20 विंशोऽध्यायः

विंशोऽध्यायः


विंशोऽध्यायः
भूपरीक्षादिप्रायश्रित्तम्
अतः परं प्रवक्ष्यामि भूपरीक्षादिनिष्कृतिम्।
प्रायो दोषसमुत्पत्तिः (1)चित्तिस्तस्य निरासनम् (1.) चित्तम् क. ॥ 20.1 ॥
तस्य दोषस्य सन्धानं प्रायश्चित्तमितीरितम्।
तदेव दिनमारभ्य नवमे वाऽथ सप्तमे ॥ 20.2 ॥
पञ्चमेऽहनि वा कुर्यात्पूर्वमेवाङ्कुरार्पणाम्।
अङ्कुरार्पणहीने
अङ्कुरार्पणहीने तु भूपरीक्षादिकर्मणाम् ॥ 20.3 ॥
ब्रहृमादीनान्तु षण्णां वै मन्त्रेर्हुत्वा तु वैष्णावैः।
पालिकाधिपतीनाञ्च जयादीनाञ्च मूर्तिभिः ॥ 20.4 ॥
कृत्वाऽङ्कुरार्पणं पश्चात्तत्तत्कर्म समाचरेत्।
पालिकानामभावे तु शरावान्वा समाहरेत् ॥ 20.5 ॥
दर्भैर्दग्ध्वोपयुक्तान्वा गृह्णीयादिति केचन।
विशेषार्चनहीने तु द्विगुणञ्च समर्चयेत् ॥ 20.6 ॥
अष्टोपचारैरभ्यर्च्य हविम्सम्यङ्निवेदयेत्।
विशेषार्चनमित्युक्ते सर्वत्र द्विजसत्तमाः ॥ 20.7 ॥
विशेषेणार्चनं कुर्यात्कौतुके चाङ्कुरार्पणे।
अन्यालयाङ्गबिम्बानामुत्सवाद्यङ्कुरार्पणे ॥ 20.8 ॥
विशेषतोऽर्चनं यत्तत्बेर एव समाचरेत्।
प्रमाणहीनायां पङ्क्तौ यजेत्पङ्कीशमूर्तिभिः ॥ 20.9 ॥
सप्तहस्तप्रमाणञ्चेत् स्थण्डिलं कल्पयेत्पदम्।
पञ्चहस्तप्रमाणञ्चेदुपपीदुपपीठपदं नयेत् ॥ 20.10 ॥
पङ्क्तिंस्त्रिहस्तमाना चेत्कुर्यान्नवपदं तथा।
सप्तसप्तपदे मध्ये चैकं ब्राह्ममुदाहृतम् ॥ 20.11 ॥
परितोऽष्टौ जयादीनां तद्वहिष्षोडशे पदे।
कल्पयित्वा तु तद्वाह्ये चतुर्विंशतिके पदे ॥ 20.12 ॥
दिक्षु द्वाराणि चत्वारि शेषादीनां पदाष्टकम्।
द्वाराणां पार्श्वयोश्शेषाः पालिकास्थापनाय वै ॥ 20.13 ॥
शेषञ्च वक्रतुण्डञ्च प्राग्द्वारोभयपार्श्वयोः।
वामदक्षिणयोः पूज्यौ चक्रवीशौ तु दक्षिणे ॥ 20.14 ॥
पङ्त्तीशशङ्खौ वारुण्यां सोमशान्तावुदग्दिशि।
एवमेव प्रकुर्वीत सप्तसप्तपदे तथा ॥ 20.15 ॥
पञ्चपञ्चपदे मध्ये ब्रह्मणश्चैकमुच्यते।
परितोऽष्टौ जयादीनां तद्वहिष्षोउशांशके ॥ 20.16 ॥
दिक्षु द्वाराणि चत्वारि शेषादिंस्तेषु पूजयेत्।
शेषविध्नेशपङ्क्तीशसोमांस्तद्छवरपार्श्वगान् ॥ 20.17 ॥
ईशानसोमयोर्मध्ये विष्वक्सेनं समर्चयेत्।
शिष्टानि पालिकादीनां स्थापनाय प्रकल्पयेत् ॥ 20.18 ॥
मध्ये नवपदे चैकं ब्रह्मणः परिकीर्तितम्।
शेषादीनां जयादीनां पालिकानां तथैव च ॥ 20.19 ॥
तद्वहिश्च पदेष्व्ष्ठस्वष्टावेवात्र पालिकाः।
अङ्कुरार्पणमारभ्य तृतीये पञ्चमेऽथवा ॥ 20.20 ॥
सप्तमे नवमे वाऽह्रि तत्तत्कर्म समाचरेत्।
अतश्चोर्ध्वमयुग्मेषु दिनेष्वेव यथाविधि ॥ 20.21 ॥
महाशान्तिञ्च हुत्वा तु कृत्वा सद्योऽङ्कुरार्पणम्।
ब्राह्मणान्भोजयित्वा तु तत्तत्कर्म समाचरेत् ॥ 20.22 ॥
कर्मणां साधिवासानां सद्यश्चेङ्कुरार्पणम्।
कारयेत्पूर्वरात्रौ तु पूर्वमेवाधिवासनम् ॥ 20.23 ॥
कृत्वाऽक्षिमोचनं पश्चात् जलादिष्वधिवास्य च।
वास्तुहोमादिकं कर्म पूर्ववत्सर्वमाचरेत् ॥ 20.24 ॥
दिनद्वयेऽप्यलब्धे तु सद्यः कर्तृ त्वरान्वितः।
कृत्वाऽङ्कुरार्पणं सद्यो नयनोन्मीलनादिकम् ॥ 20.25 ॥
कृत्वा सद्यस्तदह्र्येव स्थापयेदिति केचन।
भूपरीक्षायाम्
भूपरीक्षामकृत्वा तु कृतं तत्कर्षणं यदि ॥ 20.26 ॥
भूसूक्तं भूमिदैवत्यं हुत्वा भूमिं परीक्ष्य च।
