17 सप्तदशोऽध्यायः

सप्तदशोऽध्यायः


सप्तदशोऽध्यायः
त्रिमूर्तिस्थापनम्
त्रिमूर्तिस्थापनं वक्ष्ये जगतामभिवृद्धये।
(सर्वलोकस्य पूजार्थं सर्वलोकहिताय च)
मध्ये विष्णुं प्रतिष्ठाप्य ब्रह्माणं दक्षिणं दक्षिणे ततः ॥ 17.1 ॥
वामे रुद्रं प्रतिष्ठाप्य पूजनं यत्तदुत्तमम्।
स्थापनं व्यत्ययेनैव मध्यमं ब्रह्मरुद्रयोः ॥ 17.2 ॥
मध्ये रुद्रं प्रतिष्ठाप्य दक्षिणे विष्णुमुत्तरे।
ब्रह्माणं व्यत्ययेनाथ स्थापयेदधमं स्मृतम् ॥ 17.3 ॥
कृत्वा वा पार्श्वयोरन्यौ मध्ये ब्रह्माणमेव वा।
सौम्येनानेन विधिना स्थापयेद्विष्णुपद्मजौ ॥ 17.4 ॥
शैवेन तान्त्रिकेणैव स्थापनं वै शिवस्य तु।
निष्कलं सकलं वाऽपि स्थापयेच्चन्द्रशेखरमम् ॥ 17.5 ॥
त्रयाणां परिवाराणां तत्तदुक्तानि कल्पयेत्।
अनपायिगद्वारविमानेशाः पृथक्पृथक् ॥ 17.6 ॥
प्राकारपरिवाराणां सर्वे साधारणा मताः।
प्रथमावरणादीनां द्वारपालास्तथैव च ॥ 17.7 ॥
दशतालोत्तमेनैव देवेदवं प्रकल्पयेत्।
शङ्करं मध्यमेनैव विरिञ्चमधमेन च ॥ 17.8 ॥
आलयाभिमुखे तेषां यागशालां प्रकल्पयेत्।
षङग्नीन् देवदेवस्य पञ्चाग्नीम् ब्रह्मणस्तथा ॥ 17.9 ॥
तच्छास्त्रोक्तेन मार्गेण रुद्रस्यापि प्रकल्पयेत्।
अक्ष्युन्मेषादिकं सर्वं पूर्ववत्कारयेत्पृथक् ॥ 17.10 ॥
हौत्रशंसनवेलायामिन्द्रादिपरिषद्गणान्।
मध्यालयाग्निकुण्डे तु समावाह्य समर्चयेत् ॥ 17.11 ॥
देवस्य र्प्ववद्धोमं षडग्निषु जुहोति वै।
ब्रह्मणम्सभ्यकुण्डे तु कृत्वा हौत्रप्रशंसनम् ॥ 17.12 ॥
प्राजापत्यं जयादींश्च कूश्माण्डं गणहोमकम्।
आहुतीनां सहस्त्रञ्च पूर्ववज्जुहुयाद्बुधः ॥ 17.13 ॥
ब्राह्मन्त्रद्वयेनापि शतमष्टोत्तरं यजेत्।
सावित्र्याऽब्जं घृताभ्यक्तं शतवारं ततो यजेत् ॥ 17.14 ॥
ऐन्द्रमाग्नेयसंयुक्तं यजेदाहवनीयके।
याम्यं नैऋतसंयुक्तमन्वाहार्ये जुहोति वै ॥ 17.15 ॥
वारुणं वायुदैवत्यं गार्हपत्ये जुहोति च।
सौम्यं कौबेरमैशान्यामावसत्थ्ये यजेत्क्रमात् ॥ 17.16 ॥
चतुर्वेदादिमन्त्रैश्च शतमष्टोत्तरं यजेत्।
एष एव विशेषः स्यादन्यत्सर्वं समं भवेत् ॥ 17.17 ॥
स्थापनं च त्रिमूर्तीनां परिषद्वणपूजनम्।
व्यक्तं मरीचिः प्रोवाच उक्तशेषं समाचरेत् ॥ 17.18 ॥
द्विमूर्तिस्थापनम्
द्विमूर्तिस्थापनं वक्ष्ये दक्षिणे विष्णुमव्ययम्।
वामे रुद्रं प्रतिष्ठाप्य नित्यं विधिवदर्चयेत् ॥ 17.19 ॥
अथवा कर्तुमिच्छेच्चेत् ब्रह्मणः स्थापनं पृथक्।
