23 त्रयोविंशोऽध्यायः

त्रयोविंशोऽध्यायः


त्रयोविंशोऽध्यायः
नवीकरणम्
अतः परं प्रवक्ष्यामि नवीकरणमुत्तमम्।
प्रासादागोपुरादीनां मण्डपानां तपोधनाः ॥ 23.1 ॥
वर्णनाशे सुधास्फोटे भित्तिभेदे तथैव च।
शिलेष्टकादिपतने शीघ्र कर्मेदमाचरेत् ॥ 23.2 ॥
आलयाभिमुखे कृत्वा कुण्डमौपासनस्य च।
न्यक्षादीनां चतुर्णान्तु मन्त्रान् हुत्वा तु मूर्तिभिः ॥ 23.3 ॥
देवतानां गलस्थाने स्थापितानां विशेषत।
पादवर्गगतानाञ्च हुत्वा मन्त्राननुक्रमात् ॥ 23.4 ॥
तद्विम्बान्तर्गतां शक्तिं ध्रुवबेरे निवेश्य च।
प्राकाराश्रयपीठेषु तत्तद्दिक्षु यथाक्रमम् ॥ 23.5 ॥
न्यक्षादींश्च समावाह्य दशकृत्वस्तु वैष्णवम्।
चतुर्वेदादिमन्त्रांश्च हुत्वा चाग्निं विसृज्य च ॥ 23.6 ॥
शिलेष्टकाप्रक्षेपाद्यैर्दृढं कृत्वा यथाविधि।
सुधावर्णानुलेपादीन् पूर्ववत्पारिकल्प्य च ॥ 23.7 ॥
पञ्चगव्यैस्समभ्युक्ष्य वास्तुहोमस्सुहूयताम्।
अब्जाग्नौ वैष्णवं हुत्वा सूक्ते वैष्णवपौरुषे ॥ 23.8 ॥
व्याहृतीरङ्गहोमञ्च पारमात्मिकसंयुतम्।
‘ईङ्कारादी’ श्च जुहुयादष्टाशीत्याहुतिं तथा ॥ 23.9 ॥
सहस्राहुतिपर्यन्तं यजेत्तद्दोषशान्तये।
विमानस्थापनप्रोक्तप्रकारेण यथाविधि ॥ 23.10 ॥
संस्थाप्य तत्तद्विम्बादीन् न्यक्षादींश्चतुरस्तथा।
सर्वाणि चान्यकर्माणि कारयेदिति शासनम् ॥ 23.11 ॥
सर्वेषामेव देवानामालयेषु तथैव च।
न्यक्षादयो विमानेशाः परिवारालयेषु च ॥ 23.12 ॥
विमानपतनादौ बालालयः
विमाने पतिने जीर्णे शीघ्रं बालालये ततः।
देवदेवं प्रतिष्ठाप्य विमानं कारयेत्पुनः ॥ 23.13 ॥
यत्प्रमाणं यदाकारं यद्द्रव्यञ्च यदालयम्।
तद्द्रव्यञ्च तदाकारं तत्प्रमाणञ्च कारयेत् ॥ 23.14 ॥
पौरुषञ्चेत्तदुत्कृष्टप्रमाणाकृतिवस्तुभिः।
अथवा कारयेत्प्राज्ञः पूर्वनाशे यथोचितम् ॥ 23.15 ॥
प्राकारीदिनाशे
प्राकारेषु विशीर्णेषु तत्प्राकाराधिदैवतैः।
मन्त्रैर्हुत्वा नवीकृत्य वास्तुहोमं यजेत्पुनः ॥ 23.16 ॥
परिवारालये जीर्णे न्यक्षादींश्चंतुरस्तथा।
तन्मूलबेरे चारोप्य नवीकृत्य यथापुरा ॥ 23.17 ॥
तत्प्रतिष्ठाप्रकारेण विमाने स्थापयेत्पुनः।
गोपुरेषु विशीर्णेषु तद्दवाराधिपतींस्तथा ॥ 23.18 ॥
