31 एकत्रिंशोऽध्यायः

एकत्रिंशोऽध्यायः


एकत्रिंशोऽध्यायः
सामान्य प्रायश्चित्तम्
अतः परं प्रवक्ष्यामि सर्वसामान्यनिष्कृतिम्।
अशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनम् ॥ 31.1 ॥
किं वा तत्र मनुष्याणामव्य?वस्थितचेतसाम्।
विषयासक्तचित्तानामिन्द्रियाहृतचेतसाम् ॥ 31.2 ॥
अज्ञातानाञ्च दोषाणामर्चनादिषु कर्मसु।
ज्ञात्वा चानादृतानाञ्च दोषाणामर्चनादिषु कर्मसु।
ज्ञात्वा चानादृतानाञ्च मोहाल्लोभात्प्रमादतः ॥ 31.3 ॥
तत्तद्दोषोपशान्त्यर्थं कुर्यात्सामान्यनिष्कृतिम्।
तत्तत्सन्ध्यावसाने च विष्णुसूक्तेन वैष्णवैः ॥ 31.4 ॥
सूक्तेन पौरुषेणापि विष्णुगायत्रिया तथा।
द्वादशाष्टाक्षराभ्याञ्च ‘नमो ब्रह्मण’ इत्यपि ॥ 31.5 ॥
पुष्पाणि पादयोर्दत्वा ‘क्षम’ स्वेति प्रसादयेत्।
रात्रिपूजावसाने तु सूक्तेनैकाक्षरादिना ॥ 31.6 ॥
नारायणानुवाकेन स्तुत्वा पुष्पाञ्जलिं ददेत्।
मासावसाने कुर्याच्चेद्दवादश्यां श्रवणे तथा ॥ 31.7 ॥
तस्मात्तु दिवसात्पूर्वमङ्कुरार्पणमाचरेत्।
देवेशं पूर्वरात्रौ तु समभ्यर्च्य विशेषतः ॥ 31.8 ॥
हविर्नि?वेदयित्वा तु बद्धा प्रतिसरं तथा।
शाययित्वाऽथ देवेशं प्रातः स्नात्वा यथाविधि ॥ 31.9 ॥
प्रातस्सन्ध्यावसाने तु कृत्वा ग्रामप्रदक्षिणम्।
स्थापयित्वा तु देवेशं ततः स्नपनमण्डपे ॥ 31.10 ॥
स्नापयित्वा तु कलशैश्चत्वारिंशद्भिरष्टभिः।
पङ्कजं शालिभिः कुर्यात्साष्टपर्णं सकर्णिकम् ॥ 31.11 ॥
तस्मिन् देवं समारोप्य पूजयेदासनादिभिः।
महाहविः प्रभूतं वा यथाशक्ति निवेदयेत् ॥ 31.12 ॥
पानीयाचमनं दत्वा मुखवासं निवेदयेत्।
तत्काले चैव मूर्त्यर्चां पूर्ववत्कारयेद्बुधः ॥ 31.13 ॥
परिषिच्य च नित्याग्निमतो देवादिवैष्णवैः।
पिरुषेण च सूक्तेन तथा विष्णोर्नुकादिना ॥ 31.14 ॥
जयादिभिश्च कूष्माण्डैः परिषन्मूर्तिभिस्तथा।
आज्येन साज्यचरुणां व्याहृत्यन्तं ततो यजेत् ॥ 31.15 ॥
द्वादशाष्टाक्षराभ्याञ्च शतमष्टोत्तरं यजेत्।
पूर्वोक्तैरेवमन्त्रैस्तु दत्वा पुष्पाञ्जलिं तथा ॥ 31.16 ॥
जीवस्थाने प्रतिष्ठाप्य ‘क्षम’ स्वेति प्रणम्य च।
दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ ॥ 31.17 ॥
संवत्सरे तु यन्यूंनं नित्ये नैमित्तिकेऽर्चने।
तत्सर्वदोषशान्त्यर्थं मार्गशीर्षे तु मासि वै ॥ 31.18 ॥
द्वादश्यां शुक्लपक्षे तु कुर्यात्पूर्वोक्तमर्चनम्।
संवत्सराप्तदोषाणां शान्तये चाथ वौजसे ॥ 31.19 ॥
श्रवणद्वादशीयोगे मासि भाद्रपदे तथा।
पवित्रारोपणं केचिदिच्छन्ति मुनिसत्तमाः ॥ 31.20 ॥
पवित्रारोपणनिमित्तम्
