रतिष्ठाप्य पूर्वस्मिन् दधि निक्षिपेत् ॥ 33.39 ॥ क्षीरन्तु दक्षिणे चैव गोमय पश्चिमे तथा। उत्तरे चैव गोमूत्र क्रमेण स्थापयेद्बुधः ॥ 33.40 ॥ घृते तु सामवेदञ्च दध्नि ऋग्वेदमेव च। क्षीरे अथर्ववेदञ्च गोमये स्कन्दमेव च ॥ 33.41 ॥ शर्व देवञ्च गोमूत्रे अधिदेवान् समर्चयेत्। आज्यं ‘शुक्रम’ सीत्युक्त्वा षोडशाशां प्रगृह्यं च ॥ 33.42 ॥ ‘दधिक्राण्ण’ इत्युक्त्वा क्षिप्त्वा तद्दिवगुणं दघि। ‘आप्याय’ स्वेति मन्त्रेण त्रिगुणं क्षीरमाहरेत् ॥ 33.43 ॥ ‘गन्धद्वा’ रेति मन्त्रेण गोमयञ्च चतुर्गुणम्। षड्गुणञ्चैव गोमूत्रं गायत्?त्र्य तत्र निक्षिपेत् ॥ 33.44 ॥ ‘वणोः पवित्र’ मित्युक्वा एकीकुर्यात्तु पञ्चकम्। पञ्चगव्याधिदेवस्य मूर्तिमन्त्रं वदाम्यहम् ॥ 33.45 ॥ ‘पञ्चगव्यं शिवञ्चेशमव्यक्त’ मिति पूजयेत्। जपित्वा विष्णुसूक्तञ्च ‘रुद्रमन्यं-त्र्यम्बकम्’ ॥ 33.46 ॥ प्रोक्षणम् ‘अणोरणीया’ नित्युक्त्वा ‘आपो हि ष्ठा’ दि भिस्तथा। प्रोक्षणैरनुवाकैश्च प्रोक्षयेत्सर्वमन्दिरम् ॥ 33.47 ॥ प्राशनम् ‘शन्नो देवी’ रिति प्रोच्य पञ्चगव्यञ्च त्रिः पिबेत्। पञ्चगव्य तथा पीत्वा पूतो भवति निश्चयः ॥ 33.48 ॥ आचार्यकरदत्तं तत्पञ्चगव्यं पिबेद्बुधः। प्रतिष्ठार्थञ्चोत्सवार्थमन्यकार्यार्थमेव च ॥ 33.49 ॥ वैखानसकुले जातं निषेकादिक्रियान्वितम्। उक्तलक्षणसम्पन्नं श्रेष्ठं ज्ञानसमन्वितम् ॥ 33.50 ॥ गृहस्थं कर्मकुशलं ब्रह्मचारिणमेव वा। वानप्रस्थमथो वाऽपि वरयेद्गुरुमुत्तमम् ॥ 33.51 ॥ रक्षाबन्धनकार्यादीन् कारयेदिति शासनम्। आचार्यमृतिज्वजः कुर्याद्वनस्थब्रह्मचारिणौ ॥ 33.52 ॥ तयोरपि न दोषः स्यादिति पूर्वजशासनम्। आचार्यकरदत्तन्तु त्रिः पिबेत्पञ्चगव्यकम् ॥ 33.53 ॥ फलश्रुतिः पञ्चगव्यं तथा पीत्वा सर्वपापैः प्रमुच्यते। अङ्कुरार्पणकदूर्ध्वमारम्भदिवसादधः ॥ 33.54 ॥ दीक्षितानामाशैचाभावकथनम आशौयं यदि सम्प्राप्तं कर्ममध्ये विशेषतः ॥ 33.55 ॥ स्नानेनैव विशुद्धिः स्यात्स्नात्वा कर्म समाचरेत्। दीक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् ॥ 33.56 ॥ आशौचं न भवेत्तेषामुदके पद्मपत्र वत्। दीक्षितोऽप्येकपुत्रस्तु मातापित्रोर्गुरोर्मृतौ ॥ 33.57 ॥ संस्कृत्य शालामागत्य देवकार्यं समाचरेत्। देवकार्यसमाप्तौ तु प्रेतकार्य समाचरेत् ॥ 