पीठेषु तत्तत्पार्श्वेषु समावाह्यातुतीरतः।
तत्तन्मन्त्रैश्च हुत्वा तु नवीकृत्य यथापुरा ॥ 23.19 ॥
तद्वारपालकांस्तत्र स्थापयित्वा समर्चयेत्।
मण्डपादिषु सर्वेषु तत्तत्प्रोक्ताधिदेवताः ॥ 23.20 ॥
ध्रुवबेरे निवेश्यैव नीवकृत्य यथापुरा।
समावाह्याधिदेवास्तान् पूर्ववत्स्थापयेद्धरिम् ॥ 23.21 ॥
नवकर्मणि शुद्धिः
प्रासादा?दिषु सर्वेषु नवकर्मावसानके।
सामान्यो वास्तुहोमश्च शुद्धिः पुण्याह एव च ॥ 23.22 ॥
नवीकरणे केचन नियमाः
एकबेरविमानानां पौरुषाणां विशेषतः।
तथैवोद्धृतबिम्बानां जीर्णानान्तु (1)पुनः कृतौ (1.) पृथक्. क. ॥ 23.23 ॥
पूर्वप्रमाणादधिकं यदि कुर्यान्न दोषकृत्।
(1)पदानुगुणमेवैतत् परितो वर्धयेत्तथा (1.) यथानुगुणं. आ. ॥ 23.24 ॥
पूर्व मृदालयश्चेत्तदिष्टकाद्यैः प्रकल्पयेत्।
परितो वर्धयित्वैव कल्पयेदालयं तथा ॥ 23.25 ॥
प्राकाराणान्तु जीर्णानां पुनस्सन्धानकर्मणि।
अथवा मृण्मयानाञ्च तथा वृद्धिं यदीच्छति ॥ 23.26 ॥
परितो वर्धयेदेव प्राच्युदीच्योरथापि वा।
यद्यग्रे ग्रामवीथी स्यात्?ित्र?षु वाऽन्येषु वर्धयेत् ॥ 23.27 ॥
शालानां मण्डपानाञ्च पार्श्वयोरग्रतस्तथा।
वृद्धिं कुर्याद्विशेषेण प्राच्युदीच्योरथापि वा ॥ 23.28 ॥
उदीच्यामग्रतश्चैव वर्धयेत्पचनालयम्।
एकतस्सङ्कटञ्चेत्तु नदीसागरापर्वतैः ॥ 23.29 ॥
वर्धयेदन्यपार्श्वेषु नात्र कार्या विचारणा।
दक्षिणापरवृद्धिञ्च क्षयञ्चापि न जातुचित् ॥ 23.30 ॥
प्राकारमण्डपादीनां शालानाञ्च समाचरेत्।
पराणमन्दिरेषु नियमाः
पौराणिकविमानानां वृद्धिं वाऽपि न कारयेत् ॥ 23.31 ॥
ग्रामाग्रहारनगरपत्तनाद्यनुकर्मसु।
अगर्भदैवतं वास्तु परितो वर्धयेत्समम् ॥ 23.32 ॥
नैव विन्यासभेदेन यदि भेदो विनश्यति।
विमानं येन हस्तेन प्रमितं तेन कारयेत् ॥ 23.33 ॥
प्राकारमण्डपादीनि नाधिकेन कदाचन।
स्थापयेदुत्तमं बेरमालये मध्यमेऽधमे ॥ 23.34 ॥
अन्यथा यदि कुर्वीत राजराष्ट्रं विनश्यति।
तस्मात्सर्वप्रयत्नेन यथाविधि समाचरेत् ॥ 23.35 ॥
ध्रुवबेरजीर्णोद्धारः
वक्ष्यामि ध्रुवबेरस्य जीर्णेद्धारमतः परम्।
जीर्णे छिन्ने तथा भिन्ने स्?पुटिते वर्णसङ्क्षये ॥ 23.36 ॥
