द्वादशोऽध्यायः ॐ द्वादशोऽध्यायः स्नापनौत्सवयोः पृथक्प्रतिष्टा (1)(स्नापनौत्सवयोः पश्चात्प्रतिष्ठां प्रवदाम्यहम्। कौतुके स्थापिते पूर्वं शक्तौ सत्यां पुनस्तथा (1.) इत आभ्यसार्धपञ्चविशतिश्लोकपर्यन्त मातृकान्तरेषु न दृश्यते ॥ 12.1 ॥ औत्सवं स्नापनं कृत्वा स्थापयेद्विभवार्हतः। बिम्बं सलक्षणं कृत्वा सङ्घातं विधिना चरेत् ॥ 12.2 ॥ अक्ष्?युन्मेषाधिवासौ च कृत्वा तस्य यथाविधि। सभ्याब्जकुण्डे वा कृत्वा प्रतिष्ठां पूर्ववच्चरेत् ॥ 12.3 ॥ अन्याग्निविहितं होमं सभ्य एव समाचरेत्। तत्र प्रणीय नित्याग्निं होमकर्म समाचरेत् ॥ 12.4 ॥ कुर्यान्नित्याग्निविच्छेदे पञ्चकुण्डानि पूर्ववत्। तत्रापि गार्हपत्याग्नेः प्रणीयान्येषु हूयताम् ॥ 12.5 ॥ पूर्वेद्युरेव शर्वर्यां रात्रिपूजावसानके। देवं विशेषतोऽभ्यर्च्य हविस्सम्यङ्निवेदयेत् ॥ 12.6 ॥ ध्रुवबेरे समावाह्य प्रणम्यैवानुमान्य च। संसाध्य विधिना कुम्भं तत्राऽवाह्य ध्रुवात्तथा ॥ 12.7 ॥ कुम्भं बिम्बस्य पार्श्वे तु स्नानश्वभ्रे निवेश्च च। स्नापनं शयनारोहं तथा कौतुकबन्धनम् ॥ 12.8 ॥ हौत्रं होमं तथा कृत्वा प्रातस्संस्थाप्य पार्श्वयोः। कृत्वा मन्त्राक्षरन्यासौ पूर्वमावाह्य कौतुके ॥ 12.9 ॥ पश्चाच्चैवोत्सेवेऽर्चायां समावाह्य तथा ध्रुवात्। आसनादिभिरभ्यर्च्य हविस्सम्यक् निवेदयेत् ॥ 12.10 ॥ उत्सवं चौत्सवे बिम्बे स्नापने स्नापनं तथा। यथाशक्ति प्रकुर्वीत दद्यादचार्यदक्षिणाम् ॥ 12.11 ॥ लौकिकस्थापनायान्तु नित्याग्निर्न प्रणीयते। आवाहनं तथा कुम्भे कुर्यादादित्यमण्डलात् ॥ 12.12 ॥ कुम्भात्तु लौकिके बिम्बे समावाह्य समर्चयेत्। एकबेरविधानञ्चेत् स्थापनं न विधीयते ॥ 12.13 ॥ कारयित्वौत्सवं बिम्बे रात्रिपूजावसानके। एकबेरं समभ्यर्च्य कुम्भे शक्तिं निवेश्य च ॥ 12.14 ॥ पूर्ववत्स्थापनादीनि कारयित्वा यथाविधि। एकबेरे समावाह्य तस्मादावाह्य चार्चयेत् ॥ 12.15 ॥ बलिबेरस्य पृथक् प्रतिष्ठा बलिबेरप्रतिष्ठा चेत्तस्मिन्नावाह्य कौतुके ॥ 12.16 ॥ समभ्यर्च्य निवेद्यैव बल्युत्सवमथाचरेत्। देव्योः श्चात्प्रतिष्ठायां विशेषो वक्ष्यतेऽधुना ॥ 12.17 ॥ देव्योः पश्चात् प्रतिष्ठा जङ्गमानान्तु बिम्बानां पुनर्देव्यौ च कल्पयेत् ॥ 12.18 ॥ ध्रुवे देवीवियुक्तेऽपि देवीयुक्तञ्च कौतुकम्। कुर्यात्सर्वप्रयत्नेन विशेषादौत्सवं तथा ॥ 