विंशोऽध्यायः ॐ विंशोऽध्यायः भूपरीक्षादिप्रायश्रित्तम् अतः परं प्रवक्ष्यामि भूपरीक्षादिनिष्कृतिम्। प्रायो दोषसमुत्पत्तिः (1)चित्तिस्तस्य निरासनम् (1.) चित्तम् क. ॥ 20.1 ॥ तस्य दोषस्य सन्धानं प्रायश्चित्तमितीरितम्। तदेव दिनमारभ्य नवमे वाऽथ सप्तमे ॥ 20.2 ॥ पञ्चमेऽहनि वा कुर्यात्पूर्वमेवाङ्कुरार्पणाम्। अङ्कुरार्पणहीने अङ्कुरार्पणहीने तु भूपरीक्षादिकर्मणाम् ॥ 20.3 ॥ ब्रहृमादीनान्तु षण्णां वै मन्त्रेर्हुत्वा तु वैष्णावैः। पालिकाधिपतीनाञ्च जयादीनाञ्च मूर्तिभिः ॥ 20.4 ॥ कृत्वाऽङ्कुरार्पणं पश्चात्तत्तत्कर्म समाचरेत्। पालिकानामभावे तु शरावान्वा समाहरेत् ॥ 20.5 ॥ दर्भैर्दग्ध्वोपयुक्तान्वा गृह्णीयादिति केचन। विशेषार्चनहीने तु द्विगुणञ्च समर्चयेत् ॥ 20.6 ॥ अष्टोपचारैरभ्यर्च्य हविम्सम्यङ्निवेदयेत्। विशेषार्चनमित्युक्ते सर्वत्र द्विजसत्तमाः ॥ 20.7 ॥ विशेषेणार्चनं कुर्यात्कौतुके चाङ्कुरार्पणे। अन्यालयाङ्गबिम्बानामुत्सवाद्यङ्कुरार्पणे ॥ 20.8 ॥ विशेषतोऽर्चनं यत्तत्बेर एव समाचरेत्। प्रमाणहीनायां पङ्क्तौ यजेत्पङ्कीशमूर्तिभिः ॥ 20.9 ॥ सप्तहस्तप्रमाणञ्चेत् स्थण्डिलं कल्पयेत्पदम्। पञ्चहस्तप्रमाणञ्चेदुपपीदुपपीठपदं नयेत् ॥ 20.10 ॥ पङ्क्तिंस्त्रिहस्तमाना चेत्कुर्यान्नवपदं तथा। सप्तसप्तपदे मध्ये चैकं ब्राह्ममुदाहृतम् ॥ 20.11 ॥ परितोऽष्टौ जयादीनां तद्वहिष्षोडशे पदे। कल्पयित्वा तु तद्वाह्ये चतुर्विंशतिके पदे ॥ 20.12 ॥ दिक्षु द्वाराणि चत्वारि शेषादीनां पदाष्टकम्। द्वाराणां पार्श्वयोश्शेषाः पालिकास्थापनाय वै ॥ 20.13 ॥ शेषञ्च वक्रतुण्डञ्च प्राग्द्वारोभयपार्श्वयोः। वामदक्षिणयोः पूज्यौ चक्रवीशौ तु दक्षिणे ॥ 20.14 ॥ पङ्त्तीशशङ्खौ वारुण्यां सोमशान्तावुदग्दिशि। एवमेव प्रकुर्वीत सप्तसप्तपदे तथा ॥ 20.15 ॥ पञ्चपञ्चपदे मध्ये ब्रह्मणश्चैकमुच्यते। परितोऽष्टौ जयादीनां तद्वहिष्षोउशांशके ॥ 20.16 ॥ दिक्षु द्वाराणि चत्वारि शेषादिंस्तेषु पूजयेत्। शेषविध्नेशपङ्क्तीशसोमांस्तद्छवरपार्श्वगान् ॥ 20.17 ॥ ईशानसोमयोर्मध्ये विष्वक्सेनं समर्चयेत्। शिष्टानि पालिकादीनां स्थापनाय प्रकल्पयेत् ॥ 20.18 ॥ मध्ये नवपदे चैकं ब्रह्मणः परिकीर्तितम्। शेषादीनां जयादीनां पालिकानां तथैव च ॥ 20.19 ॥ तद्वहिश्च पदेष्व्ष्ठस्वष्टावेवात्र पालिकाः। अङ्कुरार्पणमारभ्य तृतीये पञ्चमेऽथवा ॥ 20.20 ॥ सप्तमे नवमे वाऽह्रि तत्तत्कर्म समाचरेत्। अतश्चोर्ध्वमयुग्मेषु दिनेष्वेव यथाविधि ॥ 20.21 ॥ महाशान्तिञ्च हुत्वा तु कृत्वा सद्योऽङ्कुरार्पणम्। ब्राह्मणान्भोजयित्वा तु तत्तत्कर्म समाचरेत् ॥ 20.22 ॥ कर्मणां साधिवासानां सद्यश्चेङ्कुरार्पणम्। कारयेत्पूर्वरात्रौ तु पूर्वमेवाधिवासनम् ॥ 20.23 ॥ कृत्वाऽक्षिमोचनं पश्चात् जलादिष्वधिवास्य च। वास्तुहोमादिकं कर्म पूर्ववत्सर्वमाचरेत् ॥ 20.24 ॥ दिनद्वयेऽप्यलब्धे तु सद्यः कर्तृ त्वरान्वितः। कृत्वाऽङ्कुरार्पणं सद्यो नयनोन्मीलनादिकम् ॥ 20.25 ॥ कृत्वा सद्यस्तदह्र्येव स्थापयेदिति केचन। भूपरीक्षायाम् भूपरीक्षामकृत्वा तु कृतं तत्कर्षणं यदि ॥ 20.26 ॥ भूसूक्तं भूमिदैवत्यं हुत्वा भूमिं परीक्ष्य च। पुनश्च कर्षणं कुर्यादिति पूर्वजशासनम् ॥ 20.27 ॥ अकाले भूपरीक्षायां तथैव जुहुयाद्बुधः। परीक्षेत शुभे काले भूमिं पूर्वेक्तमार्गतः ॥ 