बालालयमथाऽग्नेय्यां याम्यनैरऋतयोस्तथा।
वारुण्यां वा प्रकुर्वीत यथाविभवविस्तरम् ॥ 23.37 ॥
बालालयप्रतिष्ठोक्तप्रकारेण ततः परम्।
बालालये प्रतिष्ठाप्य नवीकरणमाचरेत् ॥ 23.38 ॥
दृश्यते यत्र दोषस्तु तत्र संस्कारमाचरेत्।
वर्णे वाऽध्यनुवर्णे वा स्फुटितं दृश्यते यदि ॥ 23.39 ॥
निपुणैश्शिल्पिभिश्शुद्धैस्तद्वर्ण तत्र योजयेत्।
पटादूर्ध्वन्तु दोषश्चेत्तत्तत्कुर्यात्तु पूर्ववत् ॥ 23.40 ॥
दोषयुक्ते पटे वाऽपि पटं सर्वं व्यपोह्य च।
पटमाच्छाद्य विधिना कारयेदुपरि क्रियाम् ॥ 23.41 ॥
शूलोर्ध्वे दोषयुक्तश्चेदाशूलं शोधयेत्तथा।
मृण्मये दारवे शैले शर्करालेपनादिकाः ॥ 23.42 ॥
कारयित्वा क्रियास्सर्वाः बेरं सम्यक्प्रकल्पयेत्।
शूले च मृण्मये जीर्णे सर्वमब्धौ विसृज्य च ॥ 23.43 ॥
दारुसङ्गहणं कृत्वा शूलं संस्थाप्य पूर्ववत्।
समुद्रे दारवं जीर्णं त्यक्त्वान्यस्थपयेत्तथा ॥ 23.44 ॥
(1)अङ्गहीनं तथा शैलं बेरं प्रक्षिप्य तोयधौ।
शिलां गृहीत्वा विधिना कृत्वा बेरञ्च पूर्ववत् (1.) अग्नी. आ. ॥ 23.45 ॥
संस्थाप्य विधिना पश्चाद्बेरं कुर्याद्यथाविधि।
ताम्रजस्याङ्गहीनस्य कौतुकोक्तवदाचरेत् ॥ 23.46 ॥
पुनर्बिम्बनिर्माणे नियमाः
पूर्वं येनोद्धृतं बिम्बं यत्प्रमाणं यदाकृति।
तद्द्रव्येण तदाकारं तत्प्रमाणञ्च कारयेत् ॥ 23.47 ॥
पूर्वन्तु पौरुषञ्चेत्तु मुख्यं वा स्थापयेत्पुनः।
मुख्यप्रमाणाकाराभ्यां कारयेद्वाऽथ पौरुषे ॥ 23.48 ॥
बिम्बेषु द्रव्यभेदेन तरतमभावः
मृद्दारूपलताम्रेषु पूर्वात्पूर्वात्परो वरः।
स्थानकादासनं तस्माच्छयनञ्च क्रमाद्वरम् ॥ 23.49 ॥
पूर्वन्तु शैलजं यत्र तत्र शैलजमेव वा।
अशक्तः पूर्ववत्कर्तु स्थाननाशभयादिषु ॥ 23.50 ॥
कालक्षेपेऽप्ययुक्तेन तु हेतुना येन केनचित्।
गौणमानाकृति?द्रव्यैः कारयेदिति केचन ॥ 23.51 ॥
मूलनाशात् यथालाभं गौणं वाऽपि प्रशस्यते।
ध्रुवकौतुकमार्गेण पदे संस्थाप्य दैविके ॥ 23.52 ॥
कृत्वा वर्णानुलेपादीन् प्रतिष्ठाप्यार्चयेत्पुनः।
कौतुकादिषु सर्वेषु नष्टे स्थाने तथैव च ॥ 23.53 ॥
शैलञ्च ध्रुवबेरञ्च दृश्यते यत्र कुत्रचित्।
अशक्तः पूर्ववत्कर्तुं स्थाननाशभयादिषु ॥ 23.54 ॥
