चतुर्विंशोऽध्यायः ॐ चतुर्विंशोऽध्यायः अर्चनायां निष्कृतिः कवाटोद्धाटने अतः परं प्रवक्ष्यामि (1)अर्चनाहीननिष्कृतिम्। आदित्यस्योदयात्पूर्व प्रातर्देवालयस्य च (1.) महार्चाहीननिष्कृतिम् ख. ॥ 24.1 ॥ सायमस्तमयात्पूर्वं मध्याह्रादह्रि मध्यमे। कवाटोद्धाटने हीने शीघ्रमुद्धाटयेत्ततः ॥ 24.2 ॥ नित्याग्निकुण्डे छुल्ल्यां वा परिषिच्य च पावकम्। आज्येन वरुणा सौरैर्जुहुयाद्दवारदैवतैः ॥ 24.3 ॥ वैष्णवैरपि षण्मन्त्रैः पुनः (2)कर्म समाचरेत्। द्रव्यसङ्ग्रहे नीतञ्चेदर्चनाद्रव्यं जलपुष्पाद्यमन्त्रकम् (2.) कार्यं आ. ॥ 24.4 ॥ आलये वाऽथ संस्कुर्यात्तमन्मन्त्रं द्विगुणं जपेत्(3)। अन्यसूत्रिभिरानीतं संस्कुर्यात्?ित्रगुणं चरेत् (3.) भवेत् आ. ॥ 24.5 ॥ गृह्णीयात् ब्राह्मणालाभे नेयञ्चेत्क्षत्रियादिभिः। शङ्खचक्राङ्कितभुजैः पूर्वालाभे तथोत्तरैः ॥ 24.6 ॥ चतुर्वेदादि षट्कृत्वो जपं कुर्यात्पुनः पुनः(4)। वापयेन्नखकेशादीस्ते च पर्वणि पर्वणि (4.) प्रयत्नतः ईः ॥ 24.7 ॥ शुद्धाम्बरधराः स्नाताः शुद्धदन्तनखाः तथा। दीपहीने सन्ध्यादीपविहीने तु श्रीदैवत्यं सवैष्णवम् ॥ 24.8 ॥ आग्नेयञ्च सकृद्धुत्वा दीपांश्च द्विगुणं ददेत्। अजस्रदीपविच्छेदे शतमष्टोत्तर यजेत् ॥ 24.9 ॥ सर्वेषामेव देवानां दीपः प्रियतमो भवेत्। श्वेतपङ्कजनालोत्थैस्सूत्रैः कृत्वा तु वर्तिकाम् ॥ 24.10 ॥ उत्तमं दीपदानन्तु कापिलेन घृतेन वै। अष्टाङ्गुलोच्छ्रयज्वालो (1)दीप उत्तम उच्यते (1.) यथालाभोच्छ्रयोऽपि वा ख. ॥ 24.11 ॥ (2)उक्तपङ्कजनालोत्थैः सूत्रैः कृत्वा तु वर्तिकाम्। षङ्गुलोच्छ्रयज्वालो मध्यमो गव्यसर्पिषा (2.) रक्त. ई. ॥ 24.12 ॥ तैलेन कल्पितो दीपः पिचतुवर्तियुतोऽधमः। त्रियङ्गुलोच्छ्रयज्वालो यथालाभोच्छ्रयोऽपि वा ॥ 24.13 ॥ कर्पूरवर्तिकाक्लृप्तो दीपस्स्यादुत्तमोत्तमः। मार्जनादिहीने मार्जने च तथा हीने हीने चैवोपलेपने ॥ 24.14 ॥ ‘आपो-हिरण्य-पवमानैः’ प्रोक्षयित्वोपलेपयेत्। निर्माल्यशोधने हीने हीने चाभ्युक्षणे तथा ॥ 24.15 ॥ वैष्णवं वैष्वक्सेनञ्च वारुणञ्च यजेत्पुनः। बिम्बाभिषेकेऽशक्तश्चेद्देवेशमभिवाद्य च ॥ 24.16 ॥ कुशोदकैस्समभ्युक्ष्य पूर्ववस्त्रं विसृज्य च। अन्येन धौतवस्त्रेण देवेशं परिधापयेत् ॥ 24.17 ॥ बिम्बाभिषेकहीने तु वैष्णवं वारुणं यजेत्। पुष्पन्यासहीने पुष्पन्यासविहीने तु कालातीते पुनस्तदा ॥ 24.18 ॥ कृत्वैव पुष्मन्यासञ्च विष्णुगायत्रिया पुनः। जुहुयाद्दशकृत्वस्तु नामभिर्जुहुयाच्छतम् ॥ 24.19 ॥ अन्यदेवार्चनाहीने गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान्। समभ्यर्च्चायेद्देवं हीने तेषामथार्चने ॥ 24.20 ॥ द्विगुणं तान् समभ्यर्च्य तत्तन्मत्रं सकृद्यजेत्। अर्चने ध्यानहीने तु विष्णुसूक्तं यजेत्ततः ॥ 24.21 ॥ देवं सम्यक्ताथा ध्यात्वा पुनरर्चयति क्रमात्। नवभेदेष्वथैकस्मिन् कल्पितेऽप्यर्चने तथा ॥ 24.22 ॥ आसनादिषु यद्धीनं तत्तत्प्रति विशेषतः। वैष्णावं विष्णुगायत्रीं जुहुयातृतदनुस्मरन् ॥ 24.23 ॥ देवदेवं स्मरन् बुद्ध्या सर्वव्यापिनमव्ययम्। हविर्निवेदनहीने हविर्निवेदने हीने ब्राह्मं हुतृवा ततः परम् ॥ 24.24 ॥ प्राजापत्यं ततो हुत्वा वैष्णवेन समन्वितम्। विष्णुसूक्तं हविस्तद्वद्द्विगुणञ्च निवेदयेत् ॥ 24.25 ॥ उपदंशेषु हीनेषु यजेत्सौम्यं सवैष्णवम्। सामादिञ्च घृते हीने जुहुयाद्वैष्णवान्वितम् ॥ 24.26 ॥ जुहुयाद्दधिहीने तु (1)यजुराद्यं सवैष्णवम्। मुखवासहीने मुखवासविहीने तु श्रीमन्त्रं वैष्णवं यजेत् (1.) नृ सूक्तं वैष्णवं यजेत् आ. ॥ 24.27 ॥ नित्यहोमहीने (2)नित्यहोमं कपालाग्रावज्ञानाज्जुहुयाद्यदि। वैष्णवं व्याहृतीश्चापि हुत्वा च जुहुयात्तथा (2.) नित्याग्नौ मन्त्रहीने तु आ. ॥ 24.28 ॥ नित्याग्निं तमविच्छिन्न्मशक्तो रक्षितुं यदि। समिध्यात्मनि वाऽऽरोप्य निधायाहरहर्यजेत् ॥ 24.29 ॥ श्रीवैखानससूत्रोक्तो मन्त्र आरोपणे स्मृतः। तथाऽवरोपणे चाग्नौ (3)नामन्त्रं किञ्चिदाचरेत् (3.) तन्मन्त्रम्. ख. ॥ 24.30 ॥ सकालेऽर्चनेहीने प्रातस्सन्ध्यार्चने हीने मध्याह्रे द्विगुणं भवेत्। वैष्णवं पौरुषं सूक्तं (4)विष्णुसूक्तं यजेत्ततः (4.) नित्यकुण्डे यजेत्तथा आ. ॥24.31 ॥ प्रातर्मध्याह्रयोर्हीने सायाह्रे द्विगुणं भवेत्। एकाहे त्वर्चनाहीने हुत्वा तद्द्विगुणं पुनः ॥ 24.32 ॥ हवींष्यपि निवेद्यैव दक्षिणाग्नौ ततः परम्। पञ्चविंशतिकृत्वस्तु षण्मात्रान् वैष्णवान् यजेत् ॥ 24.33 ॥ वैष्णवं पौरुषं सूक्तं हुत्वा (1)विप्रांश्च भोजयेत्। एकाहे त्विदमुद्दिष्टं द्वितीये द्विगुणं भवेत् (1.) विष्णुं समर्चयेत् आ. ॥ 24.34 ॥ ?Bद्वादशाहान्तमित्येवं वर्धयेत्तु दिने दिने। अतीते द्वादशाहे तु दक्षिणाग्नौ ततः परम् ॥ 24.35 ॥ वैष्णवं पौरुषं सूक्तं विष्णुसूक्तं शतं यजेत्। चत्वारिंशद्भिरष्टाभिः कलशैः स्नापयेत्पुनः ॥ 24.36 ॥ महाहविः प्रभूतं वा समभ्यर्च्य निवेदयेत्। आचार्याय पशून् दद्याद्ब्राह्मणान् भोजयेत्पुनः ॥ 24.37 ॥ मासहीनं यदि भवेदालयं परितस्तथा। अग्नीनाहवनायादीन् प्रागादि परिकल्पयते ॥ 24.38 ॥ देवेशं मनसा ध्यात्वा प्रत्येकञ्चैकविंशतिम्। देवीभ्याञ्च मुनिभ्याञ्च वैघ्नं गारूडमेव च ॥ 24.39 ॥ तत्तद्धोमे सुहोतव्यं महाव्याहृतिसंयुतम्। शताष्टकलशैर्देवं स्नापयित्वा विधानतः ॥ 24.40 ॥ पुण्याहं वाचयित्वा तु ब्राह्मणानपि भोजयेत्। यावद्दिनार्चनं हीनं गणयित्वा ततः परम् ॥ 24.41 ॥ तावद्दिनार्चनाद्रव्यं देवेशाय निवेदयेत्। एवं मासे प्रकुर्वीत द्विमासे द्विगुणं भवेत् ॥ 24.42 ॥ वर्षान्तं वर्धयेदेवं वर्षेऽतीते ततः परम्। अष्टाधिकसहस्रैर्वा शतैर्वा कलशैस्तदा ॥ 24.43 ॥ स्नापयित्वा तु देवेशं प्रणम्यैवानुमान्य च। सुवर्णपशुभूम्यादीन् दत्वाऽऽचार्याय दक्षिणाम् ॥ 24.44 ॥ ततोऽब्जाग्नौ महाशान्तिं हुत्वा देवमनुस्मरन्। सहस्त्रपद्मं सङ्गृह्य गायत्रीं वैष्णवीं वदन् ॥ 24.45 ॥ आप्लुत्याऽप्लुत्य जुहुयात्कापिलेन घृतेन वै। पूर्वोक्तेन विधानेन प्रतिष्ठां पुनराचरेत् ॥ 24.46 ॥ एवमेवार्चने हीने प्रायश्चित्तं विधीयते। अन्येषामपि देवानां (1)सामान्यमिदमुच्यते (1.) वैष्णवं शतकृत्वश्च हुत्वाऽभ्यर्च्य निवेदयेत्। चत्वारिंशद्भिरष्टाभिः कलशैः स्नापये. त्प्रभुम्। महाशान्तिञ्च हुत्वा तु प्रभूतञ्च निवेदयेत्. आ. ॥ 24.47 ॥ बलिहीने (2)प्रातस्सन्ध्याबलौ हीने मध्याह्रे द्विगुणं भवेत्। वैष्णवं सौरसौम्ये च प्राजापत्यं यजेत्ततः (2.) एतदारभ्य 78 श्लोक पर्यन्तं ई कोशेषु न दृश्यते. अवधिश्च चिह्रितः ॥ 24.48 ॥ प्रातर्मध्याह्रयोर्होने सायाह्रे द्विगुणं भवेत्। एकाहं बलिहीनञ्चेदग्नावौपासनीयके ॥ 24.49 ॥ जुहुयाद्विणुसूक्तञ्च ,पूर्वमन्त्रैश्च संयुतम्। उत्थापयेद्वलिं हीनं पूर्वोक्तविधिना ततः ॥ 24.50 ॥ एकाहे त्विदमुद्दिष्टं द्विदिने द्विगुणं भवेत्। वर्धयेत् द्वादशाहान्तमतीते द्वादशेऽहनि ॥ 24.51 ॥ अग्जाग्नौ पौरुषं सूक्तं विष्णुसूक्तं ततः परम्। पारमात्मिकसंयुक्तं ‘मीङ्कारादीन्’ जुहोति च ॥ 