20.28 ॥ भूपरीक्षणकाले तु दुर्निमित्तसमुद्भवे। वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ 20.29 ॥ हुत्वा तु विष्णुगयत्र्या सावित्र्याऽष्टशतं यजेत्। शाकुनं स्वस्तिसूक्तञ्च दशकृत्वो जपेत्तथा ॥ 20.30 ॥ कन्याया भोजने हीने दौर्ग हुत्वा तु भोजयेत्। कन्याया दीपविच्छेदे पतने पङ्कजस्य च ॥ 20.31 ॥ हुत्वा श्रीसूक्तदैवत्ये पश्चात्कर्म समाचरेत्। गृह्णीयात्पङ्कजाभावे कुमुदं धवलं (1)नवम् (1.) शुभं क. ॥ 20.32 ॥ आरभेत क्रियास्सर्वास्समभ्यर्च्य विनायकम्। विनायकार्चने हीने तन्मन्त्रेण शतं यजेत् ॥ 20.33 ॥ कर्षणे कर्षणे च कृते काले क्रियाहीने तथैव च। विपर्यासे च सर्वत्र भूसक्तं भूमिदैवतम् ॥ 20.34 ॥ हुत्वा तत्तत्प्रकुर्वीत तत्तन्मन्त्रं समुच्चरन्। उक्तवृक्षस्य चालाभे हलादीनां यथाक्रमम् ॥ 20.35 ॥ तद्वृक्षाधिपमभ्यर्च्य शक्तितो दक्षिणां ददेत्। वैष्णवं भूमिदैवत्यं यजेत्तत्र विधानतः ॥ 20.36 ॥ उक्तप्रमाणहीनेषु हलादिषु तथैव च। प्राजापत्यञ्च याम्यञ्च रौद्रं भौतिकसंयुतम् ॥ 20.37 ॥ आदावन्ते च जुहुयाद्व्याहृत्यन्तं सवैष्णवम्। भेदे छेदे तथा तेषां रज्जुच्छेदे तथैव च ॥ 20.38 ॥ (1)वृषभाङ्गविहीने च पद्माग्नौ वैष्णवं यजेत्। ब्राह्मञ्च वीशदैवत्यं प्राजापत्यञ्च भौतिकम् (1.) वृषभावङ्गहीनौ चेत् क. ॥ 20.39 ॥ आर्षानपि च मन्त्राश्च तद्दैवत्यसमन्वितम्। ??कापिलेन घृतेनैव महाव्याहृतिभिर्यजेत् ॥ 20.40 ॥ देवेशमर्चययित्वा तु रुप्यं दद्याद्यथोदयम्। व्रणयुक्ते तु तत्काले सूक्ते वैष्णवपौरुषे ॥ 20.41 ॥ मिन्दाहुती च विच्छिन्नं हुत्वाऽचार्याय दीयताम्। निष्काधिकसुवर्णन्तु दक्षिणां देवसन्निधौ ॥ 20.42 ॥ सुप्ते मूढे तथा भ्रान्ते दुर्गमे पतिते वृषे। रुदिते विष्णुगायत्र्या पद्माग्नौ तु सहस्रकम् ॥ 20.43 ॥ हुत्वा तु दक्षिणां दद्यात् केशदन्तनखादिषु। कापालभस्मपाषाणतुषशल्येषु सत्सु च ॥ 20.44 ॥ विसृज्य तानि सर्वाणि प्रोक्षणैः प्रोक्षयेत्तथा। पञ्चगव्यैस्समभ्युक्ष्य वास्तुहोमं यजेत्पुनः ॥ 20.45 ॥ कर्षणे तु विहीने तु हीने बीजनिवापने। सद्यः कर्तुमशक्तो वा कालक्षेपभयात्तथा ॥ 20.46 ॥ पद्माग्नौ रात्रिसूक्तञ्च विष्णुसूक्तञ्च वैष्णवम्। गोदानसूक्तं विच्छिन्नं हुत्वा बीजं प्रदाय च ॥ 20.47 ॥ कर्षयित्वा भुवं पश्चात् पलालानि तृणानि च। विकीर्य भुवि सर्वत्र गोगणेभ्यो निवेदयेत् ॥ 20.48 ॥ उप्तेषु तेषु नष्टेषु (1)वन्ध्यत्वादप्ररोहिषु। पूर्वोक्तनिष्कृतिं हुत्वा तृणान्यास्तीर्य तत्र वै (1.) तं ध्यात्वाऽथः क. ॥ 20.49 ॥ गोगणेभ्यो निवेद्यैव पश्चात्कर्म समाचरेत्। एकंदेशक्रियाहीने कर्षणे बीजवापने ॥ 20.50 ॥ तत्कर्मणाञ्च सर्वेषां प्रायश्चित्तमिदं स्मृतम्। गृहीतामन्यदेवार्थ न गृहणीयात्कदाचन ॥ 20.51 ॥ अज्ञानाद्यदि गृहणाति विनश्यति न संशयः। प्रतिलोमसमीपेषु न कुर्याद्विष्णुमन्दिरम् ॥ 20.52 ॥ चण्डालपक्कणात्क्रोशादर्वाङ्रनैव प्रकल्पयेत्। तथैव पुल्कसावासात्तथा तक्षककारुकात् (?) ॥ 20.53 ॥ अनुलोमनिवासेऽपि न कुर्यादि केचन। अनुलोमनिवासेषु कुर्याच्चेत्तान्त्रिकेण तु ॥ 20.54 ॥ हीने शान्तार्चने हुत्वा तद्दैवत्यं सहस्रकम्। वीशचक्रार्चने हीने तद्दैवत्यं तथा यजेत् ॥ 20.55 ॥ तिलसर्षपमिश्रेण चरुणा जुहुयात्तथा। तरुणालयहीने तरुणालयहीने तु निष्फलं सर्वमुच्यते ॥ 20.56 ॥ पौण्डरीके घृताभ्यक्तैः जुहु याच्छ्वेतपङ्कजैः। क्रमेण रात्रिसूक्तञ्च पारमात्मिकमेव च ॥ 20.57 ॥ ईङ्कारादीन्त्स्मरन् देवं वृषभं भक्तितो ददेत्। बालालयेऽर्चनं कुर्वन् पश्चात्कर्म समाचरेत् ॥ 20.58 ॥ तरुणालयबेर?विचारः अलाभे लोहबिम्बाना लब्धं बिम्बं समाहरेत्। अलाभे नानुरूपं वा याचितं वा समाहरेत् ॥ 20.59 ॥ याचेत श्रोत्रियागाराल्लोकिकं वाऽन्यमन्दिरात्। आलयाङ्गं न याचेत कौतुकादित्रयं बुधः ॥ 20.60 ॥ याचितं श्रोत्रियागारादनुरुप ध्रुवस्य चेत्। तमेवं कौतुकं तत्र प्रतिष्ठाप्य समर्चयेत् ॥ 20.61 ॥ अन्यालयाद्यर्चितं चेत्तत्क्रियान्ते पुनः क्रमात्। पूर्वाऽलयं समानीय शान्तिं हुत्वा समर्चयेत् ॥ 20.62 ॥ स्थापितं नानुरुपञ्चेद्वैष्णवं मन्त्रमुच्चरन्। सहसक्रकृत्वो हुत्वा तु कौतुकं स्थापयेच्छुभम् ॥ 20.63 ॥ वास्तुसवनपुण्याहीने वास्तुहोमविहीने तु पाञ्चभैतिकवैष्णवै। महाव्याहृतिसंयुक्तं हुत्वा तत्पुनराचरेत् ॥ 20.64 ॥ पुण्याहवाचने हीने विप्रान् शक्त्यैव भोजयेत्। ब्रह्मपद्मावटे ब्रह्मपद्मावटे तस्मिन्कपालास्थ्यादिदर्शने ॥ 20.65 ॥ वैष्णवं भूमिदैवत्यं ब्राह्ममष्टोत्तरं शतम्। हुत्वाऽन्यत्रैव तत्कुर्याद्ब्रह्मपद्मावटं पुनः ॥ 20.66 ॥ वैष्णवं भूमिदैवत्यं प्राजापत्यं यजेत्पुनः। भिन्ने तत्र घटे स्रावे जनानां भयसम्भवे ॥ 20.67 ॥ कलहे रुधिरस्रावे वैश्वक्सेनं यजेत्क्रमात्। गारुडं वैष्णावं ब्राह्ममैन्द्रञ्चैव समाहितः ॥ 20.68 ॥ रात्रिसूक्तञ्च हुत्वा तु प्राजापत्यसमन्वितम्। वामावर्ते वारुणञ्च वायव्यं भूमिदैवतम् ॥ 20.69 ॥ सङ्कुलञ्चेत्तदा वारि ब्राह्मं हुत्वा सवारुणम्। स्पन्दने चलने चैव पांसुच्छन्ने तथैव च ॥ 20.70 ॥ वारुणं वैष्वक्सेनञ्च जुहुयात्तस्य शान्तये। पद्मेऽधरोत्तरे तस्मिन् पार्श्वस्?थे पतितेऽपि च ॥ 20.71 ॥ स्पन्दने पत्रकौटिल्ये परिम्लाने च भेदने। ब्राह्मं तद्देवहोमञ्च वारुणं भार्गवं यजेत् ॥ 20.72 ॥ विदिग्गते तथा पद्मे ब्राह्ममारुषमेव च। शङ्कुस्थापने शङ्कुस्थापनहीने च परिषद्धोममाचरेत् ॥ 20.73 ॥ शुद्धप्राच्याऽथवा कुर्याद्दिक्परिच्छेदमत्वरः। आरभ्य मुख्यमार्गन्तु तद्गौणं कारयेद्यदि दत्वा च दक्षिणां देवं सक्त्याभ्यर्च्य निवेद्य च ॥ 20.75 ॥ आरब्धनतु यथापूर्वं तथैव पुनराचरेत्। आद्येष्टकायाम् आद्येष्टकामकृत्वा तु विमानं क्रियते यदि ॥ 20.76 ॥ ग्रामस्य यजमानस्य राष्ट्रस्य महती विपत्। तस्मात्तदपहाराय महाशान्तिं तथा यजेत् ॥ 20.77 ॥ आद्येष्टकाञ्च सन्न्यस्य विमानं कारयेत्पुनः। आद्येष्टकाक्रियायान्तु न्यूनायां मन्त्रपर्यये ॥ 20.78 ॥ इष्टकाग्रे शिलाग्रे च विपर्यासे तथैव च। रत्नन्यासविहीने च सर्वदैवत्यपूर्वकम् ॥ 20.79 ॥ वंष्णवं विष्णुसूक्तञ्च पैरुषं सूक्तमेव च। मिन्दाहुती महीसूक्तं विच्छिन्नं जुहुयात्क्रमात् ॥ 20.80 ॥ पूर्वोक्तेन विधानेन कारयेदिति शासनम्(1)। विमाने प्रस्तरे तस्मिन्नलङ्कारे च सर्वशः (1.) अत्र 24. अध्याय समाप्तिः ख. ॥ 20.81 ॥ हीने चाङ्के विमाने च प्रतिखण्डविपर्यये। शान्तिकादिविमाने तु तले त्वन्योन्यसङ्करे ॥ 20.82 ॥ द्वारस्याभ्यन्तरस्यापि भित्तेः हीनेऽधिके तथा। न्यक्षादीनां चतुर्णाञ्च शतकृत्वो यजेत्क्रमात् ॥ 