30 त्रिंशोऽध्यायः

त्रिंशोऽध्यायः


त्रिंशोऽध्यायः
दशानामवताराणां स्थापनं वक्ष्यते ततः।
अवताराणां एकत्र कल्पनम्
पूर्वमेव मया प्रोक्तं पृथगालयकल्पनम् ॥ 30.1 ॥
एकगर्भगृहे स्युश्चेत्षोडशांशं विभज्य च।
कल्पयेदनिरुद्धस्य चतुरंशांस्तु मध्यमे ॥ 30.2 ॥
अथवा केवलं विष्णुमासीनं स्थितमेव वा।
अंशौ द्वौ पुरतस्त्यक्त्वा द्वारार्थं मुनिसत्तमाः ॥ 30.3 ॥
शेषेषु दशभागेषु मत्स्याद्यंशान् प्रकल्पयेत्।
यस्य यस्य यो देशः कल्पितः पदकल्पने ॥ 30.4 ॥
अवस्थाभेदभिन्नानि तत्तद्रूपाणि तत्पदम्।
समभागं प्रकल्प्याऽत्र स्थापयित्वा समर्चयेत् ॥ 30.5 ॥
प्रधानाभिसमुखान् कुर्यादवतारान् यथाक्रमम्।
खिले विस्तरशः प्रोक्तमेतेषां लक्षणं पुरा ॥ 30.6 ॥
ध्रुवकौतुकसंयुक्तं कुर्यात्प्रत्येकमुत्तमम्।
संस्थाप्य कौतुकं वाऽथ केवलं विहिते पदे ॥ 30.7 ॥
आदिमूर्तेस्मावाह्य पूजयेदिति केचन।
अपादनं दशांशानामनिरुद्धो यतः (1)स्मृतः(1.) अनिरुद्धादयः स्मृताः ख. ॥ 30.8 ॥
एतन्मध्यममुद्दिष्टमधमं केवलं ध्रुवम्।
स्थापयित्वाऽग्रतः पीठे समावाह्य समर्चयेत् ॥ 30.9 ॥
आदिमूर्तिसमं वाऽथ कर्णसीमान्तमेव वा।
अथवा बाहुसीमान्तं तब्देराणि प्रकल्पयेत् ॥ 30.10 ॥
पञ्चमूर्तिप्रतिष्ठायां पुरुषादिप्रकल्पने।
एतदेव प्रमाणं स्यादधिकं न समाचरेत् ॥ 30.11 ॥
प्रमाणं पञ्चवीराणां ब्राह्मणो गरुडस्य च।
वासुदेवसमं वाऽथ बाह्वन्तं वाऽधिकं न च ॥ 30.12 ॥
बिम्बं दशावाताराणां केवलं कौतुकं यदि।
आदिमूर्तिध्रुवोत्सेधं त्रिधा कृत्वा विचक्षणः ॥ 30.13 ॥
एकभागं व्यपोह्यैव द्विभागं चोत्तमोदयम्।
त्?ित्रभागद्विभागोच्चं मध्यमं प्रतिमोदयम् ॥ 30.14 ॥
एकांशमधमं तत्तदन्तरे नवधा कृते।
सप्तविंशतितुङ्गानि पूर्ववत्परिकल्पयेत् ॥ 30.15 ॥
केवलं कौतुकं स्याच्चेदर्चास्थाने प्रकल्पयेत्।
निर्माल्यहारिणं तेषामर्चयेत्परितोऽमितम् ॥ 30.16 ॥
परितो वैनतेयस्य मध्यमे नवभिः पदैः।
कल्पयेदनिरुद्धस्य वाहनानि (?) प्रकल्पयेत् ॥ 30.17 ॥
इत्थं बेराणि कृत्वैवं प्रतिष्ठामारभेत्पुनः।
कल्पयेद्यागशालाया उपपीठपदं क्रमात् ॥ 30.18 ॥
परितस्तब्दहिः पङ्क्तौ प्राच्यां दिशि पदत्रयम्।
याम्यादिषु तथैकैकं द्वारार्थं परिकल्पयेत् ॥ 30.19 ॥
आग्नेयादीशपर्यन्तं मत्स्यादीनां यथाक्रमम्।
ततृतद्दिक्षु दशांशानां प्रधानाग्नौन् प्रकल्पयेत् ॥ 30.20 ॥
