एकत्रिंशोऽध्यायः ॐ एकत्रिंशोऽध्यायः सामान्य प्रायश्चित्तम् अतः परं प्रवक्ष्यामि सर्वसामान्यनिष्कृतिम्। अशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनम् ॥ 31.1 ॥ किं वा तत्र मनुष्याणामव्य?वस्थितचेतसाम्। विषयासक्तचित्तानामिन्द्रियाहृतचेतसाम् ॥ 31.2 ॥ अज्ञातानाञ्च दोषाणामर्चनादिषु कर्मसु। ज्ञात्वा चानादृतानाञ्च दोषाणामर्चनादिषु कर्मसु। ज्ञात्वा चानादृतानाञ्च मोहाल्लोभात्प्रमादतः ॥ 31.3 ॥ तत्तद्दोषोपशान्त्यर्थं कुर्यात्सामान्यनिष्कृतिम्। तत्तत्सन्ध्यावसाने च विष्णुसूक्तेन वैष्णवैः ॥ 31.4 ॥ सूक्तेन पौरुषेणापि विष्णुगायत्रिया तथा। द्वादशाष्टाक्षराभ्याञ्च ‘नमो ब्रह्मण’ इत्यपि ॥ 31.5 ॥ पुष्पाणि पादयोर्दत्वा ‘क्षम’ स्वेति प्रसादयेत्। रात्रिपूजावसाने तु सूक्तेनैकाक्षरादिना ॥ 31.6 ॥ नारायणानुवाकेन स्तुत्वा पुष्पाञ्जलिं ददेत्। मासावसाने कुर्याच्चेद्दवादश्यां श्रवणे तथा ॥ 31.7 ॥ तस्मात्तु दिवसात्पूर्वमङ्कुरार्पणमाचरेत्। देवेशं पूर्वरात्रौ तु समभ्यर्च्य विशेषतः ॥ 31.8 ॥ हविर्नि?वेदयित्वा तु बद्धा प्रतिसरं तथा। शाययित्वाऽथ देवेशं प्रातः स्नात्वा यथाविधि ॥ 31.9 ॥ प्रातस्सन्ध्यावसाने तु कृत्वा ग्रामप्रदक्षिणम्। स्थापयित्वा तु देवेशं ततः स्नपनमण्डपे ॥ 31.10 ॥ स्नापयित्वा तु कलशैश्चत्वारिंशद्भिरष्टभिः। पङ्कजं शालिभिः कुर्यात्साष्टपर्णं सकर्णिकम् ॥ 31.11 ॥ तस्मिन् देवं समारोप्य पूजयेदासनादिभिः। महाहविः प्रभूतं वा यथाशक्ति निवेदयेत् ॥ 31.12 ॥ पानीयाचमनं दत्वा मुखवासं निवेदयेत्। तत्काले चैव मूर्त्यर्चां पूर्ववत्कारयेद्बुधः ॥ 31.13 ॥ परिषिच्य च नित्याग्निमतो देवादिवैष्णवैः। पिरुषेण च सूक्तेन तथा विष्णोर्नुकादिना ॥ 31.14 ॥ जयादिभिश्च कूष्माण्डैः परिषन्मूर्तिभिस्तथा। आज्येन साज्यचरुणां व्याहृत्यन्तं ततो यजेत् ॥ 31.15 ॥ द्वादशाष्टाक्षराभ्याञ्च शतमष्टोत्तरं यजेत्। पूर्वोक्तैरेवमन्त्रैस्तु दत्वा पुष्पाञ्जलिं तथा ॥ 31.16 ॥ जीवस्थाने प्रतिष्ठाप्य ‘क्षम’ स्वेति प्रणम्य च। दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ ॥ 31.17 ॥ संवत्सरे तु यन्यूंनं नित्ये नैमित्तिकेऽर्चने। तत्सर्वदोषशान्त्यर्थं मार्गशीर्षे तु मासि वै ॥ 31.18 ॥ द्वादश्यां शुक्लपक्षे तु कुर्यात्पूर्वोक्तमर्चनम्। संवत्सराप्तदोषाणां शान्तये चाथ वौजसे ॥ 31.19 ॥ श्रवणद्वादशीयोगे मासि भाद्रपदे तथा। पवित्रारोपणं केचिदिच्छन्ति मुनिसत्तमाः ॥ 31.20 ॥ पवित्रारोपणनिमित्तम् अथातः सम्प्रवक्ष्यामि पवित्रारोपणं हरेः। नित्ये नैमित्तिके वाऽपि तथा संवत्सरार्चने ॥ 31.21 ॥ ज्ञनतोऽज्ञानतो वाऽपि ये दोऽषास्सम्भवन्ति वै। पवित्रारोपणेनैव ते शाम्यन्ति न संशयः ॥ 31.22 ॥ सर्वदोषोपशमनं सर्वकामसमृद्धिदम्। आयुरारोग्यदं कर्तुः सर्वाध्वरुलावहम् ॥ 31.23 ॥ पवित्रारोपणं विष्णोः कारयेत्सर्वशान्तये। मार्गशीर्षाख्यमासे तु शुक्लपक्षे विशेषतः ॥ 31.24 ॥ कालः द्वादश्यां कृष्णपक्षे वा नक्षत्रे श्रवणेऽथवा। दक्षिणायनमासेषु (1)विष्णुपञ्चदिने त?था (1.) द्वाश्यां श्रवणेऽवा आ ॥ 31.25 ॥ कवेराश्वयुजे मासि चाश्वयुज्यां समाचरेत्। कृष्णाष्टमीचतुर्दयोः शम्भोर्मासेषु षट्सु च ॥ 31.26 ॥ द्वादश्यां भास्करस्योक्तं षष्ठ्यां स्कन्दस्य कीर्त्यते। कार्तिके मासि दुर्गायाः नवम्यां कृत्तिकासु च ॥ 31.27 ॥ पूर्वपक्षेऽथवा कृष्णे श्रीदेव्याः पञ्चमीतिथौ। अथवोत्तरुल्गुन्यौः पवित्रारोपणं चरेत् ॥ 31.28 ॥ तस्मात्तु दिवसात्पूर्वं नवमे वाऽथ सप्तमे। पञ्चमेऽहनि वा कुर्यात्तृतीये वाऽङ्कुरार्पणम् ॥ 31.29 ॥ अङ्कुरार्पणकादूर्ध्वं द्रव्याण्यपि समाहरेत्। पवित्रमण्डपम् पवित्रमण्डपनं कुर्याद्देवाग्रे वाऽथ दक्षिणे ॥ 31.30 ॥ स्नपनालयेऽथवा तत्र स्थानं कृत्वा यथाविधि। तोरणैः पूर्णकुम्भैश्च कदलीक्रमुकध्वजैः ॥ 31.31 ॥ चतुद्वरिष्वलङ्कृत्य स्तम्भयोरुभयोरपि। वितानैश्च पताकाभिस्तरङ्गैः स्तम्भपवेष्टनैः ॥ 31.32 ॥ मुक्तादामावलम्बैश्च पुष्पैर्वा दर्भमालया। किङ्किणीजालकैर्हैमैः कल्पवृक्षैस्सरत्नकैः ॥ 31.33 ॥ अलङ्कत्यान्तरं सर्वं सर्वं दीपानारोपयेद्वहून्। गोमयेनोपलिप्यैव पञ्चवरलङ्कतम् ॥ 31.34 ॥ चतुर्दिशं चतुर्हस्तं त्रिहस्तं वाऽस्य मध्यमे। गृहीत्वा प्रागुदक्सूत्रैरुपपीठपदे कृते ॥ 31.35 ॥ मेर्वादिकल्पनम् तन्मध्ये मेरुरेकस्स्याद्धस्तमात्रसंमुच्छ्रयः। तत्तुरीयांशहीनास्तत्परितोऽष्टौ कुलाचलाः ॥ 31.36 ॥ त?त्?ित्रभागैकहीनास्तु परितस्तस्य षोडश। इन्द्रादीनां तथाऽष्टानां शिवादीनां पदानि वै ॥ 31.37 ॥ चतुर्भिर्दशाभिः सूत्रैः बहिः पङ्क्तिं चतुर्दिशम्। सागराः सप्त चैतुषु द्वीपाः शाकदायश्च षट् ॥ 31.38 ॥ तत्र मेरुः सुवर्णाभः सितपीतासितारुणः। हिमाचलादयो द्वन्द्वास्तथाऽष्टौ कुलपर्वताः ॥ 31.39 ॥ श्वेतपीतासितश्यामरक्तनीलसितारुणाः। तद्वहिः षोउशपदे कल्पनीयाः प्रयत्नतः ॥ 31.40 ॥ जम्बूद्वीपादिकं ध्यात्वा तद्वहिर्लवणार्णवम्। सस्यश्यामनिभं कुर्याच्छाकद्वीपं बहिस्तथा ॥ 31.41 ॥ श्वेतं क्षीरार्णवं बाह्मे कुशद्वीपं ततो बहिः। कहिर्घृतार्णवं नीलं क्रौञ्चद्वीपं तथैव च ॥ 31.42 ॥ दधितोयनिधिश्शुक्लः शाल्मलीद्वीपसंयुतः। मध्वर्णवः पिशङ्गाऽभो गोमेदद्वीपसंयुतः ॥ 31.43 ॥ इक्षुसारार्णवः केचिच्छ्वेतः पुष्करसंयुतः। शुद्धतोयार्णवो रक्तो लोकालोकाचलस्तथा ॥ 31.44 ॥ एवं भूमण्डलं कृत्वा वर्णैर्धातुविकारजैः। पौष्पैः परागैरथवा पत्रचूर्णैरथापि वा ॥ 31.45 ॥ तत्तद्वर्णयुतान् कृत्वा सर्वानेतानसङ्करम्। जपेदुपोष्य पूर्वेद्यर्वेदान् त्रिषवणाप्लुतः ॥ 31.46 ॥ पवित्रद्रव्यम् निष्काहीनसुवर्णेन ध्रुवादीनां पृथक्पृथक्। देव्योस्तदर्धमानेन तथा परिषदामपि ॥ 31.47 ॥ छन्नगुल्फतलञ्चैकं सूत्रं विष्णोः प्रकल्पयेत्। तद्बुह्य (?) सूत्रमित्युक्तं तदसाधारणं हरेः ॥ 31.48 ॥ अशक्तस्तान्तवं वाऽथ सूत्रं कृत्वा समारचरेत्। तान्तवं यदि कुर्वी त्रिगुणीकृत्य तत्पुनः ॥ 31.59 ॥ पवित्रनिर्माणप्रकारः प्राङ्मुखौ द्वौ तु तिष्ठन्तावेकस्त्वभिमुखस्तयोः। जपन्वै विष्णुगायत्रीं दक्षिणोर्ध्वन्तु वर्धयेत् ॥ 31.50 ॥ तत्पुनस्त्रिगुणीकृत्य वामोर्ध्व वर्धयेत्पुनः। शुचौ देशे च सन्न्यस्य तस्योपरि मृदं तथा ॥ 31.51 ॥ सन्न्यस्य हस्तौ सन्ताड्य त्रिगुणीकृत्य कल्पयेत्। यज्ञोपवीतमित्युक्तं ग्रन्थिसूत्रमथोच्यते ॥ 31.52 ॥ अष्टोत्तरसहस्रेण तदर्धे न शतेन च। मूर्तीनां पुरुषादीनां तदर्धेनैव कल्पयेत् ॥ 31.53 ॥ देव्योश्च परिवाराणां तदर्धेनैव कल्पयेत्। गुल्फान्तं वाऽथ जान्वन्तूर्वन्तञ्चोत्तमादिषु ॥ 31.54 ॥ अयुग्मां कलयेद्ग्रन्थिं पञ्चवर्णोक्ततन्तुभिः। एतत्सर्वं दिवा कृत्वा सायं सन्ध्यामुपास्य च ॥ 31.55 ॥ द्रव्यन्यासः त्रिलोकीमण्डपं कृत्वा तद्द्रव्यन्यासमाचरेत्। पवित्राणि च सर्वाणि मेरुश्रृङ्गोपरि न्यसेत् ॥ 31.56 ॥ अष्टोपचारद्रव्याणि न्यसेदष्टकुलाचले। मङ्गलानि न्यसेदष्टलोकपालपदाष्टके ॥ 31.57 ॥ प्लोतवस्त्रोत्तरीयादीन् धातूनाभरणान्यपि। हविः पानीय ॥ 31.58 ॥ पुरुषादिपवित्राणि प्रागादिषु कुलाद्रिषु ॥ 31.59 ॥ कोणेषु कपिलादीनामाग्नेयादिषु विन्यसेत्। तद्बुहि षोडशांशेषु सूत्रं परिषदामपि ॥ 31.60 ॥ तत्तदुक्तेषु शैलेषु नववस्त्रोपरि न्यसेत्। सागरेषु च सर्वेषु तत्तद्द्रव्यसुपूरितान् ॥ 31.61 ॥ प्रत्येकमष्टौ कलशान् सन्न्यसेत्सूत्रवेष्टितान्। आढकाहीनधान्येषु पृथग्वस्त्रोत्तरच्छदान् ॥ 31.62 ॥ तदुपस्नानकलशान् बहिर्द्वीपेषु सन्न्यसेत्। चक्रवालाचलाद्वाह्ये प्राच्यां वीशं समर्चयेत् ॥ 31.63 ॥ दक्षिणे वक्रखङ्गौ च शऱञ्चैव समर्चयेत्। पङ्क्तीशं पश्चिमेऽभ्यर्च्य वामे चैव विशेषतः ॥ 31.64 ॥ दक्षिणे चक्रखङ्गौ च शरञ्चैव समर्चयेत्। पङ्क्तीशं पश्चिमेऽभ्यर्च्य वामे चैव विशेषतः ॥ 31.64 ॥ शङ्खखेटकशार्ङ्गाणि तथा कौमोदकीमपि। छत्रखमरयुग्मञ्च दर्पणञ्च ध्वजं तथा ॥ 31.65 ॥ ऐशान्यादिषु कोणेषु सन्न्यसेत्तानसङ्करम्। उत्सवोपक्रमः रात्रिपूजावसाने तु स्नापनञ्चौत्सवन्तु वा ॥ 31.66 ॥ ‘परं रं’ हेति मन्त्रेण पीठादादाय चात्वरः। स्वस्तिसूक्तं जपित्वा तु सर्वलङ्कारसंयुतम् ॥ 31.67 ॥ मण्डलात्पश्चिमे पीठे स्थापयित्वाऽष्टविग्रहैः। समभ्यर्च्य निवेद्यैव बध्द्वा प्रतिसरं तथा ॥ 31.68 ॥ पूर्ववच्छाययेद्देवं वेदानध्यापयेत्क्रमात्। द्रव्याधिदेवानभ्यर्च्य विधानैश्च विधायकः ॥ 31.69 ॥ कल्पयेन्मण्डलात्प्राच्यां पौण्डरीकं सलक्षणम्। होमप्रकारः तत्र नित्याग्निमाधाय परिषिच्य च पावकम् ॥ 31.70 ॥ जुहुयाद्वैष्णवैर्मन्त्रैराज्येन चरुणा तथा। हौत्रं प्रशंस्य चाऽवाह्य देवानभ्यर्च्य पूर्ववत् ॥ 31.71 ॥ निरुप्याज्याहुतीर्हुत्वा परितस्तान्त्समर्चयेत्। वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ 31.72 ॥ जुहुयाच्छ्रीमहीसूक्तं पञ्चवारुणसंयुतम्। जयाद्यैरपि हुत्वा तु यद्देवादींस्तथैव च ॥ 31.73 ॥ सहस्रमाहुतीनाञ्च सर्वदैवत्यमेव च। मिन्दाहुती च विच्छिन्नं पद्महोमं ततः परम् ॥ 31.74 ॥ पारामात्मिकसंयुकृतमीङ्कारादींस्तथैव च। रात्रिसूक्तञ्च जुहुयात्सूक्तं सारस्वतं तथा ॥ 31.75 ॥ ‘हिरण्यगर्भ’ इत्यादि ब्रह्मसूक्तं तथैव च। रुद्रमन्त्रद्वयेनापि विश्वजित्सूक्तसंयुतम् ॥ 31.76 ॥ ‘नमो वाचे’ समुच्चार्यं ‘शन्नो वात’ इतीर्य च। देवदेवं स्मरन्नेव रात्रौ होमं समाप्य च ॥ 31.77 ॥ प्रातः स्नात्वाऽथ कृत्यानि यथाविधि समाचरेत्। देवेदवं समुद्धृत्य निर्माल्यमपि शोधयेत् ॥ 31.78 ॥ ऐशान्यां मण्डलाच्छ्रभ्रे देवं संस्थाप्य पूर्ववत्। स्नपनम् अष्टोपचारैरभ्यर्च्य स्नापयेल्लवणादिभिः (?) ॥ 31.79 ॥ ‘इषे त्वोर्जे’ त्वेति जपन् स्नापयेत्सर्ववस्तुभिः। पुरुषसूक्तं समुच्चार्य शुद्धोदैरभिषेचयेत् ॥ 