20.83 ॥ मध्ये तु पौण्डरीकाग्नौ पद्महोमं जुहोति च। जुहुयाद्रात्रिसूक्तञ्च पौरुषं सूक्तमेव च ॥ 20.84 ॥ सहस्राहुतिपर्यन्तं यथोक्तं कारयेद्बुधः। अन्योन्यं गण्यसाङ्कर्यं नाचरेच्छान्तिकादिषु ॥ 20.85 ॥ अदृभुते शानितकं गण्यं योजयेत्सार्वदेशिकम्। प्राकाराद्येष्टकाहीने परिवाराधिदैवतम् ॥ 20.86 ॥ वैष्णवेन समायुक्तं दशकृत्वो जुहोति च। गोपुराद्यैष्टकाहीने द्वारपालाधिदैवतम् ॥ 20.87 ॥ धात्रादीनान्तु षण्मन्त्रान् दशवारं सवैष्णवम्। आद्येष्टकानां विन्यासे हीने चैन्मण्डपादिषु ॥ 20.88 ॥ तन्मण्डपाधिदैवत्यं वैष्ण्?ावेन शतं यजेत्। महानसस्य हीने चेद्धविरक्षकदैवतम् ॥ 20.89 ॥ श्रीदैवत्यञ्च तत्सूक्तमाग्नेयं वैष्णवं यजेत्। भूतपीठे अद्येष्टका आद्येष्टकाक्रमं वक्ष्ये भूतपीठप्रकल्पने ॥ 20.90 ॥ इष्टकां वा शिलां वाऽथ गृहीत्वा पूर्वसङ्ख्यया। अधिवासादिकर्माणि कृत्वा पूर्वोक्तमार्गतः ॥ 20.91 ॥ मन्त्रौ तदृभूतदैवत्यौ वैष्णवेन समन्वितौ। अष्टोत्तरशतं हुत्वा भूतेभ्यश्च ततः परम् ॥ 20.92 ॥ यक्षेभ्यश्च पिशाचेभ्ज्ञ्यो नागेभ्यश्च जुहोति च। चतुर्वेदादिमन्त्रैस्तु स्थापयेच्चतुरिष्टकाः ॥ 20.93 ॥ तत्राप्याद्येष्टकाहीने कृते सति तपोधनाः। जुहुयाद्भूतमन्त्राभ्यां वैष्णवेन युतं शतम् ॥ 20.94 ॥ अधिवासोचितैर्मन्त्रैः पीठं संस्नाप्य वारिणा। संस्नाप्य सप्तकलशैर्होमं हुत्वा च पूर्ववत् ॥ 20.95 ॥ चतुर्वेदादिमन्त्रास्तांश्चतुर्दिक्षु तथा जपेत्। साधारणनिष्कृतिः कर्मणामपि सर्वेषां प्रच्युतावुक्तनिष्कृतिः ॥ 20.96 ॥ हुत्वा तदुक्तहोमान्ते तत्तन्मन्त्रान् जपेत्क्रमात्। परिवारालयानाञ्च हरेरुक्तप्रमाणतः ॥ 20.97 ॥ आद्येष्टकादिकं सर्वं कुर्यात्तन्मन्त्रपूर्वकम्। गर्भन्यासहीनेगर्भन्यासक्रियाहीने कालातीते विपर्यये ॥ 20.98 ॥ वैष्णवं भूमिदैवत्यं श्रीदैवत्यं तथैव च। विष्णुसूक्तञ्च जुहुयात्पौरुषं सूक्तमेव च ॥ 20.99 ॥ मिन्दाहुती च विच्छिन्नं महीसूक्तं क्रमाद्यजेत्। पूर्ववत्सन्न्यसेद्गर्भ तत्तत्परिषदां स्मृतम् ॥ 20.100 ॥ मूर्धेष्टकान्यासे मूर्धेष्टकायां हीनायां कालेऽतीते विपर्यये। आद्येष्टकायां सम्प्रोक्तं प्रायश्चितं जुहोति च ॥ 20.101 ॥ अङ्गहोमं ततो हुत्वा पूर्वोक्तविधिना चरेत्। स्थूपिशूलादिहीने स्थूपिशूलादिहीने तु ध्रुवसूक्तं समुच्चरन् ॥ 20.102 ॥ सन्न्यसेदिष्टकामेकां तत्र रत्नानि सन्न्यसेत्। दिक्ष्विष्टकाश्चतस्रस्तु स्थापयित्वा तु पूर्ववत् ॥ 20.103 ॥ मध्ये स्थूपिं प्रतिष्ठाप्य सुधया कारयेद्दृढम्। परिवारालयानाञ्च गोपुराणां तथैव च ॥ 20.104 ॥ र्वलेपादिहीने मूर्धेष्टकायां हीनायां वर्णलेपविपर्यये। सहस्राहुतिमबजग्नौ वैष्णवं जुहुयात्तथा ॥ 20.105 ॥ सुधाकर्म पुनः कुर्याद्वर्णलेपं तथैव च। अग्नयुल्काशनिधूमाद्यैर्दोषयुक्ते च मन्?िदरे ॥ 20.106 ॥ शान्तये तस्य दुहुयादीङ्कारीदींस्तथैव च। मिन्दाहुती च विच्छिन्नं पारमात्मिकमेव च ॥ 20.107 ॥ ब्राह्मणान् भोजयित्वा तु दद्यादाचार्यदक्षिणाम्। बेरस्याग्निस्पर्शे बेरेऽग्निस्पर्शनेऽब्जाग्नौ महाशान्तिं दिनत्रयम् ॥ 20.108 ॥ हुत्वा शताष्टकलशैः स्नापयित्वा ततः परम्। प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचेत् ॥ 20.109 ॥ प्रकारैष्वग्निदग्धेषु प्राकरेष्वग्निदग्धेषु तत्रस्थपरिषद्गणान्। संस्नाप्यैव समभ्यर्च्य तेषां मन्त्रं सवैरूष्णवम् ॥ 20.110 ॥ चतुर्वेदादिमन्त्रांश्च हुत्वा विप्रांश्च भोजयेत्। देवं विशेषतोऽभ्यर्च्य हविस्सम्यङ्निवेदयेत् ॥ 20.111 ॥ दारमसङ्गहकाले तु विपरीतं भवेद्यति। याजमानो गुरूः स्नात्वा तत्राब्जाग्निं प्रकल्प्य च ॥ 20.112 ॥ जुहुयाद्रात्रिसूक्तन्तु श्रीसूक्तं (1)वैष्णवं तथा। वैष्णवं विष्णुसूक्तञ्च गृह्णीयात्पूर्ववत्पवुनः (1.) दैवतं आ. ॥ 20.113 ॥ शूलस्थापनहीने शूलसंस्थापने हीने समाप्ते सति मन्दिरे। भवेत्पिशाचावासः स वास्तुहोमं यजेत्पुनः ॥ 20.114 ॥ पौण्डरीके तु तन्मध्ये महाशान्तिं जुहोति च। हिरण्यपशुभूम्यादीन् दत्वा कर्मं समारभेत् ॥ 20.115 ॥ एकमासे भवेदेवं द्विमासे द्विगुणं भवेत्। एवं संवर्धयेत्प्राज्ञो यावत्संवत्सरावधि ॥ 20.116 ॥ संवत्सरेऽप्यतीते तु महाशान्तिं जुहोति च। हिरण्यपशुभूम्यादीन् दत्वा विप्रांश्च भोजयेत् ॥ 20.117 ॥ एवमाद्येष्टकादीनां हुत्वा तत्तन्मनुं स्मरन्। तत्तन्मन्त्रजपं कृत्वा शूलं संस्थापयेत्पुनः ॥ 20.118 ॥ मासमेकं महाशान्तिं द्वादशाब्दात्पंर यजेत्। कर्षणादीनि कर्माणि कुर्यात्सर्वाणि पूर्ववत् ॥ 20.119 ॥ ध्रुवबेरक्रियाहीने शूले संस्थापिते यदि। जुहुयात्पौण्डरीकाग्नौ विष्णुसूक्तमनुस्मरन् ॥ 20.120 ॥ विच्?िछन्नञ्चैव हुत्वा तु मिन्दाहुत्या च हूयताम्। हुत्वा तु सप्तसमिधो देवेशमनुमान्य च ॥ 20.121 ॥ भूमिञ्च गुरवे दत्वा तत्तत्कर्म समाचरेत्। एवं मासे तु सम्प्रोक्तं द्वितीये द्विगुणं भवेत् ॥ 20.122 ॥ वर्धयेदेवमेवैतत् यावत्संवत्सराधि। संवत्सरेऽप्यतीते तु पौण्डरीकञ्च कारयेत् ॥ 20.123 ॥ कुर्यादाहवनीयादीन् चतुर्दिक्षु यथाक्रमम्। आघारान्ते तु होतव्ये सहस्राहुतिवैष्णवे ॥ 20.124 ॥ विष्णुसूक्तञ्च जुहुयात्तत्तद्धोमे शताष्टकम्। दिग्दैवत्यञ्च हुत्वा तु दक्षिणाञ्च ददेत्तथा ॥ 20.125 ॥ विप्राणां भोजनं कृत्वा दक्षिणाञ्च स्वशक्तितः। द्वितीये द्विगुणञ्चैव वर्धयेद्वादशावधि ॥ 20.126 ॥ द्वादशाद्वे व्यतीते तु कर्षणादीनि कारयेत्। पौण्डरीके तु कूष्माण्डं पञ्चवारुणसंयुतम् ॥ 20.127 ॥ पारमात्मिकमीङ्कारानङ्गहोमं ततः परम्। पौरुषं विष्णुसूक्तञ्च हुत्वा विप्रांश्च भोजयेत् ॥ 20.128 ॥ पञ्चनिष्कसुवर्णञ्च दद्यादाचार्यदक्षिणाम्। वास्तुहोमं ततो हुत्वा पुण्याहमपि वाचयेत् ॥ 20.129 ॥ कवाटबोधिकास्थूणासूत्तरे देषसंयुते। वृद्धौ प्रमाणहीने च जीर्णे दग्धे च तं त्यजेत् ॥ 20.130 ॥ अन्यत्प्रमाणसंयुक्तं गृहीत्वा योजयेत्पुनः। ‘आपो हि ष्ठा’ दिभिः प्रोक्ष्य जुहुयाद्वैष्णवं शतम् ॥ 20.131 ॥ भुवङ्गे च पतङ्गे च कवाटे स्तमृभयोर्द्वयोः। धात्रादीन् षट् समावाह्य विधिनैव समर्चयेत् ॥ 20.132 ॥ अन्यालयोपयुक्ताश्च अन्यार्थ स्वीकृताश्य याः। हुताशनपरीताश्च त्याज्या दारुशिलेष्टकाः ॥ 20.133 ॥ विमानं नवधा मार्गे यन्मार्गेण प्रकल्पितम्। कारयेध्द्रुवबेरन्तु तन्मार्गेणाधिकेन वा ॥ 20.134 ॥ ततो हीनं न कर्तव्यं कौतुकादित्रयं तथा। आलयस्य विपर्यासे तथा बेरविपर्यये ॥ 20.235 ॥ शूलदारुविपर्यासे कल्पनादिविपर्यये। ब्राह्मञ्च विष्णुसूक्तञ्च गारुडं सौम्यमेव च ॥ 20.136 ॥ प्राजापत्यञ्च रौद्रञ्च सहस्रं जुहुयात्क्रमात्। पूर्वोक्तेनैव मार्गेण कारयेत्तद्विधानतः ॥ 