श्वभ्रं शयनवेदिंञ्च कल्पयित्वा यथोचितम्।
अङ्कुरार्पणकादूर्ध्वमक्ष्युन्मेषादिकाः क्रियाः ॥ 30.21 ॥
विनैव सर्वदैवत्यं पारमात्मिकमेव च।
प्रतिष्ठामुत्सवादींश्च पूर्ववत्परिकल्पयेत् ॥ 30.22 ॥
एषां प्रधानमन्त्राश्च मुर्तिभेदास्तथैव च।
पूर्वमेव मया प्रोक्ताः सर्वमन्यद्धरेरिव ॥ 30.23 ॥
आवाहनं दशांशानां आदिमूर्तेर्ध्रुवाद्यादि।
निष्कलत्वाद् ध्रुवस्यास्य कुर्यात्कौतुकनामभिः ॥ 30.24 ॥
विपरीतं यदि भवेद्ध्रुवनाम्ना समर्चयेत्।
वाराहं नारसिंहञ्च रामं कृष्णं तथैव च ॥ 30.25 ॥
(ध्रुवबेरवशात्कृत्वा केवलं कैतुकं तथा)
(1)दक्षिणोत्तरयोस्सम्यक् स्थापयेन्मुखमण्डपे।
स्थापयेदन्तराले वा नृत्तमण्डप एव वा (1.) पश्चिमोत्तरयोः ख. ॥ 30.26 ॥
तेषाञ्च स्थापने शालां वराहार्थं प्रकल्प्य च।
दक्षिंणाभिमुखीं शालां (2)वामनस्य प्रकल्पयेत् (2.) तत्तद्दिक्षु प्रकल्प्य च ख.
॥ 30.27 ॥
तद्दक्षिणे वा पूर्वस्मिन् राघवार्थं प्रकल्प्येत्।
कृत्वा वामे नृसिंहार्थं तद्वामे पूर्वमेव वा ॥ 30.28 ॥
कृष्णार्थं कल्पयेद्यागशालां प्राक्पश्चिमायताम्।
पश्चिमे शयनं तत्र कारयित्वा तदग्रतः ॥ 30.29 ॥
सङ्कल्पयेत्प्रधानाग्निं स्नानश्वभ्रं तदग्रतः।
वास्तुहोमावसाने तु कुम्भं संसाध्य पूर्ववत् ॥ 30.30 ॥
स्नपनं शयनारोहं ह्मैत्रशंसनमेव च।
सर्वञ्च पूर्ववत्कृत्वा प्रधानाग्नौ तथाऽखिलम् ॥ 30.31 ॥
तत्ततृप्रधानमन्त्रैश्च शतमष्टोत्तरं यंजेत्।
प्रातस्स्नात्वा विधानेन प्रविश्य मुखमण्डपम् ॥ 30.32 ॥
वराहं दक्षिणे (3)रामं मत्स्यं संस्थाप्य दक्षिणे।
नारसिंहं तथा वामे कृष्णं तस्य च वामतः (3.) तस्य राघवं स्?थाप्य. ख ॥ 30.33 ॥
वाराहनारसिंहौ तु स्थापयित्वाऽग्रमण्डपे।
अन्तरालेऽथवा कृष्णरामौ संस्थाप्य पूजयेत् ॥ 30.34 ॥
दक्षिणे नारसिंहं वा वारहरहितं यदि।
एकबेरविमानस्य गर्भगेहेऽग्रमण्डपे ॥ 30.35 ॥
औत्सवं स्थापनं कर्तुं यदि स्यात्स्थानसङ्कटः।
अग्रमण्डपबाह्ये तु प्रतिमां मण्डपे कृते ॥ 30.36 ॥
औत्सवस्योक्तदेशे तु तत्र संस्थाप्य पूजयेत्।
परप्रधानबिम्बानां पूजा षोडशविग्रहैः ॥ 30.37 ॥
(एष एव विशेषः स्यादन्यत्सर्वं हरेरिव।
अथवा मत्स्यकूर्मौ तु गर्भगेहस्य मध्यमे ॥ 30.38 ॥
प्रतिष्ठाप्य वराहादीन् दिक्ष्वष्टासु प्रकल्पयेत्।
