अष्टादशोऽध्यायः ॐ अष्टादशोऽध्यायः पुण्यनक्षत्रपूजनम् (1)अथातस्संप्रवक्ष्यामि पुण्यनक्षत्रपूजनम्। श्रवणं द्वादशी एर्वं विष्णुपञ्चदिनानि वै (1.) अस्मिन्नध्याये प्रारम्भात्प्रभृति सप्तदशश्चेकपर्यन्तो ग्रन्धः मातृकान्तरेषु कुत्रापि नोप लभ्यते ॥ प्रशस्तं श्रवणं तेषु द्वादशी चोत्तमा मता। विषुवायनामासर्क्षग्रहणेष्वन्यसङ्क्रमे ॥ कर्तृभूपर्क्षयोश्चैव ग्रामनक्षत्र एव वा। कृत्वाऽङ्कुरार्पणं तद्वद्वद्ध्वा प्रतिसरं तथा ॥ शाययेंत्पूर्वरात्रौ तु प्रातस्स्नात्वा यथाविधि। प्रातस्सन्ध्यार्चनान्ते तु मन्त्रांस्तीर्थदिनोदितान् ॥ नित्याग्निकुण्डे हुत्वा तु चक्रवीशामितैस्सह। उत्सवोक्तक्रमेणैव ग्रामसन्धौ बलिं ददेत् ॥ उत्सवं विधिनां कृत्वा तीर्थं पूर्ववदाचरेत्। स्नपनोक्तप्रकारेण स्नापयित्वा ततः परम् ॥ समभ्यर्च्यं निवेद्यैव जीवस्थाने निवेशयेत्। शान्तिकोत्सवमुद्दिष्टमेतं पूर्वाड्णा आचरेत् ॥ विनैव बलिहोमाभ्यां मध्याह्रे पौष्टिकोत्सवम्। तीर्थं विनाऽपराह्णे तु कुर्यात्काम्योत्सवं बुधः ॥ अर्चायां शान्तिकं कर्म काम्यमौत्सव एव वा। औत्सवं स्नापयित्वाऽह्रि रात्रावास्थानमण्डपे ॥ सर्वोपचारैरभ्यर्च्य पायसादिहर्वीषि च। सर्वप्रयत्नैर्नैवेद्यं कुर्यादेवमतन्द्रितः ॥ एवं कर्तुमशकृतश्चेद्दिनेष्वेषु यथाविधि। संस्नाप्य गन्धतोयेन शुद्धस्नानोक्तमार्गतः ॥ द्वात्रिशद्विग्रहैर्देवमर्चयेत्वरया मुदा। तत्रापि बलिवेलायां यानमारोप्य पूर्ववत् ॥ देवमेवं नयेत्समृयगालये तु प्रदक्षिणम्। जीवस्थाने प्रतिष्ठाप्य शेषं तत्र समाचरेत् ॥ विष्णुपञ्चदिनस्नाने कालो मध्याह्र उच्यते। विषूपरागायनेषु तत्कालात्पूर्वमाचरेत् ॥ हविष्पाकोक्तविधिना पाकेष्वाग्रयणं चरेत्। आहृतानि च धान्यानि विविधानि फलानि च। सर्वानथोपदंशांश्च नवानि वसननि च। सर्वाण्याहृत्य यत्नेन सर्वमङ्गलसंयुतम् ॥ जपेच्छकुनसूक्तन्तु कुर्याद्ग्रामप्रदक्षिणम्। अलङ्कत्याग्रतश्चकं नयेदिति च केचन ॥ हवः पाकविधि अतः परं प्रवक्ष्यामि हविष्पाकविधिं परम्। हविरुद्दिश्य धान्यानि चोपदशांस्तथाऽऽहरेत् ॥ 18.1 ॥ शालिव्रीहिप्रियङ्गूनि नीचवारं षाष्टिकं तथा। यवञ्च वेष्णुकञ्चैव प्रशस्तानि विदुर्बुधाः ॥ 