18 अष्टादशोऽध्यायः

अष्टादशोऽध्यायः


अष्टादशोऽध्यायः
पुण्यनक्षत्रपूजनम्
(1)अथातस्संप्रवक्ष्यामि पुण्यनक्षत्रपूजनम्।
श्रवणं द्वादशी एर्वं विष्णुपञ्चदिनानि वै (1.) अस्मिन्नध्याये प्रारम्भात्प्रभृति सप्तदशश्चेकपर्यन्तो ग्रन्धः मातृकान्तरेषु कुत्रापि नोप लभ्यते ॥
प्रशस्तं श्रवणं तेषु द्वादशी चोत्तमा मता।
विषुवायनामासर्क्षग्रहणेष्वन्यसङ्क्रमे ॥
कर्तृभूपर्क्षयोश्चैव ग्रामनक्षत्र एव वा।
कृत्वाऽङ्कुरार्पणं तद्वद्वद्ध्वा प्रतिसरं तथा ॥
शाययेंत्पूर्वरात्रौ तु प्रातस्स्नात्वा यथाविधि।
प्रातस्सन्ध्यार्चनान्ते तु मन्त्रांस्तीर्थदिनोदितान् ॥
नित्याग्निकुण्डे हुत्वा तु चक्रवीशामितैस्सह।
उत्सवोक्तक्रमेणैव ग्रामसन्धौ बलिं ददेत् ॥
उत्सवं विधिनां कृत्वा तीर्थं पूर्ववदाचरेत्।
स्नपनोक्तप्रकारेण स्नापयित्वा ततः परम् ॥
समभ्यर्च्यं निवेद्यैव जीवस्थाने निवेशयेत्।
शान्तिकोत्सवमुद्दिष्टमेतं पूर्वाड्णा आचरेत् ॥
विनैव बलिहोमाभ्यां मध्याह्रे पौष्टिकोत्सवम्।
तीर्थं विनाऽपराह्णे तु कुर्यात्काम्योत्सवं बुधः ॥
अर्चायां शान्तिकं कर्म काम्यमौत्सव एव वा।
औत्सवं स्नापयित्वाऽह्रि रात्रावास्थानमण्डपे ॥
सर्वोपचारैरभ्यर्च्य पायसादिहर्वीषि च।
सर्वप्रयत्नैर्नैवेद्यं कुर्यादेवमतन्द्रितः ॥
एवं कर्तुमशकृतश्चेद्दिनेष्वेषु यथाविधि।
संस्नाप्य गन्धतोयेन शुद्धस्नानोक्तमार्गतः ॥
द्वात्रिशद्विग्रहैर्देवमर्चयेत्वरया मुदा।
तत्रापि बलिवेलायां यानमारोप्य पूर्ववत् ॥
देवमेवं नयेत्समृयगालये तु प्रदक्षिणम्।
जीवस्थाने प्रतिष्ठाप्य शेषं तत्र समाचरेत् ॥
विष्णुपञ्चदिनस्नाने कालो मध्याह्र उच्यते।
विषूपरागायनेषु तत्कालात्पूर्वमाचरेत् ॥
हविष्पाकोक्तविधिना पाकेष्वाग्रयणं चरेत्।
आहृतानि च धान्यानि विविधानि फलानि च।
सर्वानथोपदंशांश्च नवानि वसननि च।
सर्वाण्याहृत्य यत्नेन सर्वमङ्गलसंयुतम् ॥
जपेच्छकुनसूक्तन्तु कुर्याद्ग्रामप्रदक्षिणम्।
अलङ्कत्याग्रतश्चकं नयेदिति च केचन ॥
हवः पाकविधि
अतः परं प्रवक्ष्यामि हविष्पाकविधिं परम्।
हविरुद्दिश्य धान्यानि चोपदशांस्तथाऽऽहरेत् ॥ 18.1 ॥
शालिव्रीहिप्रियङ्गूनि नीचवारं षाष्टिकं तथा।
