एकविंशोऽध्यायः ॐ एकविंशोऽध्यायः चलितस्थापनम् अथ वक्ष्ये (1)विशेषेण चलितस्थापनक्रमम्। पीठात्प्रचलितं बिम्बं सापायस्थलमाश्रिम् (1.) महाविष्णोरन्यत्र स्थापनक्रमं आ. ॥ 21.1 ॥ अन्यस्थले नदीतीरे ग्रामा(2) द्वहिरवास्तुकम्। महापथस्थं यद्वेरमर्चाहीनं विशेषतः (2.) बाह्मेऽपि वास्तुषु क. ॥ 21.2 ॥ जीर्णालयगतं बिम्बं चिरकालमनर्चितम्। अस्थानस्थापितं बेरं चलितञ्च प्रमादतः ॥ 21.3 ॥ अन्यालयगतं बिम्बमन्त्यजातिभिरावृतम्। प्रतिलोमनिवासथां शून्यमूलालयस्थितम् ॥ 21.4 ॥ चालयित्वा विधानेन याने वा शकटेऽपि वा। आरोप्य सुस्थलं नीत्वा कारयेदालयं महत् ॥ 21.5 ॥ प्रासादं गोपुरं वाऽपि विमानं परिकल्पयेत्। अशकृतश्चेद्यथालाभं गर्भालयमथापि वा ॥ 21.6 ॥ तस्मिन् तद्वेरमास्थाप्य प्रतिष्ठां पुनराचरेत्। यः करोति महाविष्णोरन्यत्र स्थापनं महत् ॥ 21.7 ॥ व्याधयस्तसय नश्यन्ति ग्रहपीडाद्युपद्रवाः। दुर्निमित्तानि द्रःस्वप्नचोरशत्रुभयादयः ॥ 21.8 ॥ उपद्रवास्तथाऽन्ये च प्रणश्यन्ति न संशयः। धर्मार्थकाममोक्षाश्च सिद्ध्यन्त्येव न संशयः ॥ 21.9 ॥ कौतुकादिनिष्कृतिः अतः परं प्रवक्ष्यामि कौतुकादिषु निष्कृतिम्। कृत्वा सङ्कीर्णलोहेन लोहेनाविहितेन वा ॥ 21.10 ॥ कातुकं स्थापयेच्चेत्तु क्षिप्रं तदपहाय च पद्माग्नौ परिषन्मन्त्रान् सूक्ते पौरुषवैष्णवे ॥ 21.11 ॥ श्रीब्रह्मरुद्रसूक्तानि व्याहृत्यन्तं हुनेत् पृथक्। दक्षिणान्तु ततो दद्याद्बुह्मणानपि भोजयेत् ॥ 21.12 ॥ ध्रुवकौतुकयौः सारूप्यम् यदाकारं ध्रुवं कुर्यात्तदाकारन्तु कौतुकम् ॥ 21.13 ॥ आसीनं वा स्थितं वाऽपि शयानं नैव कौतुकम्। स्थानके स्थानकं प्रोक्तमासपने स्थानकासने ॥ 21.14 ॥ आसीनं स्थानकं वाऽपि शयाने परिकल्पयेत्। स्थापितं विपरीतं चेत् त्रयस्त्रिंशद्गणान् यजेत् ॥ 21.15 ॥ वैध्नं सौरं गारुडञ्च शान्तिं वै पाञ्चभौतिकम्। दुर्गासूक्तं विष्णुसूक्तं सूक्तं तत्पौरुषं यजेत् ॥ 21.16 ॥ ब्राह्मणान् भोजयित्वा तु पुण्याहमपि वाचयेत्। यथोक्तं कौतुकं कृत्वा प्रतिष्ठामाचरेत्पुनः ॥ 21.17 ॥ अवतारविषये पौराणिकप्रदेशेषु च विशेषः यथेष्टं कारयेद्बुपमिति प्रोवाच पूर्वजः ॥ 21.18 ॥ पौराणिकेषु स्थानेषु यथापूर्वं तथा चरेत्। अन्यथा तुन कर्तव्यं यदि कुर्याद्विनश्यति ॥ 21.19 ॥ ?Bतच्छान्त्यै पौण्डरीकाग्नौ सूक्ते वैष्णवपौरुषे। हुत्वा तु दक्षिणां दत्वा यथापूर्व तथा चरेत् ॥ 21.20 ॥ पूर्वमाग्नेयबिम्बञ्च सौम्येन स्थापितं यदि। तद्वेरजीर्णोद्धारेऽपि कुर्यात्पूर्ववदेव हि ॥ 21.21 ॥ सुवर्णादन्यलोहेन मिश्रलोहेन कौतुकम्। स्थापितञ्चेन्महादोषो भविष्यति न संशयः ॥ 21.22 ॥ आलयाद्दक्षिणेऽब्जाग्नौ ब्राह्मं सौरञ्च सौम्यकम्। आग्नेयं गारुडं हुत्वा सूक्ते वैष्णवपौरुषे ॥ 21.23 ॥ ईङ्कारा’ र्दीस्ततो हुत्वा तद्विम्बमपहाय च। उक्तलोहेन कृत्वा तु विधिना स्थापयेत्पुनः ॥ 21.24 ॥ प्रतिष्ठाप्यार्च्चमानन्तु लोहजं कौतुकं शुभम्। त्यक्त्वाऽन्यत्थापयेच्छेत्तदाभिचारिकमुच्यते ॥ 21.25 ॥ दिग्दैवतृयं पुरुषसूक्तं विष्णुसूक्तमतः परम्। श्रीसूक्तञ्चैव जुहूयाद्दुर्गासूक्तं सवैष्णवम् ॥ 21.26 ॥ अङ्गहोमं ततो हुत्वा विश्वजित्सूक्तमेव च। पूर्वं यद्विमृबमादाय स्थापयेत्तु विचक्षणः ॥ 21.27 ॥ तत्रैवान्यन्नवं बेरं स्थापयित्वा च लौकिकम्। यथालाभोपचारैस्तु पूजयेदिति शासनम् ॥ 21.28 ॥ विवर्णे स्फुटिते रूक्षे सुषिरे जर्झरान्विते। वर्जिते लक्षणैश्चापि स्थापिते सति कौतुके ॥ 21.29 ॥ अन्यद्विम्बं समादाय सूक्ते वैष्णवपौरुषे। वैष्णवञ्चैव कूष्माण्डं ब्राह्ममैन्द्रञ्च वायवम् ॥ 21.30 ॥ गारुडञ्च सकृद्धुत्वा वैष्णवं साष्टकं शतम्। महाव्याहृतिभिर्हुत्वा पूर्ववत्स्थापयेत्पुनः ॥ 21.31 ॥ प्रतिष्ठाप्य कृतं बेरं त्यक्त्वान्यत्स्थापयेद्यदि। आलयस्योत्तरेऽब्जाग्नौ विष्णुसूक्तं जुहोति च ॥ 21.32 ॥ दौर्गञ्च पौरुषं सूक्तं ब्रह्मसूक्तं यजेत्पुनः। रुद्रसूक्तं ततो हुत्वा पुनराहवनीयके ॥ 21.33 ॥ वैष्णव व्याहृतीश्चापि महाव्याहृतिसंयुतम्। हुत्वा साष्टशतं बेरं पूर्वं संस्थापयेत्पुनः ॥ 21.34 ॥ ततोऽन्यत्र नवं बेरं स्थापयित्वा समर्चयेत्। अन्यालयार्थ वा दद्याद्याचितं चेन्महत्फलम् ॥ 21.35 ॥ अर्चारहितबेरदोषः निर्दुष्टबेरस्य त्यागनिषेधः बेरमर्चाविहीनञ्चेत्सर्वनाशकरं भवेत्। निर्दोषं लक्षणैर्युक्तं न त्याज्यमिति शासनम् ॥ 21.36 ॥ शङ्खचक्रगदापद्मधरं केवलमुक्तिदम्। शङ्खचक्रधरं श्रेष्ठं भुक्तिमुक्तिफलप्रदम् ॥ 21.37 ॥ शङ्खचक्रगदाधरं पूर्ववदर्चितम्। पुनश्च बेरनिर्माणे तत्तथैव प्रकल्पयेत् ॥ 21.38 ॥ कुर्यात्तस्यापि सौम्येन प्रतिष्ठामर्चनादिकम्। मधूच्छिष्टक्रियाहीने मधूच्छिष्टक्रियाहीने लोहबेरे कृते सति ॥ 