अथातः सम्प्रवक्ष्यामि पवित्रारोपणं हरेः।
नित्ये नैमित्तिके वाऽपि तथा संवत्सरार्चने ॥ 31.21 ॥
ज्ञनतोऽज्ञानतो वाऽपि ये दोऽषास्सम्भवन्ति वै।
पवित्रारोपणेनैव ते शाम्यन्ति न संशयः ॥ 31.22 ॥
सर्वदोषोपशमनं सर्वकामसमृद्धिदम्।
आयुरारोग्यदं कर्तुः सर्वाध्वरुलावहम् ॥ 31.23 ॥
पवित्रारोपणं विष्णोः कारयेत्सर्वशान्तये।
मार्गशीर्षाख्यमासे तु शुक्लपक्षे विशेषतः ॥ 31.24 ॥
कालः
द्वादश्यां कृष्णपक्षे वा नक्षत्रे श्रवणेऽथवा।
दक्षिणायनमासेषु (1)विष्णुपञ्चदिने त?था (1.) द्वाश्यां श्रवणेऽवा आ ॥ 31.25 ॥
कवेराश्वयुजे मासि चाश्वयुज्यां समाचरेत्।
कृष्णाष्टमीचतुर्दयोः शम्भोर्मासेषु षट्सु च ॥ 31.26 ॥
द्वादश्यां भास्करस्योक्तं षष्ठ्यां स्कन्दस्य कीर्त्यते।
कार्तिके मासि दुर्गायाः नवम्यां कृत्तिकासु च ॥ 31.27 ॥
पूर्वपक्षेऽथवा कृष्णे श्रीदेव्याः पञ्चमीतिथौ।
अथवोत्तरुल्गुन्यौः पवित्रारोपणं चरेत् ॥ 31.28 ॥
तस्मात्तु दिवसात्पूर्वं नवमे वाऽथ सप्तमे।
पञ्चमेऽहनि वा कुर्यात्तृतीये वाऽङ्कुरार्पणम् ॥ 31.29 ॥
अङ्कुरार्पणकादूर्ध्वं द्रव्याण्यपि समाहरेत्।
पवित्रमण्डपम्
पवित्रमण्डपनं कुर्याद्देवाग्रे वाऽथ दक्षिणे ॥ 31.30 ॥
स्नपनालयेऽथवा तत्र स्थानं कृत्वा यथाविधि।
तोरणैः पूर्णकुम्भैश्च कदलीक्रमुकध्वजैः ॥ 31.31 ॥
चतुद्वरिष्वलङ्कृत्य स्तम्भयोरुभयोरपि।
वितानैश्च पताकाभिस्तरङ्गैः स्तम्भपवेष्टनैः ॥ 31.32 ॥
मुक्तादामावलम्बैश्च पुष्पैर्वा दर्भमालया।
किङ्किणीजालकैर्हैमैः कल्पवृक्षैस्सरत्नकैः ॥ 31.33 ॥
अलङ्कत्यान्तरं सर्वं सर्वं दीपानारोपयेद्वहून्।
गोमयेनोपलिप्यैव पञ्चवरलङ्कतम् ॥ 31.34 ॥
चतुर्दिशं चतुर्हस्तं त्रिहस्तं वाऽस्य मध्यमे।
गृहीत्वा प्रागुदक्सूत्रैरुपपीठपदे कृते ॥ 31.35 ॥
मेर्वादिकल्पनम्
तन्मध्ये मेरुरेकस्स्याद्धस्तमात्रसंमुच्छ्रयः।
तत्तुरीयांशहीनास्तत्परितोऽष्टौ कुलाचलाः ॥ 31.36 ॥
त?त्?ित्रभागैकहीनास्तु परितस्तस्य षोडश।
इन्द्रादीनां तथाऽष्टानां शिवादीनां पदानि वै ॥ 31.37 ॥
चतुर्भिर्दशाभिः सूत्रैः बहिः पङ्क्तिं चतुर्दिशम्।
सागराः सप्त चैतुषु द्वीपाः शाकदायश्च षट् ॥ 31.38 ॥
तत्र मेरुः सुवर्णाभः सितपीतासितारुणः।
हिमाचलादयो द्वन्द्वास्तथाऽष्टौ कुलपर्वताः ॥ 31.39 ॥
श्वेतपीतासितश्यामरक्तनीलसितारुणाः।
तद्वहिः षोउशपदे कल्पनीयाः प्रयत्नतः ॥ 31.40 ॥
जम्बूद्वीपादिकं ध्यात्वा तद्वहिर्लवणार्णवम्।
सस्यश्यामनिभं कुर्याच्छाकद्वीपं बहिस्तथा ॥ 31.41 ॥
श्वेतं क्षीरार्णवं बाह्मे कुशद्वीपं ततो बहिः।