यवञ्च वेष्णुकञ्चैव प्रशस्तानि विदुर्बुधाः ॥ 18.2 ॥
व्री?हीणामपि सर्वेषां कृष्णधान्यं विसर्जयेत्।
सर्वेषां व्रीहिधान्यानां शालिर्दशगुणो भवेत् ॥ 18.3 ॥
शतगुणः प्रियङ्गुः स्यान्नीवारन्तु सहस्रकम्।
अयुतं गर्भषष्टिः स्यात् अनन्तं यववेणुक ॥ 18.4 ॥
चतुर्वर्णाहृतं धान्यं प्रशस्तमभिधीयते।
अन्त्यजैः प्रतिलोमैश्च नीलं धान्यं विवर्जयेत् ॥ 18.5 ॥
अथवा पण्यलब्धञ्च धान्यं शुद्धं समाहेत्।
त्रिवर्षातीतधान्यानि न प्रशंसन्ति दैविके ॥ 18.6 ॥
तण्डुलानाञ्च सर्वेषां मासातीतानि वर्जयेत्।
‘आपो हि’ ष्ठेति मन्त्रेण प्रोक्ष्य धान्यानि चाऽहरेत् ॥ 18.7 ॥
आलये वा गृहे वाऽपि शुद्धे देशे समाहितः।
विताने वा कटे वाऽपि समास्तीर्य विधानतः ॥ 18.8 ॥
आतपेन तथा शोष्य विश्वामित्रान् परावपेत्।
ततो धान्यं सुमङ्गृह्य पलालेषु च निक्षिपेत् ॥ 18.9 ॥
पलालोन समाबध्द्य गजस्कन्दे निधाय च।
सर्ववाद्यसमायुक्तं सर्वालङ्गारसंयुतम् ॥ 18.10 ॥
वेदघोषसमायुक्तं पूर्णकुम्भाङ्कुरैर्युतम्।
अलङ्कत्याऽलयं सर्वं पूर्णकुम्भाङ्कुरैरपि ॥ 18.11 ॥
दीपैश्च बहुभिश्शस्तैः कदलीक्रमुकैरपि।
देवालयं शनैर्नीत्वा देवाग्रे तानि विन्यसेत् ॥ 18.12 ॥
तेषु वायुं समभ्यर्च्य तथैकादशविग्रहैः।
श्रीसूक्तेन श्रियं देवीं संस्तूय प्रणिपत्य च ॥ 18.13 ॥
‘श्रिये जा’ तेति मन्त्रेण गृड्णीयाद्धान्यमत्वरः।
अवघातं पुनः कुर्याद्धविष्पाकोक्तमार्गतः ॥ 18.14 ॥
तण्डुलांश्चापि शुद्धांस्तु ततः पात्रे समाहरेत्।
हवींषि चोपदंशाश्च पाचयित्वा यथाविधि ॥ 18.15 ॥
तण्डुलान्क्षालितानद्भिः शर्करागुडमिश्रितान्।
मरीचिजीरकैश्चैव नारिकेलफलैरपि ॥ 18.16 ॥
सघृतं देवदेवाय मन्त्रवत्तान्निवेदयेत्।
तैरेव तण्डुलैर्हुत्वा परिवारबलिं ददेत् ॥ 18.17 ॥
पुनराचमनं दत्वा मुखवासं निवेदयेत्।
पुनरभ्यर्च्य देवेशमुपदंशादिभिर्युतम् ॥ 18.18 ॥
निवेदयेद्धविः पश्चान्मूर्तिहोमं तथ्?ौव च।
परिवारबलिं दत्वा पानीयाचमनं ददेत् ॥ 18.19 ॥
मुखवासं निवेद्यैव ‘क्षम’ स्वेति प्रणम्य च।
पश्चात्पुष्पाञ्चलिं दद्याद्देवदेवस्य पादयोः ॥ 18.20 ॥
कृत्तिकादीपः
कार्तिक्यां पौर्णमास्यान्तु दीपदानं समाचरेत्।
