19 एकोनविंशोऽध्यायः

एकोनविंशोऽध्यायः


एकोनविंशोऽध्यायः
विशेषार्चनम्
अतः परं प्रवक्ष्यामि विशेषाराधनं हरेः।
शान्तिकं पौष्टिकं काम्यमिति भिन्नं त्रिधाऽर्चनम् ॥ 19.1 ॥
व्याधिदुर्भिक्षदुस्स्वप्नदुर्निमित्तप्रशान्तये।
शत्रुपीडोपशान्त्यर्थं तथाऽवग्रहशान्तये ॥ 19.2 ॥
अन्यदोषोपशान्त्यर्थ शान्तिकं समुदाहृतम्।
धनधान्यादिवृद्ध्यर्थं कृतं पौष्टिकमुच्यते ॥ 19.3 ॥
यत्किञ्चिदभिकांक्ष्यार्थ(1) कृतं काम्यमुदाहृतम्।
पूर्वाहेण शान्तिकं कुर्यान्मध्याह्रे पौष्टिकं तथा (1.) अभिलक्ष्यार्थं. आ. ॥ 19.4 ॥
काम्यं स्यादपरोह्णे तु न कुर्यान्निशि किञ्चन।
पूर्वोक्तेन प्रकारेण कारयित्वाऽङ्कुरार्पणम् ॥ 19.5 ॥
अङ्कुरार्पणकादूर्ध्व द्रव्याण्यपि समाहरेत्।
मण्डपं वा प्रपां वाऽपि कूटं वाऽपि यथोचितम ॥ 19.6 ॥
कारयेत्तत्र देशे तु स्नपनालयचोदिते।
पूर्वरात्रे तु देवेशं समभ्यर्च्य यथाविधि ॥ 19.7 ॥
बध्द्वा प्रतिसरं तद्वच्छाययित्वा ततः परम्।
श्वभ्रस्य परितः पडक्तिं कल्पयेत्स्नपनोक्तवत् ॥ 19.8 ॥
(2)द्रव्याणि च मृदाद्यानि तत्र सन्न्यस्य पूर्ववत्।
(देवाग्रे दक्षिणे वाऽपि पौण्डरीकं प्रकल्पयेत्) (2.) द्रव्याण्यपि च धान्यानि. आ.
॥ 19.9 ॥
देवं श्वभ्रे प्रतिष्ठाप्य स्नापयित्वाऽथ पूर्ववत्)
मथितं लौकिकं वाऽग्निं कुण्डे चाऽधाय पूर्ववत् ॥ 19.10 ॥
आघारान्ते सुहोतव्यं मूलमन्त्रद्वयेन वै।
आज्याश्वत्थसमिद्दूर्वाचरुभिश्च पृथक्पृथक् ॥ 19.11 ॥
प्रत्येकमयुतं प्रोक्तमुत्तमं मुनिसत्तमाः।
अष्टोत्तरसहस्रन्तु मध्यमं परिकीर्तितम् ॥ 19.12 ॥
अष्ठोत्तरशतं न्यूनमेवं त्रिविधमीरितम्।
जाज्वल्यमानमकुटं (1)दीप्यमानविभूषणम् (1.) दिव्याभरणभूषितम् आ. ॥ 19.13 ॥
श्यामाम्बरधरं (2)देवं तप्तहाटकसन्निभम्।
रक्तास्यपाणिपादाक्षं प्रणवात्मकमव्ययम् (2.) सौम्यं आ. ॥ 19.94 ॥
शङ्क्षचक्रधरं देवं परात्परतरं विभुम्।
इत्येवं मनसा ध्यात्वा होमकर्म समाचरेत् ॥ 19.95 ॥
वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च।
ब्राह्मं रौद्रं जयार्दीश्च जुहुयात्सर्पिषा सकृत् ॥ 19.16 ॥
अष्टोत्तरशतं हुत्वा श्रीसूकृतेनापि पौष्टिके।
द्वात्रिंशत्प्रस्थसम्पूर्ण नवं कुम्भं प्रगृह्य च ॥ 19.17 ॥
तन्तुना परिवेष्ट्याद्भिः पूरयित्वा यवान्तरम्।
(3)सौवर्णं विष्णुरुपञ्च श्रीभुम्योश्च पृथक्पृथक् (3.) एतदारभ्य सार्धैकोनविंशश्लोकपर्यन्तो भागः इत्थं पठ्यते. ख. कोशे ‘सूक्ष्मवस्त्रद्धयेनैव वेष्टयित्वा तु पूर्ववत्। गन्धपुष्पाक्षतैर्युक्तं रक्तचूत (कूर्च) समन्वितम्। अश्वत्थप्लक्षयोश्चैव अपामार्गस्य पल्लवैः। कुम्भोदके प्रतिष्ठाप्य पूर्ववत्सुसमाहितः। वारुणं मण्डलं ध्यात्वा वकारं बीजसंयुतम्’ इति ॥ 19.18 ॥
