चतुर्दशोऽध्यायः ॐ चतुर्दशोऽध्यायः महोत्सवः अवभृथकालः अतः परं प्रवक्ष्यामि क्रमेणैवोत्सवं हरेः। विषुवायनभूपर्क्षप्रतिष्ठाकर्तृभेषु च ॥ 14.1 ॥ (यजमानस्य जन्मर्क्षे नृपतेः ऋक्ष एव वा)। ग्रहणे मासनक्षत्रे विष्णुपञ्चदिनेषु वा ॥ 14.2 ॥ उत्सवस्यान्त्यदिवसे तेषु तीर्थ प्रकल्पयेत्। एतेष्वेक परिग्राह्य जयमानेच्छया दिनम् ॥ 14.3 ॥ विषुवे चायने चैव ग्रहणे सोमसूर्ययोः। तत्तत्काले प्रकुर्वीत तीर्थस्नानन्तु नान्यथा ॥ 14.4 ॥ अन्यर्क्षेष्वध मध्याह्रे पूर्वाह्णे वा गुणाधिके। एकस्मिन्नेव मासे तु यदि तीर्थदिनद्वयम् ॥ 14.5 ॥ तयोरन्त्यदिनं तीर्थमिति पूर्वजशासनम्। तदेव यदि सूर्यस्य विद्धञ्चेत्सङ्कमादिभिः ॥ 14.6 ॥ वज्रनीयं तथा पूर्वं प्रशस्तमभिधीयते। वारद्वयानुषक्तञ्चेद्दिनमेकमथापरम् ॥ 14.7 ॥ अर्कवारर्क्षसयोगस्सर्वदा सम्प्रशस्यते। श्रवणद्वादशीयोगस्सर्वकर्मफलप्रदः ॥ 14.8 ॥ योगाश्च सुप्रशस्ताः स्युस्सिद्धामृतवराह्वयाः। उत्सवत्रैविध्यप् कालश्रद्धानिमित्तार्था उत्सवास्त्रिविधाः स्मृता ॥ 14.9 ॥ मासे तु यस्मिन् कस्मिश्चित् प्रतिसंवत्सरं हरेः। क्रियते समयेनैव स वै कालोत्सवो भवेत् ॥ 14.10 ॥ श्रद्धया क्रियते यस्तु स श्रद्धोत्सव उच्यते। उत्पातेषु निमित्तेषु अनावृष्ट्यादिकेषु वै ॥ 14.11 ॥ क्रियते तत्र शान्त्यर्थ स निमित्तोत्सवः स्मृतः। उत्सवदिनमानम् कालः उत्तमन्तु त्रिसप्ताहं मध्यमन्तु चतुर्दश ॥ 14.12 ॥ नवाहं वाऽथ सप्ताहमधमं परिचक्षते। त्रिगुणान्युत्सवाहानि कृत्वाऽऽदौ घोषणञ्चरेत् ॥ 14.13 ॥ मध्ये तु द्विगुणादौ स्यादुत्सवादिदिनेऽधमे। अथवाऽवभृथात्पूर्व एकविंशतिके दिने ॥ 14.14 ॥ ध्वजस्यारोहणं कृत्वा सर्वमुत्सवमाचरेत्। (उत्सवादौ ध्वजारोहे ध्वजाङ्कुरमथाऽचरेत्। तत्र क्रियासु सर्वासु सकृदेवाङ्कुरार्पणम्। उत्सवाङ्कुरमुद्दिश्च सायाह्रे तु मृदं हरेत्। प्रदोषकाले सम्प्राप्ते ध्वजारोहणमाचरेत्। तद्रात्रावुत्सवान्ते तु तीर्थाङ्कुरमथाऽचरेत्। सप्तपञ्चदिने वापि विधिना चाङ्कुरार्पणम्।) ध्वजदण्डलक्षणम् विप्रादीनां क्रमाद्वेणु5जातिचम्पकपूगजाः ॥ 14.15 ॥ ध्वजदण्डाः समाख्याताः सर्वेशां क्रमूकन्तु वा। अथवा शुभवृक्षाणं सारं कैश्चिदपीष्यते ॥ 14.16 ॥ तद्विमानसमायामं पादोनं वाऽर्धमेव वा। ध्वजपटलक्षणम् ध्वजवस्त्रं समादाय खिलोक्तविधिना चरेत् ॥ 14.17 ॥ तन्मध्ये विलिखेद्वीशमासीनं साञ्जलिं विभुम्। पञ्चवर्णसमायुकृतं नवतालप्रमाणतः ॥ 14.18 ॥ आकाशारोहिणं वापि वीरासनमथापि वा। ऐषां लक्षणं प्रोक्तं पूर्वमेव मया खिले ॥ 14.19 ॥ परिवारोक्तमार्गेण नयनोन्मीलनादिकम्। कृत्वा वीशं समावाह्य समभ्यर्च्च निवेदयेत् ॥ 14.20 ॥ भेरीताडनम् आग्नेय्यां धान्यपीठे तु विन्यस्यैव तु भेरिकाम्। तत्र नन्दीशमावाह्य समभ्यर्च्य निवेद्य च ॥ 14.21 ॥ ‘उपश्वासय पृथिवी’ मिति दुन्दुभिसूक्तकम्। पज्वा व्याह्वतिभिः पश्चाद्धोषणं स्वयमाचरेत् ॥ 14.22 ॥ बलिना बलिबिम्बेन चक्रवीशामितैस्सह। ग्रामसन्धौ बलिं दत्वा तत्तन्मन्त्रैश्च घोषयेत् ॥ 14.23 ॥ क्रमादालयमाविश्य ध्वजं संस्थाप्य पूर्ववत्। ध्?वजदण्डं प्रतिष्ठाप्य पूर्वाहणे च शुभोदये ॥ 14.24 ॥ घोषणान्ते पुनः कुर्याद्यत्रारोहणमेव वा। पुण्याहान्ते समभ्यच्?र्य मुद्गान्नं वा निवेदयेत् ॥ 14.25 ॥ ध्वजावरोहणं यावत्तावन्नित्यं समाहितः। त्रिकालं वा द्विकालं वाऽप्येककालमथापि वा ॥ 14.26 ॥ पूर्वेक्तेन क्रमेणैव समध्यर्च्य निवेदयेत्। पूर्वेद्युरेव पूर्वाह्णे कृत्वा नयनमोक्षणम् ॥ 14.27 ॥ रात्रौ होमादिकं कृत्वा प्रातरावाह्य पूर्ववत्। ध्वजस्यारोहणं कृत्वा मध्याह्रे तु विशेषतः ॥ 14.28 ॥ देवानां घोषणं कुर्याद्रात्राविति च केचन। ध्वजस्यारोहणादूर्ध्वमुत्सवादिदिनादधः ॥ 14.29 ॥ रात्रिपूजावसाने तु ग्रामसन्धौ तु पूर्ववत्। आहूतानाञ्चदेवानां बलिं दद्याद्यथाविधि ॥ 14.30 ॥ उत्सवद्रव्यसम्भारांस्ततः प्रभृति चाऽहरेत्। प्रथमेऽहनि पूर्वाह्रे वीथीः सर्वत्र शोधयेत् ॥ 14.31 ॥ ‘अवधूत’ मिति प्रोच्य मार्जन्या मार्जनं चरेत्। अद्भिरभ्युक्षणं कुर्या ‘दाशास्वि’ ति च मन्त्रतः ॥ 14.32 ॥ सनपनोक्तक्रमेणैव मध्याह्रे स्नापयेद्धरिम्। चक्रवीशामितांश्चैव स्नापयेद्वन्धवारिणा ॥ 14.33 ॥ विशेषतस्समभ्यर्च्य हविश्चैव निवेदयेत्। ततोऽपराहे सम्प्राप्ते चक्रवीशामितैस्सह ॥ 14.34 ॥ तीर्थाङ्कुरार्थ गृह्णीयान्मृदं पूर्वोक्तमार्गतः। ग्रामं प्रदक्षिणीकृत्य प्रविश्याऽलयमत्वरः ॥ 14.35 ॥ अथ तीर्थदिनात्पूर्वं नवमे वाऽथ सप्तमे। पञ्चमेऽहनि वा कुर्याद्विधिना चाङ्कुरार्पणम् ॥ 14.36 ॥ प्रदोषे समनुप्राप्ते दक्षिणेऽभिमुखेऽथवा। यागशालां प्रकल्प्यैव षीडशस्तम्भसंयुताम् ॥ 14.37 ॥ मध्ये वेदिं प्रकल्प्यैव पञ्चाग्नीनुत्तमेऽथवा। त्रेताग्नीन्मध्यमे कुर्यात्सभ्यमेवाधमे तथा ॥ 14.38 ॥ अग्निराहवनीयः स्यात्प्रधानो मध्यमे भवेत्। अन्ययोस्सभ्य एव स्यात् नित्यहोमेऽथवा भवेत् ॥ 14.39 ॥ होमस्थाने त्वनिर्दिष्टे निर्दिष्टेस्थानसङ्कटे। अशक्तस्त्वरितो वाऽथ निर्दिष्टे स्थानकल्पने ॥ 14.40 ॥ कर्मणामपि सर्वेषां कल्पयेत्पचनालये। अनादेशविषयः अग्निकुण्डे त्वनिर्दिष्टे कुण्डमौपासन चरेत् ॥ 14.41 ॥ होमद्रव्ये त्वनिर्दिष्टे गव्यं घृतमुदाहृतम्। कालेऽनुक्ते तु मध्याह्रः पात्रेऽनुक्ते स्त्रुवं भवेत् ॥ 14.42 ॥ प्रणामेष्वविशेषोक्ते स्वस्त्तिबन्धनमाचरेत्। नवकुम्भारोपणम् नवकुम्भान्त्समाहृत्य तन्तुना परिवेष्ट्य च ॥ 14.43 ॥ नादेयाद्भिस्समापूर्य वस्त्रयुग्मेन वेष्टयेत्। (अष्टमङ्गलसंयुक्तान् पञ्चायुधसमन्वितान् ॥ 14.44 ॥ नवरत्नसमायुक्तान् कूर्चाक्षतसमन्वितान्। कुम्भांस्तांस्तु पृथक् कृत्वा पिधानैस्तु पिधाय च) ॥ 14.45 ॥ पुनरन्तः प्रविश्यैव देवदेवं समाहितः। द्विगुणञ्च समभ्यर्च्य द्विगुणञ्च निवेदयेत् ॥ 14.46 ॥ बध्द्वा प्रतिसरं पश्चाद्देवं देवीसमन्वितम्। यागशालां समासाद्य ‘जातवेदस’ इत्यथ ॥ 14.47 ॥ प्रणीय तेषु नित्याग्निं कुण्डेष्वाघारमाचरेत्। वेद्यां धान्यं समास्तीर्य कुम्भानारोप्य तत्र वै ॥ 14.48 ॥ ध्रुवादावाहयेत्तेषु दीपद्दीपमिव क्रमात्। मध्ये कुम्भे तथा विष्णुं प्रागादि पुरुषादिकान् ॥ 14.49 ॥ आग्नेयादि तथाऽऽवाह्य कपिलादीन् यथाविधि। सप्तविंशतिभेदैश्च समभ्यर्च्य प्रणम्य च ॥ 14.50 ॥ वीशानपायिपङ्क्तीशशान्तान् दिक्ष्वर्चयेत्क्रमात्। सायं प्रातर्विना कुम्भैर्देवं वीशामितैस्सह ॥ 14.51 ॥ वेद्यामेव प्रतिष्ठाप्य पूतजेदिति केचन। नित्यहोमः होता पश्चात्प्रधानाग्नौ हौत्रशंसनमाचरेत् ॥ 14.52 ॥ प्रतिष्ठोक्तक्रमेणैव तदालयगतान् सुरान्। आवाह्य तत्क्रमेणैव निरुप्याज्याहुतीर्यजेत् ॥ 14.53 ॥ उत्सवदैवत्यानि तत्राहस्तिथिवारर्थवाहनानां विशेषतः। अधिदेवाश्च तन्मन्त्राः क्रमश्चैव प्रवक्ष्यते ॥ 14.54 ॥ प्रथमे ब्रह्मदैवत्यं द्वितीये चार्षमेव च। तृतीये रुद्रदैवत्यं चतुर्थै वासवं तथा ॥ 14.55 ॥ पञ्चमे सोमदैवत्यं षष्ठे वैष्णवमाचरेत्। सप्तमे सर्वदैवत्यमष्टमे याम्यमेव च ॥ 14.56 ॥ नवमे वारुणं प्रोक्तं दशमे वायुदैवतम्। एकादशे तु कौमारं द्वादशे नैऋतं यजेत् ॥ 14.57 ॥ त्रयोदश्यान्तु वाराहं चतुर्दश्यान्तु रौहिणम्। गारूत्मन्तुं पञेचदश्यां षोडश्यां दौर्गकं यजेत् ॥ 14.58 ॥ सप्तदश्यान्तु कौमारं जुहुयाद्देशिकोत्तमः। अष्टादशे तु होतव्यं नरसूक्तन्तु वित्तमैः ॥ 14.59 ॥ एकोनविंशतिदिने नरसूक्तं यदेद्वुधः। विंशतिमे दिने चैव भूसूक्तं जुहुयाद्वुधः ॥ 14.60 ॥ एकविंशदिने चैव जुहुयात्पारमात्मिकम्। एवमुत्सवदैत्यं क्रमेण जुहुयाद्वुधः ॥ 14.61 ॥ प्रथमे त्वग्निदैवत्यं प्राजापतृयं द्वितीयके। तृतीये च तु कौबेरं चतुर्थे वैघ्नमेव च ॥ 14.62 ॥ श्रीदैवत्यञ्च पञ्चम्यां षष्ठ्यां कौमारमेव च। सप्तम्यां सूर्यदैत्यमष्टम्यां रौद्रमेव च ॥ 14.63 ॥ नवम्यां दौर्गदैवत्यं दशम्यां याम्यमेव च। एकादश्यां तथैन्द्रञ्च द्वादश्यां वैष्णवं यजेत् ॥ 14.64 ॥ त्रयोदश्यां तथा वाऽपि मातृदैवत्यमेव च। चतुर्दश्यान्तु हेतव्यमीशदैवत्यमेव ॥ 14.65 ॥ पञ्चदश्यां तथा वाऽपि सौम्यञ्च जुहुयात्क्रमात्। सूर्यवारादिवारेषु तत्तद्दैवत्यमाचरेत् ॥ 14.66 ॥ ‘अग्नये कृत्तिकाभ्यस्स्वा’ हेति नक्षत्रदैवतम्। तत्तद्वाहनदैवत्यं तत्तन्नाम्ना च हूयताम् ॥ 14.67 ॥ वैष्णवं विष्णुसूक्तञ्च नरसूक्तं यजेद्वुधः। श्रीभूसूक्तं ततो हुत्वा महीसूक्तं यजेत्क्रमात् ॥ 14.68 ॥ मूर्त्तिहोमञ्च जुहुयात् नित्यमेवं क्रमं विदुः। वैष्णवं विष्णुसूक्तञ्च नरसूक्तसमन्वितम् ॥ 14.69 ॥ दिनसन्ध्यादिदैवत्यं तिथिवारर्क्षदैवतम्। तदालयगतानाञ्च मूर्तिभिश्चजुहोति वै ॥ 14.70 ॥ ‘समिद्भिर्जुहुयात्सभ्ये साज्येन चरुणा बुधः। जुहुयात्पौरुषं सूक्तमैन्द्रमाहवनीयके ॥ 14.71 ॥ अन्वाहार्ये विष्णुसूक्तं श्रीसूक्तेन समन्वितम्। वैष्णवं गार्हपत्याग्नावावसथ्ये ततः परम् ॥ 14.72 ॥ एकाक्षरादिसूक्तञ्च महीसूक्तं तथा यजेत्। प्रथेमेऽहनि पालाशं द्वितीये बेल्वमेव च ॥ 14.73 ॥ तृतीये तु शमी चैव न्यग्रोधञ्च चतुर्थके। औदुम्बरं पञ्चमे च षष्ठे चाश्वत्थमेव च ॥ 14.74 ॥ सप्तमे खादिरं प्रोक्तमष्टमे ष्लाक्षमुच्?यते। आपामार्गन्त् नवमे दशमे चाम्रमेव च ॥ 14.65 ॥ एकादश्यां कुशञ्चैव द्वादश्यां दौर्गमेव च। त्रयोदशे चामलकं पाटलञ्च चतुर्दशे ॥ 14.76 ॥ पनसं पञ्चदशके कोविदारन्तु षोडशे। सप्तदशे तु पुन्नागं समिद्भिरिति हूयते ॥ 14.77 ॥ अष्टाशे तु मन्दारं वकुलमेकोनविंशतो। चम्पकं विंशतितमे जुहुयाच्च चथाक्रमम् ॥ 14.78 ॥ एकविंशतिके चैव कापित्थं जुहुयात्क्रमात्। (1)इत्येतैश्च समिद्भिश्च क्रमेण जुहुयाद्वुधः (1.) इत्येवं जुहुयात्सभ्ये साज्येन चरुणा बुधः ख. ॥ 14.79 ॥ आज्येन साज्यचरुणा समिद्भिश्चोत्तमे हुनेत्। आज्येन साज्यचरुणा मध्यमे होममाचरेत् ॥ 14.80 ॥ आज्येनैवाधमे होमं साज्येन चरुणाऽथवा। आज्येन वाऽथ चरुणा सायंप्रातर्यजेद्वुधः ॥ 14.81 ॥ प्रथमोत्सवमारभ्य तीर्थान्तं जुहुयात्क्रमात्। विना कुम्भैश्च देवैश्च नित्याग्नौ होममाचरेत् ॥ 14.82 ॥ चक्रवीशमितैस्साधं बलिना च समन्वितम्। प्रदक्षिणक्रमेणैव ग्रामसन्धौ बलिं क्षिपेत् ॥ 14.83 ॥ ग्रामोत्सवप्रकारः पश्चादन्तः प्रविश्यैव देवदेवं प्रणम्य च। अलङ्कृत्य यथान्यायं वस्त्राभरणकुण्डलैः ॥ 14.84 ॥ सुगन्धिपुष्पमालाभिर्गन्धैरपि मनोरमैः। (1)रथे वा शिबिकायां वा वीशयन्त्रेऽथवा हरन् (1.) ‘यानेषु च समारोप्य ‘अहमेव’ दमन्त्रतः। अष्टोपचारैरभ्यर्च्यअपूपादि निवेदयेत्। मुखवासं’ निवेद्यैव इत्येव. आ पाठः ॥ 14.85 ॥ गजयन्त्रान्दोलिकासु डोलायन्त्रेऽथवा पुनः। ‘अहमैवे’ ति मन्त्रेण देवमारोप्य निश्चलम् ॥ 14.86 ॥ अष्टोपचारैरभ्यर्च्य लाजापूपादिकानि च। संस्कृतान्गुडसम्मिश्रान् निवेद्य मुखवासकम् ॥ 14.87 ॥ दत्वा वाद्यैस्समायुक्तं सर्वालङ्कारसंयुतम्। मुखवासं निवेद्यैव वीथीश्चापि नयेद्वुधः ॥ 14.88 ॥ भ्रमणम्, वाहनक्रमाः (उत्सवे देवदेवस्य वाहनक्रम उच्यते। प्रथमे चोत्सवे प्रातः शुकवाहनमाचरेत् ॥ 14.89 ॥ तद्रात्रौ देवदेवस्य हसवाहनमाचरेत्। द्वितीये दिवसे चैव मृगेन्द्रं शरभं चरेत् ॥ 14.90 ॥ कपीन्द्रञ्च प्रभाञ्चैव तृतीये चोत्सवं चरेत्। चतुर्थे दिवसे चैव कल्पकं पञ्चगं? चरेत् ॥ 14.91 ॥ पञ्चमे चोत्सवे चैव पक्षीशञ्चार्धचन्द्रकम्। षष्ठेऽह्रि चोत्सवे प्राप्ते गजं पाशिं? तथैव च ॥ 14.92 ॥ सप्तमे चोत्सवे चैव पुष्पकं कमलं चरेत्। अ?ष्टमे चोत्सवे प्राप्ते डोलामश्व समाचरेत् ॥ 14.93 ॥ नवमे दिवसे चैव विमानं यानमाचरेत्। दशमे चोत्सवे प्राप्ते शिबिकारोहणं चरेत् ॥ 14.94 ॥ तद्रात्रौ च महोत्सेधं गजलक्ष्मीं प्रकल्पयेत्। एकदशदिने प्रातः कच्छपं वाहनं चरेत् ॥ 14.95 ॥ तद्रत्रौ तु महोत्सेधं पुन्नागं वाहनं चरेत्। द्वादशे तुं दिने प्रातः कृष्णसारं समाचरेत् ॥ 14.96 ॥ तद्रात्रौ तु महारूपं मत्स्यवाहनमाचरेत्। त्रयोदशदिने प्रात कूर्मयन्त्रं प्रकल्पयेत् ॥ 14.97 ॥ तद्रात्रौ तु विशेषेण श्रीभूमिसहितं तथा। तल्पे चैव समारोप्य उत्सवं तु समाचरेत् ॥ 14.98 ॥ कौतुकरथः चतुर्दशदिने प्रातः कौतुकं रथमाचरेत्। तद्रात्रौ तु महारूपं शार्दूलं वाहनं चरेत् ॥ 14.99 ॥ सप्ताष्टदिवसे प्रातः चरेत्कुण्डलिवाहनम्। तद्रात्रौ तु शुभाकारं (1)गण्डभेरुण्डमाचरेत् (1.) गण्डभेरं ई. ॥ 14.100 ॥ षोडशे दिवसे प्रातः प्रभापीठं प्रकल्पयेत्। तद्रात्रौ तु महारुपमैन्द्रञ्च परिकल्पययेत् ॥ 14.101 ॥ नवाष्टदिवसे प्रातः गिरिवाहनमाचरेत्। तद्रात्रौ तु शुभाकारं पनसं वाहनं चरेत् ॥ 14.102 ॥ अष्टादशदिने प्रातः कालियं वाहनं चरेत्। तद्रात्रौ तु विशेषेण चक्रवाहनमाचरेत् ॥ 14.1103 ॥ एकोनविंशदिवसेऽप्यातपं वाहनं चरेत्। तद्रात्रौ तु महोत्सेधं पारिजातं प्रकल्पयेत् ॥ 14.104 ॥ दिने विंशतिके प्रातः ध्वजवाहनमाचरेत्। तद्रात्रौ तु महारुपं शङ्खवाहनमाचरेत् ॥ 14.105 ॥ एकविंशदिने प्रातः रथयात्रां समाचरेत्। इत्येवं वाहनं प्रोक्तं क्रमेणैवोत्सवं चरेत् ॥ 14.106 ॥ आहिकविकल्पः एकविंशेऽप्यशक्तौ तु चतुर्दशदिनं चरेत्। चतुर्दशेऽप्यशक्तौ तु नबाहं चोत्सवं चरेत् ॥ 14.107 ॥ एकविंशदिने चैव चतुर्दशदिने तथा। नवसप्ताहपक्षे वा रथयात्रां समाचरेत् ॥ 14.108 ॥ रथयात्रावसाने तु देवेशं सम्प्रणम्य च। अष्टोपचारैरभ्यर्च्य मुद्रान्नञ्च निवेदयेत् ॥ 14.109 ॥ मुखवासं निवेद्यैव पुष्पाञ्जलिमथाऽचरेत्। तत्क्षणादेव देवेशं तद्रथादवरोपयेत् ॥ 14.110 ॥ याने चैव समारोप्य तीर्थस्थानं प्रवेश्य च। तीर्थस्याभिमुखे कृत्वा तीर्थेत्सवमथाचरेत् ॥ 14.111 ॥ रथे त्वारोपि ते देवे रथ्यासु परिवर्तिते। रथप्रार्याश्चत्तविशेषाः रथचक्रे तदाऽधारे भग्ने भिन्ने तथैव च ॥ 14.112 ॥ एवं विघ्ने समुत्पन्ने द्विदिनं त्रिदिनन्तु वा। आसायदिनपर्यन्तं रथे तिष्ठति केशवे ॥ 14.113 ॥ नवाहेऽपि च सायाह्रे तीर्थान्तोत्सवमाचरेत्। रथे देवं प्रतिष्ठाप्य आलयं प्रविशेद्वुधः ॥ 14.114 ॥ स्नापनञ्च तथा नीत्वा चक्रञ्चैव तथैव च। शिबिकायां समारोप्य तीर्थस्थानं प्रवेशयेत् ॥ 14.115 ॥ तीर्थोत्सवञ्च कृत्यैव आलयं प्रविशेत्सुधीः यागशालां प्रविश्यैव अन्तहोमं समाचरेत् ॥ 14.116 ॥ कुम्भं प्रदक्षिणीकृत्य गर्भगेहं प्रवेशयेत्। कुम्भाच्छ्रक्तिं (1)समादाय ध्रुवबेरेऽवरोपयेत् (1.) च कूर्चेन आवहेद्वेरमृर्धनि ई. ॥ 