21.39 ॥ ब्राह्मञ्च सौरं सौम्यञ्च सारस्वतसमन्वितम्। प्राजापत्यं तथाऽऽग्नेयं वैष्णवं व्याहृतीरपि ॥ 21.40 ॥ हुत्वा विप्रांश्च सम्पूज्य दक्षिणां गुरवे ददेत्। शिलाविपर्यासे पुंरूपं पुंशिलाभिश्च स्त्रीरूपं शिलंया स्त्रिया ॥ 21.41 ॥ स्त्रिया नपुंसकेनाथ पुंरूपन्तु कृतं यदि। आभिचारिकमित्युक्तं तेन सर्व विनश्यति ॥ 21.42 ॥ स्थापितञ्चेत् परित्यज्य बेरमन्यत्समाहरेत्। नपुंसकेन पुंसा वा देवीबेरं कृतं त्यजेत् ॥ 21.43 ॥ यथोक्तशिलया बेरमाहृत्यान्यद्विधानतः। षडग्नीन् साधयित्वा तु परिषिच्य च पावकम् ॥ 21.44 ॥ पारमात्मिकमीङ्काराद्यष्टाशीतिं जयादिभिः। रात्रिसूक्तञ्च जुहुयाद्विश्वजित्सूक्तमेव च ॥ 21.45 ॥ ब्रहृमेन्द्रविष्णुसूक्तांश्च नरसूक्तं सरौद्रकम्। दूर्गासूक्तञ्च सर्वेषु शतमष्टोत्तरं यजेत् ॥ 21.46 ॥ पद्महोमञ्च जुहुयात्पाञ्चभौतिकसंयुतम्। पुण्याहं वाचयेद्विप्रान् भोजयित्वा ततः परम् ॥ 21.47 ॥ हिरण्यपशुभूम्यादीन् दत्वा तत्र मुदान्वितः। वस्त्रोत्तरीयाभरणैराचार्य पूजयेत्पुनः ॥ 21.48 ॥ एवं हुत्वा महाशान्तिं तथा स्थापनमाचरेत्। (1)शिलाभेदे च दोषेषु सर्वेष्वेषु विधिः स्मृतः (1.) शिलाजेषु च दोषेषु क. ॥ 21.49 ॥ देवं देव्यौ च कुर्याच्चे(2) द्दिवबेरञ्चैकवस्तुना। अन्यथा यदि तत्रापि प्रायश्चित्तञ्च पूर्ववत् (2.) द्वाभ्यामेकेन वस्तुना क. ॥ 21.50॥ प्रतिष्ठिते ध्रुवे अन्यत्र स्थापिते अन्यत्र स्थापितं पूर्वं ध्रुवबेरं ततः परम् ॥ 21.51 ॥ आदायान्यत्र न स्थाप्यं स्थापितं चेत्प्रमादतः। महाशान्तिं ततो हुत्वा बिम्बमादाय वै ततः ॥ 21.52 ॥ पूर्वस्मिन्नालये सम्यक् स्थापयित्वा समर्चयेत्। अविधिना स्थापिते बिम्बे अविधि कम लक्षण्यमयुक्तञ्चाप्रयोजकम् ॥ 21.53 ॥ विरूपं वा विवर्ण वाऽप्यन्यदोषेण संयुतम्। त्यक्त्वान्यद्विधिना कृत्वा लक्षणेन समन्वितम् ॥ 21.54 ॥ लदालये प्रतिष्ठाप्य महाशान्तिश्च हूयते। आलयाद्दक्षिणेऽबजाग्नौ अङ्गहोमस्सुहूयताम् ॥ 21.55 ॥ तत्तद्दैवत्यसंयुक्तं परिषन्मन्त्रसंयुतम्। व्याहृतिर्विष्णुसूक्तञ्च सूक्तं ब्राह्मञ्च पौरुषम् ॥ 21.56 ॥ वैष्णवं पद्महोमश्च होतव्यं पारमात्मिकम्। हुत्वैव दक्षिणां दत्वा स्थापनं पुनराचरेत् ॥ 21.57 ॥ यत्र कर्तृस्मृतिस्तत्र विधिरेष प्रवर्तते। दिव्यादिस्थले विशेषः दैविके चार्षिके क्षेत्रे यथापूर्व तथा चरेत् ॥ 21.58 ॥ अविधिकमलक्षण्यमप्रमाणं न दोषकृत्। तस्मात्सर्वप्रयत्नेन यथापूर्व तथा चरेत् ॥ 21.59 ॥ अन्यथा चेन्महादोष इति पूर्वजशासनम्। कौतुकबेरस्यान्यत्र स्थापने एकस्मिन्नलये बिम्बं कौतुकं स्थापितं तु यत् ॥ 21.60 ॥ अन्यत्र स्थापितं चेत्तु पद्माग्नावालयोत्तरे। सवैष्णवं तद्दैवत्यं चरिषमन्न्त्रसंयुतम् ॥ 21.61 ॥ ब्रह्मसूक्तं रुद्रसूक्तं पारमात्मिकमेव च। ‘ईङ्कारादी’ स्तथाष्टाशीत्यङ्गहोमं ततः परम् ॥ 21.62 ॥ रात्रिसूक्तञ्च जुहुयाद्विश्वजित्सूक्तमेव च। आदाय पूर्ववत्स्थाने स्थापयेत्सर्वयत्नतः ॥ 21.63 ॥ परचक्रभयादिष कर्तव्यक्रमः परचक्रभयोद्रेकादथया चोरपीडया। ग्रामालयविनाशो तु जनसञ्चारवर्जिते ॥ 21.64 ॥ बालालयप्रकारेण होमं हुत्वा यथाविधि। ध्रुवबेरगतां शक्तिं जङ्गमेषु निवेश्य च ॥ 21.65 ॥ निर्भयान्यालयं नीत्वा पूजयेच्चेन्महाफलम्। ब्राह्मणैरेव सर्वाणि तानि बेराणि वाहयेत् ॥ 21.66 ॥ नित्याग्निकुण्डमासाद्य परिषिच्य च पावकम्। आज्येन साज्यचरुणा शान्तिहोमं जुहोति च ॥ 21.67 ॥ समिध्यात्मनि वाऽऽरोप्य नित्याग्निञ्च यथाविधि। प्रवेश्य निर्भयं देशं तत्र सौम्याऽलये पुनः ॥ 21.68 ॥ आग्नेयमन्दिरे वाऽपि यतीनामाश्रमेषु च। सौम्यमार्गान्यदेवानामालयेषु मठेषु वा ॥ 21.69 ॥ गृहेषु वा गृहस्थानामुपकार्यासु वा पुनः। एतेष्वेकं प्रवेश्यैव पूर्वालाभे तथोत्तरे ॥ 21.70 ॥ सौम्यालयान्यदेशेषु वास्तुहोमावसानके। ततस्सर्वाणि बिम्बानि शुद्धौदैरभिषेचयेत् ॥ 21.71 ॥ विना प्रधानस्थानञ्च परिवारालयं तथा। रमणीयप्रदेशेषु विस्तीर्णेषु निवेशयेत् ॥ 21.72 ॥ यथापूर्वमुखं वाऽथ विस्तीर्णाभिमुखन्तु वा। प्रतिष्ठाप्य यथालाभं नित्यं विधिवदर्चयेत् ॥ 21.73 ॥ तस्यैव परितस्सर्वपरिवारान् समर्चयेत्। तां होमकाले समिधं लौकिकाग्नौ निधाय च ॥ 21.74 ॥ हुत्वा होमावसानेऽन्यसमिध्यारोपयेत्पुनः। अथवा पूर्ववत्कुण्डं कृत्वाऽथाऽत्रापि पूर्ववत् ॥ 21.75 ॥ रक्षन्नग्निमविच्छिन्नं नित्यहोमं समाचरेत्। नित्ययात्रोत्सवेनापि विना वर्षोत्सवेन च ॥ 21.76 ॥ नित्यैनैमित्तिकेरन्यैर्यथालाभं समर्चयेत्। मूलालयार्चनं यावद्युक्तं तावत्तु तत्र वै ॥ 21.77 ॥ नित्यमेवं यथालाभमर्चयेदिति शासनम्। भये तत्र विमुक्ते तमग्निमारोप्य पूर्ववत् ॥ 