आलयं समलङ्कत्य मृष्टसिक्तोपलेपनैः ॥ 18.21 ॥
अलङ्कारैरलङ्कुर्यादन्यैरपि च शोभनैः।
देवदेवमलङ्कत्य वस्त्रमाल्यानुलेपनैः ॥ 18.22 ॥
महाहविः प्रभूतं वा यथाशक्ति निवदयेत्।
पूगं वा नारिकेलं वा तालं वा जातिमेव वा ॥ 18.23 ॥
(तद्विमानसमायाम पादोनं वाऽर्धमेव वाः
दीपदण्डं गृहीत्वा तु देवाग्रे स्थापयेत्पुनः।
दीपदण्डस्य परितश्चोल्कादीपत्रयाणि च ॥ 18.24 ॥
र?त्निमात्रायतान्वेवमयुग्मानि च कारयेत्।
कारयेद्दीपदानार्थ कूटाकारं चतुर्मुखम् ॥ 18.25 ॥
मण्डपेषु च सर्वेषु सर्वेष्वावरणेषु च।
दीपाधारान् प्रकुर्वीत यथाविभवविस्तरम् ॥ 18.26 ॥
प्रदोषे कारयेदेवमालयन्तु प्रदक्षिणम्।
‘उद्दीप्य’ स्वेति मन्त्रेण दीपमारोपयेत्पुनः ॥ 18.27 ॥
धान्यपीठे प्रतिष्ठाप्य देवेशाभिमुखं पुनः।
श्रियं तत्र समभ्यर्च्य ‘श्रिये जात’ इति ब्रुवन् ॥ 18.28 ॥
सन्न्यसेद्दीपदण्डाग्रे दीपं देवेशासन्निधौ।
प्राकारादिषु सर्वत्र दीपानारोपयेद्वहून् ॥ 18.29 ॥
नित्यं तत्कार्तिके मासि दीपदानं विशिष्यते।
संस्थाप्य देवमास्थाने पूजयित्वाऽष्टविग्रहैः ॥ 18.30 ॥
अपूपलाजपृथुकान् यथाशक्ति निवेदयेत्।
मरीचिजीरकगुलैर्नारिकेलैस्सुसंस्कृतान् ॥ 18.31 ॥
खिले विस्तरतः प्रोक्ता कृत्तिकादीपसंस्कृतिः।
केशिकद्वादशी
(एकादश्यां सिते पक्षे तत्रोपोष्य यथविधि।
द्वादश्यामुदयात्पूर्वं देवमास्थानमण्डपे ॥
(1)संस्थाप्?य केशिकं गानं गानविद्भिश्च कारयेत्।
द्वादश्यां स्नापयेत्पश्चात्समभ्यर्च्य यथाविधि (1.) नृत्तं गेयञ्च वाद्यञ्च गानविद्भश्च कारयेत् आ ॥
हविर्निवेदयेद्गौल्यं पानीयादि निवेदयेत्।
जीवस्थाने प्रतिष्ठाप्य प्रणमेद्दण्डवद्भुवि ॥
अनन्तं तत्फलं विद्धि सायुज्यं लोकमाप्नुयात्।)
अध्ययनोत्सवः
सार्गशीर्षाख्यमासे तु पूर्वपक्षे विशेषतः ॥ 18.32 ॥
एकादश्यामथाऽरभ्य वेदपारायणं चरेत्।
प्रातस्सन्ध्यावसाने तु देवमास्थानमण्डपे ॥ 18.33 ॥
संस्थापय चतुरो वेदान् क्रमेणाध्यापयेत्सदा।
पूजयेद्देवदेवं तं सप्तविंशतिविग्रहैः ॥ 18.34 ॥
सर्वालङ्कारसंयुक्तं कारयित्वा प्रदक्षिणम्।
स्वस्तिसूक्तं समुच्चार्य जीवस्थाने निवेशयेत् ॥ 18.35 ॥