14.117 ॥ तद्रात्रौ तु प्रकर्तव्यान् बलीन् सर्वाश्च कारयेत्। बलिबेरं तथा नीत्वा ध्वजस्थाने निवेश्य च ॥ 14.118 ॥ (2)तस्मिन्नेवाह्रि रात्रौ तु ध्वजदेवं विसर्जयेत्। ध्वजं तमबरोप्यैव मौनेन बलिमाचरेत्) (2.) नवाह्र्येव तु ई. ॥ 14.119 ॥ (3)सर्वान्देवान् विसृज्यैव शिष्टं कर्म समाचरेत्। रथस्थानं ततो गत्वा देवदेवं प्रमणम् च (3.) सर्वकर्म ख. ॥ 14.120 ॥ रथचक्रं तदाधारं सुदृढीकृत्य पूर्ववत्। रथे, तु योजयेच्छीघ्रं रथं नीत्वा क्रमेण तु ॥ 14.121 ॥ यथास्थानं प्रतिष्ठाप्य देवं तमवरोपयेत्। जीवस्थाने प्रतिष्ठाप्य (लघुसम्प्रोक्षणं चरेत्। (स्नपनोक्तप्रकारेण) स्नपनञ्चैव कारयेत्) ॥ 14.122 ॥ महाहविः प्रभूतं वा देवेशाय निवेदयेत्। रक्षाबन्धविसर्गः आचार्यस्यर्त्विजाञ्चैव रक्षाबन्धं विसर्जयेत् ॥ 14.123 ॥ बन्धनं देवदेवस्य विसृज्य प्रणमेद्भुवि। उत्सवे देवदेवस्य पक्षद्वयगते सति ॥ 14.124 ॥ तीर्थकालविघारः मासद्वयगते वापि वर्षद्वयगते तथा। तिथिऋक्षप्रधानादौ द्वित्वदोषो न विद्यते ॥ 14.125 ॥ परिवारपरिवृतिः द्विकालमेककालं वा उत्सवः क्रियते यदि। यानारूढे देवदेवे रथ्यास्वानायितेऽपि च ॥ 14.126 ॥ दासीभिर्वादकैश्चैव नृत्तगेयसमन्वितैः। सर्ववाद्यासमायुक्तं सर्वालङ्कारसंयुतम् ॥ 14.127 ॥ ब्राह्मणैर्विष्णुभक्तैश्च भाषास्तुतिपरायणैः। पुराणस्तुतिपाठेश्च वस्तुशास्त्रपरायणैः ॥ 14.128 ॥ एतैस्सर्वेस्समायुक्तमग्रे चोत्सवमाचरेत्। ध्वजादिपरिवारः ध्वजैश्छत्रैरातपत्रैस्तोरणैश्च तथैव च ॥ 14.129 ॥ यानि श्रृङ्गारचिह्रानि प्रभुचिह्रानि यानि च। गृहीत्वा तानि चिह्रानि ब्राह्मणाश्शुचयस्तथा ॥ 14.130 ॥ देवस्याग्रे तु गच्छेयुः सर्वालङ्कारसंयुताः। तेषामपरभागे तु यानाधिष्ठितकेशवम् ॥ 14.131 ॥ सर्वालङ्कारसंयुक्तं सर्वाभरणभूषितम्। रक्तैः पीतैस्सितैश्चैव निबद्धैः कनकाम्बरै ॥ 14.132 ॥ हेमदण्डसमायुक्तैश्चामरैर्व्यजनैस्तथा। दासीभिर्विष्णुभक्तैर्वा पार्श्वयोर्वीजयेत्क्रमात् ॥ 14.133 ॥ यानवहनम् षोडशैरष्टभिश्चैव चतुर्भिर्वा यथोचितम्। विप्राद्यैर्वाहनीयस्स्यात् देवदेवो हरिः प्रभुः ॥ 14.134 ॥ शुद्धास्स्नाताः समागत्य सवर्णा ब्राह्मणादयः। यानं स्कन्धे निवेश्यैव प्रचरेयुश्शनैश्शनैः ॥ 14.135 ॥ गजवाहनविशेषः आरोहणे गजेन्द्रस्य देवदेवं विशेषतः। वस्त्राभरणपुष्पाद्यैरलङ्कृत्य यथार्हकम् ॥ 14.136 ॥ देवेशं पूर्वमारोप्य पृष्ठपार्श्वे गजस्य तु। आदायाङ्कुशमाचार्यो गजपृष्ठे निषीदति ॥ 14.137 ॥ अर्चकश्छत्रमादाय मुक्तालङ्कारभूषितम्। देवस्यापरभागे तु भृगुवत्स निषीदति ॥ 14.138 ॥ गरुडादिषु यानेषु शिबिकासु तथैव च। आसीनः पूर्वभागे तु दक्षिणे देशिकोत्तमः ॥ 14.39 ॥ देवेशं मनसा ध्यायन् वैष्णवं मन्त्रमुच्चरन्। आसीतैवान्यथा कुर्यात्तत्सर्व निष्फलं भवेत् ॥ 14.140 ॥ वेदाध्ययनमन्यच्च मङ्गलस्तुतिपाठनम्। देवस्यापरभागे तु विशेषेण समाचरेत् ॥ 14.141 ॥ ब्राह्मणा विष्णुभक्ताश्च होत्रध्वर्युपुरस्सराः। देवेशमनुगच्छेयुर्वेदाध्ययनतत्पराः ॥ 14.142 ॥ एषामपरभागे तु देवस्य तु विशेषतः। गजपृष्ठे समारोप्य दुन्दुभिं झल्लरीं तथा ॥ 14.143 ॥ घोषयित्वाऽनुगच्देयुर्वादकाः दृढवादनाः। एवं प्रदक्षिणं कृत्वा प्रथमावरणादिषु ॥ 14.144 ॥ बहिरावरणे वाऽथ ग्रामं कुर्यात्प्रदक्षिणम्। सन्धिषु विशेषाराधनम् सन्धौ सन्धौ तु देवेशं पाद्याद्यैरष्टविग्रहैः ॥ 14.145 ॥ निवेदयेत्समभृयर्च्य मुखवासं समन्त्रकम्। उपहारसमर्पणम् तदा वस्तून्यपक्वानि ब्राह्म्णैराहृतान्यपि ॥ 