27 सप्तविंशोऽध्यायः

सप्तविंशोऽध्यायः


सप्तविंशोऽध्यायः
अस्पृश्यप्रवेशप्रायश्रितम्
अतः परं प्रवक्ष्यामि प्रायश्चित्तं प्रायश्चित्तं तपोधनाः।
चण्डालसूतिकोदक्यापतितप्रतिलोमजैः ॥ 27.1 ॥
गर्भालये प्रविष्टे तैः स्पृष्टे बिम्बे तथैव च।
सप्तरात्रं महाशान्तिमब्जाग्नौ जुहुयात्ततः ॥ 27.2 ॥
जलाधिवासनं कृत्वा जङ्गमानां तथैव च।
(1)ध्रुवशुद्धिञ्च कृत्वा तु प्रतिष्ठां पुनराचरेत् (1.) ध्रुवस्य वर्जयित्वा तु. ख.
॥ 27.3 ॥
शूद्रैर्वाऽथानुलोमैर्वा स्पृष्टे बिम्बे तथैव च।
शताष्टकलशैस्स्नाप्य प्रतिष्ठां पुनराचरेत् ॥ 27.4 ॥
श्वकुक्कुटवराहाणां सृगालानां प्रवेशने।
स्पर्शने च तथा तेषां शान्तिहोमं जुहोति च ॥ 27.5 ॥
पुनः प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत्।
चण्डालादिप्रवेशे तु प्रथमावरेणे यदि ॥ 27.6 ॥
वास्तुहोमं हुतृवा शान्तिहोमं जुहोति च।
अष्टोत्तरशतैर्देवं कलशैः स्त्र्नापयेत्तथा ॥ 27.7 ॥
द्वितीयावरणे चैव स्नपनं स्याच्छताष्टभिः।
शानितं हुत्वा तृतीये तु चतुर्विशतिभिस्तथा ॥ 27.8 ॥
स्त्र्नापयित्वा तु कलशैः (2)समभ्यर्च्य निवेदयेत्।
चतुर्थावरणे चेत्तु वैष्णवं त्वेकविंशतिम् (2.) विशेषेण. ख. ॥ 27.9 ॥
हुत्वा तु सप्तकलशैस्स्त्र्नापयित्वा समर्चयेत्।
पञ्चमावमणे चेत्तु दशकृत्वस्तु वैष्णवम् ॥ 27.10 ॥
हुत्वा तु पञ्चकलशैस्स्त्र्नापयित्वा समर्चयेत्।
तत्तत्प्रकारपरिषद्दैवत्यं विंशतिं यजेत् ॥ 27.11 ॥
षष्ठावरण एवापि कलशैरेव सप्तभिः।
स्नापयित्वा तु विधिवत्पुण्याहमपि वाचयेत् ॥ 27.12 ॥
सप्तमावरणे चेत्तु सर्वसञ्चार इष्यते।
वीथ्यामेषां प्रवेशे तु न दोषो भृगुरब्रवीत् (?) ॥ 27.13 ॥
परिवारालयान्तश्चेत्तेषां स्त्र्नपनमाचरेत्।
बहिश्चेच्छतकृत्वस्तु तत्तन्मन्त्रं सवैष्णवम् ॥ 27.14 ॥
हुत्वा तु सप्तकलशैस्स्त्र्नापयेदिति शासनम्।
पर्यग्निपञ्चगव्याभ्यां शुद्धिस्सर्वत्र कीर्तिता ॥ 27.15 ॥
देवालयसमीपे तु प्रतिलोमनिवेशने।
अर्चयेद्देवदेवन्तं महादपि न जातुचित् ॥ 27.16 ॥
तत्प्राकारानुषक्तञ्चेन्महादोषो भवेत्ततः।
राष्ट्रस्य यजमानस्य ग्रामस्य च महद्भयम् ॥ 27.17 ॥
