सप्तविंशोऽध्यायः ॐ सप्तविंशोऽध्यायः अस्पृश्यप्रवेशप्रायश्रितम् अतः परं प्रवक्ष्यामि प्रायश्चित्तं प्रायश्चित्तं तपोधनाः। चण्डालसूतिकोदक्यापतितप्रतिलोमजैः ॥ 27.1 ॥ गर्भालये प्रविष्टे तैः स्पृष्टे बिम्बे तथैव च। सप्तरात्रं महाशान्तिमब्जाग्नौ जुहुयात्ततः ॥ 27.2 ॥ जलाधिवासनं कृत्वा जङ्गमानां तथैव च। (1)ध्रुवशुद्धिञ्च कृत्वा तु प्रतिष्ठां पुनराचरेत् (1.) ध्रुवस्य वर्जयित्वा तु. ख. ॥ 27.3 ॥ शूद्रैर्वाऽथानुलोमैर्वा स्पृष्टे बिम्बे तथैव च। शताष्टकलशैस्स्नाप्य प्रतिष्ठां पुनराचरेत् ॥ 27.4 ॥ श्वकुक्कुटवराहाणां सृगालानां प्रवेशने। स्पर्शने च तथा तेषां शान्तिहोमं जुहोति च ॥ 27.5 ॥ पुनः प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत्। चण्डालादिप्रवेशे तु प्रथमावरेणे यदि ॥ 27.6 ॥ वास्तुहोमं हुतृवा शान्तिहोमं जुहोति च। अष्टोत्तरशतैर्देवं कलशैः स्त्र्नापयेत्तथा ॥ 27.7 ॥ द्वितीयावरणे चैव स्नपनं स्याच्छताष्टभिः। शानितं हुत्वा तृतीये तु चतुर्विशतिभिस्तथा ॥ 27.8 ॥ स्त्र्नापयित्वा तु कलशैः (2)समभ्यर्च्य निवेदयेत्। चतुर्थावरणे चेत्तु वैष्णवं त्वेकविंशतिम् (2.) विशेषेण. ख. ॥ 27.9 ॥ हुत्वा तु सप्तकलशैस्स्त्र्नापयित्वा समर्चयेत्। पञ्चमावमणे चेत्तु दशकृत्वस्तु वैष्णवम् ॥ 27.10 ॥ हुत्वा तु पञ्चकलशैस्स्त्र्नापयित्वा समर्चयेत्। तत्तत्प्रकारपरिषद्दैवत्यं विंशतिं यजेत् ॥ 27.11 ॥ षष्ठावरण एवापि कलशैरेव सप्तभिः। स्नापयित्वा तु विधिवत्पुण्याहमपि वाचयेत् ॥ 27.12 ॥ सप्तमावरणे चेत्तु सर्वसञ्चार इष्यते। वीथ्यामेषां प्रवेशे तु न दोषो भृगुरब्रवीत् (?) ॥ 27.13 ॥ परिवारालयान्तश्चेत्तेषां स्त्र्नपनमाचरेत्। बहिश्चेच्छतकृत्वस्तु तत्तन्मन्त्रं सवैष्णवम् ॥ 27.14 ॥ हुत्वा तु सप्तकलशैस्स्त्र्नापयेदिति शासनम्। पर्यग्निपञ्चगव्याभ्यां शुद्धिस्सर्वत्र कीर्तिता ॥ 27.15 ॥ देवालयसमीपे तु प्रतिलोमनिवेशने। अर्चयेद्देवदेवन्तं महादपि न जातुचित् ॥ 27.16 ॥ तत्प्राकारानुषक्तञ्चेन्महादोषो भवेत्ततः। राष्ट्रस्य यजमानस्य ग्रामस्य च महद्भयम् ॥ 27.17 ॥ अपनीय तु चच्छीघ्रं सप्तरात्रं यथाविधि। महाशान्तिञ्च हुत्वा तु प्रतिष्ठां पुनराचरेत् ॥ 27.18 ॥ शतदण्डान्तरे चैव प्रतिलोमनिवेशनम्। चण्डलपुल्कसानाञ्च क्रोशादूर्ध्व प्रकल्पयेत् ॥ 