पञ्चविंशोऽध्यायः
ॐ
पञ्चविंशोंऽध्यायः
स्नपनप्रायश्चितम्
अतः परं प्रवक्ष्यामि स्नपने दोषनिष्कृतिम्।
नाऽर्पयित्वाऽङ्कुरं विष्णोः स्नपनं क्रियते यदि ॥ 25.1 ॥
अङ्कुरार्पणहीने
ब्रह्मादीनान्तु षण्णां वै मन्त्रानौपासने यजेत्।
मूर्तिभिश्च जयादीनां (हीने वाऽप्यधिकेऽपि वा।
मन्त्रं तद्देवतानाञ्च) प्रत्येकं विंशतिं यजेत् ॥ 25.2 ॥
अष्टोत्तरशतं हुत्वा व्याहृतीश्च सवैष्णवम्।
(1)पुष्पैः प्रपूर्वं पात्राणि श्वेतैर्वा तण्डुलैरपि (1.) पत्रादिभिः सितैः पुष्पैः पालिकादीन् प्रपूर्य च. आ. ॥ 25.3 ॥
अङ्कुरानिति सङ्कल्प्य पुनश्च स्नापयेद्धरिम्।
प्रमाणे पालिकादीनां हीने वाऽच्यधिकेऽपि वा ॥ 25.4 ॥
मन्त्रं तद्देवतानाञ्च वैष्णवं विंशातिं यजेत्।
पालिकानामलाभे तु शरावेष्वथवाऽर्पयेत् ॥ 25.5 ॥
स्नपनालयम्
हीनाधिकेन मानेन कुर्याच्चेत्स्नपनालयम्।
वैष्णवं भूमिदैत्यं प्रत्येकं साष्टकं शतम् ॥ 25.6 ॥
आलयस्योत्तरं कुर्याच्दान्तिकं स्नपनालायम्।
पुष्टिकामस्तु पूर्वस्मिन् मुक्तिकामस्तु दक्षिणे ॥ 25.7 ॥
जलकामस्तु वारुण्यां सर्वकामसतु शाङ्करे।
आग्नेये नैऋते चैव वायव्ये न समाचरेत् ॥ 25.8 ॥
तत्रैव यदि कुर्याच्चेतृपुनः स्नपनमाचरेत्।
तद्दिक्पालकमन्त्रञ्च वैष्णवं विंशतिं यजेत् ॥ 25.9 ॥
कलशेषु
प्रमाणे कलशानाञ्च न्यूने वाऽप्यधिकेऽपि वा।
वैष्णवं जुहुयाद्ब्राह्यं महाव्याहृतिसंयुतम् ॥ 25.10 ॥
व्याहृत्यन्तं पृथग्घुत्वा गृह्णीयाल्लक्षणान्वितम्।
वस्त्रे
वस्त्रहीने महान् दोषो भवेद्वस्त्रादिहीनता ॥ 25.11 ॥
आचार्य पूजयेद्वस्त्रैः श्रीमन्त्रं वैष्णवं यजेत्।
तोरणादौ
तोरणे देषयुक्ते तु मन्त्रौ दौवारिकौ यजेत् ॥ 25.12 ॥
तत्तद्दवाराधिपं हुत्वा वैष्णवेन समन्वितम्।
कूर्चादौ
प्रमाणहीने कूर्चादौ वैष्णवं ब्राह्मसंयुतम् ॥ 25.13 ॥
सौरं षोडशकृत्वस्तु हुत्वा कुर्यात्सलक्षणम्।
पङ्क्तौ
पङ्क्तौ प्रमाणहीनायां पङ्क्तीशञ्च समर्चयेत् ॥ 25.14 ॥
पङ्क्तीशमन्त्रं जुहुयाद्वैष्णवं पाञ्चभौतिकम्।
विमानपालको मित्रः पङ्क्तीश इति कीर्त्यते ॥ 25.15 ॥
श्वभ्रे,मृत्सु
श्वभ्रे प्रमाणहीने च मेदिन्यादीन् सुहूयताम्।
यथोक्तस्थानमूद्धीने यथालाभं प्रगृह्य च ॥ 25.16 ॥
जुहुयाद्भूमिदैवत्यं वैष्णवं ब्राह्मसंयुतम्।
अथवा पश्चिमे श्वभ्रं कृत्वा तु स्नपनालये ॥ 25.17 ॥
पङ्क्तिं तस्याग्रतः कृत्वा द्रव्यन्यासार्थमेव वा।
मृदादीनि यथास्थानं पङ्क्तौ द्रव्याणि सन्न्यसेत् ॥ 25.18 ॥
मध्ये शुद्धोदकैः पूर्णं कुम्भं वस्त्रादिवेष्टितम्।