33.58 ॥ प्रेतकार्यसमाप्तौ तु देवकार्यं समाचरेत्। पूर्वन्तु देवकार्य स्यात्प्रेतकार्यमनन्तरम् ॥ 33.59 ॥ दिने दिने च कर्तव्यमिति शातातपोब्रवीत्। देवकार्यस्य मध्ये चेदाचार्यमरणं यदि ॥ 33.60 ॥ प्राणोत्क्रमणकोल तु रक्षाबन्धं विसृज्य च। तत्पुत्रादिषु चद्वध्द्वा शीघ्रं कर्म प्रवर्तयेत् ॥ 33.61 ॥ तत्पुत्रादिष्वलब्धेषु देवहस्ते तु बन्धयेत्। अन्यमार्चायमा हूय कार्यशेषं समापयेत् ॥ 33.62 ॥ बन्धनन्तु न कर्तव्यं सर्वकर्म समारेत्। अज्ञानादन्यहस्ते तु बुन्धयेद्यदि मूढधीः ॥ 33.63 ॥ तत्कर्म निष्फलं प्रोक्तं राजराष्ट्रविनाशनम्। शुद्धस्पनविधिः अतः परं प्रवक्ष्यामि शुद्धस्नानविधिं हरेः ॥ 33.64 ॥ मण्डले त्वभिषेकार्थ बहिः सोपानमण्डपे। संस्थापयदेद्देवदेवं स्नपनाय एव वा ॥ 33.65 ॥ आस्थानमण्डपे वाऽथ कुर्याच्दुद्धाभिषेचनम्। गोमयेनोपलिप्यैव मण्डपं चतुरश्रकम् ॥ 33.66 ॥ पञ्चवर्गैरलङ्कत्य वितानस्तम्भवेष्टनैः। मुक्तादामावलम्बैश्च पुष्पदामवालम्बनैः ॥ 33.67 ॥ पताकाभिर्ध्वजैश्चैव अलङ्कत्य च सर्वतः। सर्वत्र दीनानरोप्य तन्मध्ये सोत्तरच्छदम् ॥ 33.68 ॥ विष्टरं सुस्थिरं न्यस्य पूजकस्सुसमाहितः। ‘भुः प्रपद्य’ इति देवेशं प्रणम्यैवानुमान्य च ॥ 33.69 ॥ ‘परं रं’ हेति मन्त्रेण पीठादादाय चात्वरः। स्वस्तिसूक्तं समुच्चार्य शाकुनं सूक्तमेव च ॥ 33.70 ॥ शङ्खघोषयुतं नीत्वा स्थापयेदत्र विष्टरे। ‘प्रतद्विष्णुःस्तवत’ इति स्थापयित्वा समाहितः ॥ 33.71 ॥ स्नपाङ्गोपचारः ‘नरायणाय वि’ द्मेति पादपुष्पाणि विन्यसेत्। पाद्यमाचमनं दत्वा पूर्वोक्तविधिना ततः ॥ 33.72 ॥ ‘अन्नाद्यां येति मन्तेण दन्तधावनमाचरेत्। तेनैव जिह्वाशुद्धिञ्च मुखप्रक्षालनं तथा ॥ 33.73 ॥ पुनराचमनं दत्वा प्लोतेन परिमृज्य च। मुखवासं निवेद्यैव प्रणम्यैवानुमान्य च ॥ 33.74 ॥ देवस्यापरभागं तदाच्छाद्यैव गलादधः। देवस्य पश्चिमे स्थित्वा गुरुस्तद्भावभावितः ॥ 33.75 ॥ ‘अतो देवा’ दि मन्त्रांश्च ‘सोमं राजान’ मुच्चरन्। तैलेनाभ्यञ्जनं कृत्वा केशानाबद्ध्य वै पुनः ॥ 33.76 ॥ सुगन्धिमालयाऽऽवेष्ट्य पाणी प्रक्षाल्य वै ततः। ललाटात्पादपर्यनतं तैलेनाभ्यज्य मर्दयेत् ॥ 33.77 ॥ शालिपिष्टेन देवाङ्गं विमृजेच्चन्दानेन वा। तैलसमर्पण्वर्ज्यकालाः अष्टम्याञ्च नवम्याञ्च चतुर्दश्याञ्च पर्वणि ॥ 