ध्रुवञ्च कौतुकञ्चैव कुर्यादग्रे पृथक्पृथक्) ॥ 30.39 ॥
(एष एव विशेषः स्यादन्यत्सर्वञ्च पूर्ववत्)
पञ्चवीराणां स्थापनम्
स्थापनं पञ्चवीराणामर्चनञ्च तपोधनाः।
प्रवक्ष्यामि समासेन शृणुध्वं मुनिसत्तमाः ॥ 30.40 ॥
वासुदेवादिदेवानां पञ्चानां विष्णुना सह।
पञ्चनवीरार्चनं प्रोक्तं ब्रह्मणा च सहार्चनम् ॥ 30.41 ॥
अन्नप्रजापतियुतं रहितं वा तपोधनाः।
पुष्टिद सर्वलोकाना सर्वाध्वरुलावहम् ॥ 30.42 ॥
पञ्चवीरार्चनं ह्येतद्वेदवैदिकवर्धनम्।
सर्वैश्वर्यप्रदं नृणां मुक्तिदं सर्वसिद्धिदम् ॥ 30.43 ॥
(1)नदीविशालमष्टाङ्गं सोमच्छन्दं चतुःस्फुटम्।
सर्वतोभद्रकं वाऽपि गोपुराकृतिकन्तु वा (1.) नन्दी. ख. ॥ 30.44 ॥
एकतलं द्वितलं वा कल्पयित्वा यथाविधि।
आदिभूमिं घनं कुर्याद्द्वितीये स्थापयेत्तले ॥ 30.45 ॥
गर्भव्यासाष्टभागैकहीनोच्चे वसुदेवजे।
त्रयस्त्रिंशतिदण्डैकाधिकः सङ्कर्षणोदयः ॥ 30.46 ॥
वासुदेवाधिकोत्सेधो बलभद्रो (1)नु दैविकै।
प्रद्युम्नो वासुदेवस्य कर्णसीमान्तकोदयः (1.) अधिकोदयः ख. ॥ 30.47 ॥
(2)नस्यस्तनावासानोच्चौ रुक्मिणी साम्ब एव च।
वासुदेवस्य हिक्कान्तस्त्वनिरुद्ध उदाहृतः (2.) तस्य नासावसानौ च. ख.
॥ 30.48 ॥
वासुदेवसमोत्सेधं कल्पयेत्कमलासनम्।
समष्टिरूपमेतेषां मध्ये विष्णुं प्रकल्पयेत् ॥ 30.49 ॥
स्थावरं जङ्गमञ्चापि तथा स्थावरजङ्गमम्।
श्रीभूमिसहितं कुर्याद्रहितं वा यथाविधि ॥ 30.50 ॥
स्थापयेद्वासुदवादीन् पञ्च वै मानुषे पदे।
स्थापयेद्वासुदेवन्तं ब्रह्मसूत्रात्तथोत्तरे ॥ 30.51 ॥
श्यामलं द्विभुजं देवं शङ्खचक्रसमन्वितम्।
पद्मात्रायतदृशं प्रसन्नेन्दुनिभाननम् ॥ 30.52 ॥
पीताम्बरधरं देवं सर्वाभरणभूषितम्।
दक्षिणे रुक्मिणीं देवीं श्यामां रक्ताम्बरोज्जवलाम् ॥ 30.53 ॥
मीनकुण्डलताटङ्कां यज्ञसूविराजिताम्।
ताटङ्कं दक्षिणे कर्णे वामे मकरकुण्डलम् ॥ 30.54 ॥
कुञ्चितं दक्षिणं पादं वामपादञ्च सुस्थितम्।
करं प्रसारितं वामं दक्षिणं वरदं तथा ॥ 30.55 ॥
अथवा दक्षिणेनैव दिव्यपङ्कजधारिणीम्।
तस्याश्च दक्षिणे भागे बलदेवं प्रकल्पयेत् ॥ 30.56 ॥
श्वेताभं द्विभुजं कुर्याद्दक्षिणेनाभाभयप्रदम्।
उद्देशवामहस्तञ्च सर्वाभरणभूषितम् ॥ 30.57 ॥
दक्षिणे भित्तिपार्श्वे तु ब्रह्मणां कनकप्रभम्।
द्विभुजं कटिकं वामं दक्षिणेनाभयप्रदम् ॥ 30.58 ॥
