त्रिंशोऽध्यायः ॐ त्रिंशोऽध्यायः दशानामवताराणां स्थापनं वक्ष्यते ततः। अवताराणां एकत्र कल्पनम् पूर्वमेव मया प्रोक्तं पृथगालयकल्पनम् ॥ 30.1 ॥ एकगर्भगृहे स्युश्चेत्षोडशांशं विभज्य च। कल्पयेदनिरुद्धस्य चतुरंशांस्तु मध्यमे ॥ 30.2 ॥ अथवा केवलं विष्णुमासीनं स्थितमेव वा। अंशौ द्वौ पुरतस्त्यक्त्वा द्वारार्थं मुनिसत्तमाः ॥ 30.3 ॥ शेषेषु दशभागेषु मत्स्याद्यंशान् प्रकल्पयेत्। यस्य यस्य यो देशः कल्पितः पदकल्पने ॥ 30.4 ॥ अवस्थाभेदभिन्नानि तत्तद्रूपाणि तत्पदम्। समभागं प्रकल्प्याऽत्र स्थापयित्वा समर्चयेत् ॥ 30.5 ॥ प्रधानाभिसमुखान् कुर्यादवतारान् यथाक्रमम्। खिले विस्तरशः प्रोक्तमेतेषां लक्षणं पुरा ॥ 30.6 ॥ ध्रुवकौतुकसंयुक्तं कुर्यात्प्रत्येकमुत्तमम्। संस्थाप्य कौतुकं वाऽथ केवलं विहिते पदे ॥ 30.7 ॥ आदिमूर्तेस्मावाह्य पूजयेदिति केचन। अपादनं दशांशानामनिरुद्धो यतः (1)स्मृतः(1.) अनिरुद्धादयः स्मृताः ख. ॥ 30.8 ॥ एतन्मध्यममुद्दिष्टमधमं केवलं ध्रुवम्। स्थापयित्वाऽग्रतः पीठे समावाह्य समर्चयेत् ॥ 30.9 ॥ आदिमूर्तिसमं वाऽथ कर्णसीमान्तमेव वा। अथवा बाहुसीमान्तं तब्देराणि प्रकल्पयेत् ॥ 30.10 ॥ पञ्चमूर्तिप्रतिष्ठायां पुरुषादिप्रकल्पने। एतदेव प्रमाणं स्यादधिकं न समाचरेत् ॥ 30.11 ॥ प्रमाणं पञ्चवीराणां ब्राह्मणो गरुडस्य च। वासुदेवसमं वाऽथ बाह्वन्तं वाऽधिकं न च ॥ 30.12 ॥ बिम्बं दशावाताराणां केवलं कौतुकं यदि। आदिमूर्तिध्रुवोत्सेधं त्रिधा कृत्वा विचक्षणः ॥ 30.13 ॥ एकभागं व्यपोह्यैव द्विभागं चोत्तमोदयम्। त्?ित्रभागद्विभागोच्चं मध्यमं प्रतिमोदयम् ॥ 30.14 ॥ एकांशमधमं तत्तदन्तरे नवधा कृते। सप्तविंशतितुङ्गानि पूर्ववत्परिकल्पयेत् ॥ 30.15 ॥ केवलं कौतुकं स्याच्चेदर्चास्थाने प्रकल्पयेत्। निर्माल्यहारिणं तेषामर्चयेत्परितोऽमितम् ॥ 30.16 ॥ परितो वैनतेयस्य मध्यमे नवभिः पदैः। कल्पयेदनिरुद्धस्य वाहनानि (?) प्रकल्पयेत् ॥ 30.17 ॥ इत्थं बेराणि कृत्वैवं प्रतिष्ठामारभेत्पुनः। कल्पयेद्यागशालाया उपपीठपदं क्रमात् ॥ 30.18 ॥ परितस्तब्दहिः पङ्क्तौ प्राच्यां दिशि पदत्रयम्। याम्यादिषु तथैकैकं द्वारार्थं परिकल्पयेत् ॥ 30.19 ॥ आग्नेयादीशपर्यन्तं मत्स्यादीनां यथाक्रमम्। ततृतद्दिक्षु दशांशानां प्रधानाग्नौन् प्रकल्पयेत् ॥ 