15 पञ्चदशोऽध्यायः

पञ्चदशोऽध्यायः


पञ्चदशोध्यायः(1)
गृहार्चाप्रतिष्ठा विष्णुप्रतिष्ठा
अथार्चनं गृहे विष्णोः प्रवक्ष्यामि तपोक्ष्यामि तपोधनाः (1.) अयमध्यायः ख मातृकायां नोपलभ्यते ॥ 15.1 ॥
षङ्ङ्गुलादहीनन्तु तद्रूपं हाटकादिभिः।
कारयित्वा यथामर्गं प्रतिष्ठामारभेत्पुनः ॥ 15.2 ॥
पूर्वोक्तगुणसम्पन्ने काले चापि शुभोज्जवले।
औपासनाग्निमाधाय वास्तुहोमावसानके ॥ 15.3 ॥
अक्ष्युन्मेषोक्तहोमान्ते कृत्वा चैवाक्षिमोचनम्।
दर्शयित्वा गवादीनि जलादिष्वधिवास्य च ॥ 15.4 ॥
ध्रुवबेरोदितां शुद्धिं चित्राभासे च कारयेत्।
पूर्वेद्युरेव तस्मात्तु सायं सन्ध्यामुपास्य च ॥ 15.5 ॥
औपासनाग्निमाधाय हुत्वा तत्र च वैष्णवम्।
संसाध्य पूर्ववत्कुम्भं देवमावाह्य तत्र वै ॥ 15.6 ॥
अधिवासगतं देवमुद्धृत्य प्रणवेन तु।
स्नानश्वभ्रे प्रतिष्ठाप्य स्वस्तिसूक्तं समुच्चन् ॥ 15.7 ॥
तस्यैव दक्षिणे भागे धान्यपीठे सुसन्न्यसेत्।
संस्नाप्य सप्तकलशैः सोपस्ननैश्च पूर्ववत् ॥ 15.8 ॥
चित्राभासं प्रतिष्ठाप्य प्रोक्षयेत्कलशाम्भसा।
ततोऽग्नेरुत्तरस्यान्तु धान्यपीठे निवेश्य च ॥ 15.9 ॥
पुण्याहं वाचयित्वा तु बध्द्वा प्रतिसरं तथा।
तथैव शाययेद्देवं पञ्चवस्त्रसमास्तृते ॥ 15.10 ॥
हौत्रं प्रशंस्य तत्काले दक्षिणप्रणिधौ जले।
ओं भृः पुरुष मित्युक्त्वा ओं भुवः पुरुषं तथा ॥ 15.11 ॥
ओं सुवः पुरपं चेति भूर्भूवस्सुवरित्त्यपि।
नारायणं तथा विष्णुं पुरुषं सत्यमच्युतम् ॥ 15.12 ॥
अनिरुद्धं समावाह्य श्रियञ्चेति महीमिति।
निरुप्याज्याहुतीर्हुत्वा सूक्ते वैष्णवपौरुषे ॥ 15.13 ॥
अतो देवादिमन्त्रांश्च चतुरावर्त्य वै यजेत्।
श्रीभूमिसहिते तत्तत् सूक्तमन्त्रांस्तथा यजेत् ॥ 15.14 ॥
मूर्तिमन्त्रैश्च हुतृवाऽन्ते विष्णुगायत्रिया पुनः।
अष्टोत्तरशतं पद्मं देवं ध्यायन् जुहोति वै ॥ 15.15 ॥
(प्रादुर्भावविकल्पानां तत्तन्मन्त्रैश्च मूर्तिभिः।
पूर्वोक्तमूर्तिभिस्सार्धं होमकर्म समाचरेत् ॥ 15.16 ॥
होमकर्म समाप्ये व प्रातस्स्नात्वा यथाविधि।
जप्त्वा जप्यानि सूक्तानि मुहूर्ते तु शुभोतज्जवले ॥ 15.17 ॥
गृहे वायव्यभागे तु पीठे रत्नादिसंयुते।
प्रतिष्ठाप्य समावाह्य नित्यं विधिवदर्चयेत् ॥ 15.18 ॥
सूर्यकल्पः
यदीच्छेद्भास्कारस्यापि गृहे नित्यं समर्चयेत्।
(1)भास्करञ्च महादेवं कदम्बकुसुमप्रभम् (1.) मण्डलान्तर्गतं देवं कौस्तुभं कुसुमप्रभं. ई. ॥ 15.19 ॥
नवार्धतालमानेन द्विभुजं पद्मधारिणम्।
देवीभ्याञ्च समायुक्तं राशिभिः परिवारितम् ॥ 15.20 ॥
(स्वस्वपीठे प्रतिष्ठाप्य स्वस्वदेवीसमायुतम्)।
एवं कृत्वा यथान्यायं अक्ष्युन्मेषादनन्तरम्।
अधिवासादिकं कर्म हरेरिव समाचरेत् ॥ 15.21 ॥
‘उदुत्यं चित्र’ मित्येवं (1) मूलमन्त्रं प्रचक्षते।
औपासनाग्निमाधाय कुण्डे वा स्थणिडलेऽथवा (1.) कारयेत्सकलं रवेः। ई.
