32 द्वात्रिंशोऽध्यायः

द्वात्रिंशोऽध्यायः


द्वात्रिंशोऽध्यायः
शमीपूजाविधिः
अतः परं प्रवक्ष्यामि शमीपूजाक्रमं बुधाः।
मासि प्रोष्ठपदे शुक्लपक्षे च दशमीतिथौ ॥ 32.1 ॥
देवालयं प्रविश्यैव देदेशं सम्प्रणम्य च।
स्नपनोक्तक्रमेणैव स्नपनञ्चैव कारयेत् ॥ 32.2 ॥
देवेशं सममलङ्कत्य नानावस्त्रविभूषणैः।
तुरगे च समारोप्य सर्वशास्त्रास्त्रसंयुतम् ॥ 32.3 ॥
छत्रचामरसंयुक्तं सर्ववाद्यसमन्वितम्।
सम्प्राप्ते चैव सायाह्रे देवेशं निनयेद्बुधः ॥ 32.4 ॥
यत्र देशे शमी तिष्ठेद्देवस्तत्रैव गच्छति।
शमीवृक्षस्य परितश्चालङ्कत्य यथाविधि ॥ 32.5 ॥
पुण्याहं वाचयेद्विद्वान् प्रोक्षणञ्चैव कारयेत्।
देवस्याग्रस्थले चाऽपि गोमयेनोपलिप्य च ॥ 32.6 ॥
रङ्गवल्ल्याद्यलङ्कत्य प्रोक्षयेत्पूतवारिण।
तत्र देशे प्रतिष्ठाप्य शार्ङ्गं बाणं तथैव च ॥ 32.7 ॥
शार्ङ्गस्य चाधिदैवत्यं (?) वक्ष्यामि मुनिसत्तमाः।
विष्णुं रुद्रं समावाह्य ब्रह्माणां वरुणं तथा ॥ 32.8 ॥
शराणामधिदैवत्यं चक्रं शङ्खं तथै च।
गदी खड्गञ्च शार्ङ्गञ्च अधिदेवांत्समर्चयेत् ॥ 32.9 ॥
शमीवृक्षस्याधिदेवं वह्रिं तत्र समर्चयेत्।
वृक्षस्य पूर्वे पक्षांश्च दक्षिणे राक्षसांस्तथा ॥ 32.10 ॥
पिशाचान् पश्चिमे चैव उत्तरे मधुकैटभौ।
एतान् देवान् समावाह्य क्रमेणैवार्चयेद्बुधः ॥ 32.11 ॥
अष्टोपचौरभ्यर्च्य फलादीनि निवेदयेत्।
अर्चकः सुप्रसन्नात्मा धनुरादाय वीर्यवान् ॥ 32.12 ॥
धन्वना’ गेति मन्त्रेण ज्यास्वनं कारयेद्बुधः।
‘यात इषुः शि’ वेति मन्त्रेण सन्दध्याद्धनुषि त्विषुम् ॥ 32.13 ॥
चक्रेण पूर्वे यक्षादीश्छिंन्द्याद्रक्षांसि दक्षिणे।
पिशाचान् गदया हन्ति पश्चिमाशास्थितांस्तथा ॥ 32.14 ॥
असिना चोत्तरे हन्ति मधुं कैटभमेव च।
वृक्षस्य चतुर्दिक्षु चतुर्बाणान् प्रयोजयेत् ॥ 32.15 ॥
शार्ङ्गाख्येन च बाणेन वृक्षस्याग्रे प्रयोजयेत्।
पुनश्शरान्गृहीत्वैव प्रोक्षयेत्पूतवारिणा ॥ 32.16 ॥
देवस्याग्रे प्रतिष्ठाप्य प्रणामञ्चैव कारयेत्।
ततो देवं समदाय ग्रामस्याभिमुखं नयेत् ॥ 32.17 ॥
सद्मप्रदक्षिणं कृत्वा नीराजनमथाचरेत्।
उष्णोदकेन संस्नाप्य आस्थाने सन्निवेश्य च ॥ 32.18 ॥
महाहविर्निवेद्यैव ताम्बूलञ्च निवेदयेत्।
एवं यः कुरुते भक्त्या सर्वपापैः प्रमुच्यते ॥ 32.19 ॥
सर्वान् कामानवोप्नोति विष्णुसायुतज्यमाप्नुयात्।
कृत्तिकादीपक्रमः
अतः परं प्रवक्ष्यामि कृत्तिकादीपलक्षणम् ॥ 32.20 ॥
कार्तिक्यां पूर्णिमायान्तु दीपैराराधनं चरेत्।
देवालयं प्रविश्यैव देवेशं सम्प्रणम्य च ॥ 32.21 ॥
देवीभ्यां सहितं देवं स्नापयित्वा यथाविधि।