20.137 ॥ विमानादीनां श्रैष्ट्यम् आलयं गोपुरञ्चैव प्रतिमा पीठमेव च। शरीरमेव देवस्य स्मृतमेतच्च्तुष्टयम् ॥ 20.138 ॥ जीर्णोद्वारविचारः आलये मण्डपे वाऽपि परिवारालये तथा। प्राकारे गोपुरे पीठे पचनालय एव वा ॥ 20.139 ॥ इष्टकानां तु प्रक्षेपे तथा वर्णानुलेपने। एकद्विमासे कुयाच्चेत् नवकर्मादिकं तथा ॥ 20.140 ॥ तद्दोषन्तु व्यपोह्यैव सर्वेषान्तु सलक्षणम्। यथासौन्दर्यमार्गेण नवकर्म समाचरेत् ॥ 20.141 ॥ समाप्तेऽह्रि च पूवहिणेऽप्यालयस्योत्तरे तथा। वास्तुहोमं ततो हुत्वा पर्यग्निकरणं तथा ॥ 20.142 ॥ पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचयेत्। स्नपनोक्तक्रमेणैव विधिना स्नापयेद्बुधः ॥ 20.143 ॥ आलयाद्दक्षिणे चैव औपासनविधानतः। कुण्डं सलक्षणं कृत्वा प्रज्वाल्याग्निं समन्त्रकम् ॥ 20.144 ॥ तद्दैवत्यञ्च हुत्वा तु परिषन्मन्त्रसंयुतम्। अङ्गहोमं ततो हुत्वा पारमात्मिकसंयुतम् ॥ 20.145 ॥ ईङ्कारादींस्ततो हुत्वा अष्टाशीत्याहुतिं यजेत्। वैष्णवं तत्रजुहुयान्महाव्याहृतिसंयुतम् ॥ 20.146 ॥ सहस्राहुतिञ्च जुहुयात्सर्वेषामेव कारयेत्। तांस्तान् देवान् प्रतिष्ठाप्य प्रतिष्ठोक्तक्रमेण वै ॥ 20.147 ॥ अन्तहोमं ततो हुत्वा देवेशं सम्प्रणम्य च। महाविः प्रभूतं वा देवेशाय निवेदयेत् ॥ 20.148 ॥ शिलादार्वोमुंखं पार्श्वें पृष्ठमूर्ध्वमधस्तथा। ज्ञात्वा कुर्याद्विपर्यासाद्देवरूपं कृतं यदि ॥ 20.149 ॥ स्थापितं चेत्तदाभिचारिकमुच्यते। राजाष्ट्रविनाशः स्यात् प्रजापीडा भयं मृतिः ॥ 20.140 ॥ तद्दोषशमनार्थाय क्षिप्रं शान्तिञ्च कारयेत्। आलयस्योत्तरे कुर्यात्पौण्डरीकं सलक्षणम् ॥ 20.151 ॥ जुहुयात्पौरुषं सूक्त ‘मतो देवा’ ?दि वैष्णवम्। ईङ्काराद्यङ्गहोमञ्च पञ्चवारुणसंयुतम् ॥ 20.152 ॥ जयाभ्यातानसंयुक्तं परिषन्मन्त्रसंयुतम्। पूर्ववद्विधिना कृत्वा स्थापयेत्तद्विचक्षणः ॥ 20.153 ॥ अङ्गवैकल्ये बाहुप्रकोष्ठहस्तोरुजङ्घापादतलेषु च। पार्श्वाधःकटिदण्डेषु न हीनं नाधिकं तथा ॥ 20.154 ॥ अङ्गोपाङ्गेषु सर्वत्र हीने चैवाङ्गुले तु तत्। हेम्ना वा रजितेनाथ ताम्रेणैवाथ पूर्ववत् ॥ 20.155 ॥ स्थापयेद्व्यत्ययेनैव शूलं यदि विनश्यति। आलयस्योतरे पार्श्वे पूर्वोक्तं होममाचरेत् ॥ 20.156 ॥ हुत्वा पुरुषसूक्तञ्च दद्यादाचार्यदक्षिणाम्। गृहीत्वा विधिवच्छूलं पूर्ववत्स्थापयेत्क्रमात् ॥ 20.157 ॥ दूषिता मूत्तिका चेत्तु श्वकाकपशुवानरैः। मू?षिकाभिः कुक्कुटैर्वा त्यक्त्वान्यां विधिना हरेत् ॥ 20.158 ॥ जुहुयाद्भूमिदैवत्यं पारमात्मिकसंयुतम्। ईङ्कारादींश्चकूष्माण्डान् संस्कुर्याच्च पुनर्मृदम् ॥ 20.159 ॥ मृदःस्नेहस्य चूर्णस्य कषायस्यौषधस्य च। न्यूने संस्कारहीने च प्रयोगस्य विपर्यये ॥ 20.160 ॥ रज्जुबन्धेऽष्टबन्धे च शर्करालेपने तथा। न्यूने संस्कारहीने च प्रयोगस्य विपर्यये ॥ 20.161 ॥ वैष्णवं चारुषञ्चैव पाञ्चभौतिकमेव च। ब्राह्ममैन्द्रं त्रयस्त्रिंशद्देवताभ्यश्च हूयते ॥ 20.1़62 ॥ पूर्वोक्तेन विधानेन तत्तत्कर्म समाचरेत्। वर्णव्यतिक्रमे हुत्वा प्राजापत्यं सपौरुषम् ॥ 20.163 ॥ मृण्मयं नार्धचित्रम् अर्धचित्रं न कुर्वीत मृण्मयं लोहजं तथा। स्थापितञ्च विसृज्यान्यत् बेरं सङ्गृह्य यत्नतः ॥ 20.164 ॥ पद्माग्नौ ब्रह्मसूक्तञ्च वैष्ण ‘वा श्रावि’ तादिकम्। हुत्वा मिन्दाहुती विप्रान् भोजयित्वा ततः परम् ॥ 20.165 ॥ पूर्वोक्तेन विधानेन स्थापयेदिति शासनम्(1)। शिलामणिबिम्बे शिलाजं मणिजं बिम्बमर्धचित्रं न दोषकृत् (1.) अत्र 25 अध्याय समाप्तिः ख. ॥ 20.166 ॥ शैलजं ध्रुवबेरन्तु वर्णयुक्तन्तु कारयेत्। (ध्रुवबेरार्चनं चेत्तु वर्णयुक्तं न कारयेत् ॥ 20.167 ॥ ब्रह्मस्थानार्चनार्हं यत् स्थापनं तद्ध्रुवार्चनम्। दैविंके मानुषे चैव स्थापयेच्च विशेषतः ॥ 20.168 ॥ एकबेरार्चनञ्चैतत् वर्णयुक्तं न (2)दोषकृत्। न्यूनाधिक्यविषयः किमिदं परिमाणेन कारणं यच्च वै विदुः (2.) दोषभाक् आ. ॥ 20.169 ॥ यवं यवत्रयं चापि अर्धाङ्गुलमथापि वा। एकेन वाऽथ पादाभ्यां न्यूनाधिक्ये न दोषकृत् ॥ 20.170 ॥ बिम्बस्य वस्त्रमाभरणं पद्मं किरीटं शङ्खचक्रकौ। उपवीतं प्रलम्बञ्च श्रीवत्सं कुण्डनलद्वयम् ॥ 20.171 ॥ एवमाद्यैस्समायुक्तं बिम्बं कर्याद्विशेषतः। एतैर्हींनं यदि भवेत्पुनरेतैस्समायुतम् ॥ 20.172 ॥ कारयित्वैव जुहुयाद्वैष्णवं ब्राह्मसंयुतम्। ऐन्द्रञ्च विष्णुसूक्तञ्च सौरं सौम्यञ्च पौरुषम् ॥ 20.173 ॥ ब्राह्मणान् भोजयित्वा तु विधिना स्थापयेद्बुधः। बेरं कृत्रिमवर्णेन योजयेच्चेत्प्रमादतः ॥ 20.174 ॥ क्षालयित्वां प्रमार्ज्यैव विशोष्य च यथाविधि। पौण्डरीकाग्निकुण्डे तु सूक्तं वैश्वानरं यजेत् ॥ 20.175 ॥ ब्राह्मञ्च विष्णुसूक्तञ्च वैष्णवञ्च जयादिभिः। तस्यानुरूपं वर्णञ्च योजयेत्तद्विधानतः ॥ 20.176 ॥ अक्षिमोचनहीने च कालातीते प्रमादतः। षण्मण्डलाधिदैवत्यं ‘यद्देवादि’ ततः परम् ॥ 20.177 ॥ ‘ईङ्कारादी’ स्ततो हुत्वा पारमात्मिकमेव च। अष्टाशीतिं ततो हुत्वा कारयेदक्षिमोचनम् ॥ 20.178 ॥ क्रूरग्रहाणामुदये त्वज्ञानात्क्रियते यदि। क्षालयित्वा ततो हुत्वा प्रायश्चित्तञ्च पूर्ववत् ॥ 20.179 ॥ पूर्ववद्विधिना सम्यगक्षिमोचनमाचरेत्। कर्षणादीनां सामान्य प्रायश्चित्तम् कर्षणादि प्रतिष्ठान्तं न्यूने हीने विपर्यये ॥ 20.180 ॥ जुहुयात्पौण्डरीकाग्नौ सूक्ते वैष्णवपौरुषे। ‘यद्देवादीं’ स्ततो हुत्वा पारमात्मिकमेव च ॥ 20.181 ॥ ‘ईङ्कारादी’ श्च जुहुयादष्टाशीतिमतः परम्। प्राजापत्यञ्च सौम्यञ्च ऐन्द्रमाग्नेयमेव च ॥ 20.182 ॥ सौरं सौम्यञ्च जुहुयादङ्गहोमञ्च वैष्णवम्। महाव्याहृतिभिर्हुत्वा ब्राह्मणान्भोजयेत्पुनः ॥ 20.183 ॥ वाचयित्वा तु पुण्याहं स्वस्तिघोषञ्च कारयेत्। देवकार्येषु प्रण्याहविशेषः दैविकेषु तु सर्वेषु भूपरीक्षादिकर्मसु ॥ 20.184 ॥ पुण्याहे विहिते सम्यक्, यत्पुण्य’ मिति च ब्रुवन्। ‘पुण्याहं स्वस्तिमृद्धि’ ञ्च वाचयित्वा त्रिधात्रिधा ॥ 20.185 ॥ ‘स्वस्ति न-ऋद्ध्यास्स्मे’ ति वाचयित्वान्तरान्तरा। ‘आपो हिरण्य पवमानैः’ प्रोक्षयित्वा ततः परम् ॥ 20.186 ॥ दक्षिणादानादाने च सूत्रोक्तविधिना चरेत्। गवादिदक्षिणां दत्वा पश्चात्कर्म समाचरेत् ॥ 20.187 ॥ हीनक्रियासु सर्वासु प्रायश्चित्तमिदं स्मृतम्। अनुक्तदव्यकल्पिते बेरे इष्टकाभिस्सुधाभिर्वाकण्टकाद्यैर्नपुंसकैः ॥ 20.188 ॥ अन्यैश्च काष्ठैवृर्क्षैर्वाऽप्यन्यैर्दूषितदारुभिः। कालायसैश्च पाषाणैः चूर्णैर्वाऽपि समायुतैः ॥ 20.189 ॥ संयुक्ते तु कृते बेरे कृते पक्वे तु मृण्मये। पैशाचैश्चासुरैर्द्रव्यैरतिरिक्तमृदाऽथवा ॥ 