उदङ्मुखं स्थितं कुर्यात्सर्वाभरणभूषितम्।
उत्तरे वासुदेवस्य प्रद्युम्नं द्विभुजं स्थितम् ॥ 30.59 ॥
सस्?यश्यामनिभं कुर्यात्सर्वाभरणभूषितम्।
अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् ॥ 30.60 ॥
उत्तरां भित्तिमाश्रित्य साम्ब़ञ्च द्विभुजं स्थितम्।
दक्षिणाभिमुखं श्यामं सर्वाभणभूषितम् ॥ 30.61 ॥
वरदं दक्षिणं हस्तं वामं कट्यवलाम्बितम्।
तत्प्राच्यामनिरुद्धञ्च प्रवालाभं प्रकल्पयेत् ॥ 30.62 ॥
अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम्।
(1)दक्षिणाभिमुखं तस्य हस्तौ साम्बवदेव हि (1.) दक्षिणाभिमुखञ्चैव सर्वाभरणभूपितम्. ख. ॥ 30.63 ॥
दशालालोत्तमेनैव मध्ये विष्णुं प्रकल्पयेत्।
स्थावरं दैविके भागे पदे ब्राह्मे तु जङ्गमम् ॥ 30.65 ॥
वासुदेवसमोत्सेधं स्थावरं समुदाहृतम्।
सर्वानुकूलमानेन केवलं जङ्गमं यदि ॥ 30.66 ॥
कौतुकं पञ्चवीराणां स्थापयेत्तत्तदग्रतः।
यदाकारं ध्रुवाकारं तदाकारञ्च कौतुकम् ॥ 30.67 ॥
सर्वेषां कौतुकं मध्ये विष्णुमेकं तथापि वा।
औत्सवं स्नापनञ्चैव विष्णुमेव चतुर्भुजम् ॥ 30.68 ॥
अन्नप्रजापतिं कुर्यात्प्राच्यामेवानिरुद्धतः।
भूताकारं प्रकुर्वीत द्विभुजं वा चतुर्भुजम् ॥ 30.69 ॥
परितस्तु त्रयस्त्रिंशद्देवान् गर्भगृहेऽर्चयेत्।
प्राग्भितौ द्वादशादित्यान् रुद्रान् दक्षिणभित्तिकान् ॥ 30.70 ॥
प्रतीच्याञ्च वसूनष्टौ नासत्यावुत्तरे क्रमात्।
द्वारस्य दक्षिणे भागे खड्गशक्तिशरारिणः ॥ 30.71 ॥
गदाञ्च कल्ययेव्दामे शङ्खं शार्ङ्गञ्च खेटकम्।
अङ्कुशं पद्ममित्येवमर्चयेच्च दशायुधान् ॥ 30.72 ॥
परितो लोकपालांश्च प्रह्लादं ज्ञानमूर्तिकम्।
पूजयेद्द्व शादित्यान् रुद्रानेकादश क्रमात् ॥ 30.73 ॥
वसूनष्टौ च नासत्यौ चतुर्ज्योतींषि च क्रमात्।
प्राग्भित्तौ पाण्डवान् कुर्यात्तलेऽधब्स्ताद्वहिर्मुखान् ॥ 30.74 ॥
उत्तरे दक्षिणाद्यञ्च तत्तच्चिह्रसमायुतान्।
प्रागग्भित्तौ दैविकान्पञ्चवीरान् सङ्कल्पयेब्दुधः ॥ 30.75 ॥
एष एव विशेषः स्यादन्यत्सर्वं हरेरिव।
सुमासपक्षनक्षत्रमुहूर्तकरणादिषु ॥ 30.76 ॥
अङ्कुराण्यर्पयित्वैव द्रव्याण्यपि समाहरेत्।
यागशालाञ्च पञ्चाग्नीन् पौण्डरीकञ्च कल्पयेत् ॥ 30.77 ॥
औपासनविहीनञ्च दक्षिणाग्नेस्तु दक्षिणे।
आवसथ्योत्तरे कुर्यादन्नमूर्तेस्तथैव च ॥ 30.78 ॥
अक्ष्युन्मेषाधिवासादीन् सर्वं पूर्ववदाचरेत्।
