षोडशोऽध्यायः ॐ षोडशोऽध्यायः क्षी दव्याः पृथगर्चनम् अतः परं प्रवक्ष्यामि श्रीदेव्याः पृथगर्चनम्। (आलयाद्दक्षिणे वाऽपि प्रथमाऽवरणे तथा ॥ द्वितीयाऽवरणे वाऽपि तृतीयाऽवरणे तथा। आलयद्वारदिग्द्वारं विमानं परिकल्प्य च ॥ देवस्य बाहुसीमान्तं कर्णसीमान्तमेव वा। स्तनान्तं वा श्रियं देवीं पूर्ववत्परिकल्पयेत्)। स्थिते देवे स्थितां देवीमासीनामासने हरेः ॥ 16.1 ॥ आसीनां वा स्थितां वाऽपि शयने परिकल्पयेत्। श्रियं देवीं प्रकल्प्यैव सर्वाभरणभूषिताम् ॥ 16.2 ॥ पद्मकिञ्चल्कसदृशां पीतवस्त्रधरां शुभाम्। पद्मासने समासीनां पद्मोर्ध्वभुजद्वयाम् ॥ 16.3 ॥ सव्येन पूर्वहस्तेन भकृतानामभयप्रदाम्। वामेन पूर्वहस्तेन दधतीं विपुलं धनम् ॥ 16.4 ॥ एवं कृत्वा श्रियं देवीं प्रतिष्ठाप्य समर्चयेत्। आलयाभिमुखे कृत्वा यागशालां यथाविधि ॥ 16.5 ॥ औपासनाग्निकुण्डे द्वे कृत्वा शयनवेदिकाम्। ‘श्रिये जा’ तेति मन्त्रेण सर्वं कृत्वा यथाक्रमम् ॥ 16.6 ॥ (‘शं सानियच्छ’ तीत्युक्ता ‘भूयाम’ इति च क्रमात्। नयनोन्मीलनं कृत्वा जलादिष्वधिवास्य च) ॥ कुम्भं संसाध्य संस्नाप्य बध्द्वा प्रतिसरं तथा। शाययित्वा समावाह्य दक्षिणप्रणिधौ तथा ॥ 16.7 ॥ ‘श्रियं धृतिं पवित्री’ च ‘प्रमोदायिनी’ मिति। उत्तरप्रणिधौ वाऽपि भूमिञ्चैव सरस्वतीम् ॥ 16.8 ॥ रतिं प्रीतिं तथैवात्र कीर्ति (1)क्षान्तिं तथैव च। पुष्टिं तुष्टिं समावाह्य आष्टौ ताः परिचारिकाः (1.) कान्तिं आ. ॥ 16.9 ॥ इन्द्रादिलोकपालांश्च द्वितीयाऽवरणेऽपि च। बलाकिनीं वनमालां विभीषामपि शाङ्करीम् ॥ 16.10 ॥ गुग्गुलं चागरुञ्चैव दमकं शङ्खिलं तथा। तृतीयाऽवरणे प्रोक्ता एते चाष्टौ विशेषतः ॥ 16.11 ॥ प्रथमद्वारसव्ये तु निर्माल्यहरिणी तथा। वामे चैव तथा प्रोक्ता नैवेद्यहरिणीति च ॥ 16.12 ॥ द्वितीयद्वारसव्ये तु भूमिञ्चापि समाचरेत्। वांमे सरस्वतीञ्चैव द्वितीयद्वारपालिके ॥ 16.23 ॥ तृतीयद्वारसव्ये तु रतिञ्चैव प्रकल्पयेत्। वामे भागे तथा प्रोक्ता प्रीतिरत्र समर्चने ॥ 16.14 ॥ एष एव विशेषस्स्यादन्यत्सर्व हरेरिव। देव्य एतास्समावाह्य उत्तरप्रणिधै जले ॥ 16.15 ॥ ‘शं सा नियच्छ’ तीत्युक्त्वा ‘भूयाम’ इति च क्रमात्। ‘श्रिये जा’ तेति मन्त्रेण शतष्टोत्तरं यजेत् ॥ 16.16 ॥ श्रीसूक्तेनैव पद्माग्नौ शतमष्टोत्तरं यजेत्। निर्माल्यहारिण्यन्तांश्च परिवारान् प्रकल्पयेत् ॥ 16.17 ॥ होमावाहनपूजादि तत्तन्नामभिराचरेत्। प्रतिष्ठोक्तक्रमेणैव सर्वाण्यन्यानि कारयेत् ॥ 16.18 ॥ एवमेव प्रतिष्ठाप्य त्रिसन्ध्यं नित्यमर्चयेत्। उत्सेव देवदेवस्य सह देवीं नयेदनु ॥ 16.19 ॥ इयमङ्गप्रतिष्ठा स्यात्स्वतन्त्रस्थापनोच्यते। (1)एतं कल्पं समासेन विस्तरेण वदाम्यहम् (1.) एतदारभ्य सार्धद्वात्रिंशच्छलोकपर्यन्तो ग्रन्ध आ. कोशेषु द्दश्यते ॥ 16.20 ॥ शय्यावेदिञ्च परितः अग्निकुण्डानि कल्पयेत्। पञ्चाग्निं पौण्डरीकञ्च स्नानश्वभ्रञ्च पूर्ववत् ॥ 16.21 ॥ भूमियज्ञञ्च कृत्वा तु कुण्डेष्वाघारमाचरेत्। ततश्च पौण्डरीकाग्नौ हौत्रशंसमाचरेत् ॥ 16.22 ॥ आज्यस्थालीं स्रुवञ्चैव सुवर्णेनैव कारयेत्। तेन स्रुवेण होतव्यमाहुतीनां सहस्रकम् ॥ 16.23 ॥ विष्णोस्सहस्रकं हुत्वा अष्टासशीतिं यजेत्क्रमात्। श्रियश्शंताष्टकैर्मन्त्रैर्दशवारञ्च हूयताम् ॥ 16.24 ॥ पुष्कलामाहुतिं हुत्वा दिशाहोमं जुहोति च। यजेदाहवनीयाग्नौ श्रीसूक्तं भावय?ञ्छ्रियम् ॥ 16.25 ॥ ‘श्रिये जा’ तेति मन्त्रेण दक्षिणाग्नौ जुहोति वै। ‘शं सा नियच्छ’ तीत्युक्ता ‘भूयाम’ इति च क्रमात् ॥ 16.26 ॥ कुण्डयोरन्ययोर्हुत्वा व्याहृत्यन्तं पृथक्पृथक्। सभ्ये समस्तैर्मन्त्रेश्च व्याहृत्यन्तं क्रमाद्यजेत् ॥ 16.27 ॥ मुहूर्ते समनुप्राप्ते देवीं संस्थापयेत्तथा। एष एव विशेषः स्यादप्यत्सर्वं हरोरिव ॥ 16.28 ॥ एवं देवीं प्रतिष्ठाप्य त्रिसन्ध्यं नित्यमर्चयेत्। हंसध्वजो विशेषः स्याच्छ्रीदेव्याश्चोत्सवेऽपि च ॥ 16.29 ॥ उत्सवोक्तक्रमेणैव सर्वाण्यन्यानि कारयेत्। उत्सवे देवदेवस्य सह देवीं नयेदनतु ॥ 16.30 ॥ एवमेव प्रकारेण विष्णुसद्माश्रितश्रियः। उत्सवं कुरुते भक्त्या प्रतिष्ठामर्चनादिकम् ॥ 16.31 ॥ अचलां श्रियमाप्नोति जन्मजन्मान्तरेऽपि च। तद्वंशजाश्च श्रीमन्तो भविष्यन्ति न संशयः ॥ 16.32 ॥ स्वतन्त्रलक्ष्मीप्रतिष्ठा अतः परं प्रवक्ष्यामि स्वतन्त्रस्थापनं श्रियः। ग्रामे वा नगरे वाऽपि पत्तने खर्वटेऽपि वा ॥ 