अपनीय तु चच्छीघ्रं सप्तरात्रं यथाविधि।
महाशान्तिञ्च हुत्वा तु प्रतिष्ठां पुनराचरेत् ॥ 27.18 ॥
शतदण्डान्तरे चैव प्रतिलोमनिवेशनम्।
चण्डलपुल्कसानाञ्च क्रोशादूर्ध्व प्रकल्पयेत् ॥ 27.19 ॥
मृतिप्रायश्चित्तम्
गर्भालये तु मरणे प्रायश्चित्तं प्रवक्ष्यते।
चण्डालादिप्रवेशे तु यदुक्तं तत्समाचरेत् ॥ 27.20 ॥
प्रथमावरणे चेत्तु तत्तथैव समीरितम्।
शालानुषक्तशालासु बहिर्मरणसम्भवे ॥ 27.21 ॥
तथैव मरणे चैव महाशान्तिं सकृद्यजेत्।
संस्त्र्नाप्य कलशैर्देवं समभ्यर्च्य निवेदयेत् ॥ 27.22 ॥
गृहीत्वाऽऽधावमज्ञानादन्तः स्थाशवकूपके।
अर्चयेद्यदि तत्पक्वं हविश्चापि निवेदयेत् ॥ 27.23 ॥
वैष्णवञ्च शतं हुत्वा ‘यद्देवादि’ समन्वितम्।
स्नापयित्वा तु कलशैस्समभ्यर्च्य निवेदयेत् ॥ 27.24 ॥
मण्डपादीनां अग्निदाहै
अन्यथा चेन्महादोष इति पूर्वजदर्शनम्।
मण्डपे गोपुरे चैव प्रपायाञ्च तथैव च ॥ 27.25 ॥
अग्निदाहे महाशान्तिं हुत्वा संस्नापयेद्धरिम्।
वस्त्रादीनां दाहे
गर्भालयेऽग्निदाहे तु वस्त्रे माल्ये च भूषणे ॥ 27.26 ॥
बिम्बे आग्रिस्पृष्टे
देवबिम्बेऽग्निसंस्पर्शे तच्छीघ्रं व्यपनीय च।
सप्तरात्रं महाशान्तिं गन्धोदैः स्नपनं चरेत् ॥ 27.27 ॥
प्रतिष्ठाञ्च पुनः कृत्वा समभ्यर्च्य निवेदयेत्।
अगिना बेरनाशे
बेरनाशेऽग्निदाहेन तब्द्रेरमपनीय च ॥ 27.28 ॥
मासमेकं महाशान्तिं हुत्वा गर्भालये पुनः।
पर्यग्निपञ्चगव्याभ्यां शुद्धिं कृत्वोपलिप्य च ॥ 27.29 ॥
बिम्बमन्यत्समादाय प्रतिष्ठामाचरेत्पुनः।
दारावं मृण्मयं बेरं धूमाक्रान्तं परर्यिजेत् ॥ 27.30 ॥
ज्वालाक्रान्त तथा शैलं सन्त्यजेत्पेशलं यदि।
भिन्ने घटे घटाकाशं यथाऽऽकाशे प्रलीयते ॥ 27.31 ॥
बेरनाशे तथा शक्तिर्विश्वं व्याप्यैव तिष्ठति।
ग्रहस्थानं कल्पयित्वा पह्माग्नौ च तथाऽऽलये ॥ 27.32 ॥
महाशान्तिञ्च पह्माग्नौ हुत्वा तत्राष्टदिक्षु च।
तत्तद्ग्रहाग्निकुण्डेषु ग्रहशान्तिं जुहाति च ॥ 27.33 ॥
तत्तद्दैवत्यमन्त्रश्य मध्याग्नौ पाञ्चभौतिकम्।
हुत्वा बिम्बं समासाद्य ‘नमो ब्रह्मण’ ईर्य च ॥ 27.34 ॥
‘नमो वाचे’ समुच्चार्य कुम्भतोयं स्पृशन् जपेत्।
प्रोक्षणैः प्रोक्षयेद्ग्रामं प्रदक्षिणवशेन च ॥ 27.35 ॥