पक्षं त्रयोदशाहं वा द्वादशाहं समाचरेत्।
पुराणानीतिहासांश्च देवस्य विजयोत्कटाः ॥ 18.36 ॥
कथां वा श्रावयेन्नित्यं देवदेवस्य सन्निधौ।
तत्रैव मासि द्वादश्यां प्रातस्स्नात्वा यथाविधि ॥ 18.37 ॥
मृण्मयानि च भाण्डानि पुराणानि परित्यजेत्।
यथार्ह शोधयेदन्या ‘नामा वा’ जेति मन्त्रतः ॥ 18.38 ॥
मृष्टसिक्तोपलेपाद्यैश्शोधयित्वा तथाऽऽलयम्।
औत्सवादीनि बेराणि सर्वाण्येव यथाविधि ॥ 18.39 ॥
संस्नाप्य गन्धतोयेन शुद्धस्ननोक्तमार्गतः।
स्नापयेत्स्नापनं बेरं कलशैश्च यथाविधि ॥ 18.40 ॥
चतुर्दिशं चतुर्हस्तं गोमयेनोपलिप्य च।
व्रीहिभिः कारयेत्पद्मं साष्टपत्रं सकर्णिकम् ॥ 18.41 ॥
तत्पद्मसंस्थितान्देवान् पूर्ववत्सम्यगर्चयेत्।
तस्मिन् देवं प्रतिष्ठाप्य विष्टरे सोत्तरछदे ॥ 18.42 ॥
आसनादिभिरभ्यर्च्य पायमान्नं निवेदयेत्।
पाद्यमाचमनं ‘दत्वा मुखवासं निवेदयेत् ॥ 18.43 ॥
पुष्पयागोक्तमन्त्रैस्तु दद्यात्पुष्पाञ्जलीन् बहून्।
धामप्रदक्षिणान्ते तु जीवस्थाने निवेशयेत् ॥ 18.44 ॥
संवत्सरार्चने न्यूनं नित्ये नैमित्तिकेऽपि यत्।
तत्सर्व परिपूर्ण स्यात् द्वादश्यां पूजयाऽनया ॥ 18.45 ॥
आप्नुयाद्यजमानोऽपि तद्विष्णोः परमं पदम्।
संवत्सरार्चनादोषप्रायश्चित्तार्थमेव तत् ॥ 18.46 ॥
श्रवणद्वादशीविशेषः
श्रवणद्वादशीयोगे मासि भाद्रपदे तथा।
पवित्रारोपणं विष्णोः कारयेदिति केचन ॥ 18.47 ॥
तस्मातृसर्वप्रयत्नेन पवित्रारोपणं चरेत्।
गव्येन पयसा तैष्ये नित्यं संस्नापये?द्धरिम् ॥ 18.48 ॥
राघवस्यार्चनम्
द्वादशी पूर्वपक्षे तु माघमासे पुनर्वसू।
जया तस्यामुपोष्यैव रामं वा विष्णुमेव वा ॥ 18.49 ॥
ग्रामं प्रदक्षिणं नीत्वा स्नापयित्वा निवेदयेत्।
तितपद्मविधिः
तजयास्मिन्मासे सिते पक्षे पञ्चमी वियाजह्वया ॥ 18.50 ॥
तिलपद्मविधिं कृत्वा दानं कुर्यात्तु तत्र वै।
पूर्वरात्रौ तु देवेशमर्चयित्वा यथाक्रमम् ॥ 18.51 ॥
हर्वीष्यपि निवेद्यैव बध्द्वा प्रतिसरं पुनः।
पूर्ववच्छाययेद्देवं रात्रिशेषं नयेद्बुधः ॥ 18.52 ॥
प्रभाते देवमुत्थाप्य कलशैः स्नापयेत्पुनः।
संस्थाप्य मण्डपे देवं प्रणम्यैवानुमान्य च ॥ 18.53 ॥
विकीर्य प्रमुखे धान्यं द्विहस्तायतविस्तृते।
