सप्तदशोऽध्यायः ॐ सप्तदशोऽध्यायः त्रिमूर्तिस्थापनम् त्रिमूर्तिस्थापनं वक्ष्ये जगतामभिवृद्धये। (सर्वलोकस्य पूजार्थं सर्वलोकहिताय च) मध्ये विष्णुं प्रतिष्ठाप्य ब्रह्माणं दक्षिणं दक्षिणे ततः ॥ 17.1 ॥ वामे रुद्रं प्रतिष्ठाप्य पूजनं यत्तदुत्तमम्। स्थापनं व्यत्ययेनैव मध्यमं ब्रह्मरुद्रयोः ॥ 17.2 ॥ मध्ये रुद्रं प्रतिष्ठाप्य दक्षिणे विष्णुमुत्तरे। ब्रह्माणं व्यत्ययेनाथ स्थापयेदधमं स्मृतम् ॥ 17.3 ॥ कृत्वा वा पार्श्वयोरन्यौ मध्ये ब्रह्माणमेव वा। सौम्येनानेन विधिना स्थापयेद्विष्णुपद्मजौ ॥ 17.4 ॥ शैवेन तान्त्रिकेणैव स्थापनं वै शिवस्य तु। निष्कलं सकलं वाऽपि स्थापयेच्चन्द्रशेखरमम् ॥ 17.5 ॥ त्रयाणां परिवाराणां तत्तदुक्तानि कल्पयेत्। अनपायिगद्वारविमानेशाः पृथक्पृथक् ॥ 17.6 ॥ प्राकारपरिवाराणां सर्वे साधारणा मताः। प्रथमावरणादीनां द्वारपालास्तथैव च ॥ 17.7 ॥ दशतालोत्तमेनैव देवेदवं प्रकल्पयेत्। शङ्करं मध्यमेनैव विरिञ्चमधमेन च ॥ 17.8 ॥ आलयाभिमुखे तेषां यागशालां प्रकल्पयेत्। षङग्नीन् देवदेवस्य पञ्चाग्नीम् ब्रह्मणस्तथा ॥ 17.9 ॥ तच्छास्त्रोक्तेन मार्गेण रुद्रस्यापि प्रकल्पयेत्। अक्ष्युन्मेषादिकं सर्वं पूर्ववत्कारयेत्पृथक् ॥ 17.10 ॥ हौत्रशंसनवेलायामिन्द्रादिपरिषद्गणान्। मध्यालयाग्निकुण्डे तु समावाह्य समर्चयेत् ॥ 17.11 ॥ देवस्य र्प्ववद्धोमं षडग्निषु जुहोति वै। ब्रह्मणम्सभ्यकुण्डे तु कृत्वा हौत्रप्रशंसनम् ॥ 17.12 ॥ प्राजापत्यं जयादींश्च कूश्माण्डं गणहोमकम्। आहुतीनां सहस्त्रञ्च पूर्ववज्जुहुयाद्बुधः ॥ 17.13 ॥ ब्राह्मन्त्रद्वयेनापि शतमष्टोत्तरं यजेत्। सावित्र्याऽब्जं घृताभ्यक्तं शतवारं ततो यजेत् ॥ 17.14 ॥ ऐन्द्रमाग्नेयसंयुक्तं यजेदाहवनीयके। याम्यं नैऋतसंयुक्तमन्वाहार्ये जुहोति वै ॥ 17.15 ॥ वारुणं वायुदैवत्यं गार्हपत्ये जुहोति च। सौम्यं कौबेरमैशान्यामावसत्थ्ये यजेत्क्रमात् ॥ 17.16 ॥ चतुर्वेदादिमन्त्रैश्च शतमष्टोत्तरं यजेत्। एष एव विशेषः स्यादन्यत्सर्वं समं भवेत् ॥ 17.17 ॥ स्थापनं च त्रिमूर्तीनां परिषद्वणपूजनम्। व्यक्तं मरीचिः प्रोवाच उक्तशेषं समाचरेत् ॥ 17.18 ॥ द्विमूर्तिस्थापनम् द्विमूर्तिस्थापनं वक्ष्ये दक्षिणे विष्णुमव्ययम्। वामे रुद्रं प्रतिष्ठाप्य नित्यं विधिवदर्चयेत् ॥ 17.19 ॥ अथवा कर्तुमिच्छेच्चेत् ब्रह्मणः स्थापनं पृथक्। ग्रामादिषु च तन्मध्ये विविक्तेऽन्यत्र वा वने ॥ 