संस्नाप्य कलशैर्देवं समभ्यर्च्य निवेदयेत्।
तस्मात्पुनः प्रतिष्ठान्तं स्थण्डिले नित्यमर्चयेत् ॥ 27.36 ॥
विम्बे सर्पस्पृष्टे
सर्पसंस्पर्शने बिम्बे गर्भगेहप्रवेशने।
वस्त्रमाल्यादि संशोध्य शुद्धोदैरभिषिच्य च ॥ 27.37 ॥
कुर्याच्छुद्धिं प्रतिष्ठोक्तां ध्रुवबेरस्य पूर्ववत्।
उच्छिष्टादिस्पर्शे
उच्छिष्वशुचिसंस्पृष्टे बिम्बे पूर्वोक्तवच्चरेत् ॥ 27.38 ॥
अनधिकारिभिः स्पर्शे
एवं विप्रैरथान्यैस्तु क्रमाद्द्वित्रिचतुर्गुणैः।
स्त्र्नापयेद्वेश्यसंस्पर्शे शताष्टकलशैर्विभुम् ॥ 27.39 ॥
चत्वारिंशाद्भिरष्टाभिः नृपैरभिषेचितैः।
अर्चकान्यद्विजैस्स्पृष्टे शुद्धोदैरभिषेचयेत् ॥ 27.40 ॥
अभिषिक्तक्षत्रियैस्तु सर्वं ब्राह्मणवच्चरेत्।
महापातकिसंस्पर्शे प्रेवशे च तपोधनाः ॥ 27.41 ॥
आचारेत्प्रतिलोमोक्तं प्रायश्चित्तं यथाविधि।
एकबेरकल्पे विम्बनाशे
एकबेरे तथा जीर्णे हीनाङ्गे च तपोधनाः ॥ 27.42 ॥
यथालाभेन मानेन (1)दारवं बेरमाहरेत्।
तस्मिन्देवं समावाह्य वालस्थाने समर्चयेत् (1.) इत. परं ‘दारवं मृण्मयं बेरं धूमाक्रान्तं परित्यजेत्। ज्वालाक्रान्तं तथाशैलं सन्त्यजेत्पेशल यदि’ इत्यधिक दृश्यते ख,
॥ 27.43 ॥
बालालये तयोरेकं प्रतिष्ठाप्य समर्चयेत्।
नवीकृत्य यथापूर्वं प्रतिष्ठामाचरेदिति ॥ 27.46 ॥
एकबेरञ्च लोहञ्चेच्चोरशत्रुभयादिभिः।
तत्रार्चनमयुक्तं तच्छैलं संस्थाप्य तत्र च ॥ 27.47 ॥
लौहमौत्सवबैरञ्च कल्पयेदिति शासनम्।
गर्भालयस्थलभ्रंशे
गर्भालयस्थलभ्रंशे वल्मीकादिसमुद्भवे ॥ 27.48 ॥
कुम्भं पूर्वोक्तविधिना संस्थाप्याऽवाह्य तत्र वै।
अष्टोत्तरशतं हुत्वा वैष्णवं मूर्तिभिस्तथा ॥ 27.49 ॥
बालालयोक्तदेशेषु सन्न्यस्य मुखमण्डपे।
तत्र नित्यार्चनं कुर्वन्नवीकुर्यात्स्थलं दृढम् ॥ 27.50 ॥
प्रतिष्ठाविधिना बिम्बे कुम्भादावाहयेत्पुनः।
गर्भालयगतान् देवान् कुम्भस्य परितोऽर्चयेत् ॥ 27.51 ॥
पूर्वोक्तदोषसंयुक ध्रुवबेरे विशेषतः।
शीघ्रं बालालयं कुर्यादुक्तदेशे यथाविधि ॥ 27.52 ॥
अनुकल्पः
(1)अल्पदोषयुतञ्चेतु बालागारं न कारयेत्।
तद्विमृबसंस्थितां शक्तिं कुम्भे सम्यङ्निवेश्य च (1.) कुण्डलतिः ख कोश एव.