ग्रामादिषु च तन्मध्ये विविक्तेऽन्यत्र वा वने ॥ 17.20 ॥
भूपरीक्षादिकं सर्व तन्मन्त्रेणैव कारयेत्।
कृत्वा विमानबेरादिनयनोन्मीलनादिकम् ॥ 17.21 ॥
स्थापनोक्तक्रियास्सर्वाः कारयेत्पूर्ववद्बुधः।
ब्राह्ममन्त्रद्वयेनापि नित्यं विधिवदर्चयेत् ॥ 17.22 ॥
हवींषि पायसादीनि चत्वार्येवं निवेदयेत्।
उत्सवे तु ध्वजं हंसलक्षणं तस्य कल्पयेत् ॥ 17.23 ॥
विना पुरुषसूक्तेन विष्णुसूक्तेन वैष्णवैः।
ब्राह्ममन्त्रद्वयेनैव तत्तद्धोमस्तदुत्सवे ॥ 17.24 ॥
एष एव विशेषः स्यादन्यत्सर्व समं भवेत्।
परिवारस्थापनम्
रविं गुहञ्च विध्नेशं दुर्गा ज्येष्ठां सरस्वतीम् ॥ 17.25 ॥
स्थापयित्वाऽर्चनं कर्तु यदीच्छेद्भक्तितः पृथक्।
खिले विस्तरतः प्रोक्तं यन्मया तत्समाचरेत् ॥ 17.26 ॥
आश्रयालयमिच्छेच्चेत्परितो विष्णुमन्दिरे।
भास्करादीन् प्रकल्प्यैव पूजयेच्चेन्महाफलम् ॥ 17.27 ॥
प्रथमाऽवरणे प्राच्यां भास्करं भारतीमपि।
गुहं याम्ये तु विध्नेशं नैऋते परिकल्पयेत् ॥ 17.28 ॥
ज्येष्ठां वायव्यभागे तु दुर्गां याम्ये प्रकल्पयेत्।
प्रत्यङ्मुखौ च कर्तव्यौ भारती च दिवाकरः ॥ 17.29 ॥
कारयेत्प्राङ्मुखानन्यानिति पूर्वजशासनम्।
सौम्येनैव विधानेन पूजयेत्सर्वसम्पदे ॥ 17.30 ॥
सौम्यालयाश्रितानेतान् तान्त्रिकेण न चार्चयेत्।
औपासनाग्निरेव स्यादेतेषामाश्रयालये ॥ 17.31 ॥
कुर्याद्ध्रुवार्चामार्गेण सर्वमन्यत्खिलोक्तवत्।
आलयं प्रतिमोत्सेधं परिवारोक्तवद्भवेत् ॥ 17.32 ॥
आश्रयालयकल्पः
आश्रयालयकल्पञ्च प्रवक्ष्यामि तपोधनाः।
स्वतन्त्रमालयं कर्तुमशकृतोन्यऽत्र वाऽऽलये ॥ 17.33 ॥
स्थापयित्वाऽर्चयेत्सोऽपि समग्रं फलमाप्नुयात्।
मूलालये स्थिते देवे स्थितं एवाऽश्रये भवेत् ॥ 17.34 ॥
आसीने चाऽसनं वाऽपि स्थानकञ्च प्रकल्पयेत्।
स्थानकासनशय्यासु शयनेऽन्यतमं मतम् ॥ 17.35 ॥
मूलालये ध्रुवार्चायामाश्रयञ्च ध्रुवार्चनम्।
ध्रुवकौतुकसंयुक्ते तद्वदेवैकमेव वा ॥ 17.36 ॥
अवताराश्रयञ्चेत्तु गौणमार्गे यथाविधि।
आसीनावेव सर्वत्र वराहनरसिंहकौ ॥ 17.37 ॥
अवताराश्रयं कुर्वन् प्रथमावरणादिषु।
मत्स्यकूर्मौ प्रकुर्वीत पूर्वद्वारस्य दक्षिणे ॥ 17.38 ॥
वराहत्रयमाग्नेयाद्याम्यान्तं परिकल्पयेत्।
पारसिंहं प्रकुर्वीत गिरिजं याम्यपश्चिमे ॥ 17.39 ॥
स्थूणजं नैऋते देशे नीलवारुणमध्यमे।
सौदर्शनं नृसिंहन्तु वारुणे च ततः परम् ॥ 17.40 ॥
कुर्याल्लक्षमीनृसिंहञ्च वरुणोदानमध्यमे।