30.20 ॥ श्वभ्रं शयनवेदिंञ्च कल्पयित्वा यथोचितम्। अङ्कुरार्पणकादूर्ध्वमक्ष्युन्मेषादिकाः क्रियाः ॥ 30.21 ॥ विनैव सर्वदैवत्यं पारमात्मिकमेव च। प्रतिष्ठामुत्सवादींश्च पूर्ववत्परिकल्पयेत् ॥ 30.22 ॥ एषां प्रधानमन्त्राश्च मुर्तिभेदास्तथैव च। पूर्वमेव मया प्रोक्ताः सर्वमन्यद्धरेरिव ॥ 30.23 ॥ आवाहनं दशांशानां आदिमूर्तेर्ध्रुवाद्यादि। निष्कलत्वाद् ध्रुवस्यास्य कुर्यात्कौतुकनामभिः ॥ 30.24 ॥ विपरीतं यदि भवेद्ध्रुवनाम्ना समर्चयेत्। वाराहं नारसिंहञ्च रामं कृष्णं तथैव च ॥ 30.25 ॥ (ध्रुवबेरवशात्कृत्वा केवलं कैतुकं तथा) (1)दक्षिणोत्तरयोस्सम्यक् स्थापयेन्मुखमण्डपे। स्थापयेदन्तराले वा नृत्तमण्डप एव वा (1.) पश्चिमोत्तरयोः ख. ॥ 30.26 ॥ तेषाञ्च स्थापने शालां वराहार्थं प्रकल्प्य च। दक्षिंणाभिमुखीं शालां (2)वामनस्य प्रकल्पयेत् (2.) तत्तद्दिक्षु प्रकल्प्य च ख. ॥ 30.27 ॥ तद्दक्षिणे वा पूर्वस्मिन् राघवार्थं प्रकल्प्येत्। कृत्वा वामे नृसिंहार्थं तद्वामे पूर्वमेव वा ॥ 30.28 ॥ कृष्णार्थं कल्पयेद्यागशालां प्राक्पश्चिमायताम्। पश्चिमे शयनं तत्र कारयित्वा तदग्रतः ॥ 30.29 ॥ सङ्कल्पयेत्प्रधानाग्निं स्नानश्वभ्रं तदग्रतः। वास्तुहोमावसाने तु कुम्भं संसाध्य पूर्ववत् ॥ 30.30 ॥ स्नपनं शयनारोहं ह्मैत्रशंसनमेव च। सर्वञ्च पूर्ववत्कृत्वा प्रधानाग्नौ तथाऽखिलम् ॥ 30.31 ॥ तत्ततृप्रधानमन्त्रैश्च शतमष्टोत्तरं यंजेत्। प्रातस्स्नात्वा विधानेन प्रविश्य मुखमण्डपम् ॥ 30.32 ॥ वराहं दक्षिणे (3)रामं मत्स्यं संस्थाप्य दक्षिणे। नारसिंहं तथा वामे कृष्णं तस्य च वामतः (3.) तस्य राघवं स्?थाप्य. ख ॥ 30.33 ॥ वाराहनारसिंहौ तु स्थापयित्वाऽग्रमण्डपे। अन्तरालेऽथवा कृष्णरामौ संस्थाप्य पूजयेत् ॥ 30.34 ॥ दक्षिणे नारसिंहं वा वारहरहितं यदि। एकबेरविमानस्य गर्भगेहेऽग्रमण्डपे ॥ 30.35 ॥ औत्सवं स्थापनं कर्तुं यदि स्यात्स्थानसङ्कटः। अग्रमण्डपबाह्ये तु प्रतिमां मण्डपे कृते ॥ 30.36 ॥ औत्सवस्योक्तदेशे तु तत्र संस्थाप्य पूजयेत्। परप्रधानबिम्बानां पूजा षोडशविग्रहैः ॥ 30.37 ॥ (एष एव विशेषः स्यादन्यत्सर्वं हरेरिव। अथवा मत्स्यकूर्मौ तु गर्भगेहस्य मध्यमे ॥ 30.38 ॥ प्रतिष्ठाप्य वराहादीन् दिक्ष्वष्टासु प्रकल्पयेत्। ध्रुवञ्च कौतुकञ्चैव कुर्यादग्रे पृथक्पृथक्) ॥ 