10 दशमोऽध्यायः

दशमोऽध्यायः


दशमोऽध्यायः
अर्चनाङ्गोपचाराः
अथोपचारान्वक्षयामि शृणुध्वं मुनिसत्तमाः।
देवोपचारहतुत्वादुपाचाराः प्रकीर्तिताराः ॥ 10.1 ॥
पूजनार्थ विशेषेण ग्रहणाद्विग्रहाश्च ते।
चतुप्पप्ट्युपचारांश्च पञ्चपञ्चाशदेव च ॥ 10.2 ॥
चत्वारिंशत्सहाप्टभिर्द्विचत्वारिंशदेव च।
षट्त्रिंशच्च चतुस्त्रिंशत् द्वात्रिंशन्नवविंशतिः ॥ 10.3 ॥
सप्तविंशतिरित्येते नवधा परिकीर्तिताः।
आलयार्चाविधावेते हविर्हीने त्रयोदश ॥ 10.4 ॥
द्रव्यदेवार्चने चैव परिवारार्चने तथा।
एकादशोपचाराः स्युश्शिवादीनां तथाऽर्चने ॥ 10.5 ॥
प्रतिद्रव्यार्चने प्रोक्तास्स्नपने त्वष्टविग्रहाः।
होमे षड्विग्रहाः प्रोक्ता अवतारेषु षोडश ॥ 10.6 ॥
बालालये ध्रुवार्चायां पञ्चविंशतिविग्रहाः।
द्वा विग्रहावशक्तानामेको विग्रह एव वा ॥ 10.7 ॥
इत्येतेषाञ्च सर्वेषामाद्यमावाहनं तथा।
सामान्यमर्चनान्ते च तथैवोद्वासनं स्मृतम् ॥ 10.8 ॥
ताभ्यां विनैव सङ्ख्यातमासन स्वगतं तथा।
उत्तमकल्पे चुष्षष्ट्युपचारा
अनुमानञ्च पाद्यञ्च तथैवाचमनं पुनः ॥ 10.9 ॥
पुष्पं गन्धञ्च दीपञ्च दीपार्ध्याचमनानि च।
स्नानं प्लोतञ्च वस्त्रञ्च उत्तरीयञ्च भूषणम् ॥ 10.10 ॥
उपवीतञ्च पाद्यञ्च तथैवाऽचमनं पुनः।
पुष्पं गन्धञ्घ धूपञ्च दीपमाचमनं तथा ॥ 10.11 ॥
हविम्रन्त्राभिधानं स्यात्पानीयाचमनं पुनः।
मुखवासोऽष्टपाद्यादि दर्पणं छत्रचामरौ ॥ 10.12 ॥
तालवृन्तं ध्वजगजरथाश्वा नृत्तगेयकौ।
वाद्यमायुधसेवा च मङ्गलानां प्रदक्षिणम् ॥ 10.13 ॥
वेदपारायण दिक्षु पुराणस्तुतिरेव च।
(देवस्यापरभागे तु वेदमन्त्रान्त्सुघोषयेत् ॥
व्राह्मणैः विष्णुभक्तैश्चसहाचार्यपुरस्सरम्।
देवेशमनुगच्छेयुर्वेदानुच्चार्य भूसुराः ॥)
मात्रा च मधुपर्कञ्च हविर्होमौ ततः परम् ॥ 10.14 ॥
पानीयाचमने चैव मुखवासमतः परम्।
बलिश्चैव प्रणमश्च पुष्पाञ्जलिरतः परम् ॥ 10.15 ॥
स्तुतिश्च दक्षिणा पश्चादनुमानञ्च भक्तितः।
चतुष्षपष्ट्युपचारास्युरुत्तमोत्तमपूजने ॥ 10.16 ॥
पञ्चपञ्चाशदुपचाराः
गजध्वजरथाश्वैश्च मङ्गलैरायुधैरपि।
(1)विनेवाप्यनुमानेन स्तुत्या दक्षिणया तथा (1.) वितानैश्चामरैश्चापि आ.
॥ 10.17 ॥
विग्रहाः पञ्चपञ्चाशत् प्रोक्ता उत्तममध्यमे।
षड्भिश्च दक्षिणापूर्वैः (2)पुष्पस्याञ्जलिना विना (2.) पुष्पन्यासाञ्जली विना क.
॥ 10.18 ॥
अष्टचत्वारिशदुपचाराः
भोगाष्षडष्टसङ्ख्याता उत्तमाधमपूजने।
मध्यमकल्पे
ततो मन्त्रहविः पूवैर्विनाषड्भिश्च विग्रहैः ॥ 10.19 ॥
द्विचत्वारिंशदुपचाराः
द्विचत्वारिंशदुद्दिष्टा मध्यमोत्तमपूजने।
षट्त्रिंशदुपचाराः
स्तोत्रेण च विना वेदैर्मधुपर्केण मात्रया ॥ 10.20 ॥
छत्रेण व्यजनेनापि ततष्षट्त्रिंशदीरिताः।
पट्त्रिंशद्विग्रहा एते प्रोक्ता मध्यममध्यमे ॥ 10.21 ॥
चुतस्त्रिशदुपचाराः
मध्यमाधमपूजायां विना दर्पणचामरौ।
विग्रहाश्च चतुस्त्रिंशन्नृत्तगेयविवर्जिताः ॥ 10.22 ॥
अधमकल्पे
द्वात्रिंशद्विग्रहाः प्रोक्ता अधमोत्तमपूजने।
द्वात्रिंशदुपचाराः
विनैव वाद्यहोमाभ्यां दीपान्ताचमनेन च ॥ 10.23 ॥
एकोनत्रिंशदुपचाराः
नवविंशतिभोगास्ते प्रोक्ता अधममध्यमे।
सप्तविंशत्युपचाराः?
विना बलिप्रणामाभ्यां सप्तविंशतिविग्रहाः ॥ 10.24 ॥
अधमाधमपूजायां (1)नवधा विग्रहाः स्मृताः।
कौतुकादीनामुपचाराः
अन्येषाञ्च हविर्लाभे सप्तविंशतिविग्रहाः (1.) ब्रह्मणा परिकीर्तिताः। एवं विमानपूजायां नवधा विधा विग्रहाः स्मृताः आ. ॥ 10.25 ॥
अर्चायामौत्सवे वापि लौकिकेष्वितरेषु वा।
विहितं पूजनं सद्भिः सप्तविंशतिविग्रहैः ॥ 10.26 ॥
हविर्होने प्रयोक्तव्यास्ते त्रयोदश विग्रहाः।
अर्ध्याद्याचमनान्ताः स्युरासनाद्याश्च विग्रहा ॥ 10.27 ॥
पुष्पाञ्जलिनमस्कारयुता एते त्रयोदश।
पुष्पाञ्जलिनमस्कारहीना एकादशैव ते ॥ 10.28 ॥
अष्ओपचाराः पाद्याद्या अर्घ्याद्याचमनान्तकैः।
पुष्पादयस्ते षट् प्रोक्ताः होमध्यानार्चनाय वै ॥ 10.29 ॥
एकादशोपचारास्ते चयुर्भिर्हविरादिभिः।
प्रणामेन च संयुक्ताः प्रोक्ताष्षोडश विग्रहाः ॥ 10.30 ॥
(पुष्पाञ्जलिस्तुतिभ्याञ्चेत्युक्तास्तेऽष्टादश स्मृताः।
पाद्यमाचमनं स्नानं प्लोतवस्त्रोत्तरीयके।
भूषणं यज्ञसूत्रञ्च पाद्याद्या अष्टविग्रहाः।)
हविः पानीयमाचमो मुखवासो बलिस्तथा।
होमश्चैव प्रणामश्च तथा पुष्पाञ्जलिः स्तुतिः ॥ 10.31 ॥
एकबेरार्चने
एकबेरार्चने प्रोक्ताः पञ्चविंशतिविग्रहाः।
उपचाराः
पुष्पाञ्जलिप्रणामौ द्वौ प्रणामस्त्वेकविग्रहः ॥ 10.32 ॥
प्रादु र्भावायां पोडशोपचाराः
पाद्याद्यष्टोपचारान्ते चत्वारो हविरादयः ॥ 10.33 ॥
बलिश्चैव प्रणामश्च स्तुतिः पुष्पाञ्जलिस्तथा।
आलयार्चाविधाने तु पूर्वोक्तविधिनाऽर्चयेत् ॥ 10.34 ॥
उपचाराणां चातुर्विध्यम्
स्पृश्या दृश्यास्तथा श्राव्या भोज्याश्चैव चतुर्विधाः।
आसनं पाद्यादानञ्च पुष्पं गन्धं तथैव च ॥ 10.35 ॥
अर्घ्यं स्नानादयाष्षट् व मात्रा च मधुपर्ककम्।
पुष्पाञ्जलिप्रयोगश्च स्पृश्या दक्षिणया सह ॥ 10.36 ॥
भोज्या एव समुद्दिष्टाश्चत्वारो हविरादयः।
देवस्य दक्षिणे हस्ते दद्यात्तानर्ध्यसंयुतान् ॥ 10.37 ॥
गीतं वाद्यं तथा वेदाः पुराणं स्तुतिरेव च।
श्राव्या एव समुद्दिष्टा (1)दृश्याश्चाष्टोपचारकाः (1.) शेषोपचारकाः आ. ॥ 10.38 ॥
धूपार्घ्यमधुपर्काणि आघ्रेयाणीति केचन।
उपचारा इति प्रोक्तास्तत्प्रयोगक्रमादिकम् ॥ 10.39 ॥
स्वरूपञ्च खिले प्रोक्तं विज्ञेयं विधिवित्तमैः।
ध्रुवबेरपूजायां विशेषः
भक्तयाऽथवा ध्रुवे बेरे पूजां कर्तु यदीच्छति ॥ 10.40 ॥
स्नानानुलेपनस्लोतैर्विनाऽन्यैः सर्वविग्रहैः।
पूजयेन्मुखवासान्तैः ध्रुवबेरन्तु केचन ॥ 10.41 ॥
कौतुके नित्यपूजा, उपचारसमर्मणप्रकारः
नित्यपूजां विशेषेण कुर्यात्कौतुक एव वै।
तत्तन्मन्त्रावसाने तु पञ्चभिर्मूर्तिभिः पृथक् ॥ 10.42 ॥
द्रव्यनाम च संयोज्य ‘ददा’ मीति वदन्ददेत्।
वस्त्रोत्तरीयोपवीतभूषणादीन् यथाविधि ॥ 10.43 ॥
संयोज्य पञ्चमूर्तिभ्यो दद्यादित्याह काश्यपः।
वस्तूना (1)मर्चनार्थानामाधावमधिकं स्मृतम् (1.) अर्चनास्थानं जा. ॥ 10.44 ॥
(2)अर्चने तु विहीनं यत्तत्तत्तोयेन प्रकल्पयेत्।
प्रातःकालार्चनाहं पुष्पाणि
पङ्कजञ्च पालाशञ्च तुलसी नवमालिका (2.) अर्चनेन विधानेन क. ॥ 10.45 ॥
नन्द्यावर्तञ्च मन्दारं माधवी चम्पकं तथा।
पुन्नागं केतकी चापि प्रातःकालार्चने दश ॥ 10.46 ॥
मध्याह्रकालार्चनार्ह पुष्पाणि
श्वेताब्जं करवीञ्च पलाशं तुलसी तथा।
उत्पलं बिल्वपत्रञ्च रक्तोत्पलमथापिवा ॥ 10.47 ॥
कोविदारैकपत्रञ्च तापसाङ्कुरमेव च।
प्रोक्तान्येतानि पुष्पाणि दश मध्याह्रपूजने ॥ 10.48 ॥
सायमर्चनार्ह पुष्पाणि
रक्ताजब्जं कुमुदञ्चैव मल्लिका जातिमालती।
माधवी करवीरञ्च ह्रीबेरं (3)गजकार्णिका (3.) पृषदंशकम्? आ. ॥ 10.49 ॥
तथा दमनकञ्चैव सायंकालार्चने दश।
सर्वकालार्चनार्हपुप्पाणि
दूर्वा च तुलसी बिल्वं करेवीरञ्च चम्पकम् ॥ 10.50 ॥
सर्वकालार्चनार्हाणि विष्णुक्रान्तञ्च भद्रया।
तुलसीमहिमा
वर्ज्य पर्युषितं पुष्षं वजर्य पर्युषितं जलम् ॥ 10.51 ॥
न वर्ज्यं तुलसीपत्रं न वर्ज्यं जाह्रवीजलम्।
कपित्थदलप्रशंसा बिल्वपत्रासमं रात्रौ कपित्थदलमुच्यते ॥ 10.52 ॥
यद्यत्पुष्पाणि चोक्तानि तत्तत्पत्रेश्च पूजयेत्।
अर्चको चारि दीपञ्च पुष्पमेतच्चतुष्टयम् ॥ 10.53 ॥
ग्राह्यं सामान्यतस्तेन सम्पूर्ण पूजनं भवेत्।
पञ्चङ्गमर्चनम्
ध्रुवगेरार्चनं पूर्वं द्वितीयं शान्तपूजनम् ॥ 10.54 ॥
कौतुकाभर्‌यनं पश्चाद्भूतपीठार्चनं परम्।
पञ्चमं बलिपूजा स्यादेतैः पञ्चभिरर्चनैः ॥ 10.55 ॥
सम्पूर्णमर्चनं युक्तमयुक्तं विकलार्चनम्।
(पञ्च तुल्यफलान्याहुरर्चनानि तपोधनाः ॥)
ध्रुवबेरार्चनात्सिद्ध्येत् सायुज्यं पदमक्षयम् ॥ 10.56 ॥
सर्वलोकाधिपत्यं वै सारूप्यं शान्तपूजया।
ऐहिकामुष्मिकं सर्व भुक्त्वा सायुज्यमाप्नुयात् ॥ 10.57 ॥
कौतुकौभ्यर्चनाद्वापि भूतपीठार्चनात्ततः।
सर्वशत्रुजयं दीर्घमायुरारोग्यमेव च ॥ 10.58 ॥
(1)श्रियं पुत्रसमृद्धिञ्च सालोक्यं पदमाप्नुयात्।
सर्वलोकेऽपि विख्यातिं सामीप्यं बलिपूजया (1.) पुत्रमित्र आ. ॥ 10.59 ॥
तत्तत्प्रतिष्ठाकर्तृणां तत्तप्फल मुदाहृतम्।
बेरे चैव विमाने च भूतपीठे तथैव च ॥ 10.60 ॥
सदा सन्निहितो विष्णुः छाययोर्धामबेरयोः।
प्रदक्षिणविधावेतल्लङ्घनन्तु न दोषकृत् ॥ 10.61 ॥
युग्मप्रदक्षिणं कुर्यादयुग्मं त्वाभिचारिकम्।
नैव प्रदक्षिणं कुर्यादन्तरे देवशान्तयोः ॥ 10.62 ॥
देव पीठान्तरे चैव न कुर्यादिति केचन।
एष एव विशेषस्यादन्यत्सर्व खिलोक्तवत् ॥ 10.63 ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोकृतायां संहितायां क्रियाधिकारे
उपचारभेदपुष्पनिर्णयविधानं नाम दशमोऽध्यायः(2) (2.) 13 अध्यायः ख. ॥ 11. अध्यायः ई.।