पुनश्च कर्षणं कुर्यादिति पूर्वजशासनम् ॥ 20.27 ॥
अकाले भूपरीक्षायां तथैव जुहुयाद्बुधः।
परीक्षेत शुभे काले भूमिं पूर्वेक्तमार्गतः ॥ 20.28 ॥
भूपरीक्षणकाले तु दुर्निमित्तसमुद्भवे।
वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ 20.29 ॥
हुत्वा तु विष्णुगयत्र्या सावित्र्याऽष्टशतं यजेत्।
शाकुनं स्वस्तिसूक्तञ्च दशकृत्वो जपेत्तथा ॥ 20.30 ॥
कन्याया भोजने हीने दौर्ग हुत्वा तु भोजयेत्।
कन्याया दीपविच्छेदे पतने पङ्कजस्य च ॥ 20.31 ॥
हुत्वा श्रीसूक्तदैवत्ये पश्चात्कर्म समाचरेत्।
गृह्णीयात्पङ्कजाभावे कुमुदं धवलं (1)नवम् (1.) शुभं क. ॥ 20.32 ॥
आरभेत क्रियास्सर्वास्समभ्यर्च्य विनायकम्।
विनायकार्चने हीने तन्मन्त्रेण शतं यजेत् ॥ 20.33 ॥
कर्षणे
कर्षणे च कृते काले क्रियाहीने तथैव च।
विपर्यासे च सर्वत्र भूसक्तं भूमिदैवतम् ॥ 20.34 ॥
हुत्वा तत्तत्प्रकुर्वीत तत्तन्मन्त्रं समुच्चरन्।
उक्तवृक्षस्य चालाभे हलादीनां यथाक्रमम् ॥ 20.35 ॥
तद्वृक्षाधिपमभ्यर्च्य शक्तितो दक्षिणां ददेत्।
वैष्णवं भूमिदैवत्यं यजेत्तत्र विधानतः ॥ 20.36 ॥
उक्तप्रमाणहीनेषु हलादिषु तथैव च।
प्राजापत्यञ्च याम्यञ्च रौद्रं भौतिकसंयुतम् ॥ 20.37 ॥
आदावन्ते च जुहुयाद्व्याहृत्यन्तं सवैष्णवम्।
भेदे छेदे तथा तेषां रज्जुच्छेदे तथैव च ॥ 20.38 ॥
(1)वृषभाङ्गविहीने च पद्माग्नौ वैष्णवं यजेत्।
ब्राह्मञ्च वीशदैवत्यं प्राजापत्यञ्च भौतिकम् (1.) वृषभावङ्गहीनौ चेत् क.
॥ 20.39 ॥
आर्षानपि च मन्त्राश्च तद्दैवत्यसमन्वितम्।
??कापिलेन घृतेनैव महाव्याहृतिभिर्यजेत् ॥ 20.40 ॥
देवेशमर्चययित्वा तु रुप्यं दद्याद्यथोदयम्।
व्रणयुक्ते तु तत्काले सूक्ते वैष्णवपौरुषे ॥ 20.41 ॥
मिन्दाहुती च विच्छिन्नं हुत्वाऽचार्याय दीयताम्।
निष्काधिकसुवर्णन्तु दक्षिणां देवसन्निधौ ॥ 20.42 ॥
सुप्ते मूढे तथा भ्रान्ते दुर्गमे पतिते वृषे।
रुदिते विष्णुगायत्र्या पद्माग्नौ तु सहस्रकम् ॥ 20.43 ॥
हुत्वा तु दक्षिणां दद्यात् केशदन्तनखादिषु।
कापालभस्मपाषाणतुषशल्येषु सत्सु च ॥ 20.44 ॥
विसृज्य तानि सर्वाणि प्रोक्षणैः प्रोक्षयेत्तथा।
पञ्चगव्यैस्समभ्युक्ष्य वास्तुहोमं यजेत्पुनः ॥ 20.45 ॥
कर्षणे तु विहीने तु हीने बीजनिवापने।
सद्यः कर्तुमशक्तो वा कालक्षेपभयात्तथा ॥ 20.46 ॥
पद्माग्नौ रात्रिसूक्तञ्च विष्णुसूक्तञ्च वैष्णवम्।
गोदानसूक्तं विच्छिन्नं हुत्वा बीजं प्रदाय च ॥ 20.47 ॥
कर्षयित्वा भुवं पश्चात् पलालानि तृणानि च।
विकीर्य भुवि सर्वत्र गोगणेभ्यो निवेदयेत् ॥ 20.48 ॥
उप्तेषु तेषु नष्टेषु (1)वन्ध्यत्वादप्ररोहिषु।
पूर्वोक्तनिष्कृतिं हुत्वा तृणान्यास्तीर्य तत्र वै (1.) तं ध्यात्वाऽथः क. ॥ 20.49 ॥
गोगणेभ्यो निवेद्यैव पश्चात्कर्म समाचरेत्।
एकंदेशक्रियाहीने कर्षणे बीजवापने ॥ 20.50 ॥
तत्कर्मणाञ्च सर्वेषां प्रायश्चित्तमिदं स्मृतम्।
गृहीतामन्यदेवार्थ न गृहणीयात्कदाचन ॥ 20.51 ॥
अज्ञानाद्यदि गृहणाति विनश्यति न संशयः।
प्रतिलोमसमीपेषु न कुर्याद्विष्णुमन्दिरम् ॥ 20.52 ॥
चण्डालपक्कणात्क्रोशादर्वाङ्रनैव प्रकल्पयेत्।
तथैव पुल्कसावासात्तथा तक्षककारुकात् (?) ॥ 20.53 ॥
अनुलोमनिवासेऽपि न कुर्यादि केचन।
अनुलोमनिवासेषु कुर्याच्चेत्तान्त्रिकेण तु ॥ 20.54 ॥