कृत्वा नयनमोक्षं तत्स्थापयेद्वा ध्रुवार्चनम्।
असत्यां नाशशङ्खायामशक्तेऽपि यथापुरा ॥ 23.55 ॥
कारयेत विधानेन गौणेनैव प्रकल्पयेत्।
शिथिले ध्रुवपीठे तु कृत्वा बालालय क्षणात् ॥ 23.56 ॥
शिल्पिभिस्सुदृढं कृत्वा पुनः स्थापनमाचरेत्।
स्थलनाशे च रत्ननि सुसुन्न्यस्य तु पूर्ववत् ॥ 23.57 ॥
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत्।
बहुबेरप्रतिष्ठा चेद्यद्वेरं दोषसंयुतम् ॥ 23.58 ॥
वस्त्रेणावेष्ट्य निर्दोषं दोषदुष्टस्य तस्य तु।
संस्कारं पूर्ववत्कुर्यादिति पूर्वजशासनम् ॥ 23.59 ॥
परिवारेषु दुष्टेषु तत्तत्पार्श्वे तथैव च।
कृत्वा बालालयं हुत्वा तत्तन्मन्त्रं सवैष्णवम् ॥ 23.60 ॥
प्रतिष्ठाप्य नवीकृत्य पुनः स्थापनमाचरेत्।
बहुभूमिविमानेषु दोषयुक्तं तलं प्रति ॥ 23.61 ॥
बालागारं प्रकल्प्यैव द्वितीयावरणेऽथवा।
प्रथमावरणे वाऽथ उक्तदेशे यथाविधि ॥ 23.62 ॥
सदोषतलबिम्बानि निर्दोषेषु तलेषु वै।
नैव संस्थापयेन्मोहाद्यदि कुर्याद्विनश्यति ॥ 23.63 ॥
शीघ्रं हुत्वा महाशान्तिं स्थापयेत्तरुणालये।
ऊर्ध्वं तलं समुद्दिश्य पश्चिमे तरुणालये ॥ 23.64 ॥
अधस्तलस्य तत्पूर्वे स्थानं सम्यक्प्रकल्पयेत्।
पञ्चमूर्तिविधाने तु बालागारं यथाविधि ॥ 23.65 ॥
तत्तन्मूर्ति समुद्दिश्य तत्तद्दिशि च कारयेत्।
बेराणां केषाञ्चिदेकद्रव्यनियमः
बेराणि पञ्चमूर्तीनामेकद्रव्येण कारयेत् ॥ 23.66 ॥
तथैव पञ्चवीराणां ब्रह्मणो गरुङस्य च।
विपरीतं यदि भवेत्तद्ग्रामयजमानयोः ॥ 23.67 ॥
भवेदाशु विनाशाय विशेषाद्राजराष्ट्रयोः।
वालालयमकृत्वा न नवीकरणम्
बालालयमकृत्वा तु नवकर्माचरेद्यति ॥ 23.68 ॥
आभिचारिकमित्युक्तं तस्य दोषस्य शान्तये।
नवाहं वाऽथ सप्ताहं पञ्चाहं त्रियहन्तु वा ॥ 23.69 ॥
हुत्वाऽब्जाग्नौ महाशान्तिं स्थापयित्वा समर्चयेत्।
आदित्यमण्डलात्कुम्भे समावाह्य समर्चयेत् ॥ 23.70 ॥
अन्येषामपि देवानामेष एव विधिः स्मृतः।
कौतुकादिषु गुप्तेषु नवीकरणप्रकारः
कौतुकादिषु गुप्तेषु जीर्णे तस्मिन् ध्रुवे सति ॥ 23.71 ॥
कुम्भे शक्तिं समावाह्य नवीकरणमाचरेत्।
कुम्भात्कुम्भे समावाह्य यजेत्पर्वणि पर्वणि ॥ 23.72 ॥
नवकर्मावसाने तु ध्रुवं संस्थाप्य पूर्ववत्।