18.2 ॥ व्री?हीणामपि सर्वेषां कृष्णधान्यं विसर्जयेत्। सर्वेषां व्रीहिधान्यानां शालिर्दशगुणो भवेत् ॥ 18.3 ॥ शतगुणः प्रियङ्गुः स्यान्नीवारन्तु सहस्रकम्। अयुतं गर्भषष्टिः स्यात् अनन्तं यववेणुक ॥ 18.4 ॥ चतुर्वर्णाहृतं धान्यं प्रशस्तमभिधीयते। अन्त्यजैः प्रतिलोमैश्च नीलं धान्यं विवर्जयेत् ॥ 18.5 ॥ अथवा पण्यलब्धञ्च धान्यं शुद्धं समाहेत्। त्रिवर्षातीतधान्यानि न प्रशंसन्ति दैविके ॥ 18.6 ॥ तण्डुलानाञ्च सर्वेषां मासातीतानि वर्जयेत्। ‘आपो हि’ ष्ठेति मन्त्रेण प्रोक्ष्य धान्यानि चाऽहरेत् ॥ 18.7 ॥ आलये वा गृहे वाऽपि शुद्धे देशे समाहितः। विताने वा कटे वाऽपि समास्तीर्य विधानतः ॥ 18.8 ॥ आतपेन तथा शोष्य विश्वामित्रान् परावपेत्। ततो धान्यं सुमङ्गृह्य पलालेषु च निक्षिपेत् ॥ 18.9 ॥ पलालोन समाबध्द्य गजस्कन्दे निधाय च। सर्ववाद्यसमायुक्तं सर्वालङ्गारसंयुतम् ॥ 18.10 ॥ वेदघोषसमायुक्तं पूर्णकुम्भाङ्कुरैर्युतम्। अलङ्कत्याऽलयं सर्वं पूर्णकुम्भाङ्कुरैरपि ॥ 18.11 ॥ दीपैश्च बहुभिश्शस्तैः कदलीक्रमुकैरपि। देवालयं शनैर्नीत्वा देवाग्रे तानि विन्यसेत् ॥ 18.12 ॥ तेषु वायुं समभ्यर्च्य तथैकादशविग्रहैः। श्रीसूक्तेन श्रियं देवीं संस्तूय प्रणिपत्य च ॥ 18.13 ॥ ‘श्रिये जा’ तेति मन्त्रेण गृड्णीयाद्धान्यमत्वरः। अवघातं पुनः कुर्याद्धविष्पाकोक्तमार्गतः ॥ 18.14 ॥ तण्डुलांश्चापि शुद्धांस्तु ततः पात्रे समाहरेत्। हवींषि चोपदंशाश्च पाचयित्वा यथाविधि ॥ 18.15 ॥ तण्डुलान्क्षालितानद्भिः शर्करागुडमिश्रितान्। मरीचिजीरकैश्चैव नारिकेलफलैरपि ॥ 18.16 ॥ सघृतं देवदेवाय मन्त्रवत्तान्निवेदयेत्। तैरेव तण्डुलैर्हुत्वा परिवारबलिं ददेत् ॥ 18.17 ॥ पुनराचमनं दत्वा मुखवासं निवेदयेत्। पुनरभ्यर्च्य देवेशमुपदंशादिभिर्युतम् ॥ 18.18 ॥ निवेदयेद्धविः पश्चान्मूर्तिहोमं तथ्?ौव च। परिवारबलिं दत्वा पानीयाचमनं ददेत् ॥ 18.19 ॥ मुखवासं निवेद्यैव ‘क्षम’ स्वेति प्रणम्य च। पश्चात्पुष्पाञ्चलिं दद्याद्देवदेवस्य पादयोः ॥ 18.20 ॥ कृत्तिकादीपः कार्तिक्यां पौर्णमास्यान्तु दीपदानं समाचरेत्। आलयं समलङ्कत्य मृष्टसिक्तोपलेपनैः ॥ 