त्रयोदशोऽध्यायः ॐ त्रयोदशोऽध्यायः महास्नपनम् अनिमित्तानि अतः परं प्रवक्ष्यामि स्नापनं वै समासतः। प्रतिष्ठोत्सवयोरपि विषुवायनयोरपि ॥ 13.1 ॥ (1)देवस्य स्नपनं कुर्याद्रहणे सूर्यचन्द्रयोः। विभवे सति कुर्वीत विष्णुपञ्चदिनेषु च (1.) देवेशं स्नापयेद्यत्नाद्ग्रहणे सोमसूर्ययोः। आ. ॥ 13.2 ॥ मासर्क्षेष्वन्यसङ्कान्त्यां जन्मर्क्षे कर्तृभूपयोः। (2)ग्रहकोपेऽवग्रहे च दुस्स्वप्ने दुर्निमित्तके (2.) ऋक्षसङ्कोचे आ. ॥ 13.3 ॥ व्याध्याद्यैः जनपीडायां तत्तच्छान्त्यै प्रकल्पयेत्। अब्दान्ते च युगान्ते च व्यतीपातादिषु क्रमात् ॥ 13.4 ॥ सम्भाराः अङ्कुरार्पणकादूर्ध्व द्रव्याण्यपि समाहरेत्। नादेयादिमृदोऽष्टौ च हिमवत्प्रमुखाचलान् ॥ 13.5 ॥ शाल्यादीन्यपि धान्यानि तत्तद्धान्याङ्कुराणि च। श्रीवत्सं पूर्णकुम्भञ्च भेरीमादर्शनं तथा ॥ 13.6 ॥ मत्स्ययुग्माङ्कुशे शङ्खमावर्तञ्चामङ्गलम्। (आवर्त स्वस्तिके नीलेशानलानिललाहलम्? ।) बृहद्भानुपुरद्वन्द्वमावर्तमभिधीयते ॥ 13.7 ॥ (3)युक्यान्यानि प्रकुर्वीत प्राग्द्रव्याण्यथ पञ्च वै। (4)पञ्चगव्यं घृतमधुदधिक्षीराणि पञ्च वै (3.) युक्तान्यन्यानि आ. (4.) एतत्स्थाने। यवं माषं सर्षपञ्च व्रीहिधान्यं तथैव च। पञ्चगव्यस्य संयोगात् घृतं मधु तथा दधि। शकृत् क्षीराणि पञ्चतान्याढकाहीनमेव वा। यथालाभं गृहीत्वा तु पञ्चगव्यानि योजयेत्। इति आ पाठः ॥ 13.8 ॥ गुह्णीयादाढकाहीनं यथालाभमथापिवा। शेषं जलेन सम्पूर्य तत्तत्थाने सममर्चयेत् ॥ 13.9 ॥ चन्दनीशीरकोष्ठैलालवङ्गाद्यधिवासितम्। गन्धोदकमिति प्रोक्तमाढकाहीनमेव च ॥ 13.10 ॥ यवसर्षपव्रीहिमाषतण्डलुसंयुतम्। जलाष्टांशाक्षतैर्युक्तमक्षतोदकमुच्यते ॥ 13.11 ॥ कदलीचूतपनसनारिकेलफलैर्युतम्। नारङ्गमातुलुङ्गाभ्यां त्रिफलैर्मौञ्जकेन च ॥ 13.12 ॥ भव्यहव्यकुरुन्दैश्च कामरेणापि संयुतम्। फलोदकमिति प्रोक्तं जलाष्टांशफलैर्युतम् ॥ 13.13 ॥ कुशाग्रैर्मिश्रितं तोयं कुशोदकमिति स्मृतम्। नवभिः पञ्चभिर्वापि रत्नैः रत्नोदकं स्मृतम् ॥ 13.14 ॥ ‘आपो हि’ ष्ठेति (1)मन्त्रांस्त्रीनावर्त्याष्टोत्तरं शतम्। ‘अतो देवा’ दिभिष्षड्भिर्वैष्णवैस्सकृदेव वा (1.) मन्त्रादीन् आ. ॥ 13.15 ॥ जप्त्वाऽभिमन्त्रितं तोयं जप्योदकमिति स्मृतम्। ओषध्यः फलपाकान्तास्ताभिस्सर्वाभिरन्वितम् ॥ 13.16 ॥ तोयाष्टांशप्रमाणाभिः सर्वौषध्युदकं स्मृतम्। बिल्वपत्राश्वदूर्वाब्जनन्द्यावर्तशमीप्रियाः ॥ 13.17 ॥ पुण्यपुष्पाणि चोक्तानि यथालाभं समाहरेत्। बिल्वपत्रसमं रात्रौ कपित्थदलमुच्यते ॥ 13.18 ॥ चूर्णं जातिफलादीनां कषायं तीर्थवारि च। वनौषधिनिशाचूर्णं सर्वगन्धमतः परम् ॥ 13.19 ॥ प्लोतञ्च मूलगन्धञ्च धातूनपि समहारेत्। वस्त्रोत्तरीयोपवीतभूषणानि तथाऽऽहरेत् ॥ 13.20 ॥ कलशानाढकापूर्णान् शरावान्प्रस्थपूरणान्। द्रोणार्धपूर्णान्करकान् द्रोणपूर्णान्घटानपि ॥ 13.21 ॥ खण्डस्फुटितकालादिरहितानेव चाऽहरेत्। साग्रैरगर्भदर्भैश्च पञ्चभिर्दशभिर्युतान् ॥ 13.22 ॥ षट्त्रिंशदङृगुलायामान् परिस्त्रणकूर्चकान्। कलशार्थान्प्रकुर्वीत द्वादशाङ्गुलसम्मितान् ॥ 13.23 ॥ नवभिस्सप्तभिर्वाऽथ पञ्चभिस्त्रिभिरेव वा। कुशाः काशास्तथोशीरा दूर्वा वै व्रीहयस्तथा ॥ 13.24 ॥ विश्वामित्रा यवाश्चापि सप्त दर्भाः प्रकीर्तिताः। स्नपनाङ्गाधिवासः पूर्वरात्रौ तु देवेशं समभ्यर्च्य निवेदयेत् ॥ 13.25 ॥ आलयाद्दक्षिणे वेदिं शयनार्थ प्रकल्प्य च। शयनानि पञ्च चास्तीर्य तथा धान्योपरि क्रमात् ॥ 13.26 ॥ तत्र देवं समारोप्य बद्ध्वा प्रतिसरं तथा। शयने शाययेद्देवं पूर्ववत्सुसमाहितः ॥ 13.27 ॥ (सन्धिद्वयमतिक्रमृय स्नपनं सम्भवेद्यदि। सद्यः प्रतिसरं बध्द्वा शयनं सम्प्रकल्पयेत् ॥ 13.28 ॥ कौतुके स्नापनाभावे स्नपनं यदि कारयेत्। ध्रुवार्चास्नपने वाऽपि सद्यः कौतुकबन्धनम् ॥ 13.29 ॥ कृत्वा श्वभ्रे प्रतिष्ठाप्य स्नापयेदिति शासनम्। रात्रौ यदोदयात्पूर्व निमित्तं स्नपनस्य तु ॥ 13.30 ॥ रात्रिपूजावसाने तु तथा नोद्वासयेद्धरिम्। स्नपनान्ते तथोद्वास्य प्रातरावाहयेत्तथा ॥ 13.31 ॥ नावाहनविसर्गौ द्वौ कौतुकव्यतिरिक्तयोः। स्नपनमण्डपम् आलयाभिमुखे कुर्यादुत्तरैशान्ययोस्तथा ॥ 13.32 ॥ मण्डपं वा प्रपां वाऽथ कूटं वा स्नपनालयम्। षोडशस्तम्भसंयुक्तं चतुर्द्वारसमन्वितम् ॥ 13.33 ॥ श्रीवत्सं पद्मकं वाऽपि स्वस्तिकं वा यथाविधि। तण्डुलैर्व्रीहिभिर्वाऽथ पङ्क्तिं कुर्यात्तदन्तरे ॥ 13.34 ॥ द्वितालाहीनविस्तारं युगाग्न्यक्ष्यङ्गुलोच्छ्रयम्। चतुर्दिक्षु तथा हस्तविस्तारं द्वारसंयुतम् ॥ 13.35 ॥ लिखेत्पत्रलताकारं ‘सुमित्रान्’ इति स्थलम्। इन्द्रादीनां दिगीशानां पङ्क्तीशस्यामितस्य च ॥ 13.36 ॥ तत्तत्थानेषु पीठानि पङ्क्तावेव प्रकल्पयेत्। पङ्क्तिबाह्येतरे? वापि कुर्याच्चेदाभिंचारिकम् ॥ 13.37 ॥ तन्मध्ये स्नपश्वभ्रमौपासनविधानतः। कल्पयित्वा परिस्तीर्य जयादीनपि पूजयेत् ॥ 13.38 ॥ पूर्वोक्तेन प्रकारेण तत्पङ्क्त्यां विहिते पदे। द्रव्यन्यासः न्यसे(1) न्मृदादिद्रव्याणि देवेशाभिमुखानि वै (1.) रत्नादिद्रव्याणि आ ॥ 13.39 ॥ तेषु कूर्चञ्च विन्यस्य पूजयेदधिदेवताः। तत्तद्द्रव्यधरान् ध्यात्वा तत्तद्द्रव्समीपतः ॥ 13.40 ॥ उद्धृत्य शयनाद्देवं श्वभ्रमध्ये निवेश्च च। पाद्यादिभिस्समभ्यर्च्य तैलेनाभ्यज्य पूर्ववत् ॥ 13.41 ॥ तथैव पुनरभ्यर्च्य स्नापयेच्च मृदादिभिः। स्नपनप्रकारः प्रणवेन समभ्युक्ष्य गृहीत्वा शिष्यहस्ततः ॥ 13.42 ॥ ललाटान्तं समुद्धृत्य त्रिस्सकृद्वा प्रदक्षिणम्। नीत्वा संस्नापयेद्देवं मूर्तिभिः पञ्चभिः क्रमात् ॥ 13.43 ॥ द्रव्यं पात्रं पुनः प्रोक्ष्य पूर्वस्थाने निवेशयेत्। प्राग्द्रव्यैश्च प्रधानैस्तदुपस्नानसमन्वितैः ॥ 13.44 ॥ अनुद्रव्यैश्च पूर्वोक्तैर्मन्त्रैस्संस्नापयेत्तथा। संस्थाप्य देवमास्थाने समभ्यर्च्य निवेदयेत् ॥ 13.45 ॥ कौतुकं स्नपनान्ते च जीवस्थाने निवेदश्य च। समर्भ्यर्च्य विनेद्यैव दद्यात्पुष्पाञ्जलिं पुनः ॥ 13.46 ॥ घ्रवार्चास्नपने विशेषः ध्रवार्चास्नपने कुर्यादालयाभिमुखे प्रपाम्। पूर्ववत्परितः पङ्कत्यां स्ननद्रव्याणि विन्यसेत् ॥ 13.47 ॥ धान्यराशौ तु तन्मध्ये गन्धतोयाभिपूरितम्। कुम्भं सन्न्यस्य वरुणं तत्र सम्पूज्यदैवतम् ॥ 13.48 ॥ आदायाभ्यन्तरं गत्वा स्नापयेच्च मृदादिभिः। अलङ्कतृय समभ्यर्च्य हवींष्यपि निवेदयेत् ॥ 13.49 ॥ रात्रौ सूर्योदयात्पूर्व स्नपनं यदि सम्भवेत्। नोद्वास्य शक्तिं तद्विम्बाज्छ्वभ्रे संस्थाप्य पूर्ववत् ॥ 13.50 ॥ स्नपनान्ते समभ्यर्च्य निवेद्योद्वासयेत्तथा। उदये शक्तिमुद्वाय घ्रुववेद्यां निवेश्य च ॥ 13.51 ॥ घ्रुवात्तत्र समावाह्य स्नापयेदिति शासनम्। यदि नक्षत्रयुग्मं स्यादेकमासे विशेषतः ॥ 13.52 ॥ पर्रास्मन्नेव दिवसे स्नापयेत्पुरुषोत्तमम्। तिथिद्वयं यदि भवेत् द्वयोरपि समाचरेत् ॥ 13.53 ॥ वारद्वयानुषक्तञ्चेन्निमित्तर्क्षं तिथिस्तु वा। परस्मिन्नवे दिवसं स्नपनादीनि कारयेत् ॥ 13.54 ॥ एकस्मिन्नेव दिवसे निमित्तर्क्षतिथिद्वयम्। नक्षत्रस्नपनं पूर्वं तिथिकर्म ततश्चरेत् ॥ 13.55 ॥ पूर्वकर्मावसाने तु कृत्वा स़द्योऽङ्कुरार्पणम्। सद्यः प्रतिसरं बध्द्वा द्वितीयं स्नपनं चरेत् ॥ 13.56 ॥ एष एव विशेषः स्यादन्यत्सर्वं खिलोक्तवत्। इत्योर्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रयाधिकारे महास्नपनविधिर्नाम त्रयोदशोऽध्यायः(1) (1.) अत्र 14. अध्यायसमाप्तिः ख.।