12.19 ॥ अक्ष्युन्मेषाधिवासौ च कृत्वा तन्मन्त्रमुच्चरन्। पार्श्वयोर्यज्ञशालायां कुर्यादौपासनद्वयम् ॥ 12.20 ॥ तयोर्नित्याग्निमाधाय यथोक्तं होममाचरेत्। ध्रुवस्य देवीबिम्बाभ्यां शक्तिमावाह्य कुम्भयोः ॥ 12.21 ॥ स्नपनं शयनं कुम्भं होमञ्च पृथगेव वा। सर्वञ्च पूर्ववत्कृत्वा प्रातः स्नात्वा यथाविधि ॥ 12.22 ॥ ध्रुवदेव्योस्समावाह्य ताभ्यामावाहयेत्तयोः। तच्छक्तिपूर्वं संस्काराद्विवाहं न प्रकल्पयेत् ॥ 12.23 ॥ देवेनाप्यथवा साकं प्रतिष्ठामाचरेत्तयोः। निवेश्य कौतुकाच्छक्तिं ध्रुवबेरे यथाविधि ॥ 12.24 ॥ ध्रुवबेरात्तथा कुम्भे शक्तिमावाह्य पूर्ववत्। स्नानश्वभ्रे प्रतिष्ठाप्य देवीं कुम्भञ्च दक्षिणे ॥ 12.25 ॥ पार्श्वयोः श्वभ्रयोर्देव्यौ प्रतिष्ठाप्य पृथक्पृथक्।) (1)स्नापयित्वैकवेद्यान्तु शाययित्वैव मन्त्रतः (1.) इतः पूर्वं अधोलिखितसार्धश्लोकः मातृकान्तरेषूपलभ्यते ॥ अनेनैव ग्रन्थेन तासु मातृकास्वध्यायारम्भश्च ॥ ध्रुवत्य कौतुकस्यापि स्नापनस्यौत्सवस्य च। बलिबेरस्य देव्योश्च प्रतिष्ठां सहृकारयेत्। पृथगेव प्रतिष्ठां चेत्संस्नप्य प्यि च पृथक्पृथक् इति ॥ 12.26 ॥ हौत्रादि सकलं कर्म कृत्वा पूर्वोक्तमार्गतः। कुम्भाद्ध्रुवे समावाह्य तस्मादावाहयेज्जले? ॥ 12.27 ॥ विवाहविधिमत्रापि नाचरेदिति शासनम्। ध्रुवे देवीवियुक्तेऽपि मंथितेनैव वह्रिना ॥ 12.28 ॥ आघारं विधिवत्तत्र कृत्वौपासनकुण्डके। देव्यौ तु पूर्ववद्ध्यत्वा हृदयाद्वाऽर्कमण्डलात् ॥ 12.29 ॥ आवाह्य कुम्भयोर्देव्यौ होमकर्मावसानके। कुम्भात्तद्विम्बयोर्भक्त्या समावाह्य समर्चयेत् ॥ 12.30 ॥ देवीभ्यामौत्सवे साधं स्थाप्यमाने तपोधनाः। ध्रुवे देवीवियुक्तेऽपि कुम्भं संसाध्य पूवर्वत् ॥ 12.31 ॥ देवीभ्यामौत्सवे सार्धं स्थाप्यमाने तपोधनाः। ध्रुवे देवीवियुक्तेऽपि कुम्भं संसाध्य पूर्ववत् ॥ 12.31 ॥ (2)कुम्भे बिम्बात्समावाह्य देवं देव्यौ ततः परम्। आवाह्य हृदयाद्ध्यायंस्तथैवादित्यमण्डलात् (2.) कुम्भे बिम्बान् आ. ॥ 12.32 ॥ पूर्ववत् स्नपनादीनि कृत्वा सर्वाणि तत्र वै। देवदेवं समावाह्य (1)ध्रुवबेरे तु पूर्ववत् (1.) ध्रुवबेरात् आ. ॥ 12.33 ॥ तस्माद्देवं समावाह्य कुम्भाद्देव्यौ समावहेत्। कौतुकव्यतिरिक्त प्रतिष्ठायां विशेषः कौतुकव्यतिरिक्तानां स्थापनायां तपोधनाः ॥ 