तस्मात्कूर्चे समावाह्य नित्यं विधिवदर्चयेत् ॥ 23.73 ॥
कौतुकाभावे सुवर्णशकलेऽर्चनम्
सर्वत्र कौतुकाभावे सुवर्णशकलन्तु वा।
(कुम्भे तु मासमेकं स्यात् षण्मासं दर्पणे तथा ॥
वत्सरान्तं पटे प्रोक्तं दारौ द्वादशवत्सरम्।
अत ऊर्ध्वं हरिस्तत्र न रमेत पुनस्तथा) ॥
अर्चापीठेऽथवा कूर्च सन्न्यस्यावाह्य पूजयेत् ॥ 23.74 ॥
जीर्णबेरार्चनं यत्तद्दोषायैव भविष्यति।
तस्माच्छीघ्रन्तु विधिना जीर्णादौ कौतुकादिके।
कौतुके ताम्रजे बिम्बे शैलजे दारुवेऽथवा ॥ 23.76 ॥
जीर्णे छिन्ने च भिन्ने च खण्डे वृद्धौ तथैव च।
हीनप्रमाणे सुषिरे बिम्बं त्याज्यन्तु तत् त्यजेत् ॥ 23.77 ॥
जीर्णे छिन्ने च भिन्ने च खण्डे वृद्धौ तथैव च।
हीनप्रमाणे सुषिरे बिम्बं ज्याज्यन्तु तत् त्यजेत् ॥ 23.77 ॥
वस्त्रेण बिम्बं संवेष्ट्य तत्प्रक्षिप्य जलाशये।
मधूच्छिष्टप्रयोगेण बिम्बं कृत्वा यथाविधि ॥ 23.78 ॥
पूर्ववद्विम्बमासाद्य विधिना स्थापयेत्पुनः।
कालापेक्षा न कर्तव्या शीघ्रं कर्मेदमाचरेत् ॥ 23.79 ॥
अङ्गादिसंज्ञा
कण्ठोदरशिरोवक्षोबाहुकोष्ठोरुपाणयः।
कटिजङ्घे महाङ्गानि नेत्रनासौष्ठतालवः ॥ 23.80 ॥
कर्णश्चाङ्गुलयोऽङ्गानि केशरोमनखादयः।
उपाङ्गानीति चोक्तानि मकुटं भूषणाम्बरे ॥ 23.81 ॥
शङ्खचक्रे शिरश्चक्रं पादपद्मायुधान्यपि।
पीठं प्रभा च छत्रं च प्रत्यङ्गानि विदुर्बुधाः ॥ 23.82 ॥
क्रीडायष्टिश्च वंशश्च प्रत्यङ्गं कृष्णविग्रहे।
आषाढो वामने चापि प्रत्यङ्गमभिधीयते ॥ 23.83 ॥
हुत्वा शान्तिं त्यजेद्विम्बमङ्गहीनन्तु कौतुकम्।
उपाङ्गहीने बिम्बस्य ताम्रजस्यैव भक्तितः ॥ 23.84 ॥
कौतुकसंस्कारप्रकारः
ध्रुवे शक्तिं समारोप्य सन्धानं तुल्यवस्तुना।
हुत्वा पुरषसूक्तेन विष्णुसूक्तेन वैष्णवैः ॥ 23.85 ॥
‘ईङ्काराद्यै’ श्च जुहुयादष्टाशीत्या समाहितः।
रात्रिसूक्तेन हुत्वैव जयाद्यैर्जुहुयात्पुनः ॥ 23.86 ॥
बिम्बशुद्धिं ततः कृत्वा प्रतिष्ठां कारयेत्तथा।
सन्धानयोग्यताकथनम्
प्रत्यङ्गे तु तथा हीने न त्यजेदिति शासनम् ॥ 23.87 ॥
किरीटे भूषणे वस्त्रे नखे वा रोमकेशयोः।
चक्रे शङ्खे शिरश्चक्र हीने सन्धानमाचरेत् ॥ 23.88 ॥