हीने शान्तार्चने हुत्वा तद्दैवत्यं सहस्रकम्।
वीशचक्रार्चने हीने तद्दैवत्यं तथा यजेत् ॥ 20.55 ॥
तिलसर्षपमिश्रेण चरुणा जुहुयात्तथा।
तरुणालयहीने
तरुणालयहीने तु निष्फलं सर्वमुच्यते ॥ 20.56 ॥
पौण्डरीके घृताभ्यक्तैः जुहु याच्छ्वेतपङ्कजैः।
क्रमेण रात्रिसूक्तञ्च पारमात्मिकमेव च ॥ 20.57 ॥
ईङ्कारादीन्त्स्मरन् देवं वृषभं भक्तितो ददेत्।
बालालयेऽर्चनं कुर्वन् पश्चात्कर्म समाचरेत् ॥ 20.58 ॥
तरुणालयबेर?विचारः
अलाभे लोहबिम्बाना लब्धं बिम्बं समाहरेत्।
अलाभे नानुरूपं वा याचितं वा समाहरेत् ॥ 20.59 ॥
याचेत श्रोत्रियागाराल्लोकिकं वाऽन्यमन्दिरात्।
आलयाङ्गं न याचेत कौतुकादित्रयं बुधः ॥ 20.60 ॥
याचितं श्रोत्रियागारादनुरुप ध्रुवस्य चेत्।
तमेवं कौतुकं तत्र प्रतिष्ठाप्य समर्चयेत् ॥ 20.61 ॥
अन्यालयाद्यर्चितं चेत्तत्क्रियान्ते पुनः क्रमात्।
पूर्वाऽलयं समानीय शान्तिं हुत्वा समर्चयेत् ॥ 20.62 ॥
स्थापितं नानुरुपञ्चेद्वैष्णवं मन्त्रमुच्चरन्।
सहसक्रकृत्वो हुत्वा तु कौतुकं स्थापयेच्छुभम् ॥ 20.63 ॥
वास्तुसवनपुण्याहीने
वास्तुहोमविहीने तु पाञ्चभैतिकवैष्णवै।
महाव्याहृतिसंयुक्तं हुत्वा तत्पुनराचरेत् ॥ 20.64 ॥
पुण्याहवाचने हीने विप्रान् शक्त्यैव भोजयेत्।
ब्रह्मपद्मावटे
ब्रह्मपद्मावटे तस्मिन्कपालास्थ्यादिदर्शने ॥ 20.65 ॥
वैष्णवं भूमिदैवत्यं ब्राह्ममष्टोत्तरं शतम्।
हुत्वाऽन्यत्रैव तत्कुर्याद्ब्रह्मपद्मावटं पुनः ॥ 20.66 ॥
वैष्णवं भूमिदैवत्यं प्राजापत्यं यजेत्पुनः।
भिन्ने तत्र घटे स्रावे जनानां भयसम्भवे ॥ 20.67 ॥
कलहे रुधिरस्रावे वैश्वक्सेनं यजेत्क्रमात्।
गारुडं वैष्णावं ब्राह्ममैन्द्रञ्चैव समाहितः ॥ 20.68 ॥
रात्रिसूक्तञ्च हुत्वा तु प्राजापत्यसमन्वितम्।
वामावर्ते वारुणञ्च वायव्यं भूमिदैवतम् ॥ 20.69 ॥
सङ्कुलञ्चेत्तदा वारि ब्राह्मं हुत्वा सवारुणम्।
स्पन्दने चलने चैव पांसुच्छन्ने तथैव च ॥ 20.70 ॥
वारुणं वैष्वक्सेनञ्च जुहुयात्तस्य शान्तये।
पद्मेऽधरोत्तरे तस्मिन् पार्श्वस्?थे पतितेऽपि च ॥ 20.71 ॥
स्पन्दने पत्रकौटिल्ये परिम्लाने च भेदने।
ब्राह्मं तद्देवहोमञ्च वारुणं भार्गवं यजेत् ॥ 20.72 ॥
विदिग्गते तथा पद्मे ब्राह्ममारुषमेव च।
शङ्कुस्थापने
शङ्कुस्थापनहीने च परिषद्धोममाचरेत् ॥ 20.73 ॥
शुद्धप्राच्याऽथवा कुर्याद्दिक्परिच्छेदमत्वरः।
आरभ्य मुख्यमार्गन्तु तद्गौणं कारयेद्यदि
दत्वा च दक्षिणां देवं सक्त्याभ्यर्च्य निवेद्य च ॥ 20.75 ॥
आरब्धनतु यथापूर्वं तथैव पुनराचरेत्।
आद्येष्टकायाम् आद्येष्टकामकृत्वा तु विमानं क्रियते यदि ॥ 20.76 ॥
ग्रामस्य यजमानस्य राष्ट्रस्य महती विपत्।
तस्मात्तदपहाराय महाशान्तिं तथा यजेत् ॥ 20.77 ॥
आद्येष्टकाञ्च सन्न्यस्य विमानं कारयेत्पुनः।
आद्येष्टकाक्रियायान्तु न्यूनायां मन्त्रपर्यये ॥ 20.78 ॥
इष्टकाग्रे शिलाग्रे च विपर्यासे तथैव च।
रत्नन्यासविहीने च सर्वदैवत्यपूर्वकम् ॥ 20.79 ॥
वंष्णवं विष्णुसूक्तञ्च पैरुषं सूक्तमेव च।
मिन्दाहुती महीसूक्तं विच्छिन्नं जुहुयात्क्रमात् ॥ 20.80 ॥
पूर्वोक्तेन विधानेन कारयेदिति शासनम्(1)।
विमाने प्रस्तरे तस्मिन्नलङ्कारे च सर्वशः (1.) अत्र 24. अध्याय समाप्तिः ख.