अधिवासगतान् देवान् समुद्धृत्याभिषेचयेत् ॥ 30.79 ॥
अलङ्कत्य यथान्यायं कुर्याद्ग्रामप्रदक्षिणम्।
स्थापयेद्यागशालायां नैऋते विष्टरोपरि ॥ 30.80 ॥
संसाध्य पूर्ववत्कुम्भं सर्वषा़ञ्च पृथक्पृथक्।
अलङ्कत्य समभ्यच्र्य बद्ध्वा प्रतिसरामपि ॥ 30.81 ॥
शयने शाययित्वैव वेदानध्यापयेत्क्रमात्।
वासुदेवस्य विष्णोश्च मध्ये हौत्रं प्रशंस्य च ॥ 30.82 ॥
रामस्याहवनीयाग्नौ प्रद्युम्नस्य च दक्षिणे।
सामृबस्य गार्हपत्याग्नावावसथ्ये तथैव च ॥ 30.83 ॥
हौत्रं स्यादिनरुद्धस्य ब्राह्मणश्च प्रजापतेः।
होत्रमौपासनाग्नौ च प्रशंस्याऽवाह्य पूर्ववत् ॥ 30.84 ॥
निरुप्याज्याहुतीर्हुत्वा सर्वान् देवान् समर्च्य च।
वासुदेवस्य सभ्याग्निं परिस्तीर्य यथाविधि ॥ 30.85 ॥
वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च।
श्रीसूक्तञ्च महीसूक्तं पञ्चवारुणसंयुतम् ॥ 30.86 ॥
मूलहोमसामयुक्तं यद्दैवादिसमन्वितम्।
आहुतीनां सहस्रञ्च देवं ध्यान् जुहोति च ॥ 30.87 ॥
यजेदेवं पुनश्चापि विष्णुमुद्दिश्य तत्र वै।
हुत्वा तु सर्वदैवत्यं वैष्णवं त्रिः पुनर्यजेत् ॥ 30.88 ॥
?िमन्दाहुती च पिच्छिन्नं हुत्वा कृत्वा प्रवाहणम्।
रामस्याहवनीयाग्नौ पौरुषं सूक्तमेव च ॥ 30.89 ॥
विष्णुसूक्तं ततो ब्राह्मं प्रद्युम्नस्य च दक्षिणे।
वैष्णवं गार्हपत्याग्नौ साम्बस्य जुहुयात्पुनः ॥ 30.90 ॥
आवसथ्येऽनिरुद्धस्य यजेदेकाक्षरादिकम्।
रुद्रमन्त्रद्वयेनापि भक्त्या देवमनुस्मरन् ॥ 30.91 ॥
ऋत्विगष्टर्ककृत्वस्तु जुहुयादुत्तमादिषु।
यजेदाहवनीयाग्नौ जयादींश्च सकृत्सकृत्‌ ॥ 30.92 ॥
ततश्च पौण्डरीकाग्निं परिषिच्य यथाविधि।
विष्णुगायत्रिया पद्मं घृते गव्ये समाप्लुतम् ॥ 30.93 ॥
अष्टोत्तरशतं हुत्वा जुहुयात्पारमात्मिकम्।
सभ्याग्निं पौण्डरीकाग्निं विनाऽन्याग्नीन् विसृज्य च ॥ 30.94 ॥
नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेद्रुरुः।
प्रातः स्नात्वाऽथ सावित्रीं जप्त्वा सन्ध्यामुपास्य च ॥ 30.95 ॥
त्नान्यासं ततः कुर्यादर्चापीठे तु पूर्ववत्।
विसृज्य शान्तिहोमान्ते पौण्डरीकं विधानतः ॥ 30.96 ॥
दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ।
सभ्यमग्निं परिस्तीर्य विष्णुगायत्रिया यजेत् ॥ 30.97 ॥
हुत्वाऽऽदधीत सभ्याग्निं नित्यहोमाय दक्षिणे।