नवबस्त्रे समाकीर्य कृष्णाजिनसमन्विते ॥ 18.54 ॥
तिलभारं तदर्धं वा तदूध्वे्र मण्डलाकृति।
विकीर्यात्र लिखेत्पद्मं साष्टपत्रं सकर्णिकम् ॥ 18.55 ॥
सुवर्णपद्मं कृत्वा तु तिलपद्मोपरि न्यसेत्।
आढकैश्शालिधान्यैश्च पूर्णपात्राणि षोडश ॥ 18.56 ॥
ऐन्द्रादि च तथैशान्त सशालि परितो न्यसेत्।
आढकं तैलमाहत्य तदर्ध वा घृत तथा ॥ 18.57 ॥
तत्समं दधि सङ्गृह्य पात्रेषु च पृथक्पृथक्।
दक्षिणे सन्न्यसेत्तैलमुत्तरे तु घृतं न्यसेत् ॥ 18.58 ॥
पश्चिमे दधि सन्न्यस्य देवदेवं प्रणम्य च।
आत्मसूक्तं जपित्वा तु पूजयित्वाऽष्टविग्रहैः ॥ 18.59 ॥
प्रणम्य देवमावाह्य पद्ममध्ये तु पूर्ववत्।
प्रागादि पुरुषार्दीश्च तथैकादशविग्रहैः ॥ 18.60 ॥
ऐन्द्राद्यैशान्तमावाह्य दिग्देवानर्चयेत्ततः।
‘अतो देवा’ दिसंयुक्तं विष्णुसूक्तं जपेत्वुनः ॥ 18.61 ॥
बिम्बे देवं समारोप्य चान्यानुद्वासयेत्क्रमात्।
यजमानोऽथ तत्काले दद्यादचार्यदक्षिणाम् ॥ 18.62 ॥
विष्णुभक्तियुतं दान्तं दयाद्यात्मगुणैर्युतम्।
नित्यस्वाध्यायसंयुक्तं सर्वावयवसंयुतम् ॥ 18.63 ॥
विप्रमाहूय तत्काले ध्यात्वा तं देवमाव्ययम्।
तिलपद्मं ददेत्तस्मै देवदेवस्य सन्निधौ ॥ 18.64 ॥
महाहविः प्रभूतं वा यथाशक्ति निवेदयेत्।
परीत्य मन्दिरं पश्यात् जीवस्थाने निवेशयेत् ॥ 18.65 ॥
यज्ञाधिकारे सम्प्रोक्तं तद्विधानं सुविस्तृतम्।
धूपदानविशेषः
धूपदानं तु तन्मासि देवदेवस्य शस्यते ॥ 18.66 ॥
फाल्गुनमासार्चनम्
फाल्गुनोत्तरुल्गुन्योः श्रिया सार्ध जनार्दनम्।
स्नापयित्वोत्सवं कृत्वा समभ्यर्च्य निवेदयेत् ॥ 18.67 ॥
अथवा शुद्धतोयैश्च स्नापयित्वा निवेदयेत्।
तद्दिने श्रियमभ्यर्च्य श्रीकामः श्रियमाप्नुयात् ॥ 18.68 ॥
देवस्य फाल्गुने मासे गन्धदानं विशिष्यते।
चैत्रे दमनोत्सवः
पौर्णमास्या तथा चैत्र्यां कुर्याद्दमनकोत्सवम् ॥ 18.69 ॥
पूर्वास्मिन्नेव दिवसे अलङ्कृत्यालयं शुभम्।
माला दमनकस्यैव विविधाः कारयेच्छुभाः ॥ 18.70 ॥
रात्रिपूजावसाने तु देवमास्थानमण्डपे।
समभ्यर्च्य निवेद्यैव बद्ध्वा प्रतिसरामपि ॥ 18.71 ॥
त्रिलोकमण्डलं हृद्यं देवाग्रे परिकल्पयेत्।