॥ 20.81 ॥
हीने चाङ्के विमाने च प्रतिखण्डविपर्यये।
शान्तिकादिविमाने तु तले त्वन्योन्यसङ्करे ॥ 20.82 ॥
द्वारस्याभ्यन्तरस्यापि भित्तेः हीनेऽधिके तथा।
न्यक्षादीनां चतुर्णाञ्च शतकृत्वो यजेत्क्रमात् ॥ 20.83 ॥
मध्ये तु पौण्डरीकाग्नौ पद्महोमं जुहोति च।
जुहुयाद्रात्रिसूक्तञ्च पौरुषं सूक्तमेव च ॥ 20.84 ॥
सहस्राहुतिपर्यन्तं यथोक्तं कारयेद्बुधः।
अन्योन्यं गण्यसाङ्कर्यं नाचरेच्छान्तिकादिषु ॥ 20.85 ॥
अदृभुते शानितकं गण्यं योजयेत्सार्वदेशिकम्।
प्राकाराद्येष्टकाहीने परिवाराधिदैवतम् ॥ 20.86 ॥
वैष्णवेन समायुक्तं दशकृत्वो जुहोति च।
गोपुराद्यैष्टकाहीने द्वारपालाधिदैवतम् ॥ 20.87 ॥
धात्रादीनान्तु षण्मन्त्रान् दशवारं सवैष्णवम्।
आद्येष्टकानां विन्यासे हीने चैन्मण्डपादिषु ॥ 20.88 ॥
तन्मण्डपाधिदैवत्यं वैष्ण्?ावेन शतं यजेत्।
महानसस्य हीने चेद्धविरक्षकदैवतम् ॥ 20.89 ॥
श्रीदैवत्यञ्च तत्सूक्तमाग्नेयं वैष्णवं यजेत्।
भूतपीठे अद्येष्टका
आद्येष्टकाक्रमं वक्ष्ये भूतपीठप्रकल्पने ॥ 20.90 ॥
इष्टकां वा शिलां वाऽथ गृहीत्वा पूर्वसङ्ख्यया।
अधिवासादिकर्माणि कृत्वा पूर्वोक्तमार्गतः ॥ 20.91 ॥
मन्त्रौ तदृभूतदैवत्यौ वैष्णवेन समन्वितौ।
अष्टोत्तरशतं हुत्वा भूतेभ्यश्च ततः परम् ॥ 20.92 ॥
यक्षेभ्यश्च पिशाचेभ्ज्ञ्यो नागेभ्यश्च जुहोति च।
चतुर्वेदादिमन्त्रैस्तु स्थापयेच्चतुरिष्टकाः ॥ 20.93 ॥
तत्राप्याद्येष्टकाहीने कृते सति तपोधनाः।
जुहुयाद्भूतमन्त्राभ्यां वैष्णवेन युतं शतम् ॥ 20.94 ॥
अधिवासोचितैर्मन्त्रैः पीठं संस्नाप्य वारिणा।
संस्नाप्य सप्तकलशैर्होमं हुत्वा च पूर्ववत् ॥ 20.95 ॥
चतुर्वेदादिमन्त्रास्तांश्चतुर्दिक्षु तथा जपेत्।
साधारणनिष्कृतिः
कर्मणामपि सर्वेषां प्रच्युतावुक्तनिष्कृतिः ॥ 20.96 ॥
हुत्वा तदुक्तहोमान्ते तत्तन्मन्त्रान् जपेत्क्रमात्।
परिवारालयानाञ्च हरेरुक्तप्रमाणतः ॥ 20.97 ॥
आद्येष्टकादिकं सर्वं कुर्यात्तन्मन्त्रपूर्वकम्।
गर्भन्यासहीनेगर्भन्यासक्रियाहीने
कालातीते विपर्यये ॥ 20.98 ॥
वैष्णवं भूमिदैवत्यं श्रीदैवत्यं तथैव च।
विष्णुसूक्तञ्च जुहुयात्पौरुषं सूक्तमेव च ॥ 20.99 ॥
मिन्दाहुती च विच्छिन्नं महीसूक्तं क्रमाद्यजेत्।
पूर्ववत्सन्न्यसेद्गर्भ तत्तत्परिषदां स्मृतम् ॥ 20.100 ॥
मूर्धेष्टकान्यासे
मूर्धेष्टकायां हीनायां कालेऽतीते विपर्यये।
आद्येष्टकायां सम्प्रोक्तं प्रायश्चितं जुहोति च ॥ 20.101 ॥
अङ्गहोमं ततो हुत्वा पूर्वोक्तविधिना चरेत्।
स्थूपिशूलादिहीने
स्थूपिशूलादिहीने तु ध्रुवसूक्तं समुच्चरन्‌ ॥ 20.102 ॥
सन्न्यसेदिष्टकामेकां तत्र रत्नानि सन्न्यसेत्।
दिक्ष्विष्टकाश्चतस्रस्तु स्थापयित्वा तु पूर्ववत् ॥ 20.103 ॥
मध्ये स्थूपिं प्रतिष्ठाप्य सुधया कारयेद्दृढम्।
परिवारालयानाञ्च गोपुराणां तथैव च ॥ 20.104 ॥
र्वलेपादिहीने
मूर्धेष्टकायां हीनायां वर्णलेपविपर्यये।
सहस्राहुतिमबजग्नौ वैष्णवं जुहुयात्तथा ॥ 20.105 ॥
सुधाकर्म पुनः कुर्याद्वर्णलेपं तथैव च।
अग्नयुल्काशनिधूमाद्यैर्दोषयुक्ते च मन्?िदरे ॥ 20.106 ॥
शान्तये तस्य दुहुयादीङ्कारीदींस्तथैव च।
मिन्दाहुती च विच्छिन्नं पारमात्मिकमेव च ॥ 20.107 ॥
ब्राह्मणान् भोजयित्वा तु दद्यादाचार्यदक्षिणाम्।
बेरस्याग्निस्पर्शे
बेरेऽग्निस्पर्शनेऽब्जाग्नौ महाशान्तिं दिनत्रयम् ॥ 20.108 ॥
हुत्वा शताष्टकलशैः स्नापयित्वा ततः परम्।
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचेत् ॥ 20.109 ॥