24.52 ॥ संस्नाप्य सप्तकलशैर्बिम्बं कौतुकमेव च। महाहविर्निवेद्यैव बलीनुत्थापयेत्क्रमात् ॥ 24.53 ॥ एवमेवविधानेन यावन्मासान्तमाचरेत्। मासहीनं यदि भवेत्प्राच्यामहावनीयके ॥ 24.54 ॥ यजेदष्टोत्तरशतं सूक्ते वैष्णवपौरुषे। मध्ये तु सर्वदैवत्यं सभ्यकुण्डे जुहोति च ॥ 24.55 ॥ शताष्टकलशैर्देवं स्नापयित्वा ततः परम्। पञ्चविंशतिगा दत्वा देवमुद्दिश्य यत्नतः ॥ 24.56 ॥ महाहविर्निवेद्यैव बलीनुत्थापयेत्क्रमात्। एवमेव विधानेन कुर्यात्संवत्सरावधि ॥ 24.57 ॥ पतिते तद्धलौ स्पृष्टे अस्पृश्यैः श्रुतिदूषकैः। पूर्ववद्वलिमापाद्य बनिदेवं यजेत्पुनः ॥ 24.58 ॥ बलिमुत्थाप्य विघ्नश्चेत्सौरं सौम्यसमन्वितम्। हुत्वा तु पूर्ववत्कर्म प्रारभेत यथाविधि ॥ 24.59 ॥ बलौ प्रमाणहीने तु वैष्णवञ्चैकविंशतिम्। भिन्ने जीर्णे शतं पात्रे तत्प्रमाणविवर्जिते ॥ 24.60 ॥ वेष्णवं पौरुषं सूक्तं विश्णुसूक्तमतः परम्। पारमात्मिक ‘मीङ्कारान्’ रौद्रं तथैव च ॥ 24.61 ॥ सौरमाग्नेयसंयुक्तं पञ्चवारुणसंयुतम्। जयाद्यैश्चैव कूष्माण्डैः जुहुयात्तस्य शान्तये ॥ 24.62 ॥ अतिवातातिवृष्ट्योश्च हरिमाराध्य पूर्ववत्। ध्रुवकौतुकसंयुक्तं गर्भगेहे प्रदक्षिणम् ॥ 24.63 ॥ कृत्वा सौपानमध्ये तु श्रीभूताग्रे बलिं ददेत्। परिवारबलिञ्चापि देवेशं परितस्तथा ॥ 24.64 ॥ तत्तत्स्थाने समासाद्य दद्यादित्येव केचन। कल्पितान्नबलौ काले त्वलब्धेऽन्नबलौ सति ॥ 24.65 ॥ कुर्यादर्ध्यबलिं वाऽपि पूर्ववत्पुष्पमेव वा। नित्याग्नौ दशकृत्वस्तु यजेत्सौरञ्च वैष्णवम् ॥ 24.66 ॥ आलयावरणाद्वाह्ये मुखे वामे प्रकल्पिते। कल्पिते बलिपीठे च तच्च कुर्यात्पुदक्षिणम् ॥ 24.67 ॥ बलिभ्रमणकाले तु वाद्यहीने तु पौरुषम्। नृत्तगेयविहीने च विष्णुसूक्तञ्च वैष्णवम् ॥ 24.68 ॥ हुत्वा घण्टाध्वनियुतं बलिभ्रमणमाचरेत्। जपन्वै शाकुनं सूक्तं स्वस्तिसूक्तसमन्वितम् ॥ 24.69 ॥ शवपाते पञ्चाशच्चापसीमान्ते चैकवीथ्यां शवे सति। अर्चनञ्च हविर्दानं देवदेवस्य वर्जयेत् ॥ 24.70 ॥ यदि कुर्यात्तदज्ञानाच्दुद्धोदैरभिषिच्य च। यद्देवाद्यैश्च हुत्वा तु समभ्यर्च्य निवेदयेत् ॥ 24.71 ॥ षष्टिसप्तत्यशीत्यर्वाक् क्षत्रियादिशवे सति। अनुलोमशवे कुर्याच्छान्तिं शूद्रस्य चोक्तवत् ॥ 24.72 ॥ अन्यवास्तुगते पूजा न दोषाय भवेच्छवे। अस्पृश्यस्पर्शे अर्चकान्यद्विजैः स्पृष्टे शुद्धोदैरभिषेचयेत् ॥ 