सन्न्यसेद्विष्णुगायत्र्या प्रत्येकञ्चाष्टनिष्कतः।
तानि व्द्यङ्गुलमात्राणि मङ्गलान्यायुधानि च ॥ 19.19 ॥
निक्षिपेत्पूर्वचद्धीमान् रत्नानि न्व विशेषतः।
क्षौमाभ्यामथ पट्टाभ्यां सूक्ष्मवस्त्रद्वयेन वा ॥ 19.20 ॥
कुम्भस्य कण्ठमावेष्ट्य पुष्पमालापरिष्कृतम्।
अश्वत्थपल्लवं कूर्चं न्यसेद्दूर्वाङ्कुराण्यपि ॥ 19.21 ॥
प्रणवेन समावेष्ट्य मूलमन्त्रं द्वयं जपेत्।
अष्टोत्तरसहस्रन्तु देवेशं मनसा स्मरन् ॥ 19.22 ॥
‘नमो वाचे’ समुच्चार्य ‘शन्नो वात’ इतीर्य च।
दशकृत्वोऽभिमिन्त्र्यैव नित्यमेवं समाचरेत् ॥ 19.23 ॥
आस्थानमण्डपे देवं स्थापयेत्पद्मण्डले।
समभ्यर्च्य हर्वीष्यत्र पायसानि निवेदयेत् ॥ 19.24 ॥
पानीयाचमनं दत्वा पश्चात्ताम्बूलमेव च।
वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ 19.25 ॥
नारायणानुवाकञ्च सूक्तमेकाक्षरादिकम्।
सञ्जपन्विष्णुगायत्रीं ‘नमो ब्रह्मण’ इत्यापि ॥ 19.26 ॥
द्वादशाष्टाक्षराभ्याञ्च दत्वा पुष्पाञ्जलिं बहु।
दण्डाङ्गेन नमस्कृत्य ‘क्षमस्वे’ त्यनुमान्य च ॥ 19.27 ॥
अर्चापीइे प्रतिष्ठाप्य नित्यपूजां समाचरेत्।
एवं मासं त्रिसप्ताहं पक्षं वाऽथ त्रयोदश ॥ 19.28 ॥
एकादशदिनं वाऽपि नवाहं वा तथैव च।
सप्ताहं वाऽथ पञ्चाहं त्रिदिनं वा यथाविधि ॥ 19.29 ॥
स्नपनञ्चार्चनं होमं तथा कुमृभाभिमर्शनम्।
उत्तमं कुमृभहोमाभ्यां तथा कुम्भेन मध्यमम् ॥ 19.30 ॥
नित्यमेवं प्रकुर्वीत समाप्तदिवसोत्सवम्।
यजमानं तथाऽऽचार्यो देवदेवस्य सन्निधौ ॥ 19.31 ॥
स्नापयेत्कुम्भतोयेन प्रोक्षयेद्वा सहस्रशः।
मासि मासि स्वजन्मर्क्षे कुर्या?देवं यथाविधि ॥ 19.32 ॥
आयुरारोग्यमैश्वर्यमचलां श्रियमाप्नुयात्।
एवं यः कारयेद्भक्त्या देवदेवस्य शार्ङ्गिणः ॥ 19.33 ॥
व्याधयस्तस्य नश्यन्ति ग्रहपीडाद्युपद्रवाः।
दुर्निमित्तानि दुःस्वप्नचोरशत्रुभयादयः ॥ 19.34 ॥
उपद्रवास्तथा चान्ये प्रणस्यन्ति न संशयः।
धर्मार्थकाममोक्षाश्च सिद्ध्यन्त्येवं कृते सति ॥ 19.35 ॥
पौष्टिके चैव काम्ये च नैव कुम्भाभिमर्शनम्।
एवं कर्तुमशक्तश्चेदयुग्मदिनङ्ख्यया ॥ 19.36 ॥
शुद्धतोयाभिषेकञ्च पूजनञ्च निदेदनम्।
नित्याग्निकुण्डे होमञ्च कुर्यादिति च केचन ॥ 19.37 ॥
नित्याग्निहोमे विच्छिन्ने पौण्डरीके तु शान्तिके।
काम्ये च पौष्टिके चैव लौकिकाग्नौ समाचरेत् ॥ 19.38 ॥
भक्तबिम्बस्थापनम्
(अतः परं प्रवक्ष्यामि भक्ताना स्थापनाविधिम्।
जटिनं शिखिनं वाऽपि ब्राह्मणं परिकल्पयेत् ॥
प्राञ्जलिं भावनायुक्तं नासान्ताहितलोचनम्।
क्षत्रियं मकुटोपेतं वैश्यमुद्वद्धकुन्तलम् ॥
कुर्यादत्रानुलोमादीन् रोमचूडासमन्वितान्।
अथवा मुण्डितान्वापि भवद्ध्यानतत्परान् ॥
यदाकार्रेण देवेशं पश्यंतस्ते तदाकृतीन्।
अष्टतालोक्तमानेन द्विजातीन् परिकल्प्येत् ॥
मध्यमेनैव शूद्रादीन् कारयेत्तु यथाविधि।
भक्तानां ध्रुवबेरस्य कौतुकस्य तथैव च ॥
प्रमाणं पूर्वमेवोक्तं ध्रुवबेरवशात्तथा।
कृत्वैव भक्त्या बिम्बन्तु प्रतिष्ठामाचरेत्पुनः ॥
औपासंनाग्निकुण्डञ्च शय्यावेदिं तदग्रतः।
अङ्कुरार्पणकादूर्ध्व अक्ष्युन्मेषादिकाः क्रियाः ॥
तत्तन्नाम्ना प्रकुर्वीत पूर्वरात्रौ विशेषतः।
कुम्भं संसाध्य विधिना समावाह्य तु तज्जले ॥
संस्नाप्य सप्तकलशैर्वेदिमारोप्य पूर्ववत्।
बध्द्वा प्रतिसरं पश्चाच्छाययेदप्रमादतः ॥
हौत्रं प्रशंस्य विधिना प्रणिधावुत्तरे तथा।
तस्य नाम्ना समावह्य निरुप्याज्याऽहुतीर्यजेत् ॥
विष्वक्सेनस्य मन्त्राभ्यां शतमष्टोत्तरं यजेत्।
तस्य नाम समुच्चार्य विष्णुभक्तविशेषणम् ॥
चतुर्थ्यन्तं तथाऽऽज्येन शतमष्टोत्तरं यजेत्।
प्रातः स्नात्वा विधानेन यागशालां प्रविश्य च ॥
भक्तबिम्बं समादाय कुम्भेन सह सन्नयेत्।
तत्र संस्थाप्य तन्नाम्ना कुम्भादावाहनं चरेत् ॥
तन्नामाद्यक्षरं तस्य बीजाक्षरमुदासहृतम्।
समभ्यर्च्य निवेद्यैव नित्यं विधिवदर्चयेत् ॥
केवल कौतुकं वाऽपि स्थापयित्वा समर्चयेत् ॥
ब्राह्मणादिप्रतिष्ठायां तेषामग्निर्विधीयते।
अन्यभक्तप्रतिष्ठायां लौकिकाग्निर्विधीयते ॥
शूद्रादीनां विना होममिति केचिद्वदन्ति वै।
उत्सवे देवदेवेन सार्धं बिम्बं नयेद्बुधः ॥
विष्णवर्चनावशिष्टैस्तु द्रव्यैर्नित्यं समचर्येत्।
बलिहोमावशिष्टं तत् पात्रशेषं हविर्ददेत् ॥
येषां सायुज्जयसिद्धिस्तु तेषां देववदर्चनम्।
येषां सारुप्यसिद्धिस्तु तेषामपि तथाऽर्चनम् ॥
येषां सामीप्यसालोक्ये तेषां शान्तवदर्चनम्।
अन्येषां केवलं नाम्नां पूजनं परिभाषितम् ॥
देवोपभुक्तमाल्यानि वस्त्राणि च ददेत्तथा।
एवं भक्तप्रतिष्ठां यः कारयेद्भक्तिसंयुतः ॥
सामीप्यं पदमाप्नोति(1) देवदेवस्य शार्ङ्गिणः।
तद्वंशजानां भवति भक्तिः शार्ङ्गिणि निश्चला) (1.) देवदेवस्य आ. ॥
इत्योर्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सर्हितायां क्रियाधिकारे विशेषाराधन (भक्तप्रतिष्ठा) विधिर्नाम
एकोनविंशोऽध्यायः(2) (2.) द्वाविंशोऽध्यायः ख.।