प्रकारैष्वग्निदग्धेषु
प्राकरेष्वग्निदग्धेषु तत्रस्थपरिषद्गणान्।
संस्नाप्यैव समभ्यर्च्य तेषां मन्त्रं सवैरूष्णवम् ॥ 20.110 ॥
चतुर्वेदादिमन्त्रांश्च हुत्वा विप्रांश्च भोजयेत्।
देवं विशेषतोऽभ्यर्च्य हविस्सम्यङ्निवेदयेत् ॥ 20.111 ॥
दारमसङ्गहकाले तु विपरीतं भवेद्यति।
याजमानो गुरूः स्नात्वा तत्राब्जाग्निं प्रकल्प्य च ॥ 20.112 ॥
जुहुयाद्रात्रिसूक्तन्तु श्रीसूक्तं (1)वैष्णवं तथा।
वैष्णवं विष्णुसूक्तञ्च गृह्णीयात्पूर्ववत्पवुनः (1.) दैवतं आ. ॥ 20.113 ॥
शूलस्थापनहीने
शूलसंस्थापने हीने समाप्ते सति मन्दिरे।
भवेत्पिशाचावासः स वास्तुहोमं यजेत्पुनः ॥ 20.114 ॥
पौण्डरीके तु तन्मध्ये महाशान्तिं जुहोति च।
हिरण्यपशुभूम्यादीन् दत्वा कर्मं समारभेत् ॥ 20.115 ॥
एकमासे भवेदेवं द्विमासे द्विगुणं भवेत्।
एवं संवर्धयेत्प्राज्ञो यावत्संवत्सरावधि ॥ 20.116 ॥
संवत्सरेऽप्यतीते तु महाशान्तिं जुहोति च।
हिरण्यपशुभूम्यादीन् दत्वा विप्रांश्च भोजयेत् ॥ 20.117 ॥
एवमाद्येष्टकादीनां हुत्वा तत्तन्मनुं स्मरन्।
तत्तन्मन्त्रजपं कृत्वा शूलं संस्थापयेत्पुनः ॥ 20.118 ॥
मासमेकं महाशान्तिं द्वादशाब्दात्पंर यजेत्।
कर्षणादीनि कर्माणि कुर्यात्सर्वाणि पूर्ववत् ॥ 20.119 ॥
ध्रुवबेरक्रियाहीने शूले संस्थापिते यदि।
जुहुयात्पौण्डरीकाग्नौ विष्णुसूक्तमनुस्मरन् ॥ 20.120 ॥
विच्?िछन्नञ्चैव हुत्वा तु मिन्दाहुत्या च हूयताम्।
हुत्वा तु सप्तसमिधो देवेशमनुमान्य च ॥ 20.121 ॥
भूमिञ्च गुरवे दत्वा तत्तत्कर्म समाचरेत्।
एवं मासे तु सम्प्रोक्तं द्वितीये द्विगुणं भवेत् ॥ 20.122 ॥
वर्धयेदेवमेवैतत् यावत्संवत्सराधि।
संवत्सरेऽप्यतीते तु पौण्डरीकञ्च कारयेत् ॥ 20.123 ॥
कुर्यादाहवनीयादीन् चतुर्दिक्षु यथाक्रमम्।
आघारान्ते तु होतव्ये सहस्राहुतिवैष्णवे ॥ 20.124 ॥
विष्णुसूक्तञ्च जुहुयात्तत्तद्धोमे शताष्टकम्।
दिग्दैवत्यञ्च हुत्वा तु दक्षिणाञ्च ददेत्तथा ॥ 20.125 ॥
विप्राणां भोजनं कृत्वा दक्षिणाञ्च स्वशक्तितः।
द्वितीये द्विगुणञ्चैव वर्धयेद्वादशावधि ॥ 20.126 ॥
द्वादशाद्वे व्यतीते तु कर्षणादीनि कारयेत्।
पौण्डरीके तु कूष्माण्डं पञ्चवारुणसंयुतम् ॥ 20.127 ॥
पारमात्मिकमीङ्कारानङ्गहोमं ततः परम्।
पौरुषं विष्णुसूक्तञ्च हुत्वा विप्रांश्च भोजयेत् ॥ 20.128 ॥
पञ्चनिष्कसुवर्णञ्च दद्यादाचार्यदक्षिणाम्।
वास्तुहोमं ततो हुत्वा पुण्याहमपि वाचयेत् ॥ 20.129 ॥
कवाटबोधिकास्थूणासूत्तरे देषसंयुते।
वृद्धौ प्रमाणहीने च जीर्णे दग्धे च तं त्यजेत् ॥ 20.130 ॥
अन्यत्प्रमाणसंयुक्तं गृहीत्वा योजयेत्पुनः।
‘आपो हि ष्ठा’ दिभिः प्रोक्ष्य जुहुयाद्वैष्णवं शतम् ॥ 20.131 ॥
भुवङ्गे च पतङ्गे च कवाटे स्तमृभयोर्द्वयोः।
धात्रादीन् षट् समावाह्य विधिनैव समर्चयेत् ॥ 20.132 ॥
अन्यालयोपयुक्ताश्च अन्यार्थ स्वीकृताश्य याः।
हुताशनपरीताश्च त्याज्या दारुशिलेष्टकाः ॥ 20.133 ॥
विमानं नवधा मार्गे यन्मार्गेण प्रकल्पितम्।
कारयेध्द्रुवबेरन्तु तन्मार्गेणाधिकेन वा ॥ 20.134 ॥
ततो हीनं न कर्तव्यं कौतुकादित्रयं तथा।
आलयस्य विपर्यासे तथा बेरविपर्यये ॥ 20.235 ॥
शूलदारुविपर्यासे कल्पनादिविपर्यये।
ब्राह्मञ्च विष्णुसूक्तञ्च गारुडं सौम्यमेव च ॥ 20.136 ॥
प्राजापत्यञ्च रौद्रञ्च सहस्रं जुहुयात्क्रमात्।
पूर्वोक्तेनैव मार्गेण कारयेत्तद्विधानतः ॥ 20.137 ॥
विमानादीनां श्रैष्ट्यम्
आलयं गोपुरञ्चैव प्रतिमा पीठमेव च।