पातालनरसिंहञ्च वामनं वायुदिश्यपि ॥ 17.41 ॥
धनदेदानयोर्मध्ये कारयेत्तु त्रिविक्रमम्।
जामदग्न्यं तु कौबेरे कुबेरेशानमध्यमे ॥ 17.42 ॥
कुर्याद्दाशरथिं राममैशान्ये तु हलायुधम्।
ईशानेन्द्रान्तरे कृष्णं द्वारवामे तु कल्किनम् ॥ 17.43 ॥
वराहं नारसिंहञ्चरामं कृष्णं तथैव च।
दिक्षु सर्वासु संस्थाप्य पूजयेत्सर्वसिद्धये ॥ 17.44 ॥
योगे मूलालये कुर्याद्योगमेवाश्रयालयम्।
भोगे भोगञ्च योगं वा न जातु विरहादिकम् ॥ 17.45 ॥
मूलबेरन्तु शूलञ्चेच्छूलमेवाश्रयालये।
शैले शैलञ्च शूलं वा लोहे लौहं शिलामपि ॥ 17.46 ॥
एकबेरन्तु सर्वत्र शैलमेव प्रकल्पयेत्।
सुदर्शनप्रतिष्ठा चेद्याम्ये वा नैर्ऋते तथा ॥ 17.47 ॥
कल्पयेदीश्वरं प्राच्यां प्रागादि परिकल्पनम्?।
पादहीनमथार्ध वा मूलादारश्रयमन्दिरम् ॥ 17.48 ॥
तत्र मूलालयोत्कृष्टमलङ्कारं न कल्पयेत्।
सङ्खचाधिकतलं नैव कल्पयेदाश्रयालयम् ॥ 17.49 ॥
सालाश्रयं त्रिवर्गाढ्यं तदन्तर्मण्डलेऽपि वा।
अग्रमण्डपसंयुक्तं प्रथमाऽवरणे स्मृतम् ॥ 17.50 ॥
विमानद्वारदेवाश्च गर्भालयगता अपि।
परिवारा इति प्रोक्ता मुख्?ावासान्तमर्चनम् ॥ 17.51 ॥
द्वितीयावरणे चेत्तु शान्तान्तपरिषद्युतम्।
तृतीयावरणे चेत्तु होमकर्माणि कारयेत् ॥ 17.52 ॥
मुखमण्डपसंयुक्तं चक्रशङ्खयुतं तथा।
चतुर्थावरणे चेत्तु नवविंशतिविग्रहैः ॥ 17.53 ॥
अनपायिगणान्त्?सर्वान्कल्पयेत्स्नपनालयम्।
द्वात्रिंशद्विग्रहैरूर्ध्वं पृथगेवोत्सवादिकम् ॥ 17.54 ॥
ब्रह्मपद्मावटान्ताश्च भूपरीक्षादिकाः क्रियाः।
नैवाश्रयालये कुर्यादिति पूर्वजशासनम् ॥ 17.55 ॥
आरभ्याद्येष्टकान्यासं विमानं परिकल्पयेत्।
नैवाद्यन्त्येष्टकान्यासौ तच्चेदावृतमण्डपे ॥ 17.56 ॥
मूलं पौराणिकं चेत्तु यथाकाममथाश्रयम्।
गौणं समं वा मुख्यं वा कल्पयेच्चेन्न दोषकृत् ॥ 17.57 ॥
अन्येदवालये विष्णोः कुर्याच्चेदालयाश्रयम्।
सर्वं मूलालयोत्कृष्टं कल्पयेदिति शासनम् ॥ 17.58 ॥
विष्णवालयेऽन्यदेवानां कुर्याच्चेदाश्रयालयम्।
न समं नैव चोत्कृष्टं हीनमेव प्रकल्येत् ॥ 17.59 ॥
स्थितेऽपि देवे ज्येष्ठा च विध्नेशश्च सरस्वती।
आसीना एव कर्तव्यास्तदाऽन्ये संस्थिता मताः ॥ 17.60 ॥
इति सङ्क्षेपतः प्रोक्तमाश्रयालयकल्पनम् ॥
इर्त्योष श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे त्रिमूर्तिद्विमूर्तिस्थापनविध्याश्रयालयकल्पनं नाम
सप्तदशोऽध्यायः