18.21 ॥ अलङ्कारैरलङ्कुर्यादन्यैरपि च शोभनैः। देवदेवमलङ्कत्य वस्त्रमाल्यानुलेपनैः ॥ 18.22 ॥ महाहविः प्रभूतं वा यथाशक्ति निवदयेत्। पूगं वा नारिकेलं वा तालं वा जातिमेव वा ॥ 18.23 ॥ (तद्विमानसमायाम पादोनं वाऽर्धमेव वाः दीपदण्डं गृहीत्वा तु देवाग्रे स्थापयेत्पुनः। दीपदण्डस्य परितश्चोल्कादीपत्रयाणि च ॥ 18.24 ॥ र?त्निमात्रायतान्वेवमयुग्मानि च कारयेत्। कारयेद्दीपदानार्थ कूटाकारं चतुर्मुखम् ॥ 18.25 ॥ मण्डपेषु च सर्वेषु सर्वेष्वावरणेषु च। दीपाधारान् प्रकुर्वीत यथाविभवविस्तरम् ॥ 18.26 ॥ प्रदोषे कारयेदेवमालयन्तु प्रदक्षिणम्। ‘उद्दीप्य’ स्वेति मन्त्रेण दीपमारोपयेत्पुनः ॥ 18.27 ॥ धान्यपीठे प्रतिष्ठाप्य देवेशाभिमुखं पुनः। श्रियं तत्र समभ्यर्च्य ‘श्रिये जात’ इति ब्रुवन् ॥ 18.28 ॥ सन्न्यसेद्दीपदण्डाग्रे दीपं देवेशासन्निधौ। प्राकारादिषु सर्वत्र दीपानारोपयेद्वहून् ॥ 18.29 ॥ नित्यं तत्कार्तिके मासि दीपदानं विशिष्यते। संस्थाप्य देवमास्थाने पूजयित्वाऽष्टविग्रहैः ॥ 18.30 ॥ अपूपलाजपृथुकान् यथाशक्ति निवेदयेत्। मरीचिजीरकगुलैर्नारिकेलैस्सुसंस्कृतान् ॥ 18.31 ॥ खिले विस्तरतः प्रोक्ता कृत्तिकादीपसंस्कृतिः। केशिकद्वादशी (एकादश्यां सिते पक्षे तत्रोपोष्य यथविधि। द्वादश्यामुदयात्पूर्वं देवमास्थानमण्डपे ॥ (1)संस्थाप्?य केशिकं गानं गानविद्भिश्च कारयेत्। द्वादश्यां स्नापयेत्पश्चात्समभ्यर्च्य यथाविधि (1.) नृत्तं गेयञ्च वाद्यञ्च गानविद्भश्च कारयेत् आ ॥ हविर्निवेदयेद्गौल्यं पानीयादि निवेदयेत्। जीवस्थाने प्रतिष्ठाप्य प्रणमेद्दण्डवद्भुवि ॥ अनन्तं तत्फलं विद्धि सायुज्यं लोकमाप्नुयात्।) अध्ययनोत्सवः सार्गशीर्षाख्यमासे तु पूर्वपक्षे विशेषतः ॥ 18.32 ॥ एकादश्यामथाऽरभ्य वेदपारायणं चरेत्। प्रातस्सन्ध्यावसाने तु देवमास्थानमण्डपे ॥ 18.33 ॥ संस्थापय चतुरो वेदान् क्रमेणाध्यापयेत्सदा। पूजयेद्देवदेवं तं सप्तविंशतिविग्रहैः ॥ 18.34 ॥ सर्वालङ्कारसंयुक्तं कारयित्वा प्रदक्षिणम्। स्वस्तिसूक्तं समुच्चार्य जीवस्थाने निवेशयेत् ॥ 18.35 ॥ पक्षं त्रयोदशाहं वा द्वादशाहं समाचरेत्। पुराणानीतिहासांश्च देवस्य विजयोत्कटाः ॥ 18.36 ॥ कथां वा श्रावयेन्नित्यं देवदेवस्य सन्निधौ। तत्रैव मासि द्वादश्यां प्रातस्स्नात्वा यथाविधि ॥ 18.37 ॥ मृण्मयानि च भाण्डानि पुराणानि परित्यजेत्। यथार्ह शोधयेदन्या ‘नामा वा’ जेति मन्त्रतः ॥ 18.38 ॥ मृष्टसिक्तोपलेपाद्यैश्शोधयित्वा तथाऽऽलयम्। औत्सवादीनि बेराणि सर्वाण्येव यथाविधि ॥ 18.39 ॥ संस्नाप्य गन्धतोयेन शुद्धस्ननोक्तमार्गतः। स्नापयेत्स्नापनं बेरं कलशैश्च यथाविधि ॥ 18.40 ॥ चतुर्दिशं चतुर्हस्तं गोमयेनोपलिप्य च। व्रीहिभिः कारयेत्पद्मं साष्टपत्रं सकर्णिकम् ॥ 18.41 ॥ तत्पद्मसंस्थितान्देवान् पूर्ववत्सम्यगर्चयेत्। तस्मिन् देवं प्रतिष्ठाप्य विष्टरे सोत्तरछदे ॥ 18.42 ॥ आसनादिभिरभ्यर्च्य पायमान्नं निवेदयेत्। पाद्यमाचमनं ‘दत्वा मुखवासं निवेदयेत् ॥ 18.43 ॥ पुष्पयागोक्तमन्त्रैस्तु दद्यात्पुष्पाञ्जलीन् बहून्। धामप्रदक्षिणान्ते तु जीवस्थाने निवेशयेत् ॥ 18.44 ॥ संवत्सरार्चने न्यूनं नित्ये नैमित्तिकेऽपि यत्। तत्सर्व परिपूर्ण स्यात् द्वादश्यां पूजयाऽनया ॥ 18.45 ॥ आप्नुयाद्यजमानोऽपि तद्विष्णोः परमं पदम्। संवत्सरार्चनादोषप्रायश्चित्तार्थमेव तत् ॥ 18.46 ॥ श्रवणद्वादशीविशेषः श्रवणद्वादशीयोगे मासि भाद्रपदे तथा। पवित्रारोपणं विष्णोः कारयेदिति केचन ॥ 18.47 ॥ तस्मातृसर्वप्रयत्नेन पवित्रारोपणं चरेत्। गव्येन पयसा तैष्ये नित्यं संस्नापये?द्धरिम् ॥ 18.48 ॥ राघवस्यार्चनम् द्वादशी पूर्वपक्षे तु माघमासे पुनर्वसू। जया तस्यामुपोष्यैव रामं वा विष्णुमेव वा ॥ 18.49 ॥ ग्रामं प्रदक्षिणं नीत्वा स्नापयित्वा निवेदयेत्। तितपद्मविधिः तजयास्मिन्मासे सिते पक्षे पञ्चमी वियाजह्वया ॥ 18.50 ॥ तिलपद्मविधिं कृत्वा दानं कुर्यात्तु तत्र वै। पूर्वरात्रौ तु देवेशमर्चयित्वा यथाक्रमम् ॥ 18.51 ॥ हर्वीष्यपि निवेद्यैव बध्द्वा प्रतिसरं पुनः। पूर्ववच्छाययेद्देवं रात्रिशेषं नयेद्बुधः ॥ 18.52 ॥ प्रभाते देवमुत्थाप्य कलशैः स्नापयेत्पुनः। संस्थाप्य मण्डपे देवं प्रणम्यैवानुमान्य च ॥ 18.53 ॥ विकीर्य प्रमुखे धान्यं द्विहस्तायतविस्तृते। नवबस्त्रे समाकीर्य कृष्णाजिनसमन्विते ॥ 