12.34 ॥ परिषद्देवताह्वानं सर्वदेवार्चनं तथा। परिषद्देवताहोमं वर्जयेदिति शासनम् ॥ 12.35 ॥ अथवा देवदेवस्य देव्योश्चैव पृथक्पृथक्। शयनं कुम्भपूजाञ्च कुर्यादित्येव केचन ॥ 12.36 ॥ एकबेरप्रतिष्ठायां देव्यौ न स्थापयेत्पुनः। श्रीभूमिसहितं कुर्यांदादावे ध्रुवार्चनम् ॥ 12.37 ॥ सर्वकामाभिवृद्ध्यर्थी श्रिया केवलमेव वा। स्थापयेदेकबेरस्य पश्चाद्वै केवलं श्रियम् ॥ 12.38 ॥ देवीभ्यां रहितं कुर्यान्नारसिहं ध्रुवार्चनम्। इच्छन्ति योगमार्गेण सन्तस्सर्वे ध्रुवार्चनम् ॥ 12.39 ॥ पटकुड्यादिबिम्ब प्रतिष्ठा पटकुड्यसुधाऽऽलेख्यबिम्बानां स्थापनाविधिम्। प्रवक्ष्यामि समासेन बिम्बं कृत्वा सलक्षणम् ॥ 12.40 ॥ औपासनाग्निमाधाय वास्तुहोमविधानतः। पर्यग्निपञ्चगव्याभ्यां शोधयित्वा समीपतः ॥ 12.41 ॥ पूर्वोक्तेन क्रमेणैव कृत्वा तस्याक्षिमोचनम्। कुम्भं पूर्ववदादाय शुद्ध्यर्थ प्रोक्षणं चरेत् ॥ 12.42 ॥ प्रदोषे समनुप्राप्ते कुण्डे चौपासने तथा। आघारं विधिवत्कृत्वा कुमृभं संसाध्य पूर्ववत् ॥ 12.43 ॥ अभ्युक्ष्य सप्तकलशैर्बध्द्वा प्रतिसरं तथा। हौत्रं प्रशंस्य विधिना देवमावाह्य पूर्ववत् ॥ 12.44 ॥ आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेत्। आदिमूर्तिप्रतिष्ठा चेद्वैष्णवं विष्णुसूक्तकम् ॥ 12.45 ॥ सूक्तञ्च पौरुषं हुत्वा पुनश्चापि च वैष्णवम्। पञ्चवारुणसंयुक्तं जयादीश्च तथैव च ॥ 12.46 ॥ यद्देवादींस्ततो हुत्वा सहस्राहुतिसंयुतम्। अवतारप्रतिष्ठा चेतत्तन्मत्रं शतं यजेत् ॥ 12.47 ॥ प्रातर्मन्त्राक्षरन्यासं कृत्वाऽऽवाह्य स्मरन् हरिम्। अधस्तात्तस्य बिम्बस्य पीठं कृत्वा त्रिवेदिकम् ॥ 12.48 ॥ (1)वितस्त्यायामविस्तारं षडङ्गुलसमुच्छ्रयम्। तस्सिन्कूर्चञ्च विन्यस्य द्वादशाङ्गुलमात्रकम् (1.) वितस्त्यारसमुत्सेधं आ. ॥ 12.49 ॥ तस्मिन्देवं समावाह्य समभ्यर्च्य निवेदयेत्। अर्चनान्ते तथा बिम्बे विसर्जनमथाऽचरेत् ॥ 12.50 ॥ एष एव विशेषः स्यादन्यत्सर्वञ्च पूर्ववत्। इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तयां संहितायां क्रियाधिकारे पश्चात् स्नापनौत्सवेर्दवीप्रतिष्ठा विधिर्नाम द्वादशोऽध्यायः(2) (2.) अत्र 13 अध्यायसमाप्तिः ख. 15 अध्यायसमाप्तिः आ.।