शरीरमेव देवस्य स्मृतमेतच्च्तुष्टयम् ॥ 20.138 ॥
जीर्णोद्वारविचारः
आलये मण्डपे वाऽपि परिवारालये तथा।
प्राकारे गोपुरे पीठे पचनालय एव वा ॥ 20.139 ॥
इष्टकानां तु प्रक्षेपे तथा वर्णानुलेपने।
एकद्विमासे कुयाच्चेत् नवकर्मादिकं तथा ॥ 20.140 ॥
तद्दोषन्तु व्यपोह्यैव सर्वेषान्तु सलक्षणम्।
यथासौन्दर्यमार्गेण नवकर्म समाचरेत् ॥ 20.141 ॥
समाप्तेऽह्रि च पूवहिणेऽप्यालयस्योत्तरे तथा।
वास्तुहोमं ततो हुत्वा पर्यग्निकरणं तथा ॥ 20.142 ॥
पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचयेत्।
स्नपनोक्तक्रमेणैव विधिना स्नापयेद्बुधः ॥ 20.143 ॥
आलयाद्दक्षिणे चैव औपासनविधानतः।
कुण्डं सलक्षणं कृत्वा प्रज्वाल्याग्निं समन्त्रकम् ॥ 20.144 ॥
तद्दैवत्यञ्च हुत्वा तु परिषन्मन्त्रसंयुतम्।
अङ्गहोमं ततो हुत्वा पारमात्मिकसंयुतम् ॥ 20.145 ॥
ईङ्कारादींस्ततो हुत्वा अष्टाशीत्याहुतिं यजेत्।
वैष्णवं तत्रजुहुयान्महाव्याहृतिसंयुतम् ॥ 20.146 ॥
सहस्राहुतिञ्च जुहुयात्सर्वेषामेव कारयेत्।
तांस्तान् देवान् प्रतिष्ठाप्य प्रतिष्ठोक्तक्रमेण वै ॥ 20.147 ॥
अन्तहोमं ततो हुत्वा देवेशं सम्प्रणम्य च।
महाविः प्रभूतं वा देवेशाय निवेदयेत् ॥ 20.148 ॥
शिलादार्वोमुंखं पार्श्वें पृष्ठमूर्ध्वमधस्तथा।
ज्ञात्वा कुर्याद्विपर्यासाद्देवरूपं कृतं यदि ॥ 20.149 ॥
स्थापितं चेत्तदाभिचारिकमुच्यते।
राजाष्ट्रविनाशः स्यात् प्रजापीडा भयं मृतिः ॥ 20.140 ॥
तद्दोषशमनार्थाय क्षिप्रं शान्तिञ्च कारयेत्।
आलयस्योत्तरे कुर्यात्पौण्डरीकं सलक्षणम् ॥ 20.151 ॥
जुहुयात्पौरुषं सूक्त ‘मतो देवा’ ?दि वैष्णवम्।
ईङ्काराद्यङ्गहोमञ्च पञ्चवारुणसंयुतम् ॥ 20.152 ॥
जयाभ्यातानसंयुक्तं परिषन्मन्त्रसंयुतम्।
पूर्ववद्विधिना कृत्वा स्थापयेत्तद्विचक्षणः ॥ 20.153 ॥
अङ्गवैकल्ये
बाहुप्रकोष्ठहस्तोरुजङ्घापादतलेषु च।
पार्श्वाधःकटिदण्डेषु न हीनं नाधिकं तथा ॥ 20.154 ॥
अङ्गोपाङ्गेषु सर्वत्र हीने चैवाङ्गुले तु तत्।
हेम्ना वा रजितेनाथ ताम्रेणैवाथ पूर्ववत् ॥ 20.155 ॥
स्थापयेद्व्यत्ययेनैव शूलं यदि विनश्यति।
आलयस्योतरे पार्श्वे पूर्वोक्तं होममाचरेत् ॥ 20.156 ॥
हुत्वा पुरुषसूक्तञ्च दद्यादाचार्यदक्षिणाम्।
गृहीत्वा विधिवच्छूलं पूर्ववत्स्थापयेत्क्रमात् ॥ 20.157 ॥
दूषिता मूत्तिका चेत्तु श्वकाकपशुवानरैः।
मू?षिकाभिः कुक्कुटैर्वा त्यक्त्वान्यां विधिना हरेत् ॥ 20.158 ॥
जुहुयाद्भूमिदैवत्यं पारमात्मिकसंयुतम्।
ईङ्कारादींश्चकूष्माण्डान् संस्कुर्याच्च पुनर्मृदम् ॥ 20.159 ॥
मृदःस्नेहस्य चूर्णस्य कषायस्यौषधस्य च।
न्यूने संस्कारहीने च प्रयोगस्य विपर्यये ॥ 20.160 ॥
रज्जुबन्धेऽष्टबन्धे च शर्करालेपने तथा।
न्यूने संस्कारहीने च प्रयोगस्य विपर्यये ॥ 20.161 ॥
वैष्णवं चारुषञ्चैव पाञ्चभौतिकमेव च।
ब्राह्ममैन्द्रं त्रयस्त्रिंशद्देवताभ्यश्च हूयते ॥ 20.1़62 ॥
पूर्वोक्तेन विधानेन तत्तत्कर्म समाचरेत्।
वर्णव्यतिक्रमे हुत्वा प्राजापत्यं सपौरुषम् ॥ 20.163 ॥
मृण्मयं नार्धचित्रम्
अर्धचित्रं न कुर्वीत मृण्मयं लोहजं तथा।
स्थापितञ्च विसृज्यान्यत् बेरं सङ्गृह्य यत्नतः ॥ 20.164 ॥
पद्माग्नौ ब्रह्मसूक्तञ्च वैष्ण ‘वा श्रावि’ तादिकम्।
हुत्वा मिन्दाहुती विप्रान् भोजयित्वा ततः परम् ॥ 20.165 ॥
पूर्वोक्तेन विधानेन स्थापयेदिति शासनम्(1)।
शिलामणिबिम्बे
शिलाजं मणिजं बिम्बमर्धचित्रं न दोषकृत् (1.) अत्र 25 अध्याय समाप्तिः ख.