30.39 ॥ (एष एव विशेषः स्यादन्यत्सर्वञ्च पूर्ववत्) पञ्चवीराणां स्थापनम् स्थापनं पञ्चवीराणामर्चनञ्च तपोधनाः। प्रवक्ष्यामि समासेन शृणुध्वं मुनिसत्तमाः ॥ 30.40 ॥ वासुदेवादिदेवानां पञ्चानां विष्णुना सह। पञ्चनवीरार्चनं प्रोक्तं ब्रह्मणा च सहार्चनम् ॥ 30.41 ॥ अन्नप्रजापतियुतं रहितं वा तपोधनाः। पुष्टिद सर्वलोकाना सर्वाध्वरुलावहम् ॥ 30.42 ॥ पञ्चवीरार्चनं ह्येतद्वेदवैदिकवर्धनम्। सर्वैश्वर्यप्रदं नृणां मुक्तिदं सर्वसिद्धिदम् ॥ 30.43 ॥ (1)नदीविशालमष्टाङ्गं सोमच्छन्दं चतुःस्फुटम्। सर्वतोभद्रकं वाऽपि गोपुराकृतिकन्तु वा (1.) नन्दी. ख. ॥ 30.44 ॥ एकतलं द्वितलं वा कल्पयित्वा यथाविधि। आदिभूमिं घनं कुर्याद्द्वितीये स्थापयेत्तले ॥ 30.45 ॥ गर्भव्यासाष्टभागैकहीनोच्चे वसुदेवजे। त्रयस्त्रिंशतिदण्डैकाधिकः सङ्कर्षणोदयः ॥ 30.46 ॥ वासुदेवाधिकोत्सेधो बलभद्रो (1)नु दैविकै। प्रद्युम्नो वासुदेवस्य कर्णसीमान्तकोदयः (1.) अधिकोदयः ख. ॥ 30.47 ॥ (2)नस्यस्तनावासानोच्चौ रुक्मिणी साम्ब एव च। वासुदेवस्य हिक्कान्तस्त्वनिरुद्ध उदाहृतः (2.) तस्य नासावसानौ च. ख. ॥ 30.48 ॥ वासुदेवसमोत्सेधं कल्पयेत्कमलासनम्। समष्टिरूपमेतेषां मध्ये विष्णुं प्रकल्पयेत् ॥ 30.49 ॥ स्थावरं जङ्गमञ्चापि तथा स्थावरजङ्गमम्। श्रीभूमिसहितं कुर्याद्रहितं वा यथाविधि ॥ 30.50 ॥ स्थापयेद्वासुदवादीन् पञ्च वै मानुषे पदे। स्थापयेद्वासुदेवन्तं ब्रह्मसूत्रात्तथोत्तरे ॥ 30.51 ॥ श्यामलं द्विभुजं देवं शङ्खचक्रसमन्वितम्। पद्मात्रायतदृशं प्रसन्नेन्दुनिभाननम् ॥ 30.52 ॥ पीताम्बरधरं देवं सर्वाभरणभूषितम्। दक्षिणे रुक्मिणीं देवीं श्यामां रक्ताम्बरोज्जवलाम् ॥ 30.53 ॥ मीनकुण्डलताटङ्कां यज्ञसूविराजिताम्। ताटङ्कं दक्षिणे कर्णे वामे मकरकुण्डलम् ॥ 30.54 ॥ कुञ्चितं दक्षिणं पादं वामपादञ्च सुस्थितम्। करं प्रसारितं वामं दक्षिणं वरदं तथा ॥ 30.55 ॥ अथवा दक्षिणेनैव दिव्यपङ्कजधारिणीम्। तस्याश्च दक्षिणे भागे बलदेवं प्रकल्पयेत् ॥ 30.56 ॥ श्वेताभं द्विभुजं कुर्याद्दक्षिणेनाभाभयप्रदम्। उद्देशवामहस्तञ्च सर्वाभरणभूषितम् ॥ 30.57 ॥ दक्षिणे भित्तिपार्श्वे तु ब्रह्मणां कनकप्रभम्। द्विभुजं कटिकं वामं दक्षिणेनाभयप्रदम् ॥ 30.58 ॥ उदङ्मुखं स्थितं कुर्यात्सर्वाभरणभूषितम्। उत्तरे वासुदेवस्य प्रद्युम्नं द्विभुजं स्थितम् ॥ 30.59 ॥ सस्?यश्यामनिभं कुर्यात्सर्वाभरणभूषितम्। अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् ॥ 30.60 ॥ उत्तरां भित्तिमाश्रित्य साम्ब़ञ्च द्विभुजं स्थितम्। दक्षिणाभिमुखं श्यामं सर्वाभणभूषितम् ॥ 30.61 ॥ वरदं दक्षिणं हस्तं वामं कट्यवलाम्बितम्। तत्प्राच्यामनिरुद्धञ्च प्रवालाभं प्रकल्पयेत् ॥ 30.62 ॥ अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम्। (1)दक्षिणाभिमुखं तस्य हस्तौ साम्बवदेव हि (1.) दक्षिणाभिमुखञ्चैव सर्वाभरणभूपितम्. ख. ॥ 30.63 ॥ दशालालोत्तमेनैव मध्ये विष्णुं प्रकल्पयेत्। स्थावरं दैविके भागे पदे ब्राह्मे तु जङ्गमम् ॥ 30.65 ॥ वासुदेवसमोत्सेधं स्थावरं समुदाहृतम्। सर्वानुकूलमानेन केवलं जङ्गमं यदि ॥ 30.66 ॥ कौतुकं पञ्चवीराणां स्थापयेत्तत्तदग्रतः। यदाकारं ध्रुवाकारं तदाकारञ्च कौतुकम् ॥ 30.67 ॥ सर्वेषां कौतुकं मध्ये विष्णुमेकं तथापि वा। औत्सवं स्नापनञ्चैव विष्णुमेव चतुर्भुजम् ॥ 30.68 ॥ अन्नप्रजापतिं कुर्यात्प्राच्यामेवानिरुद्धतः। भूताकारं प्रकुर्वीत द्विभुजं वा चतुर्भुजम् ॥ 30.69 ॥ परितस्तु त्रयस्त्रिंशद्देवान् गर्भगृहेऽर्चयेत्। प्राग्भितौ द्वादशादित्यान् रुद्रान् दक्षिणभित्तिकान् ॥ 30.70 ॥ प्रतीच्याञ्च वसूनष्टौ नासत्यावुत्तरे क्रमात्। द्वारस्य दक्षिणे भागे खड्गशक्तिशरारिणः ॥ 30.71 ॥ गदाञ्च कल्ययेव्दामे शङ्खं शार्ङ्गञ्च खेटकम्। अङ्कुशं पद्ममित्येवमर्चयेच्च दशायुधान् ॥ 30.72 ॥ परितो लोकपालांश्च प्रह्लादं ज्ञानमूर्तिकम्। पूजयेद्द्व शादित्यान् रुद्रानेकादश क्रमात् ॥ 30.73 ॥ वसूनष्टौ च नासत्यौ चतुर्ज्योतींषि च क्रमात्। प्राग्भित्तौ पाण्डवान् कुर्यात्तलेऽधब्स्ताद्वहिर्मुखान् ॥ 30.74 ॥ उत्तरे दक्षिणाद्यञ्च तत्तच्चिह्रसमायुतान्। प्रागग्भित्तौ दैविकान्पञ्चवीरान् सङ्कल्पयेब्दुधः ॥ 30.75 ॥ एष एव विशेषः स्यादन्यत्सर्वं हरेरिव। सुमासपक्षनक्षत्रमुहूर्तकरणादिषु ॥ 30.76 ॥ अङ्कुराण्यर्पयित्वैव द्रव्याण्यपि समाहरेत्। यागशालाञ्च पञ्चाग्नीन् पौण्डरीकञ्च कल्पयेत् ॥ 30.77 ॥ औपासनविहीनञ्च दक्षिणाग्नेस्तु दक्षिणे। आवसथ्योत्तरे कुर्यादन्नमूर्तेस्तथैव च ॥ 30.78 ॥ अक्ष्युन्मेषाधिवासादीन् सर्वं पूर्ववदाचरेत्। अधिवासगतान् देवान् समुद्धृत्याभिषेचयेत् ॥ 30.79 ॥ अलङ्कत्य यथान्यायं कुर्याद्ग्रामप्रदक्षिणम्। स्थापयेद्यागशालायां नैऋते विष्टरोपरि ॥ 30.80 ॥ संसाध्य पूर्ववत्कुम्भं सर्वषा़ञ्च पृथक्पृथक्। अलङ्कत्य समभ्यच्र्य बद्ध्वा प्रतिसरामपि ॥ 30.81 ॥ शयने शाययित्वैव वेदानध्यापयेत्क्रमात्। वासुदेवस्य विष्णोश्च मध्ये हौत्रं प्रशंस्य च ॥ 30.82 ॥ रामस्याहवनीयाग्नौ प्रद्युम्नस्य च दक्षिणे। सामृबस्य गार्हपत्याग्नावावसथ्ये तथैव च ॥ 30.83 ॥ हौत्रं स्यादिनरुद्धस्य ब्राह्मणश्च प्रजापतेः। होत्रमौपासनाग्नौ च प्रशंस्याऽवाह्य पूर्ववत् ॥ 30.84 ॥ निरुप्याज्याहुतीर्हुत्वा सर्वान् देवान् समर्च्य च। वासुदेवस्य सभ्याग्निं परिस्तीर्य यथाविधि ॥ 30.85 ॥ वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च। श्रीसूक्तञ्च महीसूक्तं पञ्चवारुणसंयुतम् ॥ 30.86 ॥ मूलहोमसामयुक्तं यद्दैवादिसमन्वितम्। आहुतीनां सहस्रञ्च देवं ध्यान् जुहोति च ॥ 30.87 ॥ यजेदेवं पुनश्चापि विष्णुमुद्दिश्य तत्र वै। हुत्वा तु सर्वदैवत्यं वैष्णवं त्रिः पुनर्यजेत् ॥ 30.88 ॥ ?िमन्दाहुती च पिच्छिन्नं हुत्वा कृत्वा प्रवाहणम्। रामस्याहवनीयाग्नौ पौरुषं सूक्तमेव च ॥ 30.89 ॥ विष्णुसूक्तं ततो ब्राह्मं प्रद्युम्नस्य च दक्षिणे। वैष्णवं गार्हपत्याग्नौ साम्बस्य जुहुयात्पुनः ॥ 30.90 ॥ आवसथ्येऽनिरुद्धस्य यजेदेकाक्षरादिकम्। रुद्रमन्त्रद्वयेनापि भक्त्या देवमनुस्मरन् ॥ 30.91 ॥ ऋत्विगष्टर्ककृत्वस्तु जुहुयादुत्तमादिषु। यजेदाहवनीयाग्नौ जयादींश्च सकृत्सकृत् ॥ 30.92 ॥ ततश्च पौण्डरीकाग्निं परिषिच्य यथाविधि। विष्णुगायत्रिया पद्मं घृते गव्ये समाप्लुतम् ॥ 30.93 ॥ अष्टोत्तरशतं हुत्वा जुहुयात्पारमात्मिकम्। सभ्याग्निं पौण्डरीकाग्निं विनाऽन्याग्नीन् विसृज्य च ॥ 30.94 ॥ नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेद्रुरुः। प्रातः स्नात्वाऽथ सावित्रीं जप्त्वा सन्ध्यामुपास्य च ॥ 30.95 ॥ त्नान्यासं ततः कुर्यादर्चापीठे तु पूर्ववत्। विसृज्य शान्तिहोमान्ते पौण्डरीकं विधानतः ॥ 30.96 ॥ दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ। सभ्यमग्निं परिस्तीर्य विष्णुगायत्रिया यजेत् ॥ 30.97 ॥ हुत्वाऽऽदधीत सभ्याग्निं नित्यहोमाय दक्षिणे। प्रधानकुम्भमाचार्यः पुरतः शिरसा वहन् ॥ 