कहिर्घृतार्णवं नीलं क्रौञ्चद्वीपं तथैव च ॥ 31.42 ॥
दधितोयनिधिश्शुक्लः शाल्मलीद्वीपसंयुतः।
मध्वर्णवः पिशङ्गाऽभो गोमेदद्वीपसंयुतः ॥ 31.43 ॥
इक्षुसारार्णवः केचिच्छ्वेतः पुष्करसंयुतः।
शुद्धतोयार्णवो रक्तो लोकालोकाचलस्तथा ॥ 31.44 ॥
एवं भूमण्डलं कृत्वा वर्णैर्धातुविकारजैः।
पौष्पैः परागैरथवा पत्रचूर्णैरथापि वा ॥ 31.45 ॥
तत्तद्वर्णयुतान् कृत्वा सर्वानेतानसङ्करम्।
जपेदुपोष्य पूर्वेद्यर्वेदान् त्रिषवणाप्लुतः ॥ 31.46 ॥
पवित्रद्रव्यम्
निष्काहीनसुवर्णेन ध्रुवादीनां पृथक्पृथक्।
देव्योस्तदर्धमानेन तथा परिषदामपि ॥ 31.47 ॥
छन्नगुल्फतलञ्चैकं सूत्रं विष्णोः प्रकल्पयेत्।
तद्बुह्य (?) सूत्रमित्युक्तं तदसाधारणं हरेः ॥ 31.48 ॥
अशक्तस्तान्तवं वाऽथ सूत्रं कृत्वा समारचरेत्।
तान्तवं यदि कुर्वी त्रिगुणीकृत्य तत्पुनः ॥ 31.59 ॥
पवित्रनिर्माणप्रकारः
प्राङ्मुखौ द्वौ तु तिष्ठन्तावेकस्त्वभिमुखस्तयोः।
जपन्वै विष्णुगायत्रीं दक्षिणोर्ध्वन्तु वर्धयेत् ॥ 31.50 ॥
तत्पुनस्त्रिगुणीकृत्य वामोर्ध्व वर्धयेत्पुनः।
शुचौ देशे च सन्न्यस्य तस्योपरि मृदं तथा ॥ 31.51 ॥
सन्न्यस्य हस्तौ सन्ताड्य त्रिगुणीकृत्य कल्पयेत्।
यज्ञोपवीतमित्युक्तं ग्रन्थिसूत्रमथोच्यते ॥ 31.52 ॥
अष्टोत्तरसहस्रेण तदर्धे न शतेन च।
मूर्तीनां पुरुषादीनां तदर्धेनैव कल्पयेत् ॥ 31.53 ॥
देव्योश्च परिवाराणां तदर्धेनैव कल्पयेत्।
गुल्फान्तं वाऽथ जान्वन्तूर्वन्तञ्चोत्तमादिषु ॥ 31.54 ॥
अयुग्मां कलयेद्ग्रन्थिं पञ्चवर्णोक्ततन्तुभिः।
एतत्सर्वं दिवा कृत्वा सायं सन्ध्यामुपास्य च ॥ 31.55 ॥
द्रव्यन्यासः
त्रिलोकीमण्डपं कृत्वा तद्द्रव्यन्यासमाचरेत्।
पवित्राणि च सर्वाणि मेरुश्रृङ्गोपरि न्यसेत् ॥ 31.56 ॥
अष्टोपचारद्रव्याणि न्यसेदष्टकुलाचले।
मङ्गलानि न्यसेदष्टलोकपालपदाष्टके ॥ 31.57 ॥
प्लोतवस्त्रोत्तरीयादीन् धातूनाभरणान्यपि।
हविः पानीय ॥ 31.58 ॥
पुरुषादिपवित्राणि प्रागादिषु कुलाद्रिषु ॥ 31.59 ॥
कोणेषु कपिलादीनामाग्नेयादिषु विन्यसेत्।
तद्बुहि षोडशांशेषु सूत्रं परिषदामपि ॥ 31.60 ॥
तत्तदुक्तेषु शैलेषु नववस्त्रोपरि न्यसेत्।
सागरेषु च सर्वेषु तत्तद्द्रव्यसुपूरितान् ॥ 31.61 ॥
प्रत्येकमष्टौ कलशान् सन्न्यसेत्सूत्रवेष्टितान्।
आढकाहीनधान्येषु पृथग्वस्त्रोत्तरच्छदान् ॥ 31.62 ॥
तदुपस्नानकलशान् बहिर्द्वीपेषु सन्न्यसेत्।
चक्रवालाचलाद्वाह्ये प्राच्यां वीशं समर्चयेत् ॥ 31.63 ॥
दक्षिणे वक्रखङ्गौ च शऱञ्चैव समर्चयेत्।
पङ्क्तीशं पश्चिमेऽभ्यर्च्य वामे चैव विशेषतः ॥ 31.64 ॥