सन्न्यस्य धान्यपीठोर्ध्वे मृदादिस्नपनात्परम् ॥ 25.19 ॥
जप्त्वा पुरुषसूक्तञ्च स्नापयेदिति केचन।
कारयेत्स्नपनश्चवभ्रं शिलयेष्टकयाऽथवा ॥ 25.20 ॥
हस्तमात्रोच्द्रयं पीठमधिष्ठानोक्तवच्चरेत्।
अधिष्ठानतलोर्ध्वे चेन्मञ्चान्तं वेदिकादिकम् ॥ 25.21 ॥
तलोपुरि तलं नैव कुर्यादित्याह पूर्वजः।
तदूर्ध्वे कारयेच्छ्वभ्रमौपासनविधानतः ॥ 25.22 ॥
हस्तमात्रोच्छ्रयं (1)पीठं कृत्वा यज्ञोक्तदारुभिः।
पङ्?क्तिमध्ये प्रतिष्ठाप्य जलधारां तदुत्तरे (?) (1.) पद्मं ख. ॥ 25.23 ॥
संस्नाप्य देवं तच्छ्वभ्रे स्नापयेदिति ?केचन।
अथ नित्याभिषेकार्य मण्डपस्य तथोत्तरे ॥ 25.24 ॥
स्थापयित्वा तथा देवं देवीभ्यां स्नापयेत्सह।
तावदायमविस्तारयुतं श्वभ्रं प्रकल्पयेत् ॥ 25.25 ॥
प्रागादिकन्तु (?) पंरितः पीठानान्तु पृथक्पृथक्।
द्विवेदिसहितं कुर्यादौपासनविधानतः ॥ 25.26 ॥
हस्तोच्छये षडंशे वा (1)मुखमेकांशकं भवेत्।
त्रिभागं कण्ठतुङ्गं स्याद्दिवभागं चोर्ध्वपट्टि?का ॥ 25.27 ॥
कुण्डस्यौपासनस्येव निम्यं तसय विधीयते।
श्वभ्रं नित्याभिषेकार्थ केचिंदेवं वदन्ति वै ॥ 25.28 ॥
पर्वतादौ
हीनाधिकेन मानेन पर्वतान् कारयेद्यदि।
आग्नेयं वैष्णवं हुतृवा व्याहत्यन्तं प्रतिप्रति ॥ 25.29 ॥
धान्यानाम्
अलाभे सर्वधान्यानां केवलं यवमेव वा
व्रीहेरूर्ध्व यथालाभं धान्यं प्रक्षिप्य चार्चयेत् ॥ 25.30 ॥
वायव्यं वैष्णवं ब्राह्मं जहुयात्तस्य शान्तये।
अङ्कुराणाम्
अङ्कुराणामलाभे तु (2)पूर्वाङ्कुरमथापि वा (2.) द्रव्याङ्कुरं आ. ॥ 25.31 ॥
तद्दैवत्यञ्चजुहुयाद्वैष्णवं सौम्यमेव च।
मङ्गलानाम्
हीनाधिकप्रमाणेन मङ्गलान् कुरुते यदि ॥ 25.32 ॥
ऐन्द्रं यजेद्वैष्णव़ञ्च महाव्याहृतिभिस्सह।
पञ्छगव्ये
यथोक्तयोगहीने तु पञ्चगव्यस्य बुद्धिमान् ॥ 25.33 ॥
रौद्रञ्च वैष्णवं मन्त्रं प्रत्येकं विंशातिं यजेत्।
कपिलाया घृतं श्रेष्ठं रक्ताया दधि चाऽहरेत् ॥ 25.34 ॥
श्वेतायास्तु तथा क्षीरं कृष्णाया गोमयं भवेत्।
कपोतगलवर्णाया गोमूत्रमपि चाऽहरेत् ॥ 25.35 ॥
अलाभे चोक्तवर्णानां यथालाभमथापि वा।
पूर्वोक्तैरेव मन्त्रैस्तु तत्संयोगमथाऽचरेत् ॥ 25.36 ॥
संयोगे पञ्चदव्यस्य मन्त्रहीनं कृते सति।
संयोगविहितं मन्त्रं द्विर्जपेत्पाणिना स्पृशन् ॥ 25.37 ॥
प्रधानद्रव्येषु
ग्राह्यं क्षीरञ्च दध्याज्यमाजमाहिषवर्जितम्।
आजं वा माहिषं वाऽपि गृहीत्वा स्नापयेद्यदि ॥ 25.38 ॥
पौरुषं जुहुयात्सूक्तं विष्णुसूक्तमतः परम्।
पारमात्मिकमीङ्काराद्यङ्गहोमं सकृत्सकृत् ॥ 25.39 ॥
सद्यस्तप्तं सुवर्णाभं समपक्वं घृतं हरेत्।