प्रधानकुम्भमाचार्यः पुरतः शिरसा वहन् ॥ 30.98 ॥
गच्छेत्तदर्चकाः कुम्भान् वहन्तोऽनुनयन्ति च।
शाकुर्न सूक्तमुच्चार्य कुर्याद्धामप्रदक्षिणम् ॥ 30.99 ॥
पश्चादन्तः प्रविश्यैव जीवस्थाने निवेश्य च।
जप्त्वाऽत्मसूक्तमाचार्यो मनसा भावयन् हरिम् ॥ 30.100 ॥
मन्त्रन्यासाक्षरन्यासौ कृत्वा बिम्बे च पूर्ववत्।
रामादीनाञ्च सर्वेषां तन्नमाद्यक्षरान्वितम् ॥ 30.101 ॥
प्रत्यक्प्रवृत्तिं मनसा ध्यायन् विष्णुं परात्परम्।
वासुदेवं समारभ्य रुक्मिण्यन्तमनुक्रमात् ॥ 30.102 ॥
मध्ये विष्णुं समावाह्य श्रीभूमिभ्यां समन्वितम्।
ततः सङ्कर्षणादींस्तान् क्रमेणाऽवाहयेत्सुधीः ॥ 30.103 ॥
गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान्।
विमानलोकपालांश्च परिवारांस्तथोत्तरान् ॥ 30.104 ॥
आवाह्य वासुदेवस्य कुम्भादेव यथाक्रमम्।
एककुम्भे तथा ध्यायेत्सर्वास्तान् विष्णुना विना ॥ 30.105 ॥
वासुदेवं समावाह्य तस्मादावाहयेत्क्रमात्।
स्थापकैः सह पुण्याहं वाचयित्वा तु पूर्ववत् ॥ 30.106 ॥
हपीषि पायसादीनि रामादीनां निवेदयेत्।
मौद्गिकं ब्रह्मणे दद्यात् शुद्धान्नन्तु प्रजापतेः ॥ 30.107 ॥
नित्याग्निकुण्डे जुहुयान्मूर्तिहोमं यथाविधि।
कृत्वा बल्युत्सवान्तानि रात्रौ स्नपनमाचरेत् ॥ 30.108 ॥
आरभेदुत्सवं पश्चादुत्सवोक्तक्रमेण वै।
हिरण्यपशुभूम्यादीन् गुरवे दक्षिणां ददेत् ॥ 30.109 ॥
एष एव विशेषः स्यादन्यत्सर्व हरेरिव।
पञ्चवीराणां स्थापने स्थाननिर्देशः
ग्रामान्ते नगरान्ते वा पर्वतान्ते वनान्तरे ॥ 30.110 ॥
नदीसमुद्रतीरेषु विविक्तेऽन्यत्र कुत्रचित्।
पञ्चवीरिदयककहेह प्रतिष्ठाप्य समर्चयेत् ॥ 30.111 ॥
पञ्चवीरार्चनप्रकारः
अतः परं प्रवक्ष्यामि पञ्चवीरतमर्चनम्।
अर्चकः प्रातरुत्थाय स्नात्वा सन्ध्यामुपास्य च ॥ 30.112 ॥
देवादींस्तर्पयित्‌वाऽद्भिः जप्त्वा जप्यानि पूर्ववत्।
देवालयं प्रविश्याथ परीत्य च यधाविधि ॥ 30.113 ॥
कवाटोद्धाटनादीनि कृत्वा सर्वाणि पूर्ववत्।
समृभारानपि सम्भृत्य निर्माल्यमपहाय च ॥ 30.114 ॥
हवींषि चोपदंशांश्च पाचयित्वा यथाविधि।
स्नापयेद्वासुदेवन्त ‘मिषे त्वा’दि जपन् पुनः ॥ 30.115 ॥
विष्णुं पुरषसूक्तेन स्नापयित्वा यथाविधि।
स्नापयेब्दलभद्रन्त ‘मापो हि ष्ठा’ दिभिः त्रिभिः ॥ 30.116 ॥
प्रद्युम्नं विष्णुसूक्तेन साम्बं संस्नाप्य वैष्णवैः।