33.78 ॥ अभ्यञ्जनञ्च दन्तानां धावनं चर्जयेत्तथा। ततो देवं समासाद्य स्नानवेद्यान्तु पूर्ववत् ॥ 33.79 ॥ प्राङ्मुखं स्थापयेत्सम्यक् तमिन्दुमुखमेव वा। पाद्यमाचमनं दत्वा प्रणम्यैवानुमान्य च ॥ 33.80 ॥ ‘परिलिखित’ मिति मन्त्रेण आम्लेन परिशोधयेत्। तेनैव केशशुद्धिञ्च कुर्यादामलकादिभिः ॥ 33.71 ॥ ‘वारीश्चतस्र’ इत्युक्त्वा वारिणा स्नापयेत्पुनः। ‘नमो वरुण’ इत्युक्त्वा स्नापयेत्पुष्पवारिणा ॥ 33.82 ॥ ‘सिनीवा’ लीति देवाङ्गमालिप्य च हरिद्रया। ‘भूरानिलय’ इत्युक्त्वा स्नापयेद्गन्धवारिणा ॥ 33.83 ॥ पुनराचमनं दत्वा वस्त्रञ्चैवोत्तरीयकम्। दद्याद्यज्ञोपवीतञ्च तत्तन्मन्त्रमुदीरयन् ॥ 33.84 ॥ दत्वा चानामिकाङ्गुल्योः पवित्रे परहस्तयोः। अष्टोपचारैरभ्यर्च्य वेदैः संस्तूय च क्रमात् ॥ 33.85 ॥ सहस्रधारास्नापनक्रमः शङ्खपद्माङ्कपात्राभ्यामावर्जितजलेन च। सहस्रधारापत्रेण पौरुषं सूक्तमुच्चरन् ॥ 33.86 ॥ नारायणानुवाकेन स्नापयित्व ततः परम्। देव्योश्च तत्तन्मन्त्राभ्यां तत्त न्मन्त्रैरथापि वा ॥ 33.87 ॥ संस्नाप्यच चन्दनं दत्वा प्लोतेन परिमृज्य च । वस्त्रखण्डेन धौतेन सूक्ष्मेनाच्छाद्य मन्त्रवित् ॥ 33.88 ॥ कल्पयित्वोत्तरासङ्गमलकानपि शोधयेत्। पुनराचमनं दत्वा दद्यात्पुष्पाणि पादयोः ॥ 33.89 ॥ ततो दंव समादाय स्थापयेत्पूपर्वविष्टरे। अलङ्करणप्रकारः सूक्ष्मकौशेयवस्त्रेण चित्रकक्ष्यायुतेन च ॥ 33.90 ॥ अलङ्कृत्य च देवेशं यथा चक्षुर्मनःप्रियम्। विसृज्यालकबन्धञ्च धूपं दत्वा यथोचितम् ॥ 33.91 ॥ उत्तरीयोपवीताभ्यां भूषणैरपि भूषयेत्। आसनादिभिरभ्यर्च्य दीपान्ताचमानान्तकैः ॥ 33.92 ॥ नित्यार्चनोक्तविधिना दर्पणादीन् यथाविधि। राजवद्विग्रहाश्चापि तत्तन्मन्त्रैः प्रयोजयेत् ॥ 33.93 ॥ मात्रादानञ्च कृत्वा तु मधुपर्क निवेद्य च। ‘अथावनीद’ मन्त्रेण मण्डलं चतुरश्रकम् ॥ 33.94 ॥ कृत्वाऽत्रास्तीर्य धौतञ्च पत्रं प्रागुत्तराग्रकम् (?)। प्रागग्रमुत्तराग्रं वा सन्न्यसेत्कदलीभवम् ॥ 33.95 ॥ ‘आ मा वाजस्य’ मन्त्रेण क्षालयेत्प्रोक्षयेत्तु वा। हविः पात्राधिपं सूर्यं तस्य पार्श्वे समर्चयेत् ॥ 33.96 ॥ ‘देवस्य’ त्वेति मन्त्रेण घृतेनाप्यभिघार्य च। ‘अमृतोपस्तरणम’ सीति हविः प्रक्षिप्य तत्र वै ॥ 