देवेशं समलङृकत्य नानावस्त्रविभूषणैः ॥ 32.22 ॥
मुद्रान्नं पायसञ्चैव अपूपं लाजमेव च।
विशेषेण निवेद्यैव मुखवासं समर्पयेत् ॥ 32.23 ॥
याने देवं समारोप्य देवीभ्यां सहितं तथा।
छत्रचामरसंयुक्तं सर्ववाद्यसमन्वितम् ॥ 32.24 ॥
सन्ध्यापूजावसाने तु वीथीञ्चापि नयेद्बुधः।
प्रथमावरणे वाऽपि तृतीयावरणेऽपि वा ॥ 32.25 ॥
पञ्चमावरणे वाऽपि सप्तमावरणे तथा।
वीथीमध्ये सुसंस्थाप्य तालवृक्षं तथैव च ॥ 32.26 ॥
नालिकेरं तथा वाऽपि कैतकं क्रमुकं तथा।
वेणुञ्चापि तथा चैव आगस्त्यमिति केचन ॥ 32.27 ॥
दारुण्येतानि संस्थाप्य दृढीकृत्य प्रयत्नतः।
विमानस्य सम वाऽपि त्रिपादाधिकमथापि वा ॥ 32.28 ॥
अर्धाधिकमथो वाऽपि त्रिपादाधिकमेवा वा।
यादहीनं तथा वाऽपि अर्धहीनं तथैव च ॥ 32.29 ॥
त्रिपादहीनमधमं दीपस्तम्भप्रमाणकम्।
दीपदण्डस्य परितः दशहस्तप्रमाणतः ॥ 32.30 ॥
वृत्तैश्चारणं कृत्वा गोपुराकृतिभिश्चरेत्।
आच्छादयेत्तालपत्त्रैर्मूलादग्रान्तमेव च ॥ 32.31 ॥
तरङ्गैः दर्भमालाभिस्तोरणैश्चापि वेष्टयेत्।
पुष्पैर्गन्धैरलङ्कत्य नववस्त्रेण वेष्टयेत् ॥ 32.32 ॥
पुण्याहं विधिवत्कृत्वा प्रोक्षणञ्चैव कारयेत्।
महादीपाधिदेवांश्च वक्ष्यामि मुनिपुङ्गवाः ॥ 32.33 ॥
बडबामुखं कालाग्निं प्रलयानलमेव च।
महादीपञ्च नामानि नामभिस्तैरथाऽह्वयेत् ॥ 32.34 ॥
अष्टोपचौरभ्यर्च्य लाजानपि निवेदयेत्।
सौवर्णं राजितं वाऽपि ताम्रं मृण्यमेव च ॥ 32.35 ॥
पात्रं सम्यक्समापूर्य गव्येनैव घृतादिना।
मध्यमादिचतुर्दिक्षु पञ्चवर्तीर्विनिक्षिपेत् ॥ 32.36 ॥
कौतुकस्यापि दीपस्य अधिदेवक्रमं शृणु।
बहबामुखं कालाग्निं प्रलयानलमेव च ॥ 32.37 ॥
जातवेदसं महादीपं पञ्च चाऽवाह्य पञ्चसु।
अष्टोपचौरभ्यर्च्य लाजानपि निवेदयेत् ॥ 32.38 ॥
अर्चकः सुप्रसान्नात्मा सर्वाभरणभूषितः।
?‘विष्णुस्त्वा’ मिति मन्त्रेण काराभ्?यां दीपमुद्धरेत् ॥ 32.39 ॥
सर्वलोकहिताञ्च मूर्ध्नः पादान्तमेव च।
तद्ग्रामस्य समृद्ध्यर्थं ललाटाद्यन्तमेव च ॥ 32.40 ॥
नेत्रादिपादपर्यन्तं राजराष्ट्रविवृद्धये।
सर्वेषां मङ्गलार्थञ्च भ्रामयित्वा त्रिधा त्रिधा ॥ 32.41 ॥
ततो दीपं गृहीत्वैव मन्दं मन्दञ्च गच्छति।
प्रदक्षिणत्रयं कृत्वा दण्डाग्रे च सुसन्न्यसेत् ॥ 32.42 ॥
चतुर्वर्तीर्गृहीत्वैव चतुर्दिक्षु विनिक्षिपेत्।
‘अयन्ते योनि’ रिति च महादीपे विनिक्षपेत् ॥ 32.43 ॥
महादीपे प्रज्वलिते देवेशं प्रणमेन्मुहुः।
दीपदर्शनफलम्
सर्वपापानि नश्यन्ति आयुः कीत्रिश्च वर्धते ॥ 32.44 ॥
तद्दीपदर्शनात्सद्यः सर्वान् कामानवाप्नुयात्।