॥ 15.22 ॥
संसाध्य पूर्ववत्कुम्भं रक्तवस्त्रद्वयान्वितम्।
आचार्यस्सुप्रसान्नात्मा त्रयीमयमनामयम् ॥ 15.23 ॥
विश्वबोधात्मकं भानुं ध्यायन्नावाहयेज्जले।
संस्नाप्य सप्तकलशैः बिम्बं कुम्भसमन्वितम् ॥ 15.24 ॥
अग्रेरुत्तरपार्श्वे तु धान्यराशिं प्रकल्प्य च।
सन्न्यस्य(2) बिल्वफलकं वस्त्रण्यास्तीर्य पञ्च च (2.) निम्बफलकं आ. ॥ 15.25 ॥
तद्वेरं तत्र विन्यस्य बद्ध्वा प्रतिसरं ततः।
विधिना शयने धीमान् शाययेद्रक्तवाससा (?) ॥ 15.26 ॥
हौत्रं प्रशंस्य चाऽवाह्य निरुप्याज्याहुतीर्यजेत्।
हुतृवा तु सूर्यगायत्र्या भावयन्मनसा रचिवम् ॥ 15.27 ॥
‘भास्कराय’ च ‘सूर्याय मार्ताण्डाय विवस्वते’।
‘त्रिलोकमण्डना’येति तथा (3)चैव ‘त्रिमूर्तये’ (3.) ज्योतिस्त्रिमूर्तये आ. ॥ 15.28 ॥
‘सर्वात्मने नम’ श्चेति जुहुया ‘च्चण्डरोचिषे’।
‘त्रिगुणेश्वराय’ पश्चाद्वै ‘सर्वज्योतिष्मते’ तथा ॥ 15.29 ॥
सहस्रं वा शतं वाऽथ दशकृत्वोऽथवा यजेत्।
मैत्रमन्त्रद्वयं हुत्वा ‘उद्वयं तमस’ स्तथा ॥ 15.30 ॥
‘उदुत्यं जातवे’ देति ‘चित्रं दे’ वेति हूयताम्।
‘यच्चिद्धी’ ति ततो हुत्वा (‘यत्किञ्चे’ ति ततः परम् ॥
‘कितवा’ सेति हुत्वा तु ‘इमम्मे वरु’ णेत्यपि।
अर्कापामार्गपालाशसमिद्भिश्चैव हूयताम् ॥
वैष्णवं पौरुषं सूक्तं लोकपालकदैवतम्।
मिन्दाहुती ततो हुत्वा) होमकर्म समाचरेत् ॥ 15.31 ॥
शतमष्टोत्तरं नाम्ना देव्योस्तत्र जुहोति वै।
प्रातः स्नात्वा विधानेन रत्नादीन्त्सन्न्यसेत्क्रमात् ॥ 15.32 ॥
पश्चिमाभिमुखं देवं स्थापयेत्प्राङ्मुखं तु वा।
न स्थाप्यो भास्करः क्वापि दक्षिणोत्तरदिङ्मुखः ॥ 15.33 ॥
कुम्भस्थां शक्तिमादाय बिम्बे चाऽवाहयेद्गुरुः।
अनुक्तमत्र यत्सर्वं हरेरिव समाचरेत् ॥ 15.34 ॥
‘उदुत्यं चित्र’ मित्युक्त्वा प्रणम्य ज्योतिषां पतिम्।
समन्त्राभ्युक्षणं कृत्वा निर्माल्यं संव्यपोह्य च ॥ 15.35 ॥
स्वागतञ्चानुमानञ्च ‘त्वमग्ने रुद्र’ इत्यपि।
‘उद्वयं तमस’ श्चेति पाद्यं दद्यात्ततः परम् ॥ 15.36 ॥
दद्यादाचमनं हस्ते?‘हिरण्यवर्णा’ इति ब्रुवन्।
‘?पवित्रं त’ इति प्रोच्य मूर्ध्नि पुष्पं विनिक्षिपेत् ॥ 15.37 ॥
‘इमे गन्धा’ दिना गन्धं धूपमन्त्रेण धूपयेत्।
‘प्रवश्शुक्रे’ ति दीपं तु अर्घ्य दद्यात्समन्त्रकम् ॥ 15.38 ॥
दद्यादन्योपचारांस्तु ‘उदुत्यं चित्र’ मित्यपि।
गुरुपदेशसंसिद्धैः कल्पमन्त्रैरथापि वा ॥ 15.39 ॥
आसनाद्युपचौस्तु पूजयेदिति केचन।
(1)सावित्र्या वाऽर्चयेन्नित्यमिति पूर्वजशासनम् (1.) चित्राभासेऽर्चयेन्नित्यम्। आ.