माता दमनकस्यैव मेरुमूर्धनि विन्यसेत् ॥ 18.72 ॥
अष्टौ कुलाचलाग्रेषु गन्धोदकघटान् न्यसेत्।
तद्वहिष्षोडशपदे दिक्षु द्वारं विसृज्य च ॥ 18.73 ॥
पञ्चगव्यादिद्रव्याणि न्यसेच्छेषपदेषु च।
तस्याग्रे पौण्डरीकाग्निकुण्डं कृत्वा यथाविधि ॥ 18.74 ॥
आघारं विधिवत्कृत्वा देवेशं शाययेत्पुनः।
द्रव्याधिदेवानभ्यर्च्य वसन्तं काममर्चयेत् ॥ 18.75 ॥
वैष्णव विष्णुसूक्तञ्च पौरुषं सूक्तमेव च।
श्रीभूमिसूक्तमन्त्रांश्च यद्देवादीस्तथैव च ॥ 18.76 ॥
जयादीन् परिषद्देवमूर्तिमन्त्रानथापि वा
एवं हुत्वा निशां नीत्वा प्रातस्स्नात्वा यथाविधि ॥ 18.77 ॥
संस्नाप्य कलशैर्देवं गन्धोदकघटैरपि।
वस्त्राद्यैरप्यलङ्कत्य मुहूर्ते तु शुभोदये ॥ 18.78 ॥
अधिवासितमालास्तास्समादाय समाहितः।
देवस्य विष्णुसूक्तेन दद्यांद्भक्तिसमन्वितः ॥ 18.79 ॥
सर्वेषामपि बेराणां तथा परिषदामपि।
माला दमनकस्यैव दद्यात्तन्मन्त्रमूर्तिभिः ॥ 18.80 ॥
ग्रामं प्रदक्षिणं कुर्यात् सर्वालङ्कारसंयुतमं।
नीत्वाऽऽलयं ततो देवं संस्थाप्यास्?थानमण्डपे ॥ 18.81 ॥
संस्नाप्य गन्धतोयेन समभ्यर्च्य निवेदयेत्।
अन्तहोमावसानेऽग्निर्नित्यकुण्डे प्रणीयताम् ॥ 18.82 ॥
वसन्तोत्सवः
पुष्पदानं प्रशस्तं स्यादस्मिन्मासे तु शार्ङ्गिणः।
तद्दिनञ्च समारभ्य ज्येष्ठे मूलावसानकम् ॥ 18.83 ॥
तत्तत्कालोद्भवैर्द्रव्यैर्वसन्तोत्सवमाचरेत्।
देवं मध्याह्रपूजान्ते संस्थाप्याऽस्थानमण्डपे ॥ 18.84 ॥
संस्नाप्य गन्धतोयेन वस्त्रं परिमितं लघु।
समाच्छाद्य समभ्यर्च्य पुष्पैस्तत्कालसम्भवैः ॥ 18.85 ॥
निवेद्य पायसादीनि कृत्वा धामप्रदक्षिणम्।
पक्वापि कदलीचूतपनसानां फलानि च ॥ 18.86 ॥
अपूपादीनि भक्ष्याणि नारिकेलफलाम्बु च।
निवेद्याऽच्मनं दत्वा मुखवासां निवेदयेत् ॥ 18.87 ॥
अर्चापीठे तु देवेशं मन्त्रवत्थापयेद्बुधः।
ज्येष्ठे मूलादि वर्पान्तं नित्यमेवं समाचरेत् ॥ 18.88 ॥
वैशाखोत्सवः
वैशाखे पौर्णमास्यान्तु स्नपनादीनि पूर्ववत्।
कृत्वा तु पूर्ववद्देवं संस्थाप्याऽस्थानमण्डपे ॥ 18.89 ॥
आसनादिभिरभ्यर्च्य सप्तविंशतिविग्रहैः।
पायसादिनिवेद्यञ्च प्रभूतञ्च निवेदयेत् ॥ 18.90 ॥
मरीचिजीरकगुङैर्नारिकेलरसेन च।