24.73 ॥ स्प्तभिः क्षत्रियैः स्पृष्टे कलशैः स्नापयेद्धरिम्। स्नापयेद्वैश्यसंस्पर्शे चतुर्विशतिभस्तथा ॥ 24.74 ॥ शान्तिहोमञ्च जुहुयाच्छक्तितो भोजयेद्दिवजान्। अष्टोत्तरशतैश्शूद्रैः संस्पर्शे स्नापयेत्तथा ॥ 24.75 ॥ महाशान्तिं ततो हुत्वा ब्राह्मणानपि भोजयेत्। स्पृष्टेऽनुलोमैश्शूद्रोक्तप्रायश्चित्तं समाचरेत् ॥ 24.76 ॥ उच्छिष्टाशुचिभिर्विप्रैः कुर्याच्छूद्रोक्तनिष्कृतिम्। स्पृष्टे त्वाशौचवद्वप्रैः कुर्याच्छूद्रोक्तनिष्कृतिम् ॥ 24.77 ॥ प्रतिलोमैस्तु संस्पृष्रूटे जलादिष्वधिवास्य च। महाशान्तिञ्च सप्ताहमब्जाग्नौ जुहयात्ततः ॥ 24.78 ॥ प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत्। (अनुलोमैस्तु संस्पृष्टं हविर्यदि निवेदयेत् ॥ कलशैः स्नापयेद्देवं चत्वारिशद्भिरष्टभिः। महाशान्तिञ्च हुत्वा तु प्रभूतञ्च निवेदयेत् ॥ देवेशं स्नापने काले पूजानैवेद्यकालयोः। प्रतिलोमाश्च पतिताः पाषण्डा वेददूषकाः ॥ नास्तिका भिन्नमर्यादा यदि पश्यन्ति मोहतः(1)। हवितर्वा यदि पश्यन्ति (2)श्वकाकाद्याः प्रमादतः (1.) लोभतः ख. (2.) श्वशूद्रस्पर्शने यदि. ई. ॥ देवेशायानिवेद्यैव तद्धविः प्रक्षिपेज्जले। (3)तद्धविर्न निवेद्यं स्याद्देवेशाय प्रयत्नतः (3.) देवेशं न निवेद्यैव तद्धविर्विसृजे ज्जले. ई. ॥ हविरन्यत्सुसम्पाद्य देवेशाय निवेदयेत्। वैष्णवं विष्णुसूक्तञ्च (4)महाव्याहृतिसयुतम् (4.) महापातकिदर्शने. ई. ॥ (5)चतुरावर्त्य हृत्यैव पक्वान्नेनैव होमयेत्।) कारयेत्तान्त्रिकस्पर्शे प्रतिलोमोक्तनिष्कृतिम् (5.) पक्वान्नं जुहुयादपि. आ. ॥ 24.79 ॥ अवेदमूलास्समायास्तान्त्रिका वेददूषकाः। ब्राह्मणैः पाचकादन्यैः स्पृष्टं नैव हविर्ददेत् ॥ 24.80 ॥ यदि दद्यात्तु मोहेन वैष्णवन्तु सकृद्यजेत्। उच्छिष्टाशुचिभिर्विप्रैः क्षत्रियैर्विड् भिरेव वा ॥ 24.81 ॥ अन्ने निवेदिते स्पृष्टे शुद्धोदैरभिषेचयेत्। वैष्णवं दशकृत्वश्च हुत्वाऽन्यच्च निवदेयेत् ॥ 24.82 ॥ स्पृष्टमाशौचवद्विप्रैः शूद्रैर्वाऽथानुलोमजैः। निवेदयेच्चेदज्ञज्ञनात्कलशैरधमाधमैः ॥ 24.83 ॥ स्नापयित्वा ततश्शन्तिं हुत्वाऽभ्यर्च्य निवेदयेत्। प्रतिलोमैस्तु संप्पृष्टं हविर्यदि निवेदयेत् ॥ 24.84 ॥ कलशैः स्नापयेद्देवं चज्वारिशद्भिरष्टभिः। महाशान्तिञ्च हुत्वा तु प्रभूतञ्च निवेदयेत् ॥ 24.85 ॥ देवेशं स्नानकाले वा पूजाकाले निवेदने। प्रतिलोमाश्च पाषण्डाः पतिता वेददूषकाः ॥ 24.86 ॥ नास्किका भिन्नमर्यादा यदि पश्यन्ति मोहतः। हविर्वा यदि तैर्द्दृष्टं देवेशाय निवेदयेत् ॥ 24.87 ॥ देवेशं स्नापयित्वा तु शुद्धोदैस्तस्य शान्ये। अभ्यर्च्य शान्तिहोमान्ते प्रभूतञ्च निवेदयेत् ॥ 24.88 ॥ पूजनार्थ जले पुष्पे मन्त्रवत्संस्कृते पुनः। स्पृष्टञ्चेद्ब्राह्मणादन्यैः तत्त्यक्त्वाऽन्यत्समाहरेत् ॥ 24.89 ॥ अथवा प्रोक्षणैः प्रोक्ष्य पात्रान्तरनिवेशितम्। पूर्ववन्मन्त्रसंस्कारं कृत्वा तेनैव पूजयेत् ॥ 24.90 ॥ उच्छिष्टाशुचिभिर्विप्रैः स्पृष्टं यदि तथैव च। स्पृष्टमाशौचवद्विप्रैः त्यक्त्वाऽन्यद्द्रव्यमाहरेत् ॥ 24.91 ॥ प्रतिलोमैस्तु संस्पृष्टं दृष्टञ्चैव विसर्जयेत्। शूद्रैरथाप्य शुचिभिः प्रतिलोमैरुदक्यया ॥ 24.92 ॥ स्पृष्टमाज्यं दधि क्षीरं मधु वा तोयमेव वा। देवार्थं नैव गृह्णीयाद्दष्टं सूतिकया तथा ॥ 24.93 ॥ अज्ञानाद्देवदेवाय यदि तानि निवेदयेत्। शुद्धोदैः स्नापयित्वा तु हुत्वा शान्तिं समर्चयेत् ॥ 24.94 ॥ त्याज्यं पुष्पञ्च संस्पृष्टमेवमन्यत् फलादिकम्। न त्यजेद्यदि लोभेन शान्तिं हुत्वाऽभिषेचयेत् ॥ 24.95 ॥ अमन्त्रकाऽर्चनं विष्णोरकाले च तथाऽर्चनम्। ग्रामनाशञ्च दुर्भिक्षं व्याधिञ्चैव प्रयच्छति ॥ 24.96 ॥ तस्मात्सर्वप्रयत्नेन काले काले विशेषतः। मन्त्रवत्पूजयेद्विष्णुमिति पूर्वजशासनम् ॥ 24.97 ॥ अविज्ञातेषु सर्वेषु मन्त्राणान्तु पृथक् पृथक्। ऋषिच्छन्दोधिदेवेषु छन्दोऽनुष्टुबिति स्मरेत् ॥ 24.98 ॥ अन्तर्यामी ऋषिः प्रोक्तः परमात्मा च देवता। इति सामान्यतः स्मृत्वा पूजयेत्पुरुषेत्तमम् ॥ 24.99 ॥ अष्ठविधा भक्तिः भक्तिमष्टविधां वक्ष्ये देवदेवे तु शार्ङ्गिणि। तद्भक्तजनवात्सल्यं तत्पूजास्वनुमोदनम् ॥ 24.100 ॥ तत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया। तदनुस्मरणं नित्यं तदर्थे दम्भवर्जनम् ॥ 24.101 ॥ नित्यं तदेकशेषित्वं यच्च तन्नोपजीवति। भक्तिरष्टविधा ह्येषा यत्र साधारणेन वै ॥ 24.102 ॥ तमेव पूजकं श्रेष्ठं वरयेन्नान्यमर्चकम् ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे नित्यार्चनाप्रा?यश्चित्तविधिर्नाम चतुर्विशोऽध्यायः।