31.80 ॥ पुनः प्लोतेन मृज्याथ स्थापयेत्पूर्वविष्टरे। अन्तः स्नानादिकं सर्वमेकबेरे समाचरेत् ॥ 31.81 ॥ वस्त्रोत्तरीयाभरणै धातुभिश्च यथोचितम्। पूर्वमन्त्रैरलङ्कत्य पूजयित्वाऽष्टविग्रहैः ॥ 31.82 ॥ नारायणानुवाकेन कृत्वा सूत्राभिमर्शनम्। पवित्रारोपणम् कर्पूराद्यैश्च गन्धैश्च वासितञ्च परीमलम् ॥ 31.83 ॥ पूर्वीक्तेनैव मन्त्रेण दद्याद्देवस्य भक्तितः। मूर्तीनां पुरुषादीनां पृथक् दद्यात्तदुत्तमम् ॥ 31.84 ॥ पवित्रसङ्ख्या? विष्णोरेकं तथा तेषामेकमेकन्तु मध्यमम्। सर्वेषामेकसूत्रञ्चेदधमं परिचक्षते ॥ 31.85 ॥ ग्रन्थिसूत्रं निवीतञ्च दद्याद्देवस्य भक्तिः। ध्रुवादीनाञ्च सर्वेषामेवं सूत्रञ्च सन्ददेत् ॥ 31.86 ॥ स्त्रीदेवतानां सर्वासां दद्यात्सूत्रं निवीतकम्। एवं देयन्तु सर्वेषाु शङ्खवाद्यपुरस्सरम् ॥ 31.87 ॥ अष्टोपचौरर्देवेशं समभ्यर्च्य यथाविधि। हवींषि पायसादीनि प्रभूतञ्च निवेदयेत् ॥ 31.88 ॥ पानीयाचमनं दत्वा ताम्बूलं घनसंयुतम्। कुर्यात्पुष्पाञ्जलिं स्तोत्रैर्नमेत्पञ्चाङ्गकं गुरुः ॥ 31.89 ॥ सर्वालङ्कारसंयंक्तं ग्राममालयमेव वा। प्रदक्षिणं शनैः कृत्वा जीवस्थाने निवेशयेत् ॥ 31.90 ॥ दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ। मध्यमे तु प्रकुर्वीत त्रिलोकीमण्डलं विना ॥ 31.91 ॥ घान्यपीठे पवित्राणि नववस्त्रोपरि न्यसेत्। नित्याग्निकुण्डे जुहुयात्पौण्डरीकं विनाऽनिलम् ॥ 31.92 ॥ पवित्रारोपण फलश्रुतिः स्नपनं शुद्धतोयेन केवलन्त्वधमे भवेत्। एवं यः कुरुते भक्त्या पवित्रारोपणं हरेः ॥ 31.93 ॥ सर्वाभोष्टमवाप्नोति सर्वदानफलं लभेत्। सर्वपापविनिर्मुक्तः कीर्तिमान् लभते श्रियम् ॥ 31.94 ॥ संवत्सरार्चनफलं लब्ध्वा सायुज्यमाप्नुयात्। देवदेवोपयुक्तं तत्सूत्रं मर्त्यो बिभर्ति यः ॥ 31.95 ॥ अश्वमेधायुतफलं सम्प्राप्नोति न शंसयः। गृहार्चना यदि भवेद्विशेषे होमकर्मणि ॥ 31.96 ॥ विनैव सर्वदैवत्यं पारमात्मिकमेव च। ईङ्कारा?दीन्विना सर्वान् यजेदौपासनानले ॥ 31.97 ॥ ब्रह्मादीनान्तु देवानां तत्तन्मन्त्रं शताष्टकम्। जयांदीश्चैव कूष्माण्डान् पञ्चवारुणमेव च ॥ 31.98 ॥ मिन्दाहुती च विच्छिन्नं जुहुयाद्व्याहृतीरपि। एतदेव विधानं स्यादन्यत्सर्वञ्च पूर्ववत् ॥ 31.99 ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे पवित्रारापेपणविधिर्नाम एकत्रिंशोऽध्यायः।