संस्कृतं भूरि सर्पिश्च दद्याच्चूतुलं बहु ॥ 18.91 ॥
पानीयाचमनान्ते तु मुखवास निवेदयेत्।
आलयं परितः कृत्वा देवदेवस्य चोत्सवम् ॥ 18.92 ॥
जीवस्थाने प्रतिष्ठाप्य नित्यपूजां समाचरेत्।
अस्मिन् पानीयदानन्तु प्रशस्तमभिधीयते ॥ 18.93 ॥
ज्येष्ठोत्सवः
ज्योष्ठमासे तु मूलायां वस्त्रदानं हरेः स्मृतम्।
तन्मासे पौर्णमास्यान्तु गन्धोदैरभिषिच्य च ॥ 18.94 ॥
नववस्त्रैरलङ्कृत्य समभ्यच्चर्य निवेदयेत्।
आषाढोत्सवः
आषाढे पौर्णमास्यान्तु कुर्यादेकाहिकोत्सवम् ॥ 18.95 ॥
स्नापयित्वा समभ्यर्च्य हृर्वीष्यपि निवेदयेत्।
अर्ध्यदानं प्रशस्तं स्याद्देवस्याषाढमासि वै ॥ 18.96 ॥
श्रावणोतसवः
श्रावणे श्रवणर्क्षे तु देवदेवस्य यत्नतः।
उत्सवस्नपनादीनि पूर्ववत्कारयेद्बुधः ॥ 18.97 ॥
श्रावणे मासि तस्मिंश्च कृष्णपक्षे विशेषतः।
अष्टमी रोहिणीयुक्ता जयन्ती रहिताऽथवा ॥ 18.98 ॥
तत्र चन्द्रोदये विष्णुं कृष्णविग्रहमर्चयेत्।
विष्णुं चतुर्भुजं वाऽथ तथा स्नाप्य वारिभिः ॥ 18.99 ॥
निवेद्य प्रचुरं क्षीरं हविस्सम्यङ्निवेद्य च।
बध्द्वा प्रतिसरं तद्वच्डाययेत्पुरुषोत्तमम् ॥ 18.100 ॥
अहोरात्रमुपोष्यैव प्रातस्स्नात्वा यथाविधि।
उत्सवोक्तप्रकारेण देवस्योत्सवमाचरेत् ॥ 18.101 ॥
संस्नाप्य कलशैर्विष्णुमास्थाने स्थापयेद्बुधः।
समभ्यर्च्य हविर्दद्यात्पायसं गौल्यमेव वा ॥ 18.102 ॥
अर्पयेन्मुखवासान्ते जीवस्थाने निवेशयेत्।
(पारणन्तु ततः कुर्यात् स वै सायुज्यमाप्नुयात्) ॥ 18.103 ॥
सर्वान्कामानवाप्नोति सर्वदानफलं लभेत्।
एवं यः कुरुते भक्त्या विष्णुपूजाञ्च तद्दिने ॥ 18.104 ॥
सप्?तजन्मकृतं पापं तत्क्षणादेव नश्यति।
अतस्सर्वप्रयत्नेन जयन्त्यामुत्सवं चरेत् ॥ 18.105 ॥
धूपदानं प्रशस्तं स्याछ्रावणे मासि शार्ङ्गिणः।
यो नित्यं परया भक्त्या धूपदानं समाचरेत् ॥ 18.106 ॥
सोऽपि संवत्सरं धूफलमेति न संशयः।
भाद्रपदोत्सवः
श्रवणद्वादशीयोगे मासि भाद्रपदे तथा ॥ 18.107 ॥
संवत्सरार्चनादोषशान्त्यर्थं केशवस्य च।
राजराष्ट्राभिवृद्ध्यर्थं सर्वमङ्गलकारणम् ॥ 18.108 ॥
सर्वदोषोपशमनं प्रोक्तं यद्ब्रुह्मणा पुरा।
पवित्रारोपणं कुर्यात्सर्वदोषोपशान्तये ॥ 18.109 ॥