॥ 15.40 ॥
एष एवविशेषस्स्यादन्यत्सर्वं हरेरिव।
सुवर्चलामुषां चति श्यामलां सुप्रभामिति ॥ 15.41 ॥
अर्चयेद्दक्षिणे देवीं रेणुकां रक्तवर्णिनीम्।
प्र्रत्यूषां श्वेतवस्त्रां तामिति वामे समर्चयेत् ॥ 15.42 ॥
गुहार्चनम्
नित्यपूजां गुहस्यैच्छन् बिम्बं कृत्वा यथाविधि।
स्कन्ददैवत्यमन्त्रैश्च नयनीन्मीलनादिकम् ॥ 15.43 ॥
कृत्वा तु कौतुकं बद्ध्वा शतमष्टौत्तरं यजेत्।
तन्मन्त्रेण समावाह्य नित्यं विधिवदर्चयेत् ॥ 15.44 ॥
अत्रानुक्तानि सर्वाणि खिलोक्तविधिना चरेत्।
एवं यः कुरुते भक्त्या तस्य पुत्रास्तु नीरुजः ॥ 15.45 ॥
आयुष्मन्तः श्रिया युक्ताः वर्धन्ते नात्र संशयः।
इह भुक्त्वा महाभोगान् सोऽन्ते स्वर्गमवाप्नुयात् ॥ 15.46 ॥
विनायकार्चनम्
वक्रतुण्डस्य वक्ष्यामि नित्यं वै सम्यगर्चनम्।
धर्मौघमा’ दि मन्त्राभ्यां नयनोन्मीलनादिकम् ॥ 15.47 ॥
अष्टोत्तरशतं ताभ्यां हुत्वाऽऽवाह्य यथाविधि।
ताभ्यामेव तु मंन्त्राभ्यां नित्यं विधिवदर्चयेत् ॥ 15.48 ॥
एवं यः कुरुते भक्त्या निर्विघ्नं तस्य कर्म वै।
सर्व समपद्यते शीघ्रं लक्ष्मी च विपुला भवेत् ॥ 15.49 ॥
श्रीदेव्यर्चनम्
अतः परं प्रवक्ष्यामि गृहे नित्यार्चनं श्रियः।
पद्मकिञ्जल्कसदृशां सर्वाभरणभूषिताम् ॥ 15.50 ॥
पद्मासने समासीनां सपद्मोर्ध्वभुजद्वयाम्।
सव्येन पूर्वहस्तेन भक्तानामभयप्रदाम् ॥ 15.41 ॥
वामेन पूर्वहस्तेन दधतीं विपुलं धनम्।
एवं कृत्वा श्रियं देवीं?‘श्रिये जात’ इति बुवन् ॥ 15.52 ॥
‘शं सा नियच्छ’ तीत्युक्त्वा ‘भूयाम’ इति च क्रमात्।
नयनोन्मीलनं कृत्वा जलादिष्वधिवास्य च ॥ 15.53 ॥
कुम्भं संससाध्य संस्नाप्य बद्ध्वा प्रतिसरं तथा।
शाययित्वा समावाह्य हौत्रकर्मावसानके ॥ 15.54 ॥
पौण्डरीके तु होतव्यं ‘श्रिये जा’ तेति मन्त्रतः।
‘शं सा नियच्छ’ तीत्युक्त्वा ‘भूयाम’ इति च क्रमात् ॥ 15.55 ॥
शतमष्टोत्तरं हुत्वा श्रीसूक्तेन सकृद्यजेत्।
श्रियश्शताष्टकैर्मन्त्रैर्दशकृत्वस्ततः परम् ॥ 15.56 ॥
मधुसर्पिस्समायुक्तं पृषदाज्यसमन्वितम्।
पुष्कलामाहुतिं हुत्वा बिल्वपत्रैर्घृताप्लुतैः ॥ 15.57 ॥
‘श्रिये जा’ते ति मन्त्रेण शतमष्टोत्तरं यजेत्।
प्रातस्स्नात्वा प्रतिष्ठाप्य समावाहृय समर्चयेत् ॥ 15.58 ॥
तत्सूक्तेनैव तन्मन्त्रैः पूजयेत्सर्वविग्रहैः।