॥ 20.166 ॥
शैलजं ध्रुवबेरन्तु वर्णयुक्तन्तु कारयेत्।
(ध्रुवबेरार्चनं चेत्तु वर्णयुक्तं न कारयेत् ॥ 20.167 ॥
ब्रह्मस्थानार्चनार्हं यत् स्थापनं तद्ध्रुवार्चनम्।
दैविंके मानुषे चैव स्थापयेच्च विशेषतः ॥ 20.168 ॥
एकबेरार्चनञ्चैतत् वर्णयुक्तं न (2)दोषकृत्।
न्यूनाधिक्यविषयः
किमिदं परिमाणेन कारणं यच्च वै विदुः (2.) दोषभाक् आ. ॥ 20.169 ॥
यवं यवत्रयं चापि अर्धाङ्गुलमथापि वा।
एकेन वाऽथ पादाभ्यां न्यूनाधिक्ये न दोषकृत् ॥ 20.170 ॥
बिम्बस्य वस्त्रमाभरणं पद्मं किरीटं शङ्खचक्रकौ।
उपवीतं प्रलम्बञ्च श्रीवत्सं कुण्डनलद्वयम् ॥ 20.171 ॥
एवमाद्यैस्समायुक्तं बिम्बं कर्याद्विशेषतः।
एतैर्हींनं यदि भवेत्पुनरेतैस्समायुतम् ॥ 20.172 ॥
कारयित्वैव जुहुयाद्वैष्णवं ब्राह्मसंयुतम्।
ऐन्द्रञ्च विष्णुसूक्तञ्च सौरं सौम्यञ्च पौरुषम् ॥ 20.173 ॥
ब्राह्मणान् भोजयित्वा तु विधिना स्थापयेद्बुधः।
बेरं कृत्रिमवर्णेन योजयेच्चेत्प्रमादतः ॥ 20.174 ॥
क्षालयित्वां प्रमार्ज्यैव विशोष्य च यथाविधि।
पौण्डरीकाग्निकुण्डे तु सूक्तं वैश्वानरं यजेत् ॥ 20.175 ॥
ब्राह्मञ्च विष्णुसूक्तञ्च वैष्णवञ्च जयादिभिः।
तस्यानुरूपं वर्णञ्च योजयेत्तद्विधानतः ॥ 20.176 ॥
अक्षिमोचनहीने च कालातीते प्रमादतः।
षण्मण्डलाधिदैवत्यं ‘यद्देवादि’ ततः परम् ॥ 20.177 ॥
‘ईङ्कारादी’ स्ततो हुत्वा पारमात्मिकमेव च।
अष्टाशीतिं ततो हुत्वा कारयेदक्षिमोचनम् ॥ 20.178 ॥
क्रूरग्रहाणामुदये त्वज्ञानात्क्रियते यदि।
क्षालयित्वा ततो हुत्वा प्रायश्चित्तञ्च पूर्ववत् ॥ 20.179 ॥
पूर्ववद्विधिना सम्यगक्षिमोचनमाचरेत्।
कर्षणादीनां सामान्य प्रायश्चित्तम्
कर्षणादि प्रतिष्ठान्तं न्यूने हीने विपर्यये ॥ 20.180 ॥
जुहुयात्पौण्डरीकाग्नौ सूक्ते वैष्णवपौरुषे।
‘यद्देवादीं’ स्ततो हुत्वा पारमात्मिकमेव च ॥ 20.181 ॥
‘ईङ्कारादी’ श्च जुहुयादष्टाशीतिमतः परम्।
प्राजापत्यञ्च सौम्यञ्च ऐन्द्रमाग्नेयमेव च ॥ 20.182 ॥
सौरं सौम्यञ्च जुहुयादङ्गहोमञ्च वैष्णवम्।
महाव्याहृतिभिर्हुत्वा ब्राह्मणान्भोजयेत्पुनः ॥ 20.183 ॥
वाचयित्वा तु पुण्याहं स्वस्तिघोषञ्च कारयेत्।
देवकार्येषु प्रण्याहविशेषः
दैविकेषु तु सर्वेषु भूपरीक्षादिकर्मसु ॥ 20.184 ॥
पुण्याहे विहिते सम्यक्, यत्पुण्य’ मिति च ब्रुवन्।
‘पुण्याहं स्वस्तिमृद्धि’ ञ्च वाचयित्वा त्रिधात्रिधा ॥ 20.185 ॥
‘स्वस्ति न-ऋद्ध्यास्स्मे’ ति वाचयित्वान्तरान्तरा।
‘आपो हिरण्य पवमानैः’ प्रोक्षयित्वा ततः परम् ॥ 20.186 ॥
दक्षिणादानादाने च सूत्रोक्तविधिना चरेत्।
गवादिदक्षिणां दत्वा पश्चात्कर्म समाचरेत् ॥ 20.187 ॥
हीनक्रियासु सर्वासु प्रायश्चित्तमिदं स्मृतम्।
अनुक्तदव्यकल्पिते बेरे
इष्टकाभिस्सुधाभिर्वाकण्टकाद्यैर्नपुंसकैः ॥ 20.188 ॥
अन्यैश्च काष्ठैवृर्क्षैर्वाऽप्यन्यैर्दूषितदारुभिः।
कालायसैश्च पाषाणैः चूर्णैर्वाऽपि समायुतैः ॥ 20.189 ॥
संयुक्ते तु कृते बेरे कृते पक्वे तु मृण्मये।
पैशाचैश्चासुरैर्द्रव्यैरतिरिक्तमृदाऽथवा ॥ 20.190 ॥
द्रव्यैरसंस्कृतैर्वापि ध्रुवबेरे प्रकल्पिते।
अशूले रज्जुमृद्वस्त्रशर्करादावमानके ॥ 20.191 ॥