18.54 ॥ तिलभारं तदर्धं वा तदूध्वे्र मण्डलाकृति। विकीर्यात्र लिखेत्पद्मं साष्टपत्रं सकर्णिकम् ॥ 18.55 ॥ सुवर्णपद्मं कृत्वा तु तिलपद्मोपरि न्यसेत्। आढकैश्शालिधान्यैश्च पूर्णपात्राणि षोडश ॥ 18.56 ॥ ऐन्द्रादि च तथैशान्त सशालि परितो न्यसेत्। आढकं तैलमाहत्य तदर्ध वा घृत तथा ॥ 18.57 ॥ तत्समं दधि सङ्गृह्य पात्रेषु च पृथक्पृथक्। दक्षिणे सन्न्यसेत्तैलमुत्तरे तु घृतं न्यसेत् ॥ 18.58 ॥ पश्चिमे दधि सन्न्यस्य देवदेवं प्रणम्य च। आत्मसूक्तं जपित्वा तु पूजयित्वाऽष्टविग्रहैः ॥ 18.59 ॥ प्रणम्य देवमावाह्य पद्ममध्ये तु पूर्ववत्। प्रागादि पुरुषार्दीश्च तथैकादशविग्रहैः ॥ 18.60 ॥ ऐन्द्राद्यैशान्तमावाह्य दिग्देवानर्चयेत्ततः। ‘अतो देवा’ दिसंयुक्तं विष्णुसूक्तं जपेत्वुनः ॥ 18.61 ॥ बिम्बे देवं समारोप्य चान्यानुद्वासयेत्क्रमात्। यजमानोऽथ तत्काले दद्यादचार्यदक्षिणाम् ॥ 18.62 ॥ विष्णुभक्तियुतं दान्तं दयाद्यात्मगुणैर्युतम्। नित्यस्वाध्यायसंयुक्तं सर्वावयवसंयुतम् ॥ 18.63 ॥ विप्रमाहूय तत्काले ध्यात्वा तं देवमाव्ययम्। तिलपद्मं ददेत्तस्मै देवदेवस्य सन्निधौ ॥ 18.64 ॥ महाहविः प्रभूतं वा यथाशक्ति निवेदयेत्। परीत्य मन्दिरं पश्यात् जीवस्थाने निवेशयेत् ॥ 18.65 ॥ यज्ञाधिकारे सम्प्रोक्तं तद्विधानं सुविस्तृतम्। धूपदानविशेषः धूपदानं तु तन्मासि देवदेवस्य शस्यते ॥ 18.66 ॥ फाल्गुनमासार्चनम् फाल्गुनोत्तरुल्गुन्योः श्रिया सार्ध जनार्दनम्। स्नापयित्वोत्सवं कृत्वा समभ्यर्च्य निवेदयेत् ॥ 18.67 ॥ अथवा शुद्धतोयैश्च स्नापयित्वा निवेदयेत्। तद्दिने श्रियमभ्यर्च्य श्रीकामः श्रियमाप्नुयात् ॥ 18.68 ॥ देवस्य फाल्गुने मासे गन्धदानं विशिष्यते। चैत्रे दमनोत्सवः पौर्णमास्या तथा चैत्र्यां कुर्याद्दमनकोत्सवम् ॥ 18.69 ॥ पूर्वास्मिन्नेव दिवसे अलङ्कृत्यालयं शुभम्। माला दमनकस्यैव विविधाः कारयेच्छुभाः ॥ 18.70 ॥ रात्रिपूजावसाने तु देवमास्थानमण्डपे। समभ्यर्च्य निवेद्यैव बद्ध्वा प्रतिसरामपि ॥ 18.71 ॥ त्रिलोकमण्डलं हृद्यं देवाग्रे परिकल्पयेत्। माता दमनकस्यैव मेरुमूर्धनि विन्यसेत् ॥ 