14.146 ॥ दद्याद्भक्ष्याण्यपक्वानि पक्वं विप्राहृतं तथा। शुद्धेन वारिणा प्रोक्ष्य अमञ्च निवेदयेत् ॥ 14.147 ॥ उत्सवे दूरमध्वानं देवेशं प्रापिते सति। दूरगमने विशेषः (1)द्विक्रोशे वापि त्रिक्रोशे ग्रामान्तरगतेऽथवा (1.) एकद्वित्रिचतुः क्रोशे आ. ॥ 14.148 ॥ अपरेद्युः प्रकर्तव्या होमबल्यर्चनाक्रियाः। पूर्वेद्युरेव कृत्वा ताः गच्छेदिति च केचन ॥ 14.149 ॥ वादकान् नर्तकादींश्च गन्धर्वान् भावयेत्सदा। जयाद्यप्सरसश्चैव भावयेत् देवयोषितः ॥ 14.150 ॥ स्त्रियौ चामरधारिण्यौ मायां संह्रादिनीं स्मरेत्। किष्किन्धसुन्दरौ वाऽथ पुरषौ यदि तौ स्मरेत् ॥ 14.151 ॥ स्मरेद्गरुडवत्सर्वान् रथयन्त्रादिवाहकान्। प्रत्यागमने पूजा विशेषः एवं प्रदक्षिण्?ां कृत्वा पुनरन्तः प्रविश्च च ॥ 14.152 ॥ आस्थाने देवमास्थाप्य विष्टरे सोत्तरच्छदे। पाद्यमाचमनं दत्वा नीराजनमतश्चरेत् ॥ 14.153 ॥ नीराजनप्रकारः जलेन स?हितं पात्रं शाल्यन्नं पुष्पसंयुतम्। आचार्यश्चाग्रतः स्थित्वा देवदेवस्य मूर्धतः ॥ 14.154 ॥ पादान्तं भ्रामयेत्पात्रं शानकैः त्रिः प्रदक्षिणम्। हरिद्रासहितं तोयं शाल्यन्नं पुष्पसंयुतम् ॥ 14.155 ॥ कांस्यपात्रे समापूर्य दासीभिर्भ्रामयेत्तथा। आचूडात्पादपर्यन्तं भ्रामयेदिति चाङ्गिराः ॥ 14.156 ॥ द्वारबाह्ये विसृज्यैव रक्षां कृत्वा ललाटके। आस्थाने देवमास्थाप्य विष्टरे सोत्तरच्छदे ॥ 14.157 ॥ पामाचमनं दत्वा नारिकेलफलाम्बु च। अपूपसक्तुलाजादिभक्ष्?याणि विविधानि च ॥ 14.158 ॥ निवेद्याष्टाक्षरेणैव मुखवासं निवेदयेत्। स्तुतिपाठः नीराजनक्रियान्ते तु देवस्य जयशंसिभिः ॥ 14.159 ॥ नानाभाषाप्रबन्धैश्च स्तुतिं स्तुतिं स्तोत्रैः प्रकल्पयेत्। (दर्शयेद्देवदासीभिर्मार्गनृत्तं ततः क्रमात्) ॥ 14.160 ॥ शुद्धस्नानोक्तमार्गेण स्नापयित्वा ततः परम्। समभ्यर्च्य निवेद्यैव जीवस्थाने निवेशयेत् ॥ 14.161 ॥ अत्र केचित्प्रशंसन्ति ‘श्रमस्वेति नमे’ दिति। देवस्य दक्षिणे वाऽपि प्रमुखे वा महासने (?) ॥ 14.162 ॥ मन्दिरं सुन्दरं कृत्वा ट्टढवद्धकवाटकम्। अन्तर्गृहस्य परितः दर्पणादि निवेश्य च ॥ 14.163 ॥ तन्मध्ये देवदेवशं प्रतिष्ठाप्य समर्चयेत्। अत्रानुक्तानि सर्वाणि खिलोक्तविधिना चरेत् ॥ 14.164 ॥ एवमेवोत्सवः प्रोक्तः दिनयोः प्रथमान्त्ययोः। द्विकालमेककालं वा दिनेष्वन्येषु चोत्सवम् ॥ 14.165 ॥ विषूपरागादिषु तीर्थ प्राप्ते विपूपरागायनेषु तीर्थ रात्रौ भवेद्यदि। तथा सायोत्सवञ्चापि कुर्यात्तीर्थदिने पुनः ॥ 14.166 ॥ द्वितीयाहप्रभृत्येव द्विकालोत्सवमाचरेत्। प्रातस्सन्ध्यां समारभ्य मध्याह्रात्तु समाप्ये ॥ 14.167 ॥ उत्सवस्य कालावधि प्रातरुत्सव एषः स्यात् सायंकालार्चनात्परम्। सायमुत्सव आरब्धः यामादर्वाक्समाप्यते ॥ 14.168 ॥ आसायं कर्मणः प्रातराप्रातस्सायमेव वा। उत्सवस्सर्वकालेषु देवीसहितमुत्तमः ॥ 14.169 ॥ मध्यमः प्रातरेव स्यादधमः पञ्चमेऽहनि। एककालोत्सवश्चेत्तु मध्याह्रे बलिहोमकौ ॥ 14.170 ॥ सायाह्रे चोत्सवं कुर्यादिति सङ्गिरतेऽङ्गिराः। तीर्थाहात्पूर्वदिवसे समाप्ते प्रातरुत्सवे ॥ 14.171 ॥ मृगयोत्सवः (1)मृगयार्थमलङ्कृत्य देवदेवं विशेषतः। (2)अजवानरशार्दूलगजाश्वानुगतं नयेत् (1.) मृगयार्ह आ. (2.) कृष्णसाराजशार्दूल आ. ॥ 14.172 ॥ (3)नानाप्रहरणोपेतैरन्वितं परिचारकैः। कष्ठीरवसमारूढे देव्यावप्यानयेद्वुधः (3.) राजोचितायुधोपेतैः आ. ॥ 14.173 ॥ ग्रामं प्रदक्षिणीकृत्य बहिश्चापि मनोरमे। उत्सवं कारयेच्छीघ्रं चक्रवीशामितैर्विना ॥ 14.174 ॥ नानाविधोपकार्यासु विनोदञ्चापि कारयेत्। अवतारेषु वा चैलल्लौकिकेष्विति केचन ॥ 14.175 ॥ वापीतीरोपकार्यासु चारामरचितासु च। पूजाकर्मानुरोधेन कुर्यादन्यदिनेष्वपि ॥ 14.176 ॥ शयनाधिवासः अथ तीर्थदिनात्पूर्वं रात्रौ देवं विशेषतः। समभ्यर्च्य निवेद्यैव बध्द्वा प्रतिसरामपि ॥ 14.177 ॥ प्रतिष्ठोक्तक्रमेणैव सार्धं चक्रेण शाययेत्। हवींषि च विना प्रातरर्चयित्वाऽष्टविग्रहैः ॥ 14.178 ॥ होमं हुत्वा बलिं दत्वा प्रातरुत्सवमाचरेत्। चूर्णोत्सवः आस्थानमण्डपे देवं संस्थाप्य प्राङ्मुख क्रमात् ॥ 14.179 ॥ देवाग्रे स्थापयेच्चक्रं धान्यपीठे बहिर्मुखम्। तस्यैवोत्तरतः पार्श्वे विष्वक्सेनं समाहितः ॥ 14.180 ॥ चक्राग्रे धान्यपीठे तु हरिद्राञ्चापि विन्यसेत्। संस्कृत्यैव तथा चूर्णमभिषिच्च पूर्ववत् ॥ 14.181 ॥ चक्रशान्तौ च सस्नाप्य अभिषिच्च च पूर्ववत्। ग्रामं प्रदक्षिणीकृत्य तीर्थस्थानं प्रविश्य च ॥ 14.182 ॥ तीर्थस्नानप्रकारः तस्य तीरे प्रतिष्ठाप्य देवं चक्रञ्च पूर्ववत्। कलशान् पञ्च संस्थाप्य देवस्याग्रे यथाविधि ॥ 14.183 ॥ मृत्कुशैर्गन्धपुष्पाद्भिरक्षतैश्च प्रपूरितान्। क्रमान्मध्यादि सौम्यान्तं निधायाभ्यर्च्य देवताः ॥ 14.184 ॥ भूमिं चर्तूश्च धातारं काश्यपञ्च प्रजापतिम्। स्नापनोक्तैश्च मन्त्रैश्च प्रोक्ष्य देवेशमत्वरः ॥ 14.185 ॥ शिष्टाभिः कलशाद्भिस्तु चक्रञ्चैवाभिषिच्य च। ततो देवञ्च तीर्थस्यान्तर्निमज्जयेत् ॥ 14.186 ॥ पुनस्तीरे प्रतिष्ठाप्य विष्टरे सोत्तरच्छदे। कुर्यादवभृथस्नानं शुद्धस्नानोक्तमार्गतः ॥ 14.187 ॥ यजमानो गुरुश्चैव ऋत्विजः परिचारकाः। स्नात्वाऽत्र सह देवेन श्वेतवस्त्रोत्तरीयकाः ॥ 14.188 ॥ ग्रामोत्सवः देवदेवमलङ्कत्य यानमारोप्य पूर्ववत्। शुक्लमाल्यानुलेपाद्यैः स्वर्णसूत्राङ्गुलीयकैः ॥ 14.189 ॥ अलङ्कतेन गुरुणा ऋत्विग्भिश्च तथाविधैः। शाकुनं सूक्तमुच्चार्य स्वस्तिसूक्तसमन्वितम् ॥ 14.190 ॥ तोयधारासमायुक्तं नेयात् ग्रामं प्रदक्षिणम्। तत्काले यजमानोऽपि प्रत्युत्थानं समाचरेत् ॥ 14.191 ॥ अलङ्कृत्याऽलयद्वारं पूर्णकुम्भाङ्कुरादिभिः। दीपैश्च बुहभिस्तत्र देवदेवे समागते ॥ 14.192 ॥ तौयधारासमायुक्तं दीपैश्च बहुभिर्युतम्। स्त्रीयधारासमायुक्तं दीपैश्च बहुभिर्युतम्। स्त्रीभिस्सुमङ्ग्रलीभिश्च कारयित्वा प्रदक्षिणम् ॥ 14.193 ॥ पञ्च चित्रान्नपिण्डानि नीत्वा देवस्य मूर्धनि। प्रदक्षिणं दिगीशानं नामभिः प्रणवादिभिः ॥ 14.194 ॥ नमोऽन्तैश्च चतुर्थ्यन्तैर्मध्ये च विसृजेत्क्रमात्। ततः पुष्पाञ्जलिं दत्वा प्रविश्याऽभ्यन्तरं पुनः ॥ 14.195 ॥ अत्सवान्तस्नपनम् हविर्दानम् स्नपनोक्रमेणैव स्नपनं सम्यगाचरेत्। हविर्दानम् महाहविः प्रभूतं वा समभ्यर्च्य निवेदयेत् ॥ 14.196 ॥ जीवस्थाने प्रवेशः कुम्भावाहनम् जीवस्थाने प्रतिष्ठाप्य प्रणमेद्दण्डवद्भुवि। यागशालां समागत्य हुत्वाऽग्निषु सवैष्णवम् ॥ 14.197 ॥ तत्तत्कुम्भगतां शक्तिं ध्रुवे सम्यङ्निवेश्च च। नित्यकुण्डे प्रणीयाग्निमुपतिष्ठेत भास्करम् ॥ 14.198 ॥ नित्यकुण्डेऽप्यशक्तोऽपि पूर्वोक्तक्रममाचरेत्। नवमे चोत्सवे चैव चतुर्दशदिने तथा ॥ 14.199 ॥ एकविंशोत्सवे चैव रात्रिपूजावसानके। देवोद्वासनप्रकारः रात्रौ ग्रामबलिं दत्वा चक्रवीशामितैर्बिना ॥ 14.200 ॥ उद्वास्य देवतार्स्वा ध्वजमागत्य वै पुनः। ध्वजदेवं समभ्यर्च्य मुद्गान्नं विनिवेद्य च ॥ 14.201 ॥ ध्वजदेवं विसृज्यैव ध्वजं तमवरोपयेत्। दशमे दिवसे चैव दिने पञ्चदशे तथा ॥ 14.202 ॥ पुष्पयागः उत्तमकल्पः द्वाविंशदिवसे चैव पुष्पयागं समाचरेत्। औत्सवप्रतिमाभावे कौतुके क्रियते यदि ॥ 14.203 ॥ तत्रैव तीर्थदिवसे प्रातस्सन्ध्यावसानके। सम्यक्प्रतिसरं बध्द्वा प्रातरुत्सवमाचरेत् ॥ 14.204 ॥ द्वितीयदिवसे तीर्थात् पुष्पयागं समाचरेत्। पुष्पयागोत्सवः त्रिविधः शान्तिकः पौष्टिकैः काम्यः इति स त्रिविधो भवेत् ॥ 14.205 ॥ तल्लक्षणम् उत्तमकल्पः प्रातर्मध्यापराह्णेषु क्रमादेनं प्रकल्पयेत्। प्रातरर्चावसाने तु अलङ्कत्य यथार्हकम् ॥ 14.206 ॥ आस्थानमण्डपे देवं समानीयोदयात्परम्। शुद्धस्नानोक्तमार्गेण स्नापयित्वा जार्दनम् ॥ 14.207 ॥ नववस्त्रोत्तरीयाद्यैरलङ्कृत्य विभूषणैः। महाविः प्रभूतं वा समभ्यर्च्य निवेदयेत् ॥ 14.108 ॥ आस्थानमण्डपे वाऽपि स्नपनालय एव वा। चतुर्दिशं चतुर्हसतं गोमयेनोपलिप्य च ॥ 14.209 ॥ उपपीठपदं कृत्वा षट्सूत्रैः प्रागुदग्गतैः। मध्ये नवपदं पद्मं साष्टपत्रं सकर्णिकम् ॥ 14.210 ॥ रत्न्यासोक्तधान्यैर्वा तण्?ाडुलैर्वीहिभिस्तु वा। बहिःष्ठेषु पदेष्वग्रे वीशमेकत्र पूजयेत् ॥ 14.211 ॥ दक्षिणे चक्रमभ्यर्च्य पङ्क्तीशं पश्?िचमे तथा। उदीच्यां शान्तमभ्यर्च्य शेषेष्वर्कपदेशु च ॥ 14.212 ॥ आसनाद्यर्चनद्रव्यसञ्च सुसन्न्यसेत्। दलेष्वष्टसु पद्मस्य लोकपालान्त्समर्चयेत् ॥ 14.213 ॥ कर्णिकायां रवीन्द्वग्निमण्डलानि क्रमाद्यजेत्। विष्टरं तत्र संस्थाप्य पादान्तर्गतपङ्कजे ॥ 14.214 ॥ तत्र देवं प्रतिष्ठाप्य यावद्दिवसमुत्सवः। तावत्कृत्वस्समभ्यर्च्य सप्तविंशतिविग्रहैः ॥ 14.215 ॥ नृत्तैर्गेयैश्च वाद्यैश्च चतुर्वेदस्तवैरपि। तत्तत्पूजावसाने तु पृथक् पुष्पाञ्जलिं ददेत् ॥ 14.216 ॥ पङ्कुजं तुलसीं बिल्वं करवीरमथोत्पलम्। नन्द्यावर्तञ्च कुमुदमपामार्ग तथैव च ॥ 14.217 ॥ विष्णुक्रान्तं च दूर्वाग्रं (1)एतान्येव क्रमातत्पुनः। पुष्पाञ्जलिप्रदानार्थ पुष्पाण्युक्तानि पूजने (1.) ‘वकुलं चम्पकं तथा। मन्दारं चैव पुन्नागं मल्लिका माधवी ततः पाटली केतकी चैव दमनं मरुजातिकम्। सुवर्णगन्धपुष्पणि चान्यान्येवं विधानि च। पुष्?पाञ्जलिप्रदानार्थ’ इति पाठः अधिकं आ. कोशेषु ॥ 14.218 ॥ पुष्पाञ्जलिप्रदानानि सर्वाण्यन्यार्चने ददेत्। सभ्य एकाग्निरेव स्यादन्यत्सर्वञ्च पूर्ववत् ॥ 14.229 ॥ पुष्पयागः तृतीयकल्पः इत्येवं मध्यमं प्रोक्तं प्रवक्ष्याम्यधमं पनुः। विना वीशादिभिर्देवैर्होमैस्तत्पृथगर्चनैः ॥ 14.230 ॥ मण्डले देवमारोप्य पूजयित्वा यथाविधि। इर्वीषि पञ्च चोक्तानि निवेद्य च ततः परम् ॥ 14.231 ॥ दद्यात्पुष्पाञ्जलिं मन्त्रैः समस्तदिवसोचितैः। उत्सवैऽज्ञातदोषाणां प्रायश्चित्तमिदं स्मृतम् ॥ 14.232 ॥ (अतः सर्वप्रयत्नेन पुष्पयागं समाचरेत्। देवदेवं शनैर्नीत्वा प्रदक्षिणमथाऽलयम्। जीवरथाने प्रतिष्ठाप्य दत्वा पुष्पाञ्जलिं बहु। संस्तूय च स्तवैर्मन्त्रैः ‘क्षम’ स्वेति प्रणम्य च। दद्यादाचार्यपूर्वेभ्यो दक्षिणा देवसन्निधौ। रात्रौ ग्रामबलिं दत्वा चक्रवीशामितेर्विना। उद्वास्य देवतास्सर्वाः ध्वजमासाद्य वै पुनः। ध्वजदेवं समभ्यर्च्य मुद्गान्नं सन्निवेद्य च ॥ ध्वजदेवं विसृज्यैव ध्वजं तमवरोपयेत्। एवमेवोत्सवः प्रोक्तो देवदेवस्य शार्ङ्गिणः) ॥ उत्सवफलश्रुतिः एवं यः कुरुते भक्त्या सर्वान्कामानवाप्नुयात्। इह लोके सुखं भुंक्त्वा विष्णोस्सायुज्यमाप्नुयात् ॥ 14.233 ॥ आलयार्चाविधिस्सोऽयं सङ्क्षेपादुदितो मया। अत्रानुक्तं च यत्सर्व खिलोक्तविधिना चरेत् ॥ 14.234 ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे उत्सववि?धिर्नाम चतुर्दशोऽध्यायः।