कृमिकीटपतङ्गादि यदि दृशेत तदंघृते ॥ 25.40 ॥
उत्पूय वस्त्रेणोद्दीप्य प्रोक्षायित्वाऽऽहरेत्पुनः।
संस्पृश्य वैष्णवैर्मन्त्रै ‘रापोहिष्ठा’ मयादिभिः ॥ 25.41 ॥
सामवेदादिमन्त्रैश्च जुहुयाद्वैष्णवेन च।
स्नापयेद्देवदेवन्तं मन्त्रवद्भक्तिसंयुतम् ॥ 25.42 ॥
मधुहीने तु तोयं वा समाहृतृय मधु स्मरन्।
हुत्वा ऋगादिमन्त्रेण वैष्णवेन ततः परम् ॥ 25.43 ॥
स्नापयेद्देवदेव्न्तं मन्त्रं पूर्वोक्तमुच्चरन्।
दघि शुद्धं घनं ग्राह्यं निर्दोषं प्रियदर्शनम् ॥ 25.44 ॥
सदोषे दध्नि जुहुयाद्वैष्णवं यजुरादिकम्।
व्याहृतीश्चैव जुहुया ‘दतो देवादि’ वैष्णवम् ॥ 25.45 ॥
‘शान्नो देवी’ रिति क्षीरे प्रत्येकं विंशातिं यजेत्।
गन्धहीने च गन्धे वै तद्दैवत्यं सवैष्णवम् ॥ 25.46 ॥
अक्षतोदेऽक्षतालाभे यथालाभं प्रगृह्य च।
आर्षञ्च वैष्णवं ब्राह्मं सौम्यं हुत्वाऽभिषिञ्चति ॥ 25.47 ॥
फलालाभो यथालाभं गृहीत्वा सौम्यवैष्णवैः।
व्याहृत्यन्तं कुशालाभे दर्भाग्रं तत्र निक्षिपेत् ॥ 25.48 ॥
आर्षकं वैष्णवं ब्राह्ममैन्दं हुत्वा समाचरेत्।
रत्नोदकस्य रत्नानामलाभे रुक्ममेव वा ॥ 25.49 ॥
वैष्णवं विष्णुसूक्तञ्च ब्राह्मं रौद्रं यजेत्ततः।
जप्योदे जपहीने तु वैष्णवञ्च ब्राह्मं यजेत् ॥ 25.50 ॥
हुत्वा तु पौरुषं सूक्तं विष्णुसूक्तमतः परम्।
क्षिपेद्वा तण्डुलान् शालीनोषधीनामलाभके ॥ 25.51 ॥
पुण्य पुष्णणाम्
आदित्यं वैष्णवं ब्राह्मं व्याहृत्यन्तं यजेत्पुनः।
अलाभे पुण्यपुष्पाणां धातृमन्त्रं सवैष्णवम् ॥ 25.52 ॥
प्रायश्चित्तं सकृद्धुत्वा यथालाभं समाहरेत्।
गन्धचूर्णानाम्
अलाभे गन्धचूर्णानां चक्रमन्त्रं सर्वष्णवम् ॥ 25.53 ॥
हुत्वोशीरेण मौद्गेन चूर्णेनोद्वर्तयेत्तथा।
कषायचूर्णेषु
सर्वालाभे कषायार्थमाश्वत्थी त्वचमाहरेत् ॥ 25.54 ॥
वारुणं वैष्णवं हुत्वा तेनैवोद्वर्तयेत्पुनः।
तीर्थतोयस्य
अलोभे तीर्थतोयानां नादेयं वा समाहरेत् ॥ 25.55 ॥
गाङ्गेयं वैष्णवं मन्त्रं व्याहृत्यन्तं सकृद्यरेत्।
ओषधीनाम्
ओषधीनामलाभे तु वैष्णवं रौद्रसंयुतम् ॥ 25.56 ॥
हुत्वाऽऽदाय यथालाभं मार्जयेत्पूर्वमन्त्रतः।
अलाभे सर्वगन्धानां चन्दनं वा समाहरेत् ॥ 25.57 ॥
ऐन्द्रञ्च वैष्णवं हुत्वा व्याहृतीश्च ततः परम्।
स्लोते
प्लोतालाभेऽन्यवस्त्रेण धौतेन परिमार्जयेत् ॥ 25.58 ॥
त्वाष्टुं सवैष्णवं विष्णुसूक्तं हुत्वा समाचरेत्।
‘त्वष्टा रूपाणामधिपति’ रिति त्वाष्ट्रमुदाहृतम् ॥ 25.59 ॥
मूलगन्धस्य
अलाभे मूलगन्धस्य दूर्वाग्रं वा समाहरेत्।
ब्राह्मञ्च वैष्णवं हुत्वा प्राजापत्यसमन्वितम् ॥ 25.60 ॥