॥ 27.53 ॥
कुम्भं बिम्बं समादाय मध्यसूत्रात्तु दक्षिणे।
मण्डपे वाऽन्तराले वा मालिकायाम?थापि वा ॥ 27.54 ॥
विधिना तत्र स्न्न्यस्यद्वादशाहान्तमर्चयेत्।
द्वादशाहात्परञ्चेतु बालगारं प्रकल्पयेत्) ॥ 27.55 ॥
बालालस्याभिमुखे यागशाला प्रकल्पयेत्।
शय्यावेदिञ्च प़ञ्चाग्निकुण्डानि परिस्तथा ॥ 27.56 ॥
शय्यावेद्यास्तु पूर्वस्यामेकं वै सभ्यमेव वा।
कल्पयित्वा तु पूर्वेद्युः सायं सन्ध्यामुपास्य च ॥ 27.57 ॥
बालालयस्योत्तरतो वास्तुहोमं तदा यजेत्।
पर्यग्निपञ्चगव्याभ्यां बालागारञ्च शोधयेत् ॥ 27.58 ॥
यागशालाञ्च सर्वत्र पुण्याहं वाचयेत्पुनः।
रात्रिपूजावसाने तु देवदेवं समर्च्य च ॥ 27.59 ॥
हविर्निवेद्य विधिना ‘क्षमस्वे’ ति प्रणम्य च।
बालालयस्थापनाक्रमः
ततः प्रणीय नित्याग्निं कुण्डेष्वाघारमाचरेत् ॥ 27.60 ॥
(1)(अलाभे मथितं वाऽपि लौकिकं सम्प्रकल्पयेत्।
श्रोत्रियागारतो वाऽपि कुण्डकेष्वाघारमाचरेत् (1.) कुण्डलितः ख कोश एव. ॥)
संसाध्य पूर्ववत्कुम्भं (2)देवाग्रे तु यमान्तरे।
धान्यपीठे सुसन्न्यस्य प्रार्थयित्वा तु पूर्ववत् (2.) पूर्ववत् स्थापयेत्क्रमात्। ई.
॥ 27.61 ॥
देवं कुम्भे समवाह्य ध्रुवबेराद्यथाविधि।
गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान् ॥ 27.62 ॥
सोपानसंथितान् देवांस्तत्कुम्भाम्भसि संस्मरेत्।
विमानञ्चैव जीर्णञ्चेन्न्यक्षादीश्चतुरस्तथा ॥ 27.63 ॥
(3)पीठेऽर्च्यमानपरिषद्देवानिति च केचन।
कुमृभं बिम्बं समादाय स्त्र्नानश्वेभ्रे निवेश्य च (3.) पीठे विमानं. ई. ॥ 27.64 ॥
संस्नाप्य सप्तकलशैर्बद्ध्वा प्रतिसरं तथा।
शाययित्वा तथा हौत्रं दक्षिणाग्नौ प्रशंसति ॥ 27.65 ॥
तदालयगतान् देवान् समावह्यैव पूर्ववत्।
आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेत् ॥ 27.66 ॥
परितो यागशालान्तु परिबारान् समर्चयेत्।
प्रतिष्ठोक्तक्रमेणैव होमकर्म समाचरेत् ॥ 27.67 ॥
व्याहृत्या परिषन्मन्त्रान् दन्नि?णांग्नौ जुहीति वै।
विनैव सर्वदैवतृयं सभ्यहोमं जुहोति च ॥ 27.68 ॥
नृतैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमात्।
प्रातस्स्नात्वाविधानेन सूक्तानि च तथा जपेत् ॥ 27.69 ॥
अर्चापीठं प्रकुर्वीत ब्राह्मे बालालये तथा।
रत्नन्यासं विना पीठे चरराशौ विशेषतः ॥ 27.70 ॥
स्थापयित्वाऽग्रतः(1) कुम्भं धान्यपीठे सुसन्न्यसेत्।
आवाह्य कौतुके (2)कुम्भात्तस्मादेवौत्सवार्चयोः (1) ततः ई. (2.) बिम्बे. कुम्भे. ई.