शैलस्यायुधविच्छेदे कुर्यात्लोहेन वाऽऽयुधम्।
ताम्रजस्याङ्गसन्धानं केचिदाहुर्मनीषिणः ॥ 23.89 ॥
बिम्बत्यागे प्रतिप्रसवः
सौवर्णं राजितं बिम्बमङ्गहीनं भवेद्यदि।
न त्यजेत्तुल्यलोहेन सन्धाय स्थापयेत्क्रमात् ॥ 23.90 ॥
सन्धाने निमित्तान्तराणि
प्रत्यङ्गे तु तथा हीने सन्धानं कारयेत्क्रमात्।
तथा बिम्बे तु चलिते तथा पीठाद्वियोजिते ॥ 23.91 ॥
रेखासुषिरयुक्ते च सन्धानं कारयेद्दृढम्।
वस्त्रादिषु च चक्रेषु छेदे भेदे तथैव च ॥ 23.92 ॥
पूर्ववत्कारयेत्तद्वत् तुल्यलोहेन युक्तितः।
पूर्ववच्छान्तिहोमान्ते पुनः स्थापयति क्रमात् ॥ 23.93 ॥
बिम्बस्य ताम्रजस्यापि कर्णनासाङ्गुलीषु च।
हीनेष्वङ्गेषु सन्धानं कुर्यादेव न संशयः ॥ 23.94 ॥
?Bउपाङ्गे तस्य हीनेऽपि शैजलं दारवं त्यजेत्।
एकद्वियवमात्रे तु स्फुटिते तत्र तत्र वै ॥ 23.95 ॥
तत्तदङ्गसमुत्तिं रेखामात्रेण कल्पयेत्।
वृद्धं प्रमाणहीनञ्च जीर्णं रौक्मञ्च राजितम् ॥ 23.96 ॥
लोहवत्तत्समाहृत्य शान्तिहोमावसानके।
मधूष्छिष्टविधानेन नवीकरणमाचरे ॥ 23.97 ॥
अक्ष्युन्मेषादिकं कृत्वा प्रतिष्ठापयति क्रमात्।
रत्नजप्रतिमा या स्याद्रूपमात्रं समाहरेत् ॥ 23.98 ॥
निर्दुष्टबिम्बस्य न चालनम्
अर्च्यमाने तु निर्दोषे बिम्बे तत्र विशेषतः।
लोहगौरवमुद्दिश्य पुनर्बिम्बं न कारयेत् ॥ 23.99 ॥
यदि कुर्यात्तदज्ञानाद्राजा राष्ट्रञ्च नश्यति।
जीर्णं हीनाधिकाङ्गञ्च बिम्बं त्यक्त्वा यथाविधि ॥ 23.100 ॥
शक्तोऽधिकेन द्रव्येण कारयेच्चेत्तदुत्तमम्।
अङ्गहान्यादियुक्ते तु कौतुके पूर्वमर्चिते ॥ 23.101 ॥
ध्रुवबेरे समारोप्य तच्छक्तिं शीघ्रमेव तु।
यावद्विम्बं पुनः कृत्वा स्थापयेद्विधिकोविदः ॥ 23.102 ॥
तावतृकौतुकपीठे तु स्नापनं बिम्बमेव च।
औत्सवं बलिबेरं वा स्थापयित्वाऽथ वै ध्रुवात् ॥ 23.103 ॥
आवाह्य च विधानेन नित्यमर्चनमाचरेत्।
पूर्ववत्कौतुकं कृत्वा तत्र संस्थाप्य पूजयेत् ॥ 23.104 ॥
स्नापनौत्सवबल्यर्चाः स्वस्थाने सन्निवेशयेत्।
कैतुकबिम्बप्रतिनिधित्वेन स्वर्णकूर्चाराधनम्
स्नापने चौत्सवे हीने कूर्चं रौक्मन्तु तत्र वै ॥ 23.105 ॥
न्यस्य देवं समावाह्य ध्यायन् पूर्ववदर्चयेत्
चोरापहृतबिम्बविचारः