17.20 ॥ भूपरीक्षादिकं सर्व तन्मन्त्रेणैव कारयेत्। कृत्वा विमानबेरादिनयनोन्मीलनादिकम् ॥ 17.21 ॥ स्थापनोक्तक्रियास्सर्वाः कारयेत्पूर्ववद्बुधः। ब्राह्ममन्त्रद्वयेनापि नित्यं विधिवदर्चयेत् ॥ 17.22 ॥ हवींषि पायसादीनि चत्वार्येवं निवेदयेत्। उत्सवे तु ध्वजं हंसलक्षणं तस्य कल्पयेत् ॥ 17.23 ॥ विना पुरुषसूक्तेन विष्णुसूक्तेन वैष्णवैः। ब्राह्ममन्त्रद्वयेनैव तत्तद्धोमस्तदुत्सवे ॥ 17.24 ॥ एष एव विशेषः स्यादन्यत्सर्व समं भवेत्। परिवारस्थापनम् रविं गुहञ्च विध्नेशं दुर्गा ज्येष्ठां सरस्वतीम् ॥ 17.25 ॥ स्थापयित्वाऽर्चनं कर्तु यदीच्छेद्भक्तितः पृथक्। खिले विस्तरतः प्रोक्तं यन्मया तत्समाचरेत् ॥ 17.26 ॥ आश्रयालयमिच्छेच्चेत्परितो विष्णुमन्दिरे। भास्करादीन् प्रकल्प्यैव पूजयेच्चेन्महाफलम् ॥ 17.27 ॥ प्रथमाऽवरणे प्राच्यां भास्करं भारतीमपि। गुहं याम्ये तु विध्नेशं नैऋते परिकल्पयेत् ॥ 17.28 ॥ ज्येष्ठां वायव्यभागे तु दुर्गां याम्ये प्रकल्पयेत्। प्रत्यङ्मुखौ च कर्तव्यौ भारती च दिवाकरः ॥ 17.29 ॥ कारयेत्प्राङ्मुखानन्यानिति पूर्वजशासनम्। सौम्येनैव विधानेन पूजयेत्सर्वसम्पदे ॥ 17.30 ॥ सौम्यालयाश्रितानेतान् तान्त्रिकेण न चार्चयेत्। औपासनाग्निरेव स्यादेतेषामाश्रयालये ॥ 17.31 ॥ कुर्याद्ध्रुवार्चामार्गेण सर्वमन्यत्खिलोक्तवत्। आलयं प्रतिमोत्सेधं परिवारोक्तवद्भवेत् ॥ 17.32 ॥ आश्रयालयकल्पः आश्रयालयकल्पञ्च प्रवक्ष्यामि तपोधनाः। स्वतन्त्रमालयं कर्तुमशकृतोन्यऽत्र वाऽऽलये ॥ 17.33 ॥ स्थापयित्वाऽर्चयेत्सोऽपि समग्रं फलमाप्नुयात्। मूलालये स्थिते देवे स्थितं एवाऽश्रये भवेत् ॥ 17.34 ॥ आसीने चाऽसनं वाऽपि स्थानकञ्च प्रकल्पयेत्। स्थानकासनशय्यासु शयनेऽन्यतमं मतम् ॥ 17.35 ॥ मूलालये ध्रुवार्चायामाश्रयञ्च ध्रुवार्चनम्। ध्रुवकौतुकसंयुक्ते तद्वदेवैकमेव वा ॥ 17.36 ॥ अवताराश्रयञ्चेत्तु गौणमार्गे यथाविधि। आसीनावेव सर्वत्र वराहनरसिंहकौ ॥ 17.37 ॥ अवताराश्रयं कुर्वन् प्रथमावरणादिषु। मत्स्यकूर्मौ प्रकुर्वीत पूर्वद्वारस्य दक्षिणे ॥ 17.38 ॥ वराहत्रयमाग्नेयाद्याम्यान्तं परिकल्पयेत्। पारसिंहं प्रकुर्वीत गिरिजं याम्यपश्चिमे ॥ 17.39 ॥ स्थूणजं नैऋते देशे नीलवारुणमध्यमे। सौदर्शनं नृसिंहन्तु वारुणे च ततः परम् ॥ 17.40 ॥ कुर्याल्लक्षमीनृसिंहञ्च वरुणोदानमध्यमे। पातालनरसिंहञ्च वामनं वायुदिश्यपि ॥ 17.41 ॥ धनदेदानयोर्मध्ये कारयेत्तु त्रिविक्रमम्। जामदग्न्यं तु कौबेरे कुबेरेशानमध्यमे ॥ 17.42 ॥ कुर्याद्दाशरथिं राममैशान्ये तु हलायुधम्। ईशानेन्द्रान्तरे कृष्णं द्वारवामे तु कल्किनम् ॥ 17.43 ॥ वराहं नारसिंहञ्चरामं कृष्णं तथैव च। दिक्षु सर्वासु संस्थाप्य पूजयेत्सर्वसिद्धये ॥ 17.44 ॥ योगे मूलालये कुर्याद्योगमेवाश्रयालयम्। भोगे भोगञ्च योगं वा न जातु विरहादिकम् ॥ 17.45 ॥ मूलबेरन्तु शूलञ्चेच्छूलमेवाश्रयालये। शैले शैलञ्च शूलं वा लोहे लौहं शिलामपि ॥ 17.46 ॥ एकबेरन्तु सर्वत्र शैलमेव प्रकल्पयेत्। सुदर्शनप्रतिष्ठा चेद्याम्ये वा नैर्ऋते तथा ॥ 17.47 ॥ कल्पयेदीश्वरं प्राच्यां प्रागादि परिकल्पनम्?। पादहीनमथार्ध वा मूलादारश्रयमन्दिरम् ॥ 17.48 ॥ तत्र मूलालयोत्कृष्टमलङ्कारं न कल्पयेत्। सङ्खचाधिकतलं नैव कल्पयेदाश्रयालयम् ॥ 17.49 ॥ सालाश्रयं त्रिवर्गाढ्यं तदन्तर्मण्डलेऽपि वा। अग्रमण्डपसंयुक्तं प्रथमाऽवरणे स्मृतम् ॥ 17.50 ॥ विमानद्वारदेवाश्च गर्भालयगता अपि। परिवारा इति प्रोक्ता मुख्?ावासान्तमर्चनम् ॥ 17.51 ॥ द्वितीयावरणे चेत्तु शान्तान्तपरिषद्युतम्। तृतीयावरणे चेत्तु होमकर्माणि कारयेत् ॥ 17.52 ॥ मुखमण्डपसंयुक्तं चक्रशङ्खयुतं तथा। चतुर्थावरणे चेत्तु नवविंशतिविग्रहैः ॥ 17.53 ॥ अनपायिगणान्त्?सर्वान्कल्पयेत्स्नपनालयम्। द्वात्रिंशद्विग्रहैरूर्ध्वं पृथगेवोत्सवादिकम् ॥ 17.54 ॥ ब्रह्मपद्मावटान्ताश्च भूपरीक्षादिकाः क्रियाः। नैवाश्रयालये कुर्यादिति पूर्वजशासनम् ॥ 17.55 ॥ आरभ्याद्येष्टकान्यासं विमानं परिकल्पयेत्। नैवाद्यन्त्येष्टकान्यासौ तच्चेदावृतमण्डपे ॥ 17.56 ॥ मूलं पौराणिकं चेत्तु यथाकाममथाश्रयम्। गौणं समं वा मुख्यं वा कल्पयेच्चेन्न दोषकृत् ॥ 17.57 ॥ अन्येदवालये विष्णोः कुर्याच्चेदालयाश्रयम्। सर्वं मूलालयोत्कृष्टं कल्पयेदिति शासनम् ॥ 17.58 ॥ विष्णवालयेऽन्यदेवानां कुर्याच्चेदाश्रयालयम्। न समं नैव चोत्कृष्टं हीनमेव प्रकल्येत् ॥ 17.59 ॥ स्थितेऽपि देवे ज्येष्ठा च विध्नेशश्च सरस्वती। आसीना एव कर्तव्यास्तदाऽन्ये संस्थिता मताः ॥ 17.60 ॥ इति सङ्क्षेपतः प्रोक्तमाश्रयालयकल्पनम् ॥ इर्त्योष श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे त्रिमूर्तिद्विमूर्तिस्थापनविध्याश्रयालयकल्पनं नाम सप्तदशोऽध्यायः