21.78 ॥ पूर्वालये तु बिम्बानि समानीय च पूर्ववत्। वास्तुहोमं ततो हुत्वा पर्यग्निकरणं तथा ॥ 21.79 ॥ पञ्चगव्योक्षणं कृत्वा महाशान्तिं जुहोति च। तां लोकिकाग्नौ समिधं निधायाधारमाचरेत् ॥ 21.80 ॥ देवं विशेषतोऽभ्यर्च्य रात्रिपूजावसानके। औत्सवार्चागतां शक्तिं कौतुके तु निवेशयेत् ॥ 21.81 ॥ पूर्ववत्साधिते कुम्भे समावाह्य तु कौतुकात्। प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ॥ 21.82 ॥ सभ्यञ्च पौण्डरीकञ्च द्वावग्नी इति केचन। कुर्यान्नित्याग्निविच्छेद पञ्चाग्नीनेव पूर्ववत् ॥ 21.83 ॥ हौत्रकर्मावसाने तु चाऽवाह्य परिषद्णान्। तानेव परितेऽभ्यर्च्य तत्तन्मन्त्रां जुहोति च ॥ 21.84 ॥ मूलालयर्चने अविच्छिन्ने विशेषः मूलालये ध्रुवे नित्यमविच्छिन्नार्चने सति ॥ 21.85 ॥ तत्तद्विम्बगतां शक्तिं ध्रुवे सम्यङ्निवेश्य च। तस्मादावाहयेद्विम्बे सर्वमन्यत्समं भवेत् ॥ 21.86 ॥ एवं कर्तुमशक्तश्चेद्ध्बुवपूजां समाचरेत्। भयरक्षार्थनिष्कृतिः अतः परं प्रवक्ष्यामि भयरक्षार्थनिष्कृतिम् ॥ 21.87 ॥ चोरशत्रुभये वाऽथ परचक्रभयेऽथवा। रक्षार्थं कौतुकादीनां स्नापनौत्सवबेरयोः ॥ 21.88 ॥ अन्यलौकिकबिम्बानां प्रादुर्भावगणस्य च। जङ्गमाः प्रतिमाश्चैव भूमिगुप्तिक्रियोचिताः(?) ॥ 21.89 ॥ गुप्ते चैव शुचौ देशेऽप्यवटं खानयेद्बुधः। सिकतास्तत्र निक्षिप्य महीदेवीं समर्चयेत् ॥ 21.90 ॥ ‘आपो हि’ ष्ठेति मन्त्रेण सम्प्रोक्ष्य च यथाविधि। आचार्योऽप्यर्चको वाऽपि यजमानयुतस्तथा ॥ 21.91 ॥ देवागारं प्रविश्यैव भक्तैस्सार्धं प्रणम्य च। ‘यावत्कालं भयं माभूत्तावतृकालं महाप्रभो ॥ 21.92 ॥ अत्रे देशे श्रिया भूम्या वस त्वं वै जनार्दन’। इति मन्त्रेण देवेशमनुमान्य यथाविधि ॥ 21.93 ॥ कौतुकादिषु बिम्बेषु तथा पारिषदेषु च। आहितां शक्तिमादाय ध्रुवे चारोपयेद्बुधः ॥ 21.94 ॥ ‘परं रंहे’ ति मन्त्रेण देवमादाय यत्नतः। ‘प्रतद्विष्णु स्तव’ तेति देवं सन्नम्य चादरात् ॥ 21.95 ॥ ‘यद्वैष्णव’ मिति प्रोच्य प्राक्र्छिरश्शाययेत्तथा। अवटं सिकताभिश्च मृत्तिकाभिश्च पूरयेत् ॥ 21.96 ॥ सुदृढं कारयेत्पश्चादालयान्तः प्रविश्य च। देवदेवं प्रणम्यैव जीवस्थाने च सन्न्यसेत् ॥ 21.97 ॥ कूर्चं तत्र समभ्यर्च्य नित्यं ?नैमित्तिकं चरेत्। ध्रुवबेरात्तथा शक्तिं कूर्चे चाऽवाह्य पूजयेत् ॥ 