तद्दीपस्योपशमने देवेशं नाययेब्दुधः ॥ 32.45 ॥
ग्रामं प्रदक्षिणीकृत्य नीराजनमथाऽचरेत्।
जीवस्थाने प्रतिष्ठाप्य पूजयेत्पुस्षोत्तमम् ॥ 32.46 ॥
प्रभूतञ्च निवेद्यैव मुखवासं निवदेयेत्।
एवं यः कुरुते भक्त्या कृत्तिकादीपमुत्तमम् ॥ 32.47 ॥
राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम्।
श्रीकाम आप्नुयात्सम्पदायुः कीर्ति समश्नुते ॥ 32.48 ॥
सर्वैश्वर्यमवाप्नोति विष्णोस्सायुज्यमाप्नुयात्।
सुगन्धतैल समर्पणोत्सवः
अतः परं प्रवक्ष्यामि ज्येष्ठायामुत्सवक्रमम् ॥ 32.49 ॥
ज्येष्ठे मासि सुसम्प्राप्ते दिने ज्येष्टर्क्षसंयुते।
विषणवे तु विशेषेण गन्धवत्तैलमाहरेत् ॥ 32.50 ॥
तत्क्रमं म्प्रवक्ष्यामि श्रुगुध्वं मुनिसत्तमाः।
यागशालां प्रकल्प्यैव सर्वालङ्कारसंयुताम् ॥ 32.51 ॥
सभ्यञ्च पौण्डरीकञ्च कारयित्वा सलक्षणम्।
तद्दिनस्य तु पूर्वेद्युः तृतीये पञ्चमेऽपि वा ॥ 32.52 ॥
सप्तमे नवमे वाऽपि अङ्करार्पणमारभेत्।
आघारं विधिवत्कृत्वा सर्वं कार्यमतः परम् ॥ 32.53 ॥
वैद्या उत्तरपार्श्वे तु भूम्यामवष्टमाचरेत्।
चतुस्तालप्रमाणेन विस्तृतं निम्नमेव च ॥ 32.53 ॥
निम्ने तु विन्यसेद्भाण्डं द्विद्रोणपरिमाणकम्।
‘भूः प्रतिष्ठित्यै’ मन्त्रेण्?ा निम्ने भाण्डं सुनिक्षिपेत ॥ 32.55 ॥
मलयागुरुदारुणि देवदारुतरुद्भवम्।
यानि वासितदारुणि देवयोग्यानि तानि वै ॥ 32.56 ॥
गुग्गुलुञ्च समाहृत्य मर्दयित्वा पूथक् पृथक्।
विष्णुगायत्रिमन्त्रेण भाण्डे द्रव्याणि निक्षिपेत् ॥ 32.57 ॥
शरावेणापिधायाथ मृदा चरिलेपयेत्।
गोकरीषाणि काष्ठानि तस्योपरि विनिक्षिपेत् ॥ 32.58 ॥
मन्दाग्निना च सुपचेद्यावत्तैलागमो भवेत्।
पक्त्वा युक्त्या च यत्नेन तैलमाहृत्य तत्क्षणात् ॥ 32.59 ॥
वासितक्वाथवस्तूनि तानि तानि बनिः क्षिपेत्
उत्पूय तैलं तद्भाण्ड धान्यपीठे सुसन्न्यसेत् ॥ 32.60 ॥
यथोक्तेनैव मन्त्रेण तन्तुना परिवेष्टयेत्।
पितॄन् सोमं तथाऽभ्यर्च्य वनस्पतिमतः परम् ॥ 32.61 ॥
समावाह्य च तैलं तानर्ध्यान्तमभिपूजयेत्।
वैष्णवं विष्णुसूक्तञ्च नरसूक्तं तथैव च ॥ 32.62 ॥
जप्त्वा तु विष्णुगायत्रीमष्टोत्तरसहस्रकम्।
आचार्यस्त्वरितो गत्वा सभ्याग्नेश्च समीपतः ॥ 32.63 ॥
द्वितालविस्तृत वृत्तं चतुरङ्गुलमुन्?नतम्।
कूर्माकृतिवदाकारं बिल्वाद्यैः परिकल्पितम् ॥ 32.64 ॥
प्रतिष्ठायामुत्सवे च जपहोमार्चनादिषु।
सर्वकार्येषु विहितं कूर्मपीठं समास्थितः ॥ 32.65 ॥
समाहितः प्रसन्नत्मा सभ्याग्नौ जुहुयात्ततः।
कूर्मपीठविहीनन्तु कर्म तन्निष्फल भवेत् ॥ 32.66 ॥
वैष्णवं विष्णुसूक्तञ्च नरसूक्तं तथैव च।