चोरैर्वा शत्रुभिर्वाऽपि बिम्बं त्वपहृतं यदि ॥ 23.106 ॥
यावद्विम्बं पुनः कुर्यात्तावत्कालनतु तत्र वै।
भक्त्या सुवर्णशकले समावाह्य समर्चयेत् ॥ 23.107 ॥
बिम्बं तत्पूर्ववत्कृत्वा प्रतिष्ठां कारयेद्बुधः।
तत्र विकल्पाः
विनैव देवदेवेन देव्यावपहृते यदि ॥ 23.108 ॥
देव्यौ ते विधिना कृत्वा प्रतिष्ठाप्य यथापुरा।
पूर्वोक्तेन विधानेन विवाहं विधिना चरेत् ॥ 23.109 ॥
जुहुयाद्यदि नित्याग्नौ ध्रुवादावहनं यदि।
न विवाहविधिं कुर्यादिति पूर्वजशासनम् ॥ 23.110 ॥
देवीभ्यान्तु विना तत्र देवेशेऽपहृते यदि।
देव्योरनुगुणं देवबेरं कृत्वा यथाविधि ॥ 23.111 ॥
ध्रुवादावाहनं कृत्वा नित्यमग्निं प्रणीय च।
प्रतिष्ठोक्तक्रमेणैव कृत्वा नित्यमग्निं प्रणीय च।
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ॥ 23.112 ॥
त एव देव्यौ देवस्य नान्ये देव्यौ प्रकल्पयेत्।
तच्छक्तैः पूर्वसंस्कारं (?) न विवाहविधिं चरेत् ॥ 23.113 ॥
स्थापितेऽपि नवे बेरे दृष्टे त्वपहृते पुनः।
समन्त्रं लौकिकं बेरं स्थापयित्वा समर्चयेत् ॥ 23.114 ॥
अन्यथा यदि कुर्वीत राजराष्ट्रं विनश्यति।
ध्रुवे स्थिते तु देवेशे तद्देव्योरङ्गहीनयोः ॥ 23.115 ॥
तद्देव्योः स्थितयोर्देवे हीनाङ्गेऽपि तपोधनाः।
तत्तद्विम्बगतां शक्तिं कुम्भे सम्यङ्निवेश्य च ॥ 23.116 ॥
बालालये प्रतिष्ठाप्य कुर्वन्वै नित्यपूजनम्।
देवेशानुगुणं देवौ देवं वाऽनुगुणं तयोः ॥ 23.117 ॥
पूर्वमानाकृतिद्रव्यैः कृत्वा संस्थापयेत्क्रमात्।
पूर्वप्रमाणादधिकं मुख्याकारञ्च (?) नाचरेत् ॥ 23.118 ॥
कारयेत्तुल्यलोहेन देव्यौ नैवाधिकेन च।
यद्यद्विम्बन्तु निर्दुष्टं तत्तन्न त्याज्यमुच्यते ॥ 23.119 ॥
यागशालाग्निकुण्डेषु नित्यमग्निं प्रणीय च।
शक्तिमुद्वास्य तामेव कुम्भे सम्यङ्निवेश्य च ॥ 23.120 ॥
प्रतिष्ठां पूर्ववत्कुर्याद्विवाहं तत्र नाचरेत्।
शक्तौ संस्कृतपूर्वायां न संस्कारान्तरं पुनः ॥ 23.121 ॥
सर्वेषामेव देवानां स्थितायां पुरुषाकृतौ।
स्त्रीबेरनाशे पुरुषबेरनाश्?ोऽथवा स्त्रियाम् ॥ 23.122 ॥
सामान्योऽयं विधिः प्रोक्तः पुनस्सन्धानकर्मणि।
सन्धानकर्तुः फलप्रशंसा