30.98 ॥ गच्छेत्तदर्चकाः कुम्भान् वहन्तोऽनुनयन्ति च। शाकुर्न सूक्तमुच्चार्य कुर्याद्धामप्रदक्षिणम् ॥ 30.99 ॥ पश्चादन्तः प्रविश्यैव जीवस्थाने निवेश्य च। जप्त्वाऽत्मसूक्तमाचार्यो मनसा भावयन् हरिम् ॥ 30.100 ॥ मन्त्रन्यासाक्षरन्यासौ कृत्वा बिम्बे च पूर्ववत्। रामादीनाञ्च सर्वेषां तन्नमाद्यक्षरान्वितम् ॥ 30.101 ॥ प्रत्यक्प्रवृत्तिं मनसा ध्यायन् विष्णुं परात्परम्। वासुदेवं समारभ्य रुक्मिण्यन्तमनुक्रमात् ॥ 30.102 ॥ मध्ये विष्णुं समावाह्य श्रीभूमिभ्यां समन्वितम्। ततः सङ्कर्षणादींस्तान् क्रमेणाऽवाहयेत्सुधीः ॥ 30.103 ॥ गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान्। विमानलोकपालांश्च परिवारांस्तथोत्तरान् ॥ 30.104 ॥ आवाह्य वासुदेवस्य कुम्भादेव यथाक्रमम्। एककुम्भे तथा ध्यायेत्सर्वास्तान् विष्णुना विना ॥ 30.105 ॥ वासुदेवं समावाह्य तस्मादावाहयेत्क्रमात्। स्थापकैः सह पुण्याहं वाचयित्वा तु पूर्ववत् ॥ 30.106 ॥ हपीषि पायसादीनि रामादीनां निवेदयेत्। मौद्गिकं ब्रह्मणे दद्यात् शुद्धान्नन्तु प्रजापतेः ॥ 30.107 ॥ नित्याग्निकुण्डे जुहुयान्मूर्तिहोमं यथाविधि। कृत्वा बल्युत्सवान्तानि रात्रौ स्नपनमाचरेत् ॥ 30.108 ॥ आरभेदुत्सवं पश्चादुत्सवोक्तक्रमेण वै। हिरण्यपशुभूम्यादीन् गुरवे दक्षिणां ददेत् ॥ 30.109 ॥ एष एव विशेषः स्यादन्यत्सर्व हरेरिव। पञ्चवीराणां स्थापने स्थाननिर्देशः ग्रामान्ते नगरान्ते वा पर्वतान्ते वनान्तरे ॥ 30.110 ॥ नदीसमुद्रतीरेषु विविक्तेऽन्यत्र कुत्रचित्। पञ्चवीरिदयककहेह प्रतिष्ठाप्य समर्चयेत् ॥ 30.111 ॥ पञ्चवीरार्चनप्रकारः अतः परं प्रवक्ष्यामि पञ्चवीरतमर्चनम्। अर्चकः प्रातरुत्थाय स्नात्वा सन्ध्यामुपास्य च ॥ 30.112 ॥ देवादींस्तर्पयित्वाऽद्भिः जप्त्वा जप्यानि पूर्ववत्। देवालयं प्रविश्याथ परीत्य च यधाविधि ॥ 30.113 ॥ कवाटोद्धाटनादीनि कृत्वा सर्वाणि पूर्ववत्। समृभारानपि सम्भृत्य निर्माल्यमपहाय च ॥ 30.114 ॥ हवींषि चोपदंशांश्च पाचयित्वा यथाविधि। स्नापयेद्वासुदेवन्त ‘मिषे त्वा’दि जपन् पुनः ॥ 30.115 ॥ विष्णुं पुरषसूक्तेन स्नापयित्वा यथाविधि। स्नापयेब्दलभद्रन्त ‘मापो हि ष्ठा’ दिभिः त्रिभिः ॥ 30.116 ॥ प्रद्युम्नं विष्णुसूक्तेन साम्बं संस्नाप्य वैष्णवैः। स्नापयेदनिरुद्धन्तं सूक्तेनैकाक्षरादिना ॥ 30.117 ॥ ब्राह्ममन्त्रद्वयेनैव ब्रह्माणञ्च प्रजापतिम्। (स्नापयित्वा क्रमेणैतान् जीवस्थाने निवेशयेत्) वासुदेवस्य विष्णोश्चावरणत्रयनामभिः ॥ 30.118 ॥ अन्येषामपि देवानां न्यसेत्पुष्पाणि मूर्तिभिः। अभ्यर्च्य द्वारदेवादीन् पुनरन्तः प्रविश्य च ॥ 30.119 ॥ उदङ्मुखस्ममासीनो विष्टरे चैकजानुना। (1)मन्त्रन्यासं ततः कृत्वा आवाह्य च तथा ध्रुवात् (1.) मन्त्रन्यासाक्षरन्यासौ कृत्वाऽऽवाह्य ख. ॥ 30.120 ॥ केवले जङ्गमे (2)विष्णोर्नावाहन?विर्सने। एकबेरे तथा विष्णोविशेषस्तत्र वक्ष्यते (2.) विष्णो ख. ॥ 30.121 ॥ बिम्बाभिषेचनात्पूर्वमर्चयित्वाऽष्टविग्रहैः। तैलाभ्यङ्गं तथा कृत्वा संस्नाप्य च यथा पुनः ॥ 30.122 ॥ अलङ्कृत्य प्रतिष्ठाप्य पूजयेदष्टविग्रहैः(3)। विशेषं सम्प्रवक्ष्यामि बलभद्रादिपूजने (3.) पूजयेच्छेपवग्रहैः ख. ॥ 30.123 ॥ रामस्याचमनं दद्या ‘दापो’ हि ष्ठा’दिभिः त्रिभिः। ‘हिण्यग’र्भ इत्युक्त्वा दद्यादर्ध्य हविस्तथा ॥ 30.124 ॥ ‘योगे योग’ इत्याचमनं प्रद्युम्नस्याभिधीयते। ‘इदमापः शिवा’ अर्ध्य ‘(4)मिह पुष्टि’ मिति ब्रुवन् (4.) इहपुष्टिरिह. ख्?ा ॥ 30.125 ॥ हविर्निवेदनं कुर्यात्ततः साम्बसमर्चने। ‘समाने वृक्ष’ इत्युक्त्वा दद्यादाचमनं पुनः ॥ 30.126 ॥ विष्णुगायत्रिया चार्ध्यं. ‘समाववर्ती’ ति वै हविः। हविराचमनार्ध्याणि अनिरुद्धस्य पूर्ववत् ॥ 30.127 ॥ पूजयेन्मुखवासान्तं सङ्कर्षणपुरस्सरान्। ब्राह्ममन्त्रद्वयेनैव ब्रह्माणञ्च प्रजापतिम् ॥ 30.128 ॥ द्वात्रिंशद्विग्रहैर्विष्णुं वासुदेवञ्च पूजयेत्। मूर्तयः पूर्वमेवोक्ताः सर्वेषाञ्च मया खिले ॥ 30.129 ॥ येषां न मूर्तयः सन्ति तेषां नामभिरर्चनम्। कौतुकं पञ्चवीराणामेकमेव(1) यदा भवेत् (1.) एवमेव, ख. ॥ 30.130 ॥ तदा तु वासुदेवञ्च सङ्कर्षणमिति ब्रुवन्। प्रद्युम्नं साम्बमित्युक्त्वा अनिरुद्धमिति ब्रुवन् ॥ 30.131 ॥ ततः पञ्चभिरावाह्य समभ्यर्च्य यथाविधि। पञ्चस्वारोपयेद्देवान् पूजनान्ते यथाविधि ॥ 30.132 ॥ इति सङ्क्षेपतः प्रोक्तं पञ्चवीरसमर्चनम्। अनुक्तान्यत्र सर्वाणि विष्णोरिव समाचरेत् ॥ 30.133 ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे दशावतार पञ्चवीरप्रतिष्ठादिविधिर्नाम त्रिंशोऽध्यायः।