16.33 ॥ मध्ये संस्थापयेद्देवीं ब्रह्मसूत्रात्तु दक्षिणे। अथवा पश्चिमे भागे तथा तत्सूत्रदक्षिणे ॥ 16.34 ॥ विष्णवालयविहीने तु ब्रह्मसूत्रोत्तरेऽथवा। ग्रामादीनान्तु वायव्ये प्राच्यां वा सूत्रदक्षिणे ॥ 16.35 ॥ मनोरमेऽन्यदेशे वा नद्यास्तीरे तथा वने। पर्वताग्रेऽब्धितीरे वा प्रतिष्ठामाचरेद्वुधः ॥ 16.36 ॥ विमानं स्वस्तिकं ग्रामे श्रीप्रतिष्ठितमेव वा। विष्णुच्छन्दविमानं वा चतुःफुटमथापि वा ॥ 16.37 ॥ कर्षणादिक्रियास्सर्वास्तत्सूक्तेनैव कारयेत्। बालालयार्चनं कुर्वन् विमानं परिकल्पयेत् ॥ 16.38 ॥ शूलस्थापनमार्गेण शूलं संस्थापयेत्पुनः। श्रीदेव्या बिल्ववृक्षस्तु शूलवृक्षः प्रकीर्तितः ॥ 16.39 ॥ अथवाऽश्वत्थवृक्षो वा शिलाशूलमथापि वा। शिलास्थापनमार्गेण स्थापयेत्तु शिलामयम् ॥ 16.40 ॥ ध्रुवार्चां वा प्रकुर्वीत सम्यग्लक्षणसंयुताम्। आद्येष्टकानां विन्यासे गर्भप्रक्षेपणेऽथवा ॥ 16.41 ॥ मूर्धेष्टकानां विन्यासे शूलस्य स्थापनेऽपि च। पौण्डरीकाग्निरेकः स्यात् मन्त्रं श्रीसूक्तमेव च ॥ 16.42 ॥ श्रीदैवत्यं ‘श्रिये जात’ इति जप्येदृचं श्रियः। एष एव विशेषः स्यादन्यत्सर्वं हरेरिव ॥ 16.43 ॥ तथा च कारयेद्देवीं द्विभुजां वा चतुर्भजाम्। रज्जुबन्धादिकं सर्व हरेरिव समाचरेत् ॥ 16.44 ॥ कुर्याद्विल्ववनाम्भोजमध्ये पद्मं मनोहरम्। तन्मध्ये मन्दिरं कुर्यात्तप्तहाटकसन्निभम् ॥ 16.45 ॥ दीपचामरमुक्तासक्पूर्णकुम्भद्वयाङ्कुरैः। पुष्पैर्गन्धैश्च धूपैश्च वितानैः स्तम्भवेष्टनैः ॥ 16.46 ॥ मन्दिरं सुन्दरं कृत्वा चतरावरणान्वितम्। तत्र सिंहासनाम्भोजकर्णिकामध्यविष्टरे ॥ 16.47 ॥ कुर्याच्चतुर्भुजां देवीं सपद्मोर्ध्वकरद्वयाम्। पूर्वदक्षिणहस्तेन भक्तानामभयप्रदाम् ॥ 16.48 ॥ वामेन पूर्वहस्तेन दधतीं विपुलं धनम्। इन्दीवरोदरदृशीं शरदिन्दुमुखीं शुभाम् ॥ 16.49 ॥ शुक्लगन्धानुलिप्ताङ्गीं शुक्लमाल्याम्बरोज्जवलाम्। नानारत्नोज्जवलानर्धदिव्यभूषण भूषिताम् ॥ 16.50 ॥ (हेमयज्ञोपवीजाञ्च पद्मालासमन्विताम्) सुवर्णवर्णा वरदां हेमररुपसगुज्जवलाम्, एवं कृत्वा भगवतीं संसारार्णवतारिणीम् ॥ 16.51 ॥ शङ्खपद्मनिधी कुर्यात्पादयोरग्रतः श्रियः। प्रागादिषु चतुर्दिक्षु पुरुषादीन् प्रकल्पयेत् ॥ 