20.190 ॥ द्रव्यैरसंस्कृतैर्वापि ध्रुवबेरे प्रकल्पिते। अशूले रज्जुमृद्वस्त्रशर्करादावमानके ॥ 20.191 ॥ कुशे स्थूलेऽतिजीर्णे च वृद्धौ वाऽनुक्तवर्णके। सुधयैव कृते बेरे तथैवेष्टकया कृते ॥ 20.192 ॥ क?िल्पतेऽनुक्तद्रव्येण कृत्रिमाभरणान्विते। इत्यादिदोषसंयुक्ते बेरे सर्व विनश्यति ॥ 20.193 ॥ स्थापयेच्चेतदज्ञानात् यजमानो विनश्यति। तच्छान्तिः तच्छान्तिः पौण्डरीकाग्नावालयस्योत्तरे कृते ॥ 20.194 ॥ पारमात्मिकमीङ्काराद्यष्टाशीत्यङ्गहोमकम्। ब्रह्मसूक्तसमायुक्तं श्रीसूक्तेन समन्वितम् ॥ 20.195 ॥ दुर्गासूक्तञ्च जुहुयाद्विष्णुसूक्तमतः परम्। जुहुयात्पौरुषं सूक्तं विश्वजित्सूक्तमेव च ॥ 20.196 ॥ प्राजापत्यञ्च रौद्रञ्च ब्राह्ममाग्नेयमेव च। सौरं सौम्यसमायुक्तं वैष्णवं जुहुयायात्पुनः ॥ 20.197 ॥ ब्राहृमणान् भोजयित्वा तु दद्यादाचार्यदक्षिणाम्। बालालये प्रतिष्ठाप्य सदोषमपहाय च ॥ 20.198 ॥ सलक्षणं ततः कृत्वा स्थापयेत्वूर्वत्क्रमात्। पुनर्जौर्णविमानादिकथनम् तद्विमानगलस्थाने पादवर्गस्य मध्यमे ॥ 20.199 ॥ कारयेद्विहितां मूर्तिं सुधयेष्टकयाऽथवा। मृच्छूलशर्करारज्जवुस्त्रे हीनेऽप्रमाणके ॥ 20.200 ॥ कृते कृत्रिमवर्णेन दोषैः कार्श्यादिभिर्युते। न दोषदा इति प्रोक्ता यदि ते शिलया कृताः ॥ 20.201 ॥ सर्वलक्षणसंपन्नान् वर्णहीनान् प्रकल्पयेत्। शिलासङ्गहवर्ज बिम्बे कृते अकृत्वा कल्पिते बेरे शिलासङ्गहणक्रियाम् ॥ 20.201 ॥ पौण्डरीके महाशान्तिं एकाहं जुहुयात्पुनः। शिलाग्रहणहोमञ्च हुत्वा मन्त्रं स्पृशन् जपेत् ॥ 20.203 ॥ अज्ञानात्स्थापितञ्चैतत् एवं कृत्वा यथाविधि। प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत्(1) (1.) अत्र 26 अध्याय समाप्तिः ख. ॥ 20.204 ॥ शीघ्रं संस्थापयेद्वेरं निर्दोषं लक्षणान्वितम्। न स्थापयति चेन्मोहादाधिव्याध्याद्युपद्रवैः ॥ 20.205 ॥ क्षुत्पिपासादिभिश्चैव स देशः पीड्यते भृशम्। तस्माद्धुत्वा महाशान्तिं भोजयित्वा द्विजोत्तमान् ॥ 20.206 ॥ प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत्(1)। अनुक्तकाले बिम्बे स्थापिते आर्द्राद्यनुक्तनक्षत्रे वारे राशौ च निन्दिते (1.) अत्र 26 अध्याय समापितः चख. ॥ 20.207 ॥ उल्काग्न्यशनिपाते च दिग्दाहे पांसुलोहिते। वर्षधारातिपाते च चन्द्रसूर्योपरागयोः ॥ 20.208 ॥ चैत्यवृक्षनिपाते च भूमिकम्पदिने तथा। दोषुयक्ते च नक्षत्रे शर्वर्यां वा तथैव च ॥ 20.209 ॥ स्थापितं चेत्तदज्ञानात् पूर्ववद्होममाचरेत्। सहस्राहुतिमिष्ट्वैव सहस्रञ्चैव वैष्णव् ॥ 20.210 ॥ परिषद्देवतानाञ्च तत्तन्मन्त्रैश्च हूयते। यथोक्तं स्थापयित्वैव शक्तितो दक्षिणां ददेत् ॥ 20.211 ॥ अकृत्वा भूपरीक्षादिक्रियास्सर्वाः प्रमादतः। अनुक्तमासनक्षत्रथिवासरराशिषु ॥ 20.212 ॥ रात्रावविधिकं मोहादज्ञानात्स्थापिते यदि। मासं पक्षन्तु सप्ताहं पञ्चाहं त्रियहन्तु वा ॥ 20.213 ॥ त्रिकालं पौण्डरीकाग्नौ महाशान्तिं जुहोति वै। तत्तन्मन्त्रजपं कृत्वा भूपरीक्षादिकर्मणाम् ॥ 20.214 ॥ पूर्वोक्तेन प्रकारेण प्रतिष्ठां पनराचरेत्। इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृंगुप्रोक्तायां संहितायां क्रियाधिकारे भूपरीक्षादिप्रायश्चित्तविधिर्नाम विंशोऽध्यायः।