जुहुयात्सर्वदैवत्यं पारमात्मिकमेव च ॥ 32.67 ॥
महाव्याहृतिभिर्हुत्वा अन्तहोमं समाचरेत्।
परिषिच्य ततोऽगब्जाग्निं महाशान्तिं हुनेत्क्रमात् ॥ 32.68 ॥
पूर्णाहुतिं ततो हुत्वा अन्तहोमं समाचरेत्।
प्रणिध्यां शङ्खपात्रे वा ?अग्निमारोप्य बुद्धिमान् ॥ 32.69 ॥
तैलस्यालेपनात्पूर्व ध्रुवेऽग्निमवरोपयेत्।
स्रग्वस्त्रकुण्डलाद्यैश्च पूजयेत्परिचारकम् ॥ 32.70 ॥
संवेष्ट्य नववस्त्रेण शिरश्च मुनिपुङ्गवाः।
तन्मूर्ध्नि तैलभाण्डन्तं विनिक्षिप्य च यत्नतः ॥ 32.71 ॥
शनैश्शनैस्समागतृय सर्ववाद्यसमन्वितम्।
सर्वालङ्कारसंयुक्तं ब्रह्मघोषसमन्वितम् ॥ 32.72 ॥
वीथीं प्रदक्षणीकृत्य देवस्याग्रे विनिक्षिपेत्।
अर्ध्यान्तमभिपूज्यैव देवेशं सम्प्रणम्य च ॥ 32.73 ॥
वैष्णवं विष्णुसूक्तञ्च नरसूक्तं जपेत्क्रमात्।
तैलेन लेपयेद्देवमाचार्यस्त्वरितस्तदा ॥ 32.74 ॥
उभे देव्यौ तथैवात्र तत्तन्मन्मन्त्रेण लेपयेत्।
सर्वेषां परिवाराणां तत्तन्मन्त्रेण लेपयेत् ॥ 32.75 ॥
आचार्यस्त्वरितो गत्वा औत्सवस्य समीपतः।
‘परिलिखित’ मित्युक्त्वा कवचं परिशोधयेत् ॥ 32.76 ॥
जीर्णे भिन्ने च कवचे सन्धानं शिल्पिना चरेत्।
प्रक्षाल्य पञ्चगव्येन जलेन परिशोधयेत् ॥ 32.77 ॥
‘विष्णोर्नुके मिति प्रोच्य सन्दध्यात्कवचं पुनः।
दृढीकृत्य यथापूर्वं यत्नेन परिशोधयेत् ॥ 32.789 ॥
सहस्रकलशैर्देवं स्नापयित्वा यथाविधि।
नितृयपूजाविधानेन दैवमाराध्य पूर्ववत् ॥ 32.79 ॥
महाहविः प्रभूतं वा पायसञ्च निवेदयेत्।
‘क्षम’ स्वेति च मन्त्रेण प्रणमेत्पुरुषोत्तमम् ॥ 32.80 ॥
ब्रह्मघोषञ्च कृत्वा तु दद्यादाचार्यदक्षिणाम्।
दिने पक्षे च मासे च तथा संवत्सरे चरेत् ॥ 32.81 ॥
यद्यद्रूपं तथा ध्यायेत्तत्तद्विम्बेषु योजयेत्।
तस्मात्सर्वप्रयत्नेन बिम्बरक्षान्तु कारयेत् ॥ 32.82 ॥
कार्तिक्यामुत्सवे चैव ज्येष्ठायामुत्सवे तथा।
आषाढ्यामुत्सवे चैव श्रावण्यामुत्सवे तथा ॥ 32.83 ॥
चैत्र्यामप्युत्सवे चैव उपरागयुते तथा।
अयुतञ्चोत्सवं प्रोक्तं विष्णोरमिततेजसः ॥ 32.84 ॥
उत्सवे देवदेवस्य उपरागो न दोषकृत्।
उपरागे भये चैव प्रतिष्ठान्त नु कारयेत् ॥ 32.85 ॥
एवं यः कुरते भक्त्या कार्यं रोगप्रणाशनम्।
सर्वान् कामानचवाप्यैव विष्णोस्सायुज्यमाप्नुयात् ॥ 32.86 ॥
गहार्चादोषनिष्कृतिः
अतः परं प्रवक्ष्यामि गृहार्चादोषनिष्कृतिम्।
प्रातः कालार्चने हीने सायं द्विगुणणमर्चनम् ॥ 32.87 ॥
सायं हीने तथा प्रातराद्वादशादिनावधि।
एवमेव कमेणैव वर्धयेद्दिवगुणं सुधीः ॥ 32.88 ॥
समभ्यर्च्य निवेद्यैव ब्राह्मणानपि भोज्येत्।