दक्षिणे चक्रखङ्गौ च शरञ्चैव समर्चयेत्।
पङ्क्तीशं पश्चिमेऽभ्यर्च्य वामे चैव विशेषतः ॥ 31.64 ॥
शङ्खखेटकशार्ङ्गाणि तथा कौमोदकीमपि।
छत्रखमरयुग्मञ्च दर्पणञ्च ध्वजं तथा ॥ 31.65 ॥
ऐशान्यादिषु कोणेषु सन्न्यसेत्तानसङ्करम्।
उत्सवोपक्रमः
रात्रिपूजावसाने तु स्नापनञ्चौत्सवन्तु वा ॥ 31.66 ॥
‘परं रं’ हेति मन्त्रेण पीठादादाय चात्वरः।
स्वस्तिसूक्तं जपित्वा तु सर्वलङ्कारसंयुतम् ॥ 31.67 ॥
मण्डलात्पश्चिमे पीठे स्थापयित्वाऽष्टविग्रहैः।
समभ्यर्च्य निवेद्यैव बध्द्वा प्रतिसरं तथा ॥ 31.68 ॥
पूर्ववच्छाययेद्देवं वेदानध्यापयेत्क्रमात्।
द्रव्याधिदेवानभ्यर्च्य विधानैश्च विधायकः ॥ 31.69 ॥
कल्पयेन्मण्डलात्प्राच्यां पौण्डरीकं सलक्षणम्।
होमप्रकारः
तत्र नित्याग्निमाधाय परिषिच्य च पावकम् ॥ 31.70 ॥
जुहुयाद्वैष्णवैर्मन्त्रैराज्येन चरुणा तथा।
हौत्रं प्रशंस्य चाऽवाह्य देवानभ्यर्च्य पूर्ववत् ॥ 31.71 ॥
निरुप्याज्याहुतीर्हुत्वा परितस्तान्त्समर्चयेत्।
वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ 31.72 ॥
जुहुयाच्छ्रीमहीसूक्तं पञ्चवारुणसंयुतम्।
जयाद्यैरपि हुत्वा तु यद्देवादींस्तथैव च ॥ 31.73 ॥
सहस्रमाहुतीनाञ्च सर्वदैवत्यमेव च।
मिन्दाहुती च विच्छिन्नं पद्महोमं ततः परम् ॥ 31.74 ॥
पारामात्मिकसंयुकृतमीङ्कारादींस्तथैव च।
रात्रिसूक्तञ्च जुहुयात्सूक्तं सारस्वतं तथा ॥ 31.75 ॥
‘हिरण्यगर्भ’ इत्यादि ब्रह्मसूक्तं तथैव च।
रुद्रमन्त्रद्वयेनापि विश्वजित्सूक्तसंयुतम् ॥ 31.76 ॥
‘नमो वाचे’ समुच्चार्यं ‘शन्नो वात’ इतीर्य च।
देवदेवं स्मरन्नेव रात्रौ होमं समाप्य च ॥ 31.77 ॥
प्रातः स्नात्वाऽथ कृत्यानि यथाविधि समाचरेत्।
देवेदवं समुद्धृत्य निर्माल्यमपि शोधयेत् ॥ 31.78 ॥
ऐशान्यां मण्डलाच्छ्रभ्रे देवं संस्थाप्य पूर्ववत्।
स्नपनम्
अष्टोपचारैरभ्यर्च्य स्नापयेल्लवणादिभिः (?) ॥ 31.79 ॥
‘इषे त्वोर्जे’ त्वेति जपन् स्नापयेत्सर्ववस्तुभिः।
पुरुषसूक्तं समुच्चार्य शुद्धोदैरभिषेचयेत् ॥ 31.80 ॥
पुनः प्लोतेन मृज्याथ स्थापयेत्पूर्वविष्टरे।
अन्तः स्नानादिकं सर्वमेकबेरे समाचरेत् ॥ 31.81 ॥
वस्त्रोत्तरीयाभरणै धातुभिश्च यथोचितम्।
पूर्वमन्त्रैरलङ्कत्य पूजयित्वाऽष्टविग्रहैः ॥ 31.82 ॥
नारायणानुवाकेन कृत्वा सूत्राभिमर्शनम्।
पवित्रारोपणम्
कर्पूराद्यैश्च गन्धैश्च वासितञ्च परीमलम् ॥ 31.83 ॥
पूर्वीक्तेनैव मन्त्रेण दद्याद्देवस्य भक्तितः।
मूर्तीनां पुरुषादीनां पृथक् दद्यात्तदुत्तमम् ॥ 31.84 ॥
पवित्रसङ्ख्या?