18.72 ॥ अष्टौ कुलाचलाग्रेषु गन्धोदकघटान् न्यसेत्। तद्वहिष्षोडशपदे दिक्षु द्वारं विसृज्य च ॥ 18.73 ॥ पञ्चगव्यादिद्रव्याणि न्यसेच्छेषपदेषु च। तस्याग्रे पौण्डरीकाग्निकुण्डं कृत्वा यथाविधि ॥ 18.74 ॥ आघारं विधिवत्कृत्वा देवेशं शाययेत्पुनः। द्रव्याधिदेवानभ्यर्च्य वसन्तं काममर्चयेत् ॥ 18.75 ॥ वैष्णव विष्णुसूक्तञ्च पौरुषं सूक्तमेव च। श्रीभूमिसूक्तमन्त्रांश्च यद्देवादीस्तथैव च ॥ 18.76 ॥ जयादीन् परिषद्देवमूर्तिमन्त्रानथापि वा एवं हुत्वा निशां नीत्वा प्रातस्स्नात्वा यथाविधि ॥ 18.77 ॥ संस्नाप्य कलशैर्देवं गन्धोदकघटैरपि। वस्त्राद्यैरप्यलङ्कत्य मुहूर्ते तु शुभोदये ॥ 18.78 ॥ अधिवासितमालास्तास्समादाय समाहितः। देवस्य विष्णुसूक्तेन दद्यांद्भक्तिसमन्वितः ॥ 18.79 ॥ सर्वेषामपि बेराणां तथा परिषदामपि। माला दमनकस्यैव दद्यात्तन्मन्त्रमूर्तिभिः ॥ 18.80 ॥ ग्रामं प्रदक्षिणं कुर्यात् सर्वालङ्कारसंयुतमं। नीत्वाऽऽलयं ततो देवं संस्थाप्यास्?थानमण्डपे ॥ 18.81 ॥ संस्नाप्य गन्धतोयेन समभ्यर्च्य निवेदयेत्। अन्तहोमावसानेऽग्निर्नित्यकुण्डे प्रणीयताम् ॥ 18.82 ॥ वसन्तोत्सवः पुष्पदानं प्रशस्तं स्यादस्मिन्मासे तु शार्ङ्गिणः। तद्दिनञ्च समारभ्य ज्येष्ठे मूलावसानकम् ॥ 18.83 ॥ तत्तत्कालोद्भवैर्द्रव्यैर्वसन्तोत्सवमाचरेत्। देवं मध्याह्रपूजान्ते संस्थाप्याऽस्थानमण्डपे ॥ 18.84 ॥ संस्नाप्य गन्धतोयेन वस्त्रं परिमितं लघु। समाच्छाद्य समभ्यर्च्य पुष्पैस्तत्कालसम्भवैः ॥ 18.85 ॥ निवेद्य पायसादीनि कृत्वा धामप्रदक्षिणम्। पक्वापि कदलीचूतपनसानां फलानि च ॥ 18.86 ॥ अपूपादीनि भक्ष्याणि नारिकेलफलाम्बु च। निवेद्याऽच्मनं दत्वा मुखवासां निवेदयेत् ॥ 18.87 ॥ अर्चापीठे तु देवेशं मन्त्रवत्थापयेद्बुधः। ज्येष्ठे मूलादि वर्पान्तं नित्यमेवं समाचरेत् ॥ 18.88 ॥ वैशाखोत्सवः वैशाखे पौर्णमास्यान्तु स्नपनादीनि पूर्ववत्। कृत्वा तु पूर्ववद्देवं संस्थाप्याऽस्थानमण्डपे ॥ 18.89 ॥ आसनादिभिरभ्यर्च्य सप्तविंशतिविग्रहैः। पायसादिनिवेद्यञ्च प्रभूतञ्च निवेदयेत् ॥ 18.90 ॥ मरीचिजीरकगुङैर्नारिकेलरसेन च। संस्कृतं भूरि सर्पिश्च दद्याच्चूतुलं बहु ॥ 