धातूनाम्
अलाभो सर्वधातूनां जातिहिङ्गुलिकनतु वा।
दौर्गञ्च विष्णुसूक्तञ्च हुत्वा तेन समाचरेत् ॥ 25.61 ॥
पाणिपादतलौष्ठेषु जातिहिङृगुलिकं ददेत्।
भूषणाम्बरयोर्दद्याद्धरितालं मनश्शिलाम् ॥ 25.62 ॥
सर्वाङ्गेष्वञ्जनं प्रोक्तमथवा पक्ष्मणोर्द्वयोः।
गोसेचनं नयनयोर्मुखे सर्वत्र चवाऽथवा ॥ 25.63 ॥
यथास्थानमलङ्कुर्यादेतैर्धातुभिरेव वै।
अलङ्कारे
अलङ्कारविपर्यासे यजेद्दौर्गञ्च वैष्णवम् ॥ 25.64 ॥
जुहुयाद्भूषणालाभे स्कन्ददैवत्यवैष्णवैः।
द्रव्योद्धारे विपर्यासोद्धृते द्रव्ये मोहाद्वाऽथ प्रमादतः ॥ 25.65 ॥
तद्दैवत्यञ्च हुत्वा तु वैष्णवञ्चैकविंशतिम्।
कलशभेदादौ
साधिते कलशे भिन्ने स्पृष्टे शूद्रादिभिस्तथा ॥ 25.66 ॥
अन्यं कलशमादाय पूर्ववत्सम्प्रपूरयेत्।
तं स्पृष्ट्वा वौष्णवं मन्त्रं तद्दैवत्यं शतं जपेत् ॥ 25.67 ॥
चतुविंशतिकृत्वश्च तद्दैवत्यं जुहोति च।
जुहुयाद्वैष्णवं ब्राह्ममष्टोत्तरशतं पुनः ॥ 25.68 ॥
कृमिकीटदिपतने
कृमिकीटपतङ्गदौ द्रव्येषु पतिते यदि।
तद्द्रव्यं वर्जयेन्नित्यं द्रव्यमन्यत्समाहरेत् ॥ 25.69 ॥
तद्दैवत्यं शतं हुत्वा देवेशं स्नापयेत्पुनः।
अथवा सर्वदोषाणां शान्त्यर्थं स्नपने तथा ॥ 25.70 ॥
जुहुयात्पौरुषं सूक्तं विष्णुसूक्तमतः परम्।
पारमात्मिकमीङ्काराद्यष्टाशीत्याहुतीरपि ॥ 25.71 ॥
श्रीसूक्तं रात्रिसूक्तञ्च दुर्गासूक्तं ततः परम्।
पञ्चवारुणसंयुक्तं जयादीन् वैष्णवानपि ॥ 25.72 ॥
यजेद्द्रव्याधिदेवानां जयादीनाञ्च मूर्तिभिः।
सङ्कल्पिते स्नपने विध्निते
कल्पिते स्नपने हीने ग्रहण ग्रहणे विषुवेऽयने ॥ 25.73 ॥
एकाहन्तु महाशान्तिमब्जाग्नौ जुहुयाद्बुधः।
कलशैर्द्विगुणैर्देवं स्नापयीत यथाविधि ॥ 25.74 ॥
एवमेव च संवर्ध्य स्नपनंप्रति कारयेत्।
तैलाभ्यक्ते तु देवेशे स्नपनं तत्र नाचरेत् ॥ 25.75 ॥
तैलाभ्येक्ते न स्नपनम्
तैलमोक्षं ततः कृत्वा पुनः स्नपनमाचरेत्।
तैलमोक्षमकृत्वा तु मोहेन स्नापयेद्यति ॥ 25.76 ॥
आसुरं स्नपनं तत्स्यात्तस्य दोषस्य शान्तये।
शान्तिहोमं सकृद्धुत्वा पुनश्च स्नापयेत्तथा ॥ 25.77 ॥
स्नापयेद्यदि देवीभ्यां सह तच्चासुर भवेत्।
तत्रापि शान्तिहोमान्त देवेशं स्नापयेत्पृथक् ॥ 25.78 ॥
बेरविशेषाणां देवीसाहित्यराहित्ये
स्नापनं बलिबेरञ्च देवीरहितमेव वै।
औत्सवं स्नापयेच्चेत्तु देवीरहितमेव वै।
औत्सवं स्नापयेच्चेत्तु देवीभ्यां स्नापयेद्विना ॥ 25.79 ॥
तत्रापि स्नपनान्ते तु देवीभ्यां सहितं चरेत्।
देवीयुक्ते स्नापने तु पूर्ववतृकारयेद्बुधः ॥ 25.80 ॥
बलिबेरे च द