16.52 ॥ अथवा वासुदेवादीन् शङ्खचक्रधरान् परान्। किरीटहारकेयूरमकुटादिविराजितान् ॥ 16.53 ॥ श्रीवत्सकौस्तुभोरस्कान् वनमालाविभूषितान्। चतुर्भुजान् सुखासीनान् श्यामाभान् पद्मलोचनान् ॥ 16.54 ॥ वीक्षमाणान् श्रियं देवीं विस्मयोत्फुल्ललोचनाम्। गुग्गुलुं चागरुञ्चैव दमकं शिङ्खिलं तथा ॥ 16.55 ॥ चतुर्विषाणान् शुक्लाङ्गान् कोणेषु परिकल्पयेत्। भूमिं सरस्वतीञ्चैव रतिं प्रीतिं तथैव च ॥ 16.56 ॥ कीर्ति क्षान्तिं पुष्टितुष्टी शक्तीरष्टौ प्रकल्पयेत्। इन्द्रादिलोकपालांश्च तत्तत्स्थाने प्रकल्पयेत् ॥ 16.57 ॥ (पूर्वाशादिक्रमेणैव प्रथमाऽवरणेऽर्चयेत्) बलाकिनीञ्च प्राग्द्वारे दक्षिणे वनमालिकाम्। विभीषिकां प्रतीच्यान्तु उद्वग्द्वारे च शाङ्करीम् ॥ 16.58 ॥ कल्पयेद्वामनास्त्वेताश्चतस्रो द्वारपालिकाः। द्वे द्वे कृतृवाऽ?थवा चैताः खिलोक्ता द्वारपालिकाः ॥ 16.59 ॥ शुक्लाम्बराः पद्महस्ताः सर्वाभरणभूषिताः। बलाकिन्यादयस्त्वेताः पद्मकिञ्जल्कसन्निभाः ॥ 16.60 ॥ कल्पसन्तानमन्दारपारिजातांश्चतुर्दिशम्। विल्ववृक्षांश्च परितः पूर्णकुम्भान् लिखेत्क्रमात् ॥ 16.61 ॥ कल्पयित्वाखिलोक्तांश्च परिवारान् यथाक्रमम्। कृत्वा तु भूतपीठान्तान् स्थापनारम्भमाचरेत् ॥ 16.62 ॥ फाल्गुनोत्तरुल्गुन्यां स्थापना प्रीतये श्रियः। बिल्ववृक्षादधरस्सम्यगासीनो वाह्ममासनम् ॥ 16.64 ॥ जपेदष्टोक्तरशतं श्रीसूक्तं भावयेच्छ्रियम्। स्थापनादिवसात्पूर्वं पञ्चमेऽह्र्यङ्कृरार्पणम् ॥ 16.64 ॥ अङ्कुरार्पणकादूर्ध्वं यागशालां प्रकल्पयेत्। शय्यावेदिञ्च परितस्त्वग्निकुण्डानि कल्पयेत् ॥ 16.65 ॥ पञ्चाग्नीन् पौण्डरीकाग्निं स्नानश्वभ्रञ्च पूर्ववत्। अक्ष्युन्मेषाधिवासौ च ध्रुवशुद्धिं तथैव च ॥ 16.66 ॥ कृत्वा तु पूर्ववत्पश्चात् पूर्वरात्रौ विशेषतः। भूमियज्ञञ्च कृत्वा तु कुण्डेष्वाघारमाचरेत् ॥ 16.67 ॥ कुमृभं सम्पूज्य कलशैः स्नापयेत्सप्तभिः पुनः। पूर्ववत्कौतुकं बध्द्वा शयने शाययेच्छ्रियम् ॥ 16.68 ॥ ततश्च पौण्डरीकाग्नौ हौत्रशंसनमाचरेत्। (हौत्रान्ते तु समावाह्य द?क्षिणप्रणिधौ जले। श्रियं देवीं समावाह्य (आनिरुद्धान्तमेव च ॥ निर्माल्यहारिणीत्यादि) श्रीभूतन्तं समाचहेत्। उत्त्रप्रणिधौ तद्वदावाह्यज्यं निरुप्य च ॥ एतैश्च मूर्तिमन्त्रैश्च आज्येन जुहुयात्क्रमात्)। आजृयपात्रं स्रुवञ्चैव सुवर्णेनैव कारयेत् ॥ 16.69 ॥ तेन स्रुवेण होतव्यमाहुतीनां सहस्रकम्। विष्णोस्सहस्रकं हुत्वा अष्टाशीत्याहुतीर्यजेत् ॥ 16.70 ॥ श्रियश्शताष्टकैर्मन्त्रैर्दशवारञ्च हूयताम्। पुष्कलामाहुतिं हुत्वा दिशाहोमं जुहोति वै ॥ 16.71 ॥ यजेदाहवनीयाग्नौ श्रीसूक्तं भावय?ञ्छ्रियम्। ‘श्रिये जा’ तेति मन्त्रेण दक्ष्ज्ञिणाग्नौ जुहोति च ॥ 16.72 ॥ ‘शं सा नियच्छ’ तीत्युक्त्वा ‘भूयाम’ इति च क्रमात्। कुण्डयोरन्ययोर्हुत्वा व्याहृत्यन्तं पृथक्पृथक् ॥ 16.73 ॥ सभ्ये समस्तैर्मन्त्रैश्च व्याहृत्यन्तं क्रमाद्यजेत्। मुहूर्ते समनुप्राप्ते लक्ष्मीं संस्थापयेत्तथा ॥ 16.74 ॥ एष एव विशेषः स्यादन्यत्सर्वं खिलोक्तवत्। पृथक्कर्तुमशक्तश्चेदालयाश्रयमेव वा ॥ 16.75 ॥ आलये देवदेवस्य दक्षिणे सम्प्रकल्पयेत्। चतुर्भुजां प्रकुर्वीत पूर्वोक्तेन विधानतः ॥ 16.76 ॥ अथवा द्विभुजां देवीं कल्पयित्वा खिलोक्तवत्। विधिना स्थापयेत्सम्यक् स्वतन्त्रं वाऽऽलयाश्रयम् ॥ 16.77 ॥ अर्चनादि श्रियो देव्याः स्थापनं श्रीशताष्टकम्। खिले विस्तरतः प्रोक्तं तत्तत् ज्ञात्वा समर्चयेत् ॥ 16.78 ॥ ध्रुवकौतुसंयुक्तं स्थापनं चोत्तमं भवेत्। एकबेरार्चनं मध्यमाभासमधमं भवेत् ॥ 16.79 ॥ श्रियो यः कुरुते भक्त्या प्रतिष्ठामर्चनादिकम्। अचलां श्रियमाप्नोति जन्मजन्मान्तरेऽपि च ॥ 16.80 ॥ तद्वंशजाश्च श्रीमन्तो भविष्यन्ति न संशयः। सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ 16.81 ॥ अन्ते विमानमारुह्य सालोक्यं पदमाप्नुयात्। श्रीदेव्याः विमानक्रमः अतः परं श्रियो देव्याः विमानक्रम उच्यते ॥ 16.82 ॥ विमानं लक्षणं कृत्वा परिवारान्प्रकल्पयेत्। तले च प्रथमे चैव देवानां क्रम उच्यते ॥ 16.83 ॥ प्रागादिषु चतुर्दिक्षु पुरुषादीन् प्रकल्पयेत्। द्वितीयेऽपि तले प्रोक्तं वासुदेवादिव्यूहकम् ॥ 16.84 ॥ तृतीयेऽपि तले प्रोक्तः परिवारक्रमो यथा। गुग्गुलुञ्च कुरण्टञ्च दमकं सलिलं तथा ॥ 16.85 ॥ चतुर्विषाणान् शुक्लाङ्गान् गजान्प्रागादि कल्पयेत्। पञ्चमेऽपि तले प्रोक्तः परिवारक्रमो बुधाः ॥ 16.86 ॥ भूमिं सरस्वतीञ्चैव रतिं प्रीतिं तथैव च। एताश्चतस्रो देव्यश्च प्रागादि परिकल्पयेत् ॥ 16.87 ॥ षष्ठेऽपि च तले प्रोक्ताः कीर्तिः क्षान्तिस्तथैव च। पुष्टिस्तुष्टिस्तथैताश्च प्रागादि परिकल्पयेत् ॥ 16.88 ॥ सप्तमेऽपितले वाऽपि दिग्देवांश्च प्रकल्पयेत्। अष्टमेऽपि तले कुर्यादष्ठदिक्पालकान?पि ॥ 16.89 ॥ प्रागादिषु चतुर्दिक्षु एतान्देवान् प्रकल्पयेत्। नवमेऽपि तले वाऽपि देवानां क्रम उच्यते ॥ 16.90 ॥ वासुकिञ्च तथाऽनन्तं शङ्खञ्च गुलिकं तथा। प्रागादिषु चतुर्दिक्षु क्रमादेवं प्रकल्पयेत् ॥ 16.91 ॥ दशमेऽपि तले वाऽपि परिवारक्रमो बुधाः। पूर्वे सरस्वतीञ्चैव गायीं दक्षिणे तथा ॥ 16.92 ॥ पश्चिमेऽपि च सावित्रीं वैष्णवीमपि चोत्तरे। एकादशतले वाऽपि पालिकानां क्रमं शृणु ॥ 16.93 ॥ पूर्वे तत्र श्रियं चापि दक्षिणे हरिणीं तथा। पश्चिमे च इलाञ्चैव उत्तरे सुन्दरीं तथा ॥ 16.94 ॥ द्वादशेऽपि तले प्रोक्तदेवताक्रम उच्यते। बलाकिनीञ्च पूर्वे तु दक्षिणे वनमालिकाम् ॥ 16.95 ॥ विभीषिकां पश्चिमे तु उत्तरे शङ्करीं तथा। विमानद्वारभागे तु चतस्रो द्वारपालिकाः ॥ 16.96 ॥ विमानं परितश्चापि एतान्देवान्प्रकल्पयेत्। शुक्लाम्बराः पद्महस्ताः सर्वभरणभूषिताः ॥ 16.97 ॥ बलाकिन्यादयस्त्वेताः पद्मकिञ्जल्कसन्निभाः। गजेन्द्रं वा मृगेन्द्रं वा कोणे कोणे प्रकल्पयेत् ॥ 16.98 ॥ एष एव विशेषः स्यादन्यत्सर्वं हरेरिव। प्रतिष्ठादिवसात्पूर्वं पञ्चमेऽह्र्यङ्कुरार्पण्?ाम् ॥ 16.99 ॥ विमानं परितश्चापि यागशालां प्रकल्प्य च। विमानस्य चतुर्दिक्षु चाग्निकुण्डानि कल्पयेत् ॥ 16.100 ॥ वास्तुहोमं ततो हुत्वा पञ्चगव्येन चोक्षयेत्। श्रियो देव्याः प्रतिष्ठोक्तं सर्वमत्रैव कारयेत् ॥ 16.101 ॥ एष एव विशेषः स्यादन्यत्सर्वं श्रियो यथा। एवं यः कुरुते भक्त्यां सर्वकामानवाप्नुयात् ॥ 16.102 ॥ इह लोके सुखं भुक्त्वा ब्रह्मलोकं स गच्छति ॥ इत्यार्षे श्रीवैखानसे भगच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे भगवदालयाश्रितश्रीप्रतिष्ठाविधिर्नाम षोडशोऽध्यायः ॥