अत्रानुक्तानि सर्वाणि खिलोक्तविधिना चरेत् ॥ 15.59 ॥
अचलां श्रियमाप्नोति जन्मजन्मान्तरेऽपि च।
तद्वंशजाश्च श्रीमन्तो भविष्यन्ति न संशयः ॥ 15.60 ॥
दुर्गार्चनम् अथ वक्ष्यामि दुर्गायाः प्रतिष्ठामर्चनं गृहे।
साक्षात्सा वैष्णवीं मायां तस्मात्तां नित्यमर्चयेत् ॥ 15.61 ॥
नवार्धतालमानेन कृत्वा देवीं चतुर्भुजाम्।
शङ्खचक्रधराञ्चैव किरीटमुकुटोज्जवलाम् ॥ 15.62 ॥
पीतवस्त्रधरां देवीं कक्ष्याबद्धघ्ज्ञनस्तनीम्।
सस्यश्यामनिभां सौम्यां हारकौस्तुभभूषिताम् ॥ 15.63 ॥
अङ्गहोमञ्च हुत्वा तु दुर्गासूक्तं शताष्टकम्।
(1)पाञ्चभौतिकमन्त्रेण हुत्वा वैष्णवसंयुतम् (1.) पाञ्चभौतिकमन्त्रेण अर्ध्य कुर्यात्समन्त्रकम्। दद्यादन्योपचारांस्तु ‘उदुत्यं चित्र’ मित्यपि। गुरुपदेशसंसिद्धैः कल्पमन्त्रैरथापिवा। आसनाद्युपचौस्तु पूजयेदितिकेचन। सावित्र्यात्वा (भूसावित्र्या) ऽर्चयेन्नित्यमिति पूर्वजदर्शनम् इति पाठः आ. कोशु ॥ 15.64 ॥
कृत्वाऽक्षिमोचनं पश्चज्जलादिंष्बधिवास्य च।
कुम्भे ध्यात्वा समावाह्य संस्नाप्य कलशैरपि ॥ 15.65 ॥
बद्ध्वा प्रतिसरं पश्चात् शाययेच्छयनोपरि।
हौत्रं प्रशंस्य चाऽवाह्य निरुप्याज्याहुतीर्यजेत् ॥ 15.66 ॥
दुर्गासूक्तं ततस्सभ्ये शतमष्टोत्तरं यजेत्।
वैष्णव ब्राह्म रौद्रञ्च भौतिकं पञ्चवारुणम् ॥ 15.67 ॥
जयादिभिश्च कूश्माण्डैस्सावित्र्या च सहस्रकम्।
सहस्राहुतिपर्यन्त पूर्ववज्जुहुयाद्वुधः ॥ 15.68 ॥
पालाशीभिस्समिद्भिश्च विष्णुसूक्तेन हूयताम्।
स्विष्टाकारञ्च हुत्वा तु रात्रिरोषं व्यपोह्य च ॥ 15.69 ॥
प्रातस्स्नात्वा प्रतिष्ठाप्य समावाह्य समर्चयेत्।
‘जातवेदस’ इत्यादि तत्सूक्तेनैव पूजयेत् ॥ 15.70 ॥
एष एव विशेषः स्यादन्यत्सर्वं हरेरिव।
एवं यः कुरुते भक्त्या दुर्गायाः स्थापनार्चने ॥ 15.71 ॥
जित्वा शत्रुंश्चिरं भुक्त्वा भूमौ तु विपुलं (1)सुखम्।
विष्णुसायुज्यमाप्नोति दशपूर्वैर्दशापरैः (1.) धनम् आ. ॥ 15.72 ॥
सरस्वत्यर्चनम्
अतः परं प्रवक्ष्यामि वाग्देव्या अर्चनं गृहे।
जटामण्डलसंयुक्तां स्वर्णवर्णा चतुर्भुजाम् ॥ 15.73 ॥
उर्ध्व दक्षिणहस्तन्तु अक्षमालासमन्व्तिम्।
मुद्राहस्तमधस्ताद्वै वरदं वाऽपि कल्पयेत् ॥ 15.74 ॥
कमण्डलमुसमायुक्तं वामहस्तं तथोर्ध्वगम्।