27.19 ॥ मृतिप्रायश्चित्तम् गर्भालये तु मरणे प्रायश्चित्तं प्रवक्ष्यते। चण्डालादिप्रवेशे तु यदुक्तं तत्समाचरेत् ॥ 27.20 ॥ प्रथमावरणे चेत्तु तत्तथैव समीरितम्। शालानुषक्तशालासु बहिर्मरणसम्भवे ॥ 27.21 ॥ तथैव मरणे चैव महाशान्तिं सकृद्यजेत्। संस्त्र्नाप्य कलशैर्देवं समभ्यर्च्य निवेदयेत् ॥ 27.22 ॥ गृहीत्वाऽऽधावमज्ञानादन्तः स्थाशवकूपके। अर्चयेद्यदि तत्पक्वं हविश्चापि निवेदयेत् ॥ 27.23 ॥ वैष्णवञ्च शतं हुत्वा ‘यद्देवादि’ समन्वितम्। स्नापयित्वा तु कलशैस्समभ्यर्च्य निवेदयेत् ॥ 27.24 ॥ मण्डपादीनां अग्निदाहै अन्यथा चेन्महादोष इति पूर्वजदर्शनम्। मण्डपे गोपुरे चैव प्रपायाञ्च तथैव च ॥ 27.25 ॥ अग्निदाहे महाशान्तिं हुत्वा संस्नापयेद्धरिम्। वस्त्रादीनां दाहे गर्भालयेऽग्निदाहे तु वस्त्रे माल्ये च भूषणे ॥ 27.26 ॥ बिम्बे आग्रिस्पृष्टे देवबिम्बेऽग्निसंस्पर्शे तच्छीघ्रं व्यपनीय च। सप्तरात्रं महाशान्तिं गन्धोदैः स्नपनं चरेत् ॥ 27.27 ॥ प्रतिष्ठाञ्च पुनः कृत्वा समभ्यर्च्य निवेदयेत्। अगिना बेरनाशे बेरनाशेऽग्निदाहेन तब्द्रेरमपनीय च ॥ 27.28 ॥ मासमेकं महाशान्तिं हुत्वा गर्भालये पुनः। पर्यग्निपञ्चगव्याभ्यां शुद्धिं कृत्वोपलिप्य च ॥ 27.29 ॥ बिम्बमन्यत्समादाय प्रतिष्ठामाचरेत्पुनः। दारावं मृण्मयं बेरं धूमाक्रान्तं परर्यिजेत् ॥ 27.30 ॥ ज्वालाक्रान्त तथा शैलं सन्त्यजेत्पेशलं यदि। भिन्ने घटे घटाकाशं यथाऽऽकाशे प्रलीयते ॥ 27.31 ॥ बेरनाशे तथा शक्तिर्विश्वं व्याप्यैव तिष्ठति। ग्रहस्थानं कल्पयित्वा पह्माग्नौ च तथाऽऽलये ॥ 27.32 ॥ महाशान्तिञ्च पह्माग्नौ हुत्वा तत्राष्टदिक्षु च। तत्तद्ग्रहाग्निकुण्डेषु ग्रहशान्तिं जुहाति च ॥ 27.33 ॥ तत्तद्दैवत्यमन्त्रश्य मध्याग्नौ पाञ्चभौतिकम्। हुत्वा बिम्बं समासाद्य ‘नमो ब्रह्मण’ ईर्य च ॥ 27.34 ॥ ‘नमो वाचे’ समुच्चार्य कुम्भतोयं स्पृशन् जपेत्। प्रोक्षणैः प्रोक्षयेद्ग्रामं प्रदक्षिणवशेन च ॥ 27.35 ॥ संस्नाप्य कलशैर्देवं समभ्यर्च्य निवेदयेत्। तस्मात्पुनः प्रतिष्ठान्तं स्थण्डिले नित्यमर्चयेत् ॥ 27.36 ॥ विम्बे सर्पस्पृष्टे सर्पसंस्पर्शने बिम्बे गर्भगेहप्रवेशने। वस्त्रमाल्यादि संशोध्य शुद्धोदैरभिषिच्य च ॥ 27.37 ॥ कुर्याच्छुद्धिं प्रतिष्ठोक्तां ध्रुवबेरस्य पूर्ववत्। उच्छिष्टादिस्पर्शे उच्छिष्वशुचिसंस्पृष्टे बिम्बे पूर्वोक्तवच्चरेत् ॥ 27.38 ॥ अनधिकारिभिः स्पर्शे एवं विप्रैरथान्यैस्तु क्रमाद्द्वित्रिचतुर्गुणैः। स्त्र्नापयेद्वेश्यसंस्पर्शे शताष्टकलशैर्विभुम् ॥ 27.39 ॥ चत्वारिंशाद्भिरष्टाभिः नृपैरभिषेचितैः। अर्चकान्यद्विजैस्स्पृष्टे शुद्धोदैरभिषेचयेत् ॥ 27.40 ॥ अभिषिक्तक्षत्रियैस्तु सर्वं ब्राह्मणवच्चरेत्। महापातकिसंस्पर्शे प्रेवशे च तपोधनाः ॥ 27.41 ॥ आचारेत्प्रतिलोमोक्तं प्रायश्चित्तं यथाविधि। एकबेरकल्पे विम्बनाशे एकबेरे तथा जीर्णे हीनाङ्गे च तपोधनाः ॥ 27.42 ॥ यथालाभेन मानेन (1)दारवं बेरमाहरेत्। तस्मिन्देवं समावाह्य वालस्थाने समर्चयेत् (1.) इत. परं ‘दारवं मृण्मयं बेरं धूमाक्रान्तं परित्यजेत्। ज्वालाक्रान्तं तथाशैलं सन्त्यजेत्पेशल यदि’ इत्यधिक दृश्यते ख, ॥ 27.43 ॥ बालालये तयोरेकं प्रतिष्ठाप्य समर्चयेत्। नवीकृत्य यथापूर्वं प्रतिष्ठामाचरेदिति ॥ 27.46 ॥ एकबेरञ्च लोहञ्चेच्चोरशत्रुभयादिभिः। तत्रार्चनमयुक्तं तच्छैलं संस्थाप्य तत्र च ॥ 27.47 ॥ लौहमौत्सवबैरञ्च कल्पयेदिति शासनम्। गर्भालयस्थलभ्रंशे गर्भालयस्थलभ्रंशे वल्मीकादिसमुद्भवे ॥ 27.48 ॥ कुम्भं पूर्वोक्तविधिना संस्थाप्याऽवाह्य तत्र वै। अष्टोत्तरशतं हुत्वा वैष्णवं मूर्तिभिस्तथा ॥ 27.49 ॥ बालालयोक्तदेशेषु सन्न्यस्य मुखमण्डपे। तत्र नित्यार्चनं कुर्वन्नवीकुर्यात्स्थलं दृढम् ॥ 27.50 ॥ प्रतिष्ठाविधिना बिम्बे कुम्भादावाहयेत्पुनः। गर्भालयगतान् देवान् कुम्भस्य परितोऽर्चयेत् ॥ 27.51 ॥ पूर्वोक्तदोषसंयुक ध्रुवबेरे विशेषतः। शीघ्रं बालालयं कुर्यादुक्तदेशे यथाविधि ॥ 27.52 ॥ अनुकल्पः (1)अल्पदोषयुतञ्चेतु बालागारं न कारयेत्। तद्विमृबसंस्थितां शक्तिं कुम्भे सम्यङ्निवेश्य च (1.) कुण्डलतिः ख कोश एव. ॥ 27.53 ॥ कुम्भं बिम्बं समादाय मध्यसूत्रात्तु दक्षिणे। मण्डपे वाऽन्तराले वा मालिकायाम?थापि वा ॥ 27.54 ॥ विधिना तत्र स्न्न्यस्यद्वादशाहान्तमर्चयेत्। द्वादशाहात्परञ्चेतु बालगारं प्रकल्पयेत्) ॥ 27.55 ॥ बालालस्याभिमुखे यागशाला प्रकल्पयेत्। शय्यावेदिञ्च प़ञ्चाग्निकुण्डानि परिस्तथा ॥ 27.56 ॥ शय्यावेद्यास्तु पूर्वस्यामेकं वै सभ्यमेव वा। कल्पयित्वा तु पूर्वेद्युः सायं सन्ध्यामुपास्य च ॥ 27.57 ॥ बालालयस्योत्तरतो वास्तुहोमं तदा यजेत्। पर्यग्निपञ्चगव्याभ्यां बालागारञ्च शोधयेत् ॥ 27.58 ॥ यागशालाञ्च सर्वत्र पुण्याहं वाचयेत्पुनः। रात्रिपूजावसाने तु देवदेवं समर्च्य च ॥ 27.59 ॥ हविर्निवेद्य विधिना ‘क्षमस्वे’ ति प्रणम्य च। बालालयस्थापनाक्रमः ततः प्रणीय नित्याग्निं कुण्डेष्वाघारमाचरेत् ॥ 27.60 ॥ (1)(अलाभे मथितं वाऽपि लौकिकं सम्प्रकल्पयेत्। श्रोत्रियागारतो वाऽपि कुण्डकेष्वाघारमाचरेत् (1.) कुण्डलितः ख कोश एव. ॥) संसाध्य पूर्ववत्कुम्भं (2)देवाग्रे तु यमान्तरे। धान्यपीठे सुसन्न्यस्य प्रार्थयित्वा तु पूर्ववत् (2.) पूर्ववत् स्थापयेत्क्रमात्। ई. ॥ 27.61 ॥ देवं कुम्भे समवाह्य ध्रुवबेराद्यथाविधि। गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान् ॥ 27.62 ॥ सोपानसंथितान् देवांस्तत्कुम्भाम्भसि संस्मरेत्। विमानञ्चैव जीर्णञ्चेन्न्यक्षादीश्चतुरस्तथा ॥ 27.63 ॥ (3)पीठेऽर्च्यमानपरिषद्देवानिति च केचन। कुमृभं बिम्बं समादाय स्त्र्नानश्वेभ्रे निवेश्य च (3.) पीठे विमानं. ई. ॥ 27.64 ॥ संस्नाप्य सप्तकलशैर्बद्ध्वा प्रतिसरं तथा। शाययित्वा तथा हौत्रं दक्षिणाग्नौ प्रशंसति ॥ 27.65 ॥ तदालयगतान् देवान् समावह्यैव पूर्ववत्। आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेत् ॥ 27.66 ॥ परितो यागशालान्तु परिबारान् समर्चयेत्। प्रतिष्ठोक्तक्रमेणैव होमकर्म समाचरेत् ॥ 27.67 ॥ व्याहृत्या परिषन्मन्त्रान् दन्नि?णांग्नौ जुहीति वै। विनैव सर्वदैवतृयं सभ्यहोमं जुहोति च ॥ 27.68 ॥ नृतैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमात्। प्रातस्स्नात्वाविधानेन सूक्तानि च तथा जपेत् ॥ 27.69 ॥ अर्चापीठं प्रकुर्वीत ब्राह्मे बालालये तथा। रत्नन्यासं विना पीठे चरराशौ विशेषतः ॥ 27.70 ॥ स्थापयित्वाऽग्रतः(1) कुम्भं धान्यपीठे सुसन्न्यसेत्। आवाह्य कौतुके (2)कुम्भात्तस्मादेवौत्सवार्चयोः (1) ततः ई. (2.) बिम्बे. कुम्भे. ई. ॥ 27.71 ॥ गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान्। तत्तत्स्थाने समावाह्य देवान् सोपानगानपि ॥ 27.72 ॥ पुण्याहं वाचसित्वा तु पूजयित्वा यथाविधि। हर्वीषि पञ्चधा दत्वा नित्यं विधिवदर्चयेत् ॥ 27.73 ॥ आवाहनविसर्गौ द्वौ नाचरेत्तरुणालये। नित्यकुण्डे प्रणीयाग्निं नित्यहोमं समाचरेत् ॥ 27.74 ॥ बालालये स्नानशालादिकल्पनम् स्त्र्ननपानीयशाले च तथैव स्नपनालयम्। पुष्पसञ्चयशालाञ्च द्रव्यसम्भारमण्डपम् ॥ 27.75 ॥ यागशालां ध्वजस्थानं भूतपीठं महानसम्। पूर्ववत्कारयेद्विद्वान् प्रथमावरणे तथा ॥ 27.76 ॥ द्वितीयावरणे चेत्तु भूतपीठं ध्वजं तथा। बाललयस्याभिमुखे कुर्यादेवं यथाविधि ॥ 27.77 ॥ कारयेत्परितस्सर्व तृतीयावरणे यदि। एष एव विशेषस्स्यादन्यत्सर्वं (1)खिलोक्तवत् ॥ 27.78 ॥ तन्त्रसङ्करनिष्कृतिः अतः परं प्रवक्ष्यामि तन्त्रसङ्करनिष्कृतिम्। विष्णोस्तन्त्रं द्विधा प्रोक्तं सौम्याग्नेयमेव च ॥ 27.79 ॥ वैखानसं पाञ्चरात्रं वैदिकं तान्त्रिकं क्रमात्। द्वयोर्वैखानसं श्रेष्ठमैहिकामुष्मिकप्रदम् ॥ 27.80 ॥ तान्त्रिकं पाञ्चरात्रन्तु गौणमामुषिमकप्रदम्। विधिस्तु वेदमूनलश्च दीक्षायुक्तश्च तान्त्रिकः ॥ 27.81 ॥ पाञ्चरात्रमपि प्रोक्तं शुद्धं मिश्रमिति द्विधा। शुद्धं भागवतं प्रोक्तं पाञ्चरात्रमथेतरत् ॥ 27.82 ॥ (तस्माद्वैखानसं श्रेष्ठं व्यासेन कथितं पुरा।) पूजयेच्छुद्धमार्गेण सूतो वा सात्त्वतोऽथवा। उत्सृष्टसूत्रा विप्राद्य दीक्षिता मिश्रपूजकाः ॥ 27.83 ॥ निषेकाद्याः कियास्तेषा तत्तत्तन्त्रेषु चोदिताः। याऽभवन्मिलितावस्था वेदानां व्यसनात्पुरा ॥ 27.84 ॥ तान्तु वैखानसीं शाखां वदन्ति ब्रह्मपारगाः। तान्तु वैखानसरीं शाखामादावध्यापयत्प्रभुः ॥ 27.85 ॥ नाम्ना विखनसं पाहुर्यञ्च वैखानसं तथा। ऋषीणां सोऽब्रवीत्सूत्रं धर्म समनुबोधयन् ॥ 27.86 ॥ ऋषयो बहुसूत्राणि चक्रुस्तस्यानुसारतः। केचिद्वर्णाश्रमान् धर्मान् वदन्ति स्मृतिरूपतः ॥ 27.87 ॥ (2)अथाग्नौ नित्यहोमान्ते सायं प्रातरतन्द्रितः। विष्णोर्नित्यार्चनं कुर्यात्सवर्ददेवार्चनन्तु तत् (2.) अग्निहोत्रादि ख. ॥ 27.88 ॥ इति वैखानसे सूत्रे प्रोक्तं यङ्क्षेपतोऽर्चनम्। (1)ऋषिभिस्तदुपन्यासो विस्तृतश्च समन्ततः (1.) एतत् स्थाने ऋषिभिश्?च बहुन्यासः स्मृतिभिश्च समन्ततः, इत्यर्थ श्लोको दृश्यते. ई. ॥ 27.89 ॥ बहुप्रयोगो व्याख्यातो लोकानां हितकाम्यया। काश्यपेनात्रिणा चैव मया चैव मरीचिना ॥ 27.90 ॥ सोऽयं तत्सूत्रमूलत्वाद्विधिर्वैखानसस्स्मतृः। वैक्षानसेन विधिना प्रतिष्ठाप्य यथाविधि ॥ 27.91 ॥ अर्चने क्रियमाणे तु पाञ्चरात्रेण सङ्करे। ग्रामश्य यजमानश्च राजा राष्ट्रञ्च नश्यति ॥ 27.92 ॥ पक्षमेकं महाशान्तिं हुत्वा तद्दोषशान्तये। ब्राह्मणान् भोजयित्वा तु तत्र पञ्चशतावरान् ॥ 27.93 ॥ वैखानसेन विधिना प्रतिष्ठाप्यार्चयेत्पुनः। जनुयुक्तेषु सर्वेषु ग्रामादिषु च वास्तुषु ॥ 27.94 ॥ नारायणं देवदेवं पाञ्चरात्रेण नार्चयेत्। वैखानसेन विधिना पूजयेत्सर्वसम्पदे ॥ 27.95 ॥ ग्रामबाह्ये विविक्ते वा नदीतीरे बनेऽचले। वैखानसेन दिधिना पाञ्चरात्रेण वाऽर्चयेत् ॥ 27.96 ॥ पाञ्चरात्रेण विधिना प्रतिष्ठाप्य यथाविधि। क्रियमाणेऽर्चने मासमेकं हीनार्चनं यदि ॥ 27.97 ॥ पाञ्चरात्रे तथाऽऽग्नेये सौम्यस्यास्य प्रवेशनम्। यदीच्छेत्कारयेद्भक्त्या सौम्यं तच्च (2)भविष्यति(2.) वेखानसेन विधिना अर्चन यत्र वर्तते। यदीच्छेत् पाञ्चरात्रेण कर्तुमाराधन हरेः। तद्ग्रामवासिनस्सर्वे नश्यनित व्याधिभिर्भृशम्। राजराष्ट्र विनश्येत पुत्रदारविनाशनम् ॥ तस्मात् सर्वपयत्नेन शीघ्रमालोच्य यत्नतः वैखानसविधानेन प्रतिष्ठा पुनराचरेत्। इत्यधिकं दृश्यते. ई. ॥ 27.18 ॥ सप्तरात्रं महाशानितं पौण्डरीके जुहोति च। ब्राह्मणान्भोजयित्वा तु शक्तितो दक्षिणां ददेत् ॥ 27.99 ॥ तत्तन्मन्त्रजपं कुर्याद्भूपरीक्षादि(1) कर्मणाम्। नयनोन्मीलनादीनामुक्तहोमं जुहोति च (1.) कारयेत्। ई. ॥ 27.100 ॥ जलाधिवासं कुर्वीत जङ्गमानान्तु पूर्ववत्। ध्रुवबेरोदितां शुद्धिं (2)ध्रुवबेरे समाचरेत् (2.) प्रोक्षयेन्मन्त्रवारिणा ई. ॥ 27.101 ॥ वैखानसेन विधिना प्रतिष्ठाप्य पुनः क्रमात्। अर्चनादीनि सर्वाणि विधिना तेन कारयेत् ॥ 27.102 ॥ यदीच्छेच्छुद्धपूजायां सौम्यस्यास्य प्रवेशानम्। पक्षमेकं (3)महाशान्तिं हुत्वा शेषञ्च पूर्ववत् (3.) चकुरुते. ई. ॥ 27.103 ॥ स्थापयित्वाऽर्चनादीनि कारयेदिति शासनम्। अविच्छिन्?नार्चने चाऽपि मिश्रे ग्रामादिवास्तुषु ॥ 27.104 ॥ वैखानसेन विधिना (4)प्रतिष्ठाप्यार्चयेदिति। क्रूरैः शैवादिविधिभिरज्ञानात्सङ्करे सति (4.) अर्चयेदिति केशवम्. ई ॥ 27.105 ॥ मासेमकं महाशन्ति हुत्वा विप्रसहस्रकम्। भोजयित्वा तु सौम्येन प्रतिष्ठाप्य समर्चयेत् ॥ 27.106 ॥ सर्वेषामन्यदेवानां तन्त्रसङ्गरनिष्कृतौ। एष एव विधिः प्रोक्त इति पूर्वजशासनम् ॥ 27.107 ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे अस्पृश्यस्पर्शनतन्त्रसङ्करप्रायश्चित्तविधिर्नाम सप्तविंशोऽध्यायः।