कुशे स्थूलेऽतिजीर्णे च वृद्धौ वाऽनुक्तवर्णके।
सुधयैव कृते बेरे तथैवेष्टकया कृते ॥ 20.192 ॥
क?िल्पतेऽनुक्तद्रव्येण कृत्रिमाभरणान्विते।
इत्यादिदोषसंयुक्ते बेरे सर्व विनश्यति ॥ 20.193 ॥
स्थापयेच्चेतदज्ञानात् यजमानो विनश्यति।
तच्छान्तिः
तच्छान्तिः पौण्डरीकाग्नावालयस्योत्तरे कृते ॥ 20.194 ॥
पारमात्मिकमीङ्काराद्यष्टाशीत्यङ्गहोमकम्।
ब्रह्मसूक्तसमायुक्तं श्रीसूक्तेन समन्वितम् ॥ 20.195 ॥
दुर्गासूक्तञ्च जुहुयाद्विष्णुसूक्तमतः परम्।
जुहुयात्पौरुषं सूक्तं विश्वजित्सूक्तमेव च ॥ 20.196 ॥
प्राजापत्यञ्च रौद्रञ्च ब्राह्ममाग्नेयमेव च।
सौरं सौम्यसमायुक्तं वैष्णवं जुहुयायात्पुनः ॥ 20.197 ॥
ब्राहृमणान् भोजयित्वा तु दद्यादाचार्यदक्षिणाम्।
बालालये प्रतिष्ठाप्य सदोषमपहाय च ॥ 20.198 ॥
सलक्षणं ततः कृत्वा स्थापयेत्वूर्वत्क्रमात्।
पुनर्जौर्णविमानादिकथनम्
तद्विमानगलस्थाने पादवर्गस्य मध्यमे ॥ 20.199 ॥
कारयेद्विहितां मूर्तिं सुधयेष्टकयाऽथवा।
मृच्छूलशर्करारज्जवुस्त्रे हीनेऽप्रमाणके ॥ 20.200 ॥
कृते कृत्रिमवर्णेन दोषैः कार्श्यादिभिर्युते।
न दोषदा इति प्रोक्ता यदि ते शिलया कृताः ॥ 20.201 ॥
सर्वलक्षणसंपन्नान् वर्णहीनान् प्रकल्पयेत्।
शिलासङ्गहवर्ज बिम्बे कृते
अकृत्वा कल्पिते बेरे शिलासङ्गहणक्रियाम् ॥ 20.201 ॥
पौण्डरीके महाशान्तिं एकाहं जुहुयात्पुनः।
शिलाग्रहणहोमञ्च हुत्वा मन्त्रं स्पृशन् जपेत् ॥ 20.203 ॥
अज्ञानात्स्थापितञ्चैतत् एवं कृत्वा यथाविधि।
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत्(1) (1.) अत्र 26 अध्याय समाप्तिः ख.
॥ 20.204 ॥
शीघ्रं संस्थापयेद्वेरं निर्दोषं लक्षणान्वितम्।
न स्थापयति चेन्मोहादाधिव्याध्याद्युपद्रवैः ॥ 20.205 ॥
क्षुत्पिपासादिभिश्चैव स देशः पीड्यते भृशम्।
तस्माद्धुत्वा महाशान्तिं भोजयित्वा द्विजोत्तमान् ॥ 20.206 ॥
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत्(1)।
अनुक्तकाले बिम्बे स्थापिते
आर्द्राद्यनुक्तनक्षत्रे वारे राशौ च निन्दिते (1.) अत्र 26 अध्याय समापितः चख.
॥ 20.207 ॥
उल्काग्न्यशनिपाते च दिग्दाहे पांसुलोहिते।
वर्षधारातिपाते च चन्द्रसूर्योपरागयोः ॥ 20.208 ॥
चैत्यवृक्षनिपाते च भूमिकम्पदिने तथा।
दोषुयक्ते च नक्षत्रे शर्वर्यां वा तथैव च ॥ 20.209 ॥
स्थापितं चेत्तदज्ञानात् पूर्ववद्होममाचरेत्।
सहस्राहुतिमिष्ट्वैव सहस्रञ्चैव वैष्णव् ॥ 20.210 ॥
परिषद्देवतानाञ्च तत्तन्मन्त्रैश्च हूयते।
यथोक्तं स्थापयित्वैव शक्तितो दक्षिणां ददेत् ॥ 20.211 ॥
अकृत्वा भूपरीक्षादिक्रियास्सर्वाः प्रमादतः।
अनुक्तमासनक्षत्रथिवासरराशिषु ॥ 20.212 ॥
रात्रावविधिकं मोहादज्ञानात्स्थापिते यदि।
मासं पक्षन्तु सप्ताहं पञ्चाहं त्रियहन्तु वा ॥ 20.213 ॥
त्रिकालं पौण्डरीकाग्नौ महाशान्तिं जुहोति वै।
तत्तन्मन्त्रजपं कृत्वा भूपरीक्षादिकर्मणाम् ॥ 20.214 ॥
पूर्वोक्तेन प्रकारेण प्रतिष्ठां पनराचरेत्।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृंगुप्रोक्तायां संहितायां क्रियाधिकारे
भूपरीक्षादिप्रायश्चित्तविधिर्नाम विंशोऽध्यायः।