विष्णोरेकं तथा तेषामेकमेकन्तु मध्यमम्।
सर्वेषामेकसूत्रञ्चेदधमं परिचक्षते ॥ 31.85 ॥
ग्रन्थिसूत्रं निवीतञ्च दद्याद्देवस्य भक्तिः।
ध्रुवादीनाञ्च सर्वेषामेवं सूत्रञ्च सन्ददेत् ॥ 31.86 ॥
स्त्रीदेवतानां सर्वासां दद्यात्सूत्रं निवीतकम्।
एवं देयन्तु सर्वेषाु शङ्खवाद्यपुरस्सरम् ॥ 31.87 ॥
अष्टोपचौरर्देवेशं समभ्यर्च्य यथाविधि।
हवींषि पायसादीनि प्रभूतञ्च निवेदयेत् ॥ 31.88 ॥
पानीयाचमनं दत्वा ताम्बूलं घनसंयुतम्।
कुर्यात्पुष्पाञ्जलिं स्तोत्रैर्नमेत्पञ्चाङ्गकं गुरुः ॥ 31.89 ॥
सर्वालङ्कारसंयंक्तं ग्राममालयमेव वा।
प्रदक्षिणं शनैः कृत्वा जीवस्थाने निवेशयेत् ॥ 31.90 ॥
दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ।
मध्यमे तु प्रकुर्वीत त्रिलोकीमण्डलं विना ॥ 31.91 ॥
घान्यपीठे पवित्राणि नववस्त्रोपरि न्यसेत्।
नित्याग्निकुण्डे जुहुयात्पौण्डरीकं विनाऽनिलम् ॥ 31.92 ॥
पवित्रारोपण फलश्रुतिः
स्नपनं शुद्धतोयेन केवलन्त्वधमे भवेत्।
एवं यः कुरुते भक्त्या पवित्रारोपणं हरेः ॥ 31.93 ॥
सर्वाभोष्टमवाप्नोति सर्वदानफलं लभेत्।
सर्वपापविनिर्मुक्तः कीर्तिमान् लभते श्रियम् ॥ 31.94 ॥
संवत्सरार्चनफलं लब्ध्वा सायुज्यमाप्नुयात्।
देवदेवोपयुक्तं तत्सूत्रं मर्त्यो बिभर्ति यः ॥ 31.95 ॥
अश्वमेधायुतफलं सम्प्राप्नोति न शंसयः।
गृहार्चना यदि भवेद्विशेषे होमकर्मणि ॥ 31.96 ॥
विनैव सर्वदैवत्यं पारमात्मिकमेव च।
ईङ्कारा?दीन्विना सर्वान् यजेदौपासनानले ॥ 31.97 ॥
ब्रह्मादीनान्तु देवानां तत्तन्मन्त्रं शताष्टकम्।
जयांदीश्चैव कूष्माण्डान् पञ्चवारुणमेव च ॥ 31.98 ॥
मिन्दाहुती च विच्छिन्नं जुहुयाद्व्याहृतीरपि।
एतदेव विधानं स्यादन्यत्सर्वञ्च पूर्ववत् ॥ 31.99 ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे पवित्रारापेपणविधिर्नाम एकत्रिंशोऽध्यायः।