उत्सवोक्तप्रकारेण कुर्यात्तच्छ्रवणे बुधः।
अस्मिन्मासे हविर्दानं प्रशस्तं केशवस्य तु ॥ 18.110 ॥
मासेऽस्मिन्नारभेतैव श्रावणं व्रतमुत्तमम्।
मार्गशीर्षं समारभ्य कुर्यादेकादशीव्रतम् ॥ 18.111 ॥
एकभुक्तस्तु पूर्वेऽह्रि प्रातस्स्नात्वा यथाविधि।
युग्मप्रदक्षिणं कुर्याद्देवदेवं प्रणम्य च ॥ 18.112 ॥
केशवादीनि नामानि जपेदेकाग्रमानसः।
मार्गशीर्षं समारभ्य क्रमान्मासेषु वै पुनः ॥ 18.113 ॥
अथवा पौरुषं सूक्तमुपोष्य व्रतमाचरेत्।
प्रातस्संस्नाप्य देवेशं समभ्यर्च्य निवेद्य च ॥ 18.114 ॥
दानं कृत्वा द्विजेन्द्रेभ्यः पारणं पुनराचरेत्।
ततस्सर्वेषु मासेषु क्षुतप्रस्खलनादिषु ॥ 18.115 ॥
जपेत्तन्मासनाम्नैव देवेशं मनसा स्मरन्।
विष्णवादिपञ्चमूर्त्यन्तैः स्नपनञ्चार्चनादिकम् ॥ 18.116 ॥
कुर्यात्तन्मासनाम्नैव ब्राह्मणेभ्यस्तथैव च।
एवं वर्षे तु सम्पूर्णे मासि भाद्रपदे तथा ॥ 18.117 ॥
श्रवणे स्नापयेद्देवच शताष्टकलशैरपि।
महाहविः प्रभुतं वा संयुक्तं पायसादिभिः ॥ 18.118 ॥
निवेद्य मुखवासान्ते दद्यात्पुष्पाञ्जलीन् बहून्।
कृत्वाऽन्नदानं विप्रेभ्यः पारणं पूर्ववच्चरेत् ॥ 18.119 ॥
एकादशीव्रतं कुर्वन् सम्पूर्णे वत्सरे तथा।
द्वादश्यां मार्गशीर्षे तु स्नपनादीनि कारयेत् ॥ 18.120 ॥
एवं यः कुरुते भक्त्या महापापैर्विमुच्यते
अन्ते विमानमारुह्य विष्णोः पदमवाप्नुयात् ॥ 18.121 ॥
मार्गशीर्षश्च मासोऽयं मासानां श्रेष्ठ ईरितः।
द्वादशी श्रवणं तस्मिन्नमावास्या तथैव च ॥ 18.122 ॥
उपवासव्रतं कुर्यात्तस्मिन्नान्यत्समाचरेत्।
अश्वयुजार्चनम्
श्रवणञ्चाश्वयुङ्मासि सर्वपापहरं वरम् ॥ 18.123 ॥
मत्स्यकूर्मवराहाणामाविर्भावदिनं स्मृतम्।
उत्सवस्नपनादीनि कुर्यात्तत्रापि शार्ङ्गिणः ॥ 18.124 ॥
मुखवासं हरेर्दद्यात् मासेऽस्मिन्नित्यमेव च।
सर्वेष्वपि च मासेषु मासर्क्षेष्वधिकार्चनम् ॥ 18.125 ॥
(उत्सव स्नपनैर्युकृतं विधियुक्तं समाचरेत्)
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां क्रियाधिकारे पुण्यर्क्षपूजन आग्रयण विष्पाकविधान सर्वमासार्चनविधिर्नाम अष्टादशोऽध्यायः (1) (1.) एकोनविंशोऽध्यायः ख. ।