॥ 27.71 ॥
गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान्।
तत्तत्स्थाने समावाह्य देवान् सोपानगानपि ॥ 27.72 ॥
पुण्याहं वाचसित्वा तु पूजयित्वा यथाविधि।
हर्वीषि पञ्चधा दत्वा नित्यं विधिवदर्चयेत् ॥ 27.73 ॥
आवाहनविसर्गौ द्वौ नाचरेत्तरुणालये।
नित्यकुण्डे प्रणीयाग्निं नित्यहोमं समाचरेत् ॥ 27.74 ॥
बालालये स्नानशालादिकल्पनम्
स्त्र्ननपानीयशाले च तथैव स्नपनालयम्।
पुष्पसञ्चयशालाञ्च द्रव्यसम्भारमण्डपम् ॥ 27.75 ॥
यागशालां ध्वजस्थानं भूतपीठं महानसम्।
पूर्ववत्कारयेद्विद्वान् प्रथमावरणे तथा ॥ 27.76 ॥
द्वितीयावरणे चेत्तु भूतपीठं ध्वजं तथा।
बाललयस्याभिमुखे कुर्यादेवं यथाविधि ॥ 27.77 ॥
कारयेत्परितस्सर्व तृतीयावरणे यदि।
एष एव विशेषस्स्यादन्यत्सर्वं (1)खिलोक्तवत् ॥ 27.78 ॥
तन्त्रसङ्करनिष्कृतिः
अतः परं प्रवक्ष्यामि तन्त्रसङ्करनिष्कृतिम्।
विष्णोस्तन्त्रं द्विधा प्रोक्तं सौम्याग्नेयमेव च ॥ 27.79 ॥
वैखानसं पाञ्चरात्रं वैदिकं तान्त्रिकं क्रमात्।
द्वयोर्वैखानसं श्रेष्ठमैहिकामुष्मिकप्रदम् ॥ 27.80 ॥
तान्त्रिकं पाञ्चरात्रन्तु गौणमामुषिमकप्रदम्।
विधिस्तु वेदमूनलश्च दीक्षायुक्तश्च तान्त्रिकः ॥ 27.81 ॥
पाञ्चरात्रमपि प्रोक्तं शुद्धं मिश्रमिति द्विधा।
शुद्धं भागवतं प्रोक्तं पाञ्चरात्रमथेतरत् ॥ 27.82 ॥
(तस्माद्वैखानसं श्रेष्ठं व्यासेन कथितं पुरा।)
पूजयेच्छुद्धमार्गेण सूतो वा सात्त्वतोऽथवा।
उत्सृष्टसूत्रा विप्राद्य दीक्षिता मिश्रपूजकाः ॥ 27.83 ॥
निषेकाद्याः कियास्तेषा तत्तत्तन्त्रेषु चोदिताः।
याऽभवन्मिलितावस्था वेदानां व्यसनात्पुरा ॥ 27.84 ॥
तान्तु वैखानसीं शाखां वदन्ति ब्रह्मपारगाः।
तान्तु वैखानसरीं शाखामादावध्यापयत्प्रभुः ॥ 27.85 ॥
नाम्ना विखनसं पाहुर्यञ्च वैखानसं तथा।
ऋषीणां सोऽब्रवीत्सूत्रं धर्म समनुबोधयन् ॥ 27.86 ॥
ऋषयो बहुसूत्राणि चक्रुस्तस्यानुसारतः।
केचिद्वर्णाश्रमान् धर्मान् वदन्ति स्मृतिरूपतः ॥ 27.87 ॥
(2)अथाग्नौ नित्यहोमान्ते सायं प्रातरतन्द्रितः।
विष्णोर्नित्यार्चनं कुर्यात्सवर्ददेवार्चनन्तु तत् (2.) अग्निहोत्रादि ख. ॥ 27.88 ॥
इति वैखानसे सूत्रे प्रोक्तं यङ्क्षेपतोऽर्चनम्।
(1)ऋषिभिस्तदुपन्यासो विस्तृतश्च समन्ततः (1.) एतत् स्थाने ऋषिभिश्?च बहुन्यासः स्मृतिभिश्च समन्ततः, इत्यर्थ श्लोको दृश्यते. ई. ॥ 27.89 ॥
बहुप्रयोगो व्याख्यातो लोकानां हितकाम्यया।
काश्यपेनात्रिणा चैव मया चैव मरीचिना ॥ 27.90 ॥
सोऽयं तत्सूत्रमूलत्वाद्विधिर्वैखानसस्स्मतृः।