स्नापयेदनिरुद्धन्तं सूक्तेनैकाक्षरादिना ॥ 30.117 ॥
ब्राह्ममन्त्रद्वयेनैव ब्रह्माणञ्च प्रजापतिम्।
(स्नापयित्वा क्रमेणैतान् जीवस्थाने निवेशयेत्)
वासुदेवस्य विष्णोश्चावरणत्रयनामभिः ॥ 30.118 ॥
अन्येषामपि देवानां न्यसेत्पुष्पाणि मूर्तिभिः।
अभ्यर्च्य द्वारदेवादीन् पुनरन्तः प्रविश्य च ॥ 30.119 ॥
उदङ्मुखस्ममासीनो विष्टरे चैकजानुना।
(1)मन्त्रन्यासं ततः कृत्वा आवाह्य च तथा ध्रुवात् (1.) मन्त्रन्यासाक्षरन्यासौ
कृत्वाऽऽवाह्य ख. ॥ 30.120 ॥
केवले जङ्गमे (2)विष्णोर्नावाहन?विर्सने।
एकबेरे तथा विष्णोविशेषस्तत्र वक्ष्यते (2.) विष्णो ख. ॥ 30.121 ॥
बिम्बाभिषेचनात्पूर्वमर्चयित्वाऽष्टविग्रहैः।
तैलाभ्यङ्गं तथा कृत्वा संस्नाप्य च यथा पुनः ॥ 30.122 ॥
अलङ्कृत्य प्रतिष्ठाप्य पूजयेदष्टविग्रहैः(3)।
विशेषं सम्प्रवक्ष्यामि बलभद्रादिपूजने (3.) पूजयेच्छेपवग्रहैः ख. ॥ 30.123 ॥
रामस्याचमनं दद्या ‘दापो’ हि ष्ठा’दिभिः त्रिभिः।
‘हिण्यग’र्भ इत्युक्त्वा दद्यादर्ध्य हविस्तथा ॥ 30.124 ॥
‘योगे योग’ इत्याचमनं प्रद्युम्नस्याभिधीयते।
‘इदमापः शिवा’ अर्ध्य ‘(4)मिह पुष्टि’ मिति ब्रुवन् (4.) इहपुष्टिरिह. ख्?ा
॥ 30.125 ॥
हविर्निवेदनं कुर्यात्ततः साम्बसमर्चने।
‘समाने वृक्ष’ इत्युक्त्वा दद्यादाचमनं पुनः ॥ 30.126 ॥
विष्णुगायत्रिया चार्ध्यं. ‘समाववर्ती’ ति वै हविः।
हविराचमनार्ध्याणि अनिरुद्धस्य पूर्ववत् ॥ 30.127 ॥
पूजयेन्मुखवासान्तं सङ्कर्षणपुरस्सरान्।
ब्राह्ममन्त्रद्वयेनैव ब्रह्माणञ्च प्रजापतिम् ॥ 30.128 ॥
द्वात्रिंशद्विग्रहैर्विष्णुं वासुदेवञ्च पूजयेत्।
मूर्तयः पूर्वमेवोक्ताः सर्वेषाञ्च मया खिले ॥ 30.129 ॥
येषां न मूर्तयः सन्ति तेषां नामभिरर्चनम्।
कौतुकं पञ्चवीराणामेकमेव(1) यदा भवेत् (1.) एवमेव, ख. ॥ 30.130 ॥
तदा तु वासुदेवञ्च सङ्कर्षणमिति ब्रुवन्।
प्रद्युम्नं साम्बमित्युक्त्वा अनिरुद्धमिति ब्रुवन् ॥ 30.131 ॥
ततः पञ्चभिरावाह्य समभ्यर्च्य यथाविधि।
पञ्चस्वारोपयेद्देवान् पूजनान्ते यथाविधि ॥ 30.132 ॥
इति सङ्क्षेपतः प्रोक्तं पञ्चवीरसमर्चनम्।
अनुक्तान्यत्र सर्वाणि विष्णोरिव समाचरेत् ॥ 30.133 ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे दशावतार पञ्चवीरप्रतिष्ठादिविधिर्नाम
त्रिंशोऽध्यायः।