33.97 ॥ फलं गुडोपदंशादीन् दधि क्षीरमथापि वा। तत्र निक्षिप्य गायत्र्या देवेशायेति संस्मरन् ॥ 33.98 ॥ तस्यैव परितो दिक्षु प्रागादिषु यथाक्रमम्। पायसान्नेन चत्वारि शुद्धान्नेन हर्वीषि च ॥ 33.99 ॥ पात्रैः पञ्चभिरादाय त्रिपादोपरि विन्यसेत्। ‘यत्ते सुसीम’ इत्युक्त्वा घृतमास्राव्य तत्र वै ॥ 33.100 ॥ अभिमृश्यान्नसूक्तेन दद्यादाचमनं पुनः। ‘तदस्य’ प्रियं’ मित्युक्त्वा ‘सुभूः स्वय’ मुदीर्य च ॥ 33.101 ॥ हविर्निवेदयेद्विष्णोः प्रभूतं भक्तिसंयुतम्। अमन्त्रकं द्वितीयञ्च तृतीयञ्च निवेदयेत् ॥ 33.102 ॥ अर्चकस्य मनस्तृप्तिर्यावता सन्निवेदयेत्। चतुर्दिक्षु त्रिपादोर्ध्वे न्यस्तान्यपि हर्वी?षि च ॥ 33.1103 ॥ मूर्तीनां पुरुषादीनां तत्तन्मन्त्रैर्निवेदयेत्। आज्येन साज्यचरुणा होमं हुत्वा यथाविधि ॥ 33.104 ॥ ‘इदं विष्णु’ रिति प्रोज्य पानीयं स्वादु शीतलम्। प्रस्थपूर्णेन पात्रेण पञ्चधैव निवेदयेत् ॥ 33.105 ॥ पुनराचमनंदत्वा मुखवासं निवेदयेत्। अपूपान् पृथुकान् लाजान् कदल्यादिफलानि च ॥ 33.106 ॥ निवेद्याष्टाक्षरेणैव नारिकेलफलानि च। पुनराचमनं दत्वा मुखवासं निवेदयेत् ॥ 33.107 ॥ परीत्य मन्दिरं पश्चात्सर्वालङ्कारसंयुतम्। स्थापयेज्जीवस्थाने तु ‘भूरसि भ’ रिति ब्रुवन् ॥ 33.108 ॥ विना राजोपचारैश्च प्रभूतहविषा तथा। स्थापयित्वा समभ्यर्च्य दत्वा पञ्चविधं हविः ॥ 33.109 ॥ अर्चापीठे न्यसद्देवमिदं मध्यममीरितम्। नित्याभिषेचनान्ते च देवान् संस्थाप्य तत्र च ॥ 33.110 ॥ पाद्यमाचमनं दत्वा कृत्वा वै दन्तभावनम्। दर्पणं दर्शयित्वा तु मुखवासं निवेद्य च ॥ 33.111 ॥ तैलेनाभ्यज्य चाम्लाद्यैः शोधयित्वाऽभिषिच्य च। हरिद्रयाऽङ्गमालिप्य गन्धौदैरभिषिच्य च ॥ 33.112 ॥ अष्टोपचौरभ्यर्च्य स्नापयित्वा च पूर्ववत्। जीवस्थाने प्रतिष्ठाप्य वस्त्रेणाच्छाद्य पूर्ववत् ॥ 33.113 ॥ आसनादिभिरभ्यर्च्य दीपान्ताचमनान्तकैः। शुद्धान्नमेव देवाय हविर्दद्यात्समन्त्रकम् ॥ 33.114 ॥ पानीयाचमनं दत्वा मुखवासं निवेदयेत्। एष एव विशेषः स्यादप्यत्सर्वञ्च पूर्ववत् ॥ 33.115 ॥ इत्यार्षो श्रीवैक्षानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे षञ्चामृतस्नान पञ्चगव्यविधि शुद्धस्नानविधि कथनं नाम त्रयस्त्रिंशोऽध्यायः।