वैक्षानसेन विधिना प्रतिष्ठाप्य यथाविधि ॥ 27.91 ॥
अर्चने क्रियमाणे तु पाञ्चरात्रेण सङ्करे।
ग्रामश्य यजमानश्च राजा राष्ट्रञ्च नश्यति ॥ 27.92 ॥
पक्षमेकं महाशान्तिं हुत्वा तद्दोषशान्तये।
ब्राह्मणान् भोजयित्वा तु तत्र पञ्चशतावरान् ॥ 27.93 ॥
वैखानसेन विधिना प्रतिष्ठाप्यार्चयेत्पुनः।
जनुयुक्तेषु सर्वेषु ग्रामादिषु च वास्तुषु ॥ 27.94 ॥
नारायणं देवदेवं पाञ्चरात्रेण नार्चयेत्।
वैखानसेन विधिना पूजयेत्सर्वसम्पदे ॥ 27.95 ॥
ग्रामबाह्ये विविक्ते वा नदीतीरे बनेऽचले।
वैखानसेन दिधिना पाञ्चरात्रेण वाऽर्चयेत् ॥ 27.96 ॥
पाञ्चरात्रेण विधिना प्रतिष्ठाप्य यथाविधि।
क्रियमाणेऽर्चने मासमेकं हीनार्चनं यदि ॥ 27.97 ॥
पाञ्चरात्रे तथाऽऽग्नेये सौम्यस्यास्य प्रवेशनम्।
यदीच्छेत्कारयेद्भक्त्या सौम्यं तच्च (2)भविष्यति(2.) वेखानसेन विधिना अर्चन यत्र वर्तते। यदीच्छेत् पाञ्चरात्रेण कर्तुमाराधन हरेः। तद्ग्रामवासिनस्सर्वे नश्यनित व्याधिभिर्भृशम्। राजराष्ट्र विनश्येत पुत्रदारविनाशनम् ॥ तस्मात् सर्वपयत्नेन शीघ्रमालोच्य यत्नतः वैखानसविधानेन प्रतिष्ठा पुनराचरेत्। इत्यधिकं दृश्यते. ई.
॥ 27.18 ॥
सप्तरात्रं महाशानितं पौण्डरीके जुहोति च।
ब्राह्मणान्भोजयित्वा तु शक्तितो दक्षिणां ददेत् ॥ 27.99 ॥
तत्तन्मन्त्रजपं कुर्याद्भूपरीक्षादि(1) कर्मणाम्।
नयनोन्मीलनादीनामुक्तहोमं जुहोति च (1.) कारयेत्। ई. ॥ 27.100 ॥
जलाधिवासं कुर्वीत जङ्गमानान्तु पूर्ववत्।
ध्रुवबेरोदितां शुद्धिं (2)ध्रुवबेरे समाचरेत् (2.) प्रोक्षयेन्मन्त्रवारिणा ई. ॥ 27.101 ॥
वैखानसेन विधिना प्रतिष्ठाप्य पुनः क्रमात्।
अर्चनादीनि सर्वाणि विधिना तेन कारयेत् ॥ 27.102 ॥
यदीच्छेच्छुद्धपूजायां सौम्यस्यास्य प्रवेशानम्।
पक्षमेकं (3)महाशान्तिं हुत्वा शेषञ्च पूर्ववत् (3.) चकुरुते. ई. ॥ 27.103 ॥
स्थापयित्वाऽर्चनादीनि कारयेदिति शासनम्।
अविच्छिन्?नार्चने चाऽपि मिश्रे ग्रामादिवास्तुषु ॥ 27.104 ॥
वैखानसेन विधिना (4)प्रतिष्ठाप्यार्चयेदिति।
क्रूरैः शैवादिविधिभिरज्ञानात्सङ्करे सति (4.) अर्चयेदिति केशवम्. ई ॥ 27.105 ॥
मासेमकं महाशन्ति हुत्वा विप्रसहस्रकम्।
भोजयित्वा तु सौम्येन प्रतिष्ठाप्य समर्चयेत् ॥ 27.106 ॥
सर्वेषामन्यदेवानां तन्त्रसङ्गरनिष्कृतौ।
एष एव विधिः प्रोक्त इति पूर्वजशासनम् ॥ 27.107 ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे अस्पृश्यस्पर्शनतन्त्रसङ्करप्रायश्चित्तविधिर्नाम
सप्तविंशोऽध्यायः।