पुनस्सन्धानकर्तुः स्यात्तन्मूलाद्द्विगुणं फलम् ॥ 23.123 ॥
सर्वान् कामानवाप्नोति की?र्तिमान् धनवान् भवेत्।
सर्वपापविनिर्मुक्तो भोगान् भुङ्क्ते महीतले ॥ 23.124 ॥
(जङ्गमेषु च गुप्तेषु परचक्रभयेषु च।
यावत्कालं तदुद्धारः तावत्कालञ्च तत्र वै ॥ 23.125 ॥
कूर्चे भक्त्या समावाह्य ध्यात्वा देवं समर्चयेत्।
उद्धृत्य तानि बिम्बानि शुद्धिद्रव्येण शोधयेत् ॥ 23.126 ॥
कलशैः स्नापयेद्देवं यथाविभवविस्तरम्।
महाशान्तिच्च हुत्वा तु पुण्याहमपि वाचयेत् ॥ 23.127 ॥
ब्राहृमणान् भोजयित्वा तु शक्तितो दक्षिणां ददेत्।
अर्चयेञ्च यथान्यायं हविस्सम्यङ्निवेदयेत्) ॥ 23.128 ॥
जङ्गमेषु च गुप्तेषु हीने च स्थावरार्चने।
महाशान्तिञ्च हुत्वा तु तत्कालानुगुणणं पुनः ॥ 23.129 ॥
पुनः प्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत्।
अर्च्यमानं गृहे बेरं सुन्दरं लक्षणान्वितम् ॥ 23.130 ॥
ध्रुवबेरानुरूपञ्चेद् ग्रामस्यानुगुणं तथा।
लब्धं चेदौत्सवार्थन्तु स्नापनार्थमथापि वा ॥ 23.131 ॥
नित्योत्सवार्थं वा तत्र स्थापयित्वा समर्चयेत्।
तद्विम्बसंस्थितां शक्तिं निवेश्यादित्यमण्डले ॥ 23.132 ॥
ध्रुवात्तस्मिन्त्समावाह्य पूर्ववत्स्थापयेत्सुधीः।
तामेव शक्तिमथवा कुम्भे सम्यङ्निवेश्य च ॥ 23.133 ॥
लौकिकं तत्र संस्थाप्य कुम्भादावाह्य पूजयेत्।
लौकिकस्य प्रतिष्ठायां लौकिकाग्नौ जुहोति वै ॥ 23.134 ॥
एष एव विशेषः स्यादन्यत्सर्वं समं भवेत्।
रूपमिच्छन्ति ये देवा ये न नेच्छन्ति मन्दिरे ॥ 23.135 ॥
पीठकुङ्यकवाटादावर्च्यन्ते सुप्रतिष्ठिताः।
अर्चनाङ्गेषु पात्रेषु यानादिष्वासनादिषु ॥ 23.136 ॥
वापीकूपतटकादिष्वावाह्य चिरमर्चिताः।
नवकर्मणि तेऽर्हन्ति बालागारोचिताः क्रियाः ॥ 23.137 ॥
तस्मात्सर्वप्रयत्नेन मन्त्रतो यः प्रतिष्ठितः।
तं सर्वं नवकर्मादौ जीर्णोद्धारक्रमेण वै ॥ 23.138 ॥
संस्कृत्य नवकर्मान्ते संस्कुर्यात्पुनरेव वै।
(जीर्णोद्धारविधिः प्रोक्तः विस्तरेण मरीचितना)
आदाय नववस्तूनि प्रतिष्ठां वा समाचरेत् ॥ 23.139 ॥
इत्योर्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे नवीकरणप्रायश्चित्तविधिर्नाम त्रयोविंशोऽध्यायः।