21.98 ॥ तत्रापि भयसन्देहे विध्निते चापि पूजने। अर्चकस्त्वरितो गत्वा देवं ध्यात्वा समाहितः ॥ 21.99 ॥ ‘आयातु भगवानि’ ति च ‘याते अग्न’ इति ब्रुवन्। बेरस्थां शक्तिमग्निञ्च स्वात्मन्यारोप्य शीघ्रतः ॥ 21.100 ॥ जपन् शकुनसूक्तन्तु गुप्तं देशं समाश्रयेत्। यथासुखं तथा गच्देत्प्रमादरहितं स्थलम् ॥ 21.101 ॥ यदि स्यात्स्वर्णजं बिम्बं गृहीत्वा सह गच्छति। तत्राऽवाह्यार्चयेन्नित्यमुत्सवादीनि कारयेत् ॥ 21.102 ॥ बल्युत्सवाभ्यां रहितं नित्यं नेमित्तिकं तथा। अभ्युक्षणञ्च स्नपनं यथा शक्तिं च कारयेत् ॥ 21.103 ॥ सुवर्णबिम्बरहिते कूर्चे सर्वञ्च कारयेत्। वर्तमानेऽर्चनेप्येवमर्चके व्याधिपीडिते ॥ 21.104 ॥ शक्यावाहनतः पूर्वमर्चकं मृतिसंशये। तत्काले त्वरितस्सोऽपि स्वपुत्रेषु च भ्रातृषु ॥ 21.105 ॥ देवशक्तिं तदग्निञ्च सम्यगारोपयेब्द्बुधः। पुत्रे भातरि भष्टेऽपि कुर्चे चाऽवाह्य चादरात् ॥ 21.106 ॥ आराधयेदेवमेव भयनिर्हरणे पुनः। काले स्वस्थे तथा देशे बिम्बान्युत्थाप्य चादरात् ॥ 21.107 ॥ संशोध्य चाऽलयं सर्वं पुण्याहमपि वाचयेत्। अस्पृश्यस्पर्शने चैव वास्तुहोञ्च कारयेत् ॥ 21.108 ॥ चण्डालाद्यन्त्यजातैश्च बिम्बे स्पृष्टेऽथवा पुनः। कृत्वा जलाधिवासादीन् प्रतिष्ठां पुनराचरेत् ॥ 21.109 ॥ कालापेक्षां न कुर्वीत कृत्वा वाऽप्यङ्कुरार्पणम्। प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां सम्यगाचरेत् ॥ 21.110 ॥ अर्चको हृद्गतां शक्तिं कुम्भे चाऽवाहयेत्क्रमात्। एष एव विशेषः स्यादन्यत्सर्वञ्च पूर्ववत् ॥ 21.111 ॥ नित्यार्चनविधानेन नितृयपूजां समाचरेत्। नित्यहोमञ्च हुत्वा तु बलिं तत्र प्रदापयेत् ॥ 21.112 ॥ औत्सवादिष्व्लब्धेषु सर्वं कुर्याच्च कौतुके। (बिम्बानि खानयेद्भूमौ गुप्ते देशे सुरक्षितम् ॥ कौतुकादिगतां शक्तिं ध्रुवबेरे निवेश्य च। पुनर्दर्भास्तृते श्वभ्रे निखनेत्सुदृढं यथा ॥ पूर्ववत्प्रार्थनामन्त्रमुक्त्वा सम्यग्विधायते। ‘यावत्कालं भयं नास्ति तात्कालन्तु तत्र वै ॥ अत्र देशे श्रिया भूम्या वस त्वं हे जनार्दन’। इत्युक्त्वा प्रार्थनामन्त्रं जप्त्वा देवं प्रणम्य च ॥ कौतुकादीन् समावाह्य तस्मिन् गर्ते तु शाययेत्। सिकताभिः प्रपूर्यैव तद्गर्त सुदृढं यथा ॥ तत्तत्स्थानेषु सर्वेषु द्वादशाङ्गुलसम्मितम्। सन्न्यस्य कूर्चं प्रत्येकं तत्राऽवाह्य समर्चयेत् ॥ अर्चनान्ते पुनस्तस्मादुद्वासनमथाऽचरेत्। स्नपने तत्र सम्प्राप्ते ध्रुवे बद्ध्वैव कौतुकम् ॥ 21.113 ॥ तस्मात्कूर्चे समावाह्य तद्द्रव्यैः प्रोक्षणं चरेत्। समभ्यर्च्य निवेद्यैव तथैवोद्वासयेत्पुनः ॥ 21.114 ॥ कालोत्सवस्य सम्प्राप्तौ ध्वजमारोप्य पूर्ववत्। होमञ्च बलिदानञ्च नित्यं विधिवदाचरेत् ॥ 21.115 ॥ चक्रवीशामितान् पात्रेष्वावाह्याऽभ्यर्चा चरेत्। विधिनां बलिमाराध्य प्रदक्षिणमथाऽचरेत् ॥ 21.116 ॥ उत्सवान्ते बलेश्शक्तिं ध्रुवबेरे निवेश्य च। तस्मात्कूर्चे समावाह्य प्रभूतञ्च निवेदयेत् ॥ 21.117 ॥ ध्रुवबेरे समारोप्य दद्यात्पुष्पाञ्जलिं पुनः। ततस्तीर्थदिने प्रातरुत्सवे च कृते सति ॥ 21.118 ॥ निशाचूर्णाभिषेकञ्च स्नपनं कलशैरपि। कृत्वा तु कूर्चे देवाग्रे स्नपनं पुनराचरेत् ॥ 21.119 ॥ आरम्भदिवसे कुम्भं संसाध्य ध्रुवबेरतः। दीपाद्दीपमिवावाह्ये तेन कृत्वोत्सवं पुनः ॥ 21.120 ॥ तीर्थान्ते स्नपनान्ते तु पुनरुद्वासयेद्ध्रुवे। कालोत्सवे तु विच्छिन्ने प्रायश्चित्तं समाचरेत् ॥ 21.121 ॥ सुकाले बिम्बमुद्धृत्य प्रतिष्ठां पुनराचरेत्। सभ्याब्जकुण्डे द्वे कृत्वा नित्यमग्नि प्रणीय च ॥ 21.122 ॥ पुनःप्रतिष्ठामार्गेण सुर्व कुर्याद्यथाविधि। कौतुकादिषु गुप्तेषु विच्छिन्ने वा ध्रुवार्चने ॥ 21.123 ॥ कृत्वा तु ध्रुवबेरस्य अर्चनाहीननिष्कृतिम्। तस्मात्तु कौतुकादीनां प्रतिष्ठामाचरेत्पुनः ॥ 21.124 ॥ चण्डालाद्यन्त्यजस्पर्शे प्रायश्चित्तं तदीरितम्। हुत्वा शुद्धिं पनुः कृत्वा प्रतिष्ठां पुनराचरेत् ॥ 21.125 ॥ अङ्गहीनं यदि भवेत् ध्रुवबेरं तदेव हि। अयुक्तं यदि चोद्धर्तु कौतुकस्नापनौत्सवाः ॥ 21.126 ॥ कृत्वा च दारवं बिम्बं याचितं बिम्बमेव वा। बालालये प्रतिष्ठाप्य नवकरणमाचरेत् ॥ 21.127 ॥ महापरितिष्ठामार्गेण प्रतिष्ठीं, पुनराचरेत्। (भिन्ने घटे यथाकाशं महाकाशे प्रलीयते ॥ 21.128 ॥ बेरनाशे तथा शक्तिर्विश्वस्मिन्नेनेव लीयते ।) प्राक्प्रत्यग्दक्षिणादिक्षु विदिक्षु च तथाऽऽनते ॥ 21.1़29 ॥ कुक्षिच्छिद्रे तथा दीर्घे पार्श्वहीने कटिक्षये। ऊरूजङ्घाक्ष्ये चैव मुखशोषे तथैव च ॥ 21.130 ॥ मकुटे दोषसंयुक्ते सर्वोपाङ्गक्षये तथा। प्रमाणपरिहीने च पादगुल्फक्ष्ये तथा ॥ 21.131 ॥ कर्णनासाक्षये चापि क्षिप्रं शा?न्तिञ्च कारयेत्। आलयाद्दक्षिणे चाग्नौ जुहुयात्पारमात्मिकम् ॥ 21.132 ॥ ‘ईङ्कारादीं श्च जुहुयादष्टाशीत्याहुतिं तथा। तद्दैवत्यञ्च जुहुयादष्टोत्तरसहस्रकम् ॥ 21.133 ॥ ब्राह्मणान्भोजयित्वैव दद्यादाचार्यदक्षिणाम्। तत्तल्लक्षणसम्पन्नं कृत्वा संस्थापयेत्पुनः ॥ 21.134 ॥ तत्तदुकृतपदादन्यपदेषु स्थापयेद्य?दि। ऊर्ध्वदृष्ट्यादिदोषेषु ऊर्ध्वष्टृष्ट्यामधोदृष्ट्यां तिर्यग्दृष्ट्यां तथैव च ॥ 21.135 ॥ असौम्यक्रूरदृष्ट्याञ्च प्रायश्चित्तं समाचरेत्। वैष्णवं पश्चिमेऽब्जाग्नौ तद्दैवत्यं शताष्टकम् ॥ 21.136 ॥ ‘ईङ्कारादी’ स्तु जुहुयादष्टाशीतिमतः परम्। भोजयित्वा तथा विप्रानाचार्यादींश्च पूजयेत् ॥ 21.137 ॥ संस्थाप्योक्तपदे सम्यग्विधिना चार्चयेत्पुनः। ध्रुवकौतुकपीठे ध्रुवकौतुकयोः पीठे मानहीनेऽधिकेऽपि च ॥ 21.138 ॥ तद्दैवत्यञ्च जुहुयादष्टाधिकसहस्रकम्। मन्त्रैश्च परिवाराणां हुत्वा विप्रांश्च भोजयेत् ॥ 21.139 ॥ सलक्षणं तथा पीठं कृत्वा संस्थापयेत्पुनः। रत्नन्यासवहीने तु (1)पीठसङ्खातकर्मणि (1.) पद्मसङ्घातकर्मणि क. ॥ 21.140 ॥ चालयित्वा ततः पीठाच्छान्तिहोमावसानके। सत्नन्?यासं तथा कृत्वा पुनस्सङ्घातमाचरेत् ॥ 21.141 ॥ रत्नन्यासे कृते पद्मसङ्घाते मन्त्रवर्जिते। शान्तिं हुत्वा विधानेन तत्तन्मन्त्रं स्पृशन् जपेत् ॥ 21.142 ॥ यद्याग्नेयविधानेन केवलं शिल्पिनाऽथवा। कृते तु पद्मसङ्धाते संस्राप्य कलशैस्तथा ॥ 21.143 ॥ हुत्वा पश्चान्महाशान्तिं तत्तन्मन्त्रं जपेत्तथा। तथैव मूलबेरे तु स्थापिते केवलस्थले ॥ 21.144 ॥ देवं विशेषतोऽभ्यर्च्य ‘क्षम’ स्वेति प्रणम्य च। कुम्भे देवं समावाह्य पीठं कृत्वा सलक्षणम् ॥ 21.145 ॥ पीठे देवं समारोप्य शान्तिं हुत्वा यथाविधि। पर्यग्निपञ्चगव्याभ्यां पुण्याहेन च शोधयेत् ॥ 21.146 ॥ पञ्चगव्याधिवासादीन् कृत्वा संस्नाप्य पूर्ववत्। प्रतिष्टोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ॥ 21.147 ॥ नवाहं वाऽथ सप्ताहं त्रियहन्तु वा। देवं विशेषतोऽभ्यर्च्य ‘क्षम’ स्वेति प्रणम्य च ॥ 21.148 ॥ ब्राह्मणान् भोजयित्वा तु दद्यादाचार्यद?क्षिणाम्। इत्यार्षो श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सं?हितायां क्रियाधिकारे कौतुंकबेरप्रायश्चित्तविधिर्नामैकविंशोध्यायः ॥