ज्ञानमुद्रासमायुक्तां सर्वाभरणभूषिताम् ॥ 15.75 ॥
पद्मासने समासीनां पद्मकाञ्चनशोभिनीम्।
‘पावका’ इति स्मृत्वा ‘महो अर्ण’ इति स्मरन् ॥ 15.76 ॥
पूर्वोक्तेनैव मन्त्रेण अक्ष्युन्मेषाधिवासनम्।
बद्ध्वा प्रतिसरञ्चापि स्नपनं शयनादिकम् ॥ 15.77 ॥
हौत्रञ्च सम्प्रशंस्यैव तन्मूर्त्यावाहनं चरेत्।
निरुप्याज्याहुतीर्हुत्वा शमष्टोत्तरं यजेत् ॥ 15.78 ॥
वैष्णवं विष्णुसूक्तञ्च नरसूक्तं यजेत्क्रमात्।
ब्राह्ममैन्द्रं तथाऽऽग्नेयं स्विष्टाकारं जुहोति च ॥ 15.79 ॥
एष एव विशेषः स्यादन्यत्सर्व हरेरिव।
एवं यः कुरुते भक्त्या सर्वविद्यामवाप्नुयात् ॥ 15.80 ॥
(1)इतरं पुस्तकधरं योजयेच्च तत परम्।
ब्रह्यासनन्तु कर्तव्यं पद्मपीठस्य चोपरि (1.) अत आरभय आध्यायान्तं ई. कोश एव पाठः ॥
पादं प्रसारितं वापि दक्षिणं तु समाचरेत्।
सर्वाभरणसंयुक्तां श्वेतवस्त्रविभूषिताम् ॥
शुक्लपुष्पाङ्गरागां तां कक्ष्याबद्धधनस्तनीम्।
सारस्वतेन सूक्तेन कृत्वाऽक्ष्युन्मेषणादिकम् ॥
शयनं तु तथा कृत्वा हौत्रशंसनमाचरेत्।
श्वेतपद्मसहस्रञ्च घृताक्तं वै समाहितः ॥
तत्मूक्तमन्त्रैर्जुहुयातां देवीं मनसा स्मरन्।
एतैराज्याहुतीर्वाऽपि यथाशक्ति समाचरेत् ॥
पारमात्मिकमन्त्रैश्च विष्णुसूक्तेन वैष्णवैः।
प्रातस्स्नात्वा प्रतिष्ठाप्य समावाह्य समर्चयेत् ॥
तत्सूक्तेनार्चयेन्नित्यमन्यत्सर्वं हरेरिव।
मेधावित्वं कविज्वञ्च वादित्वं वाग्मितां तथा ॥
यशास्वित्वमिहामुत्र सुखमत्यन्तदुर्लभम्।
आन्पोति तस्माद्देवी सा ध्येया पूज्या मनीषिभिः ॥
दर्शनीया च कीर्त्या च जगद्व्यापारकारिणी।
भद्रकालीञ्च शास्तारं क्षेत्रपालं विनेतरान् ॥
यदीच्छेदर्चितुं धान्मि प्रतिष्ठाप्य यथाविधि।
औपासनाग्नौ तन्मन्त्रं शतमष्टोत्तरं यजेत् ॥
प्रतिष्टामर्चनादीनि तन्मन्त्रेणैव कारयेत्।
गृहे त्रैवर्णिकास्सर्वे देवान् नारायणादिकान् ॥
अनेन विधिना स्थाप्?य पूजयेयुर्यथाविधि।
अथवाऽनेन संस्थाप्य कल्पमन्त्रेण पूजयेत् ॥
तान्त्रिकेणानुलोमस्तु प्रतिष्ठाप्य समर्चयेत्।
नार्चयेत्प्रतिलोमस्तु तान्तित्रकेणापि जात्वपि ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां
क्रियाकिधकारे
गृहे विष्णवादित्यस्कन्दविनायकलक्ष्मीदुर्गासरस्वतीभदकाली बिमृबप्रर्तिष्ठार्चनाकल्पो नाम पञ्चलशोऽध्यायः ॥