18.91 ॥ पानीयाचमनान्ते तु मुखवास निवेदयेत्। आलयं परितः कृत्वा देवदेवस्य चोत्सवम् ॥ 18.92 ॥ जीवस्थाने प्रतिष्ठाप्य नित्यपूजां समाचरेत्। अस्मिन् पानीयदानन्तु प्रशस्तमभिधीयते ॥ 18.93 ॥ ज्येष्ठोत्सवः ज्योष्ठमासे तु मूलायां वस्त्रदानं हरेः स्मृतम्। तन्मासे पौर्णमास्यान्तु गन्धोदैरभिषिच्य च ॥ 18.94 ॥ नववस्त्रैरलङ्कृत्य समभ्यच्चर्य निवेदयेत्। आषाढोत्सवः आषाढे पौर्णमास्यान्तु कुर्यादेकाहिकोत्सवम् ॥ 18.95 ॥ स्नापयित्वा समभ्यर्च्य हृर्वीष्यपि निवेदयेत्। अर्ध्यदानं प्रशस्तं स्याद्देवस्याषाढमासि वै ॥ 18.96 ॥ श्रावणोतसवः श्रावणे श्रवणर्क्षे तु देवदेवस्य यत्नतः। उत्सवस्नपनादीनि पूर्ववत्कारयेद्बुधः ॥ 18.97 ॥ श्रावणे मासि तस्मिंश्च कृष्णपक्षे विशेषतः। अष्टमी रोहिणीयुक्ता जयन्ती रहिताऽथवा ॥ 18.98 ॥ तत्र चन्द्रोदये विष्णुं कृष्णविग्रहमर्चयेत्। विष्णुं चतुर्भुजं वाऽथ तथा स्नाप्य वारिभिः ॥ 18.99 ॥ निवेद्य प्रचुरं क्षीरं हविस्सम्यङ्निवेद्य च। बध्द्वा प्रतिसरं तद्वच्डाययेत्पुरुषोत्तमम् ॥ 18.100 ॥ अहोरात्रमुपोष्यैव प्रातस्स्नात्वा यथाविधि। उत्सवोक्तप्रकारेण देवस्योत्सवमाचरेत् ॥ 18.101 ॥ संस्नाप्य कलशैर्विष्णुमास्थाने स्थापयेद्बुधः। समभ्यर्च्य हविर्दद्यात्पायसं गौल्यमेव वा ॥ 18.102 ॥ अर्पयेन्मुखवासान्ते जीवस्थाने निवेशयेत्। (पारणन्तु ततः कुर्यात् स वै सायुज्यमाप्नुयात्) ॥ 18.103 ॥ सर्वान्कामानवाप्नोति सर्वदानफलं लभेत्। एवं यः कुरुते भक्त्या विष्णुपूजाञ्च तद्दिने ॥ 18.104 ॥ सप्?तजन्मकृतं पापं तत्क्षणादेव नश्यति। अतस्सर्वप्रयत्नेन जयन्त्यामुत्सवं चरेत् ॥ 18.105 ॥ धूपदानं प्रशस्तं स्याछ्रावणे मासि शार्ङ्गिणः। यो नित्यं परया भक्त्या धूपदानं समाचरेत् ॥ 18.106 ॥ सोऽपि संवत्सरं धूफलमेति न संशयः। भाद्रपदोत्सवः श्रवणद्वादशीयोगे मासि भाद्रपदे तथा ॥ 18.107 ॥ संवत्सरार्चनादोषशान्त्यर्थं केशवस्य च। राजराष्ट्राभिवृद्ध्यर्थं सर्वमङ्गलकारणम् ॥ 18.108 ॥ सर्वदोषोपशमनं प्रोक्तं यद्ब्रुह्मणा पुरा। पवित्रारोपणं कुर्यात्सर्वदोषोपशान्तये ॥ 18.109 ॥ उत्सवोक्तप्रकारेण कुर्यात्तच्छ्रवणे बुधः। अस्मिन्मासे हविर्दानं प्रशस्तं केशवस्य तु ॥ 18.110 ॥ मासेऽस्मिन्नारभेतैव श्रावणं व्रतमुत्तमम्। मार्गशीर्षं समारभ्य कुर्यादेकादशीव्रतम् ॥ 18.111 ॥ एकभुक्तस्तु पूर्वेऽह्रि प्रातस्स्नात्वा यथाविधि। युग्मप्रदक्षिणं कुर्याद्देवदेवं प्रणम्य च ॥ 18.112 ॥ केशवादीनि नामानि जपेदेकाग्रमानसः। मार्गशीर्षं समारभ्य क्रमान्मासेषु वै पुनः ॥ 18.113 ॥ अथवा पौरुषं सूक्तमुपोष्य व्रतमाचरेत्। प्रातस्संस्नाप्य देवेशं समभ्यर्च्य निवेद्य च ॥ 18.114 ॥ दानं कृत्वा द्विजेन्द्रेभ्यः पारणं पुनराचरेत्। ततस्सर्वेषु मासेषु क्षुतप्रस्खलनादिषु ॥ 18.115 ॥ जपेत्तन्मासनाम्नैव देवेशं मनसा स्मरन्। विष्णवादिपञ्चमूर्त्यन्तैः स्नपनञ्चार्चनादिकम् ॥ 18.116 ॥ कुर्यात्तन्मासनाम्नैव ब्राह्मणेभ्यस्तथैव च। एवं वर्षे तु सम्पूर्णे मासि भाद्रपदे तथा ॥ 18.117 ॥ श्रवणे स्नापयेद्देवच शताष्टकलशैरपि। महाहविः प्रभुतं वा संयुक्तं पायसादिभिः ॥ 18.118 ॥ निवेद्य मुखवासान्ते दद्यात्पुष्पाञ्जलीन् बहून्। कृत्वाऽन्नदानं विप्रेभ्यः पारणं पूर्ववच्चरेत् ॥ 18.119 ॥ एकादशीव्रतं कुर्वन् सम्पूर्णे वत्सरे तथा। द्वादश्यां मार्गशीर्षे तु स्नपनादीनि कारयेत् ॥ 18.120 ॥ एवं यः कुरुते भक्त्या महापापैर्विमुच्यते अन्ते विमानमारुह्य विष्णोः पदमवाप्नुयात् ॥ 18.121 ॥ मार्गशीर्षश्च मासोऽयं मासानां श्रेष्ठ ईरितः। द्वादशी श्रवणं तस्मिन्नमावास्या तथैव च ॥ 18.122 ॥ उपवासव्रतं कुर्यात्तस्मिन्नान्यत्समाचरेत्। अश्वयुजार्चनम् श्रवणञ्चाश्वयुङ्मासि सर्वपापहरं वरम् ॥ 18.123 ॥ मत्स्यकूर्मवराहाणामाविर्भावदिनं स्मृतम्। उत्सवस्नपनादीनि कुर्यात्तत्रापि शार्ङ्गिणः ॥ 18.124 ॥ मुखवासं हरेर्दद्यात् मासेऽस्मिन्नित्यमेव च। सर्वेष्वपि च मासेषु मासर्क्षेष्वधिकार्चनम् ॥ 18.125 ॥ (उत्सव स्नपनैर्युकृतं विधियुक्तं समाचरेत्) इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां क्रियाधिकारे पुण्यर्क्षपूजन आग्रयण विष्पाकविधान सर्वमासार्चनविधिर